मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९, ऋक् ४

संहिता

ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः ।सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ॥

पदपाठः

ई॒ळेन्यः॑ । वः॒ । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः । अ॒शु॒च॒त् । जा॒तऽवे॑दाः ।
सु॒ऽस॒न्दृशा॑ । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गावः॑ । स॒म्ऽइ॒धा॒नम् । बु॒ध॒न्त॒ ॥

सायणभाष्यम्

हे अग्ने वस्त्वं अत्र विभक्तेर्वचनव्यत्ययः मनुषो मनुष्यस्य युगेषु यागकालेषु सवेष्वपि दिवसेषु वा ईळेन्यः स्तुत्यः अतः परं परोक्षस्तुतिः योग्निर्जातवेदाः जातधनः समनगाः युद्धेषु संगन्तःसन् अशुचत् दीप्यते सुसंदृशा सुसंदर्शनेन भानुना तेजसा विभातिच तमग्निं समिधानं समिध्यमानं गावः स्तुतयः प्रतिबुधन्त प्रतिबोधयन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२