एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।
ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥
आ । इत् । ऊं॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः ।
ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥
हे अध्वर्यो अध्वरस्यनेत ऋत्विक् मध्वोमदकरस्यान्धसः सोमलक्षणस्यान्नस्य मदिन्तरं अत्यर्थं मादयितृतमं सोमरसमेव आसिच्च इन्द्रार्थम् । अयमेवे- न्द्रः स्तवतेहि स्तोत्रशस्त्रादिभिः स्तूयते खलु । कीदृशः वीरः विक्रान्तः सदावृधः सर्वदावर्धमानः स्तुतायेन्द्राय सोमोदातव्यः तस्मादासिच्चेति समन्वयः ॥ १६ ॥