सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒ः क्रतु॑म॒न्तानु॑ पृ॒क्षे ।वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ॑थः । क्रतु॑ऽमन्ता । अनु॑ । पृ॒क्षे ।
वपुः॑ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा॑ । स॒चे॒थे॒ इति॑ ॥
हेअश्विनौ युवयोरथः सुवृत् शोभनचक्रपरिभ्रमणः यन् गच्छन् क्षमभिवर्तते देवयजनभूमिंप्रतिग- च्छति यत् यंरथंक्रतुमन्तासंकल्पवन्तौकर्मवन्तौवापृक्षे अन्ननामैतत् हविषि निमित्तभूतेसति अनु अधीत्यर्थे अधितिष्ठथः आश्रयथः तादृशोरथोदेवयजनंप्रत्यागतइत्यर्थः अनन्तरंवपुष्यायुष्मद्वपुषिहि- ताशरीरवर्धनीयंगीः इदानींक्रियमाणप्रकारास्तुतिरूपावाक् वपुः सचतांयुवांचदिवोद्युलोकस्यादि- त्यस्यवादुहित्रादुहितृस्थानीयया उषसा उषोदेवतयासचेथे यज्ञं सङ्गच्छेथे उषस्याश्विनयोः समान- कालत्वादितिभावः ॥ २ ॥