मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ६

संहिता

मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥

पदपाठः

मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ ।
यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥

सायणभाष्यम्

हेयजत्रायष्टव्यादेवाः नोस्मान् वृकायहिं सकायस्तेनायवृक्येतस्यस्त्रियैचमारीरधत मावशंनैष्ट मावशीकुरुत यद्वा वृकः अरण्यश्वा तस्यस्त्रीवृकी अपिचसमस्मैसर्वस्मैअघायतेअघमनर्थमस्माकमिच्छते शत्रुजनायअस्मान्मावशंनयत यूयंहियूयंखलु नोस्माकंतनूनांशरी- राणांरथ्योनेतारःस्थ भवथ यूयमेवदक्षस्यास्मदीयस्यबलस्यवचसोवाक्यस्यचनेतारोबभूव अतः कारणात्अस्मान्मारीरधतेत्यन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२