उ॒त त्ये नो॑ म॒रुतो॑ मन्दसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवन्तु ।मा न॒ः परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥
उ॒त । त्ये । नः॒ । म॒रुतः॑ । म॒न्द॒सा॒नाः । धिय॑म् । तो॒कम् । च॒ । वा॒जिनः॑ । अ॒व॒न्तु॒ ।
मा । नः॒ । परि॑ । ख्य॒त् । अक्ष॑रा । चर॑न्ती । अवी॑वृधन् । युज्य॑म् । ते । र॒यिम् । नः॒ ॥
उतापिच मन्दसानाः मोदमानाः वाजिनोवेगवन्तः त्ये ते मरुतो नोस्मदीयं धियं यज्ञाख्यं कर्म तोकं च अस्मदीयं पुत्रं च अवन्तु रक्षन्तु । अक्षरा व्याप्ता चरन्ती वाग्देवता च युज्यं नोस्मान्परित्यत्त्का अरमव्द्यतिरिक्तानन्यान् माख्यत् माद्राक्षीत् । ते पूर्वोक्तामरुतो वाक्च युक्तमपि नोस्मदीयं रयिं धनं अवीवृधन् वर्धयन्तु ॥ ७ ॥