मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ३

संहिता

उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ ।स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥

पदपाठः

उत् । ई॒र॒य॒ । क॒विऽत॑मम् । क॒वी॒नाम् । उ॒नत्त॑ । ए॒न॒म् । अ॒भि । मध्वा॑ । घृ॒तेन॑ ।
सः । नः॒ । वसू॑नि । प्रऽय॑ता । हि॒तानि॑ । च॒न्द्राणि॑ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥

सायणभाष्यम्

अनया अग्निः सविताचस्तूयते हेऋत्विजः कवीनां कवितमं अतिशयेनक्रान्तदर्शिनं अमुं पुरोव्र्तिनंअग्निंसवितारंवा उदीरय ऊर्ध्वंप्रापयत हर्षयतेत्यर्थः एनंदेवं मध्वा मधुरेणसोमरसेनघृतेनच अभ्युनत्त अभिषिंचत तर्पयतेत्यर्थः ससवितादेवोनोस्मभ्यं वसूनि निवासयोग्या- नि गवादिधनानि प्रयता प्रयतानिहितानि चन्द्राणिआह्लादकानि हिरण्यानि सुवाति प्रयच्छत्वित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७