मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ११

संहिता

त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।
स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥

पदपाठः

त्वम् । हि । स्तो॒म॒ऽवर्ध॑नः । इन्द्र॑ । असि॑ । उ॒क्थ॒ऽवर्ध॑नः ।
स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒ऽकृत् ॥

सायणभाष्यम्

हे इन्द्र त्वं हि त्वं खलु स्तोमवर्धनः स्तोमेन त्रिवृत्पञ्चदशादिना वर्धनीयोसि तथा उक्थवर्धनः उक्थैः शस्त्रैर्वर्धनीयश्च त्वमेवासि । उतापिच स्तोतृणामस्माकं भद्रकृत् भद्रस्य कल्याणस्य फलस्य कर्तापि त्वमेवासि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६