या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ॥
याः । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोमः॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ ।
ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । प्र॒जाऽव॑तीः । इ॒न्द्र॒ । गो॒ऽस्थे । रि॒री॒हि॒ ॥
द्वाभ्यां सायं गृहमागच्छन्तीर्गा अनुमन्त्रयेत। सूत्र्यते हि। या देवेषु तन्वमैरयन्तेति च सूक्तशेशम्। आगावीयमेके। आ. गृ/ २-१०-६,७। इति॥
या गावो देवेषु यष्टव्येषु तन्वमात्मीयं शरीरमैरयन्त हवीरूपेण प्रेरयन्ति यासां च गवां विश्वा सर्वाणि रूपाणि रूप्यमाणानि क्षीरादीनि श्रयणद्रव्याणि सोमोवेद जानाति अस्मभ्यमस्मदर्थं पयसा क्षीरेण पिन्वमाना वर्धमानाः अत एव प्रजावतीः प्रजाभिर्वत्सैरुपेतास्ता गा हे इन्द्र गोष्ठेऽस्मदीये रिरीहि। गमय। री गतिरेषनयोः। छान्दसो विकरणस्य श्लुः॥३॥