मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् १

संहिता

इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् ।अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥

पदपाठः

इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् ।
अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥

सायणभाष्यम्

हे इंद्र त्वं इममीदृशं सोमं पिब । कीदृशं मधुमन्तं मधुररसोपेतं चमू चम्वोः अधिष- वणफलकयोः सुतमभिषुतं तदनंतरं पुरुवसो बहुधन हे इंद्र वः तव विमदे विशेषेण सो- मजन्यमदे सति अस्मे अस्मासु रयिं धनं निधारय नितरां स्थापय । कीदृशं सहस्रिणं सहस्रसंख्यायुक्तं प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणाद्विवक्षसे महन्नामैतत् त्वं महान् भवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०