हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ः पव॑मानं मधु॒श्चुत॑म् ।
अ॒भि गि॒रा सम॑स्वरन् ॥
हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ।
अ॒भि । गि॒रा । सम् । अ॒स्व॒र॒न् ॥
उस्रयः कर्मकरणार्थं इतस्ततोगच्छन्त्योंगुलयः मधुश्चुतं मदकरस्य रसस्य च्यावयितारं सूरं सुवीर्यं सर्वस्य यागादिकर्मणिप्रेरकं पवमानं सोमं हिन्वन्ति अभिषवार्थं संप्रेरयन्ति । त- तः स्तोतारोगिरा स्तुत्या तमेनमभिसमस्वरन् सम्यगभिष्टुवन्ति ॥ ९ ॥