मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४, ऋक् ४

संहिता

मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से ।
शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पति॒ः सन् ॥

पदपाठः

मू॒राः । अ॒मू॒र॒ । न । व॒यम् । चि॒कि॒त्वः॒ । म॒हि॒ऽत्वम् । अ॒ग्ने॒ । त्वम् । अ॒ङ्ग । वि॒त्से॒ ।
शये॑ । व॒व्रिः । चर॑ति । जि॒ह्वया॑ । अ॒दन् । रे॒रि॒ह्यते॑ । यु॒व॒तिम् । वि॒श्पतिः॑ । सन् ॥

सायणभाष्यम्

हे अमूर अमूढ अतएव चिकित्वः चेतनावन् हे अग्ने मूरामूढावयं तव माहात्मयं नजानीमः । किंतु हे अग्ने त्वमंग अंगेतिनिपातएवार्थे त्वमेव तव महित्वं माहात्म्यं वित्से जानासि त्वत्तः कोन्योवेदितुमर्हति । किंच वव्रिः जीर्णओषधीसंगः शये शेते तिष्ठति । यद्वा वव्रिरिति रूपनाम सामर्थ्याच्चान्तर्णीतमत्वर्थं द्रष्टव्यं आहवनीयाख्येन रूपेण रूपवान् शये चरति । अथ जिह्वया जिह्वाज्वालाख्यया अदन् हवींषि भक्षयन् चरति वाक्यभेदा-दनिघातः । किंच विश्पतिः विशां स्वामीसन्नग्निर्युवतिं आत्मनोमिश्रयित्रीमाहुतिं दीर्घप्र- सृतया ज्वालया जिह्वया रेरिह्यते अत्यर्थं लेढि आस्वादयति । लिह आस्वादने यङि रूपम् । यद्वा सोग्निर्युवतिं तरुणीं जिर्णौषधिकां पृथिवीं आस्वादयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२