मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ४

संहिता

मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।
म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम् ॥

पदपाठः

मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।
म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥

सायणभाष्यम्

हेदेव द्योतमान पूषन् वयं स्तोतारः त्वा त्वां मंसीमहि स्तुमः । कीदृशं अस्माकं अ- स्मदीयानां मतीनां च अभिलषितानां च साधनं साधयितारं विप्राणां च मेधाविनामपि आधवं परिचर्याद्वारेण कंपयितारं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३