चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
द्यौर्भूमि॒ः कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥
चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् ।
द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥
चित्तिर्देवतोपबर्हणमाः। आसीत्। चक्षुरभ्यञ्जनमाः। आसीत्। तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नामपर्वते। तेन त्रैककुदेनाञ्जनसजतीयेन चक्षुषी आञ्जते। तच्चक्षुरेवाञ्जनमासिदिति। द्यौश्च भुमिश्च कोश आसीत्। कोषस्थानीये अभुताम्। यद्यदा सूर्या पतिं स्वकीयं नवभर्तारं सोम मयात् अगच्छत् तदैवमुपकरणान्यासन्॥७॥