मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् १४

संहिता

प्र या॑त॒ शीभ॑मा॒शुभि॒ः सन्ति॒ कण्वे॑षु वो॒ दुवः॑ ।
तत्रो॒ षु मा॑दयाध्वै ॥

पदपाठः

प्र । या॒त॒ । शीभ॑म् । आ॒शुऽभिः॑ । सन्ति॑ । कण्वे॑षु । वः॒ । दुवः॑ ।
तत्रो॒ इति॑ । सु । मा॒द॒या॒ध्वै॒ ॥

सायणभाष्यम्

हे मरुत आशुभिर्वेगवद्भिः स्वकीयैर्वाहनैः शीभं शीघ्रं शीभं तृषु तूयमिति क्षिप्रनामसु पाठात् । प्रयात । प्रकर्षेण कर्मभूमिं गच्छत । कण्वेषु मेधाविष्वनुष्ठातृषुवो युष्माकं दुवो दुवांसि परिचरणानि संति । तत्रो षु तेष्वेव परिचारकेषु माधयाध्वै । तृप्ता भवत ॥ आशुभिः । अशू व्याप्तौ । कृापाजीत्यादिना उण् । प्रत्ययस्वरः । संति । श्नसोरल्पोप इत्याकारलोपः । मादयाध्वै । मद तृप्तियोगे । चुरादिः । आकुस्मीय आत्मनेपदी । लेट्याडागमः टेरेत्वम् । वैतोऽन्यत्र (पा ३-४-९६) इत्येकारस्यैकारादेशः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४