तवा॒हं शू॑र रा॒तिभि॒ः प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥
तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् ।
उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥
हे शूर संग्रामे शौर्ययुक्तेंद्र तव रातिभिः कर्मसु त्वदीयैर्धनदानैर्निमित्तभूतैरहं होता प्रत्यायम् । त्वां पुनरागतोऽस्मि । पुरा बहुषु कर्मसु त्वत्तो धनस्य लब्धत्वादस्मिन्कर्मणि प्रत्यागमनमित्युच्यते । किं कुर्वन् । सिंधुं स्यंदमानं सोममावदन् सर्वतः कथयन् । अस्मिन्सोमयागे त्वदीयां धनदानकीर्तिं प्रकटयन्नित्यर्थः । हे गिर्वणो गीर्भिर्वननीयेंद्र कारवः कर्तार ऋत्विग्यजमाना उपातिष्ठंत । पुरा धनलाभार्थं त्वामुपस्थितवंतः । उपस्थाय च तस्य तादृशस्यौदार्योपेतस्य ते तव धनदानं विदुः । जानंति । गिर्वणश्शब्धं यास्क इत्थं निर्ब्रूते । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति । रेभो जरितेत्यादिषु त्रयोदशसु स्तोतृनामसु कारुशब्दः पठितः ॥ तव । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् । रातिभिः । मंत्रे वृषेत्यादिना क्तिन्नुदात्तः । आयम् । इणो लङ् । तस्थस्थमिपां तांतंतामः (पा ३-४-१०१) इत्यमादेशः । आदिप्रभृतिभ्यः शप इति शपो लुक् । आडागमः । वृद्ध्यायादेशौ । तिङ्ङतिङ इति निघातः । सिंधुम् । स्यंदू प्रस्रवणे । निदित्यनुवृत्तौ स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययो धकारश्चांतादेशः । नित्त्वादाद्युदात्तः । आवदन् । वद व्यक्तायां वाचि । लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । आङा सह कुगतिप्रादयः (पा २-२-१८) इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अतिष्ठंत उपान्मंत्रकरणे (पा १-३-२५) इत्यात्मनेपदम् । गिर्वणः । वन षण संभक्तौ । असुन् । आमंत्रितस्य चेति निघातः । विदुः । विद ज्ञाने । लट् । अदिप्रभृतिभ्यः शप इति शपो लुक् । विदो लटो वा (पा ३-४-८३) इति झेरुस् । पादादित्वान्न निघातः । संहितायां युष्म त्तत्ततक्षुःष्वंतःपादम् (पा ८-३-१०३) इति षत्वम् । ष्वुना ष्टुरित्युत्तरस्य तकारस्य ष्टुत्वम् । तस्य । सावेकात इति विभक्तेरुदात्तत्वं प्राप्तं न गोश्वन्साववर्णेति निषिध्यते । कारवः । कृवापाजीत्यादिना । उ १-१- । उण् । प्रत्ययस्वरः ॥ ६ ॥