मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २६

संहिता

वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ ।गोभि॒ः संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥

पदपाठः

वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ ।
गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥

सायणभाष्यम्

हेवनस्पते वनस्पतिविकाररथ त्वं वीड्ढंगःदृढावयवोभूयाः भव अस्मत्सखावयंसखायोयस्यसतादृशश्चभव प्रतरणः प्रवर्धयितासुवीरः शोभनैःवीरैः शूरभटैः पुत्रादिभिर्वायुक्तश्चभव अपिच त्वंगोभिः गोविकारैश्चर्मभिः सन्नद्धोसि सम्यग्बद्धोभवसि तादृशस्त्वंवीळयस्व अ- स्मान् दृढीकुरु तेतवआस्थातात्वय्यवस्थितोरथीच जेत्वानिजेतव्यानिशत्रुसैन्यानिजयतु ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५