मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ११

संहिता

य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥

पदपाठः

य॒ज्ञः । हि । स्म॒ । इन्द्र॑म् । कः । चि॒त् । ऋ॒न्धन् । जु॒हु॒रा॒णः । चि॒त् । मन॑सा । प॒रि॒ऽयन् ।
ती॒र्थे । न । अच्छ॑ । त॒तृ॒षा॒णम् । ओकः॑ । दी॒र्घः । न । सि॒ध्रम् । आ । कृ॒णो॒ति॒ । अध्वा॑ ॥

सायणभाष्यम्

कश्चित् यज्ञोयज्ञवान् यज्ञानुष्ठायी इन्द्रंऋन्धन् वर्धयन् हिस्मभवतिइन्द्रंयज्ञेनवर्धयतीत्यर्थः जु- हुराणश्चित् कुटिलगतिस्तुकश्चित् मनसाकेवलेनपरियन् परितोगच्छन् लौकिकविषयादिकंध्यायन् वर्तते यद्वा परिर्वर्जनार्थः वर्जयित्वागच्छन् नेदंप्राप्नोति तत्रदृष्टान्तः—तीर्थेप्रसिद्धे मार्गेअच्छआभि- मुख्येनसमीपेवर्तमानमोकः पानीयादिकंसवनंततृषाणंपिपासायुक्तं यथा अविलंबेनप्रीणातिसयथा- तत्सवनआगच्छतीत्यर्थः तद्वद्यज्ञेनकश्चित्पुमानिन्द्रमभिगच्छतीति कुटिलस्यदृष्टान्तः—दीर्घोन वक्र- त्वेनातिदूरोध्वामार्गइव सयथासिध्रंफलंपानीयादिरूपंफलार्थिनंवापुरुषंआकृणोति अर्वाक्वरोति नीचैःकरोति वर्जयतीत्यर्थः तस्माद्यज्ञमार्गमजानानोवक्रोदूरेपरिभ्रमतिनेन्द्रंतर्पयतितद्विलक्षणस्तु- वर्जयत्येव ॥ ११ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५