य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।
गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥
यः । एकः॑ । अस्ति॑ । दं॒सना॑ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः ।
गम॑त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव॑म् । न । परि॑ । व॒र्ज॒ति॒ ॥
यइन्द्रएकः केवलः असहायएव व्रतैरात्मीयैः कर्मभिः अभ्यस्ति शत्रूनभिभवति यश्च दंसना कर्मणा महान् अधिकः अएव उग्र उद्गूर्णबलः शिप्री शिप्रं शिरस्त्राणं प्रशंसायामिनिः शोभनशिरस्त्राणः यद्वा शिप्रे हनूनासिकेवा तद्वान् सइन्द्रः गमत् गच्छतु प्राप्नोतु । सर्वदा स- तादृशो न योषत् नपृथग्भवतु न वियुक्तोभवतु । गमेर्यौतेश्चलेट्यडागमः इतश्चलोपइतीकारलोपः गमेर्बहुलंछन्दसीति शपोलुक् यौतेः सिब्बहुलमितिसिप् । हवमस्मदीयं स्तोत्रंच आगमत् अभिगच्छतु प्राप्नोतु नपरिवर्जति नपरिवर्जयतु नपरित्यजतु सर्वदा अस्मानस्मदीयं स्तोत्रं चेन्द्रः प्राप्नोत्वितियावत् ॥ २७ ॥