दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।
य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥
यत् यस्य अमृतस्य मरणधर्मरहितस्य सूर्यस्य अस्य मरणधर्मराहित्यंतु—सूर्येविषमास- जामीत्यमृस्याचि प्रसिद्धम् । तादृशस्य संबन्धिनाम नामकमुदकं अत्र अस्यां पृथिव्यां विषु- रूपा नानारूपं भवाति भवति । उदकस्य नानारूपत्वं—याआपोदिव्याइतिमंत्रे स्फुटमुक्तम् । कीदृशं तत् दुर्मन्तु निरपराधं प्रह्वस्वभावत्वात् । पुनः कीदृशं सलक्ष्मा मधुररसलक्षणो- पेतम् । किंच यः सूर्यः यमस्य संयमिनीपतेः सुमन्तु सुतरामपराधं मातृताडनरूपं मनवते अवबुध्यते यद्वा धातूनामनेकार्थत्वात् क्षमतइत्यर्थः । तं तादृशं जलजनकं सर्वज्ञं क्षमाशी- लं सूर्यं हे ऋष्व महन्नग्ने अप्रयुच्छन्नप्रमाद्यन् त्वं पाहि आहुतिप्रदानेन रक्षणद्वारा आत्म- रक्षणं प्रार्थयते ऋषिः ॥ ६ ॥