मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् २

संहिता

उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् ।
र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥

पदपाठः

उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।
र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥

सायणभाष्यम्

अस्या रथीरभून्युद्गलानीति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूताया वासोऽंशुकं वातो वायुरद्वहति। ऊर्ध्वं प्रापयति। श्रमजनितस्वेदपनयनाय। अथवा शीघ्ररथाधावनजनितो वायुरंशुकं चालयतीत्यर्थः। कदेति उच्यते। यद्यदाधिरथमधिकं रथमारुह्य सहस्रं सहस्रसङ्ख्याकं गोसङ्घमजयत् तदा। यद्या गोसहस्रमजयदस्या इदि वा योज्यम्। यद्योगाज्जयतेर्न निघातः। गविष्टौ गवामपहृतानामेषणे मुद्गलानी मुद्गलस्य स्त्री रथीरभूत्। सारथिरभवत्। छान्दस आनुक्। इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना। यद्वा। इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी। भरे सङ्ग्रामे कृतं सम्पादितं गोसङ्घं व्यचेत्। व्यचिनोत्। शत्रुभ्यः पृथक्क्रवती। चयतेर्लङि बहुलं छन्दसीति विकरनस्य लुक्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०