मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ६

संहिता

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । य॒ज्ञस्य॑ । के॒तुः । म॒न्म॒ऽसाध॑नः । वेरिति॒ वेः ।
अ॒मृ॒त॒ऽत्वम् । रक्ष॑माणासः । ए॒न॒म् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

योऽग्नी रायो धनस्य बुध्नो मूलभूतः । आहुतिद्वारा सर्वेषां धनानां कारणत्वात् । वसूनां निवासहेतूनां धनानां संगमनः संगमयिता । स्तोतृणां प्रापयिता । यज्ञस्य दर्शपूर्णमासादेः केतुः केतयिता ज्ञापयिता । वेरात्मान मभिगच्छतः पुरुषस्य मन्मसाधनो मननीयस्याभिलषितस्य साधयिता । अमृतत्वं स्वकीयामरणत्वं रक्षमाणासः पालयंतो देवा एनं धनस्य दातारमग्निं धारयंति ॥ रायः । ऊडिदिमिति विभक्तेरुदात्तत्वम् । संगमनः । नंद्यादिलक्षणो ल्युः । वेः । वी गत्यादिषु । अस्मादौणादिक इप्रत्ययः । टलोपश्च ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः