मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ४

संहिता

वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥

पदपाठः

वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां वि पृच्छामि । विशेषेण प्रष्टुमिच्छामि । पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीनन्यान्देवान्न पृच्छामि । किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः । हे दस्रा दर्शनीयौ तौ युवां वषट्कतस्यृ वषट्कारेणाग्नौ हुतस्याद्भुतस्याश्चर्यभूतस्य महतः सह्यसोऽतिशयेन बलवशो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं पातं च । नोऽस्मांश्च रभ्यसोऽतिशयेन रभस्विनः प्रौढोद्यमान्कुरुतं ॥ पाक्का । पचेर्ऋहलोर्ण्यत् । चचोः कु घिण्ण्यतोरिति कुत्वम् । तित्स्वरः । सुपां सुलुगिति विभक्तेर्डादेशः । वषट्कृतस्य । वषट् शब्दस्योर्यादित्वेन गतित्वाद्गतिरनंतर इति गतेः पृकृतिस्वरत्वम् । पातम् । पा पाने । बहुलं छंदसीति शपो लुक् । सह्यसः । सहतेऽभिभवत्यनेनेति सहो बलम् । असुन् तदस्यास्तीति सहस्वी । मत्वर्थीयो विनिः । तत आतिशायनिक ईयसुन् । विन्मतोर्लुक् । छांदस ईकारलोपः । रभ्यसः । रभ राभस्ये । राभस्यं कार्योपक्रमः । पूर्ववत्प्रक्रियोन्नेया ॥ ४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२