मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् ४

संहिता

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् ।
इन्दो॑ स॒हस्र॑वर्चसम् ॥

पदपाठः

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् ।
इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥

सायणभाष्यम्

हे पवमानसोम इन्दोस्मभ्यं सुश्रियं शोभनया श्रिया युक्तं सहस्रवर्चसं बहुदीप्तिं रयिं धनं विदाः देहीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३