मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३२, ऋक् २

संहिता

ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि ।
यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥

पदपाठः

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ ।
यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ धारायत्क्षिती ध्रियमाणभूमिकौ। यद्वा। क्षितिरिति मनुष्यनाम। हवींषि धारयन्तः क्षितयो मनुष्या ययोः स्व्वभुतास्तथाविधौ। सुषुम्ना सुषुम्नौ सुधनौ वा ता तौ वां युवामिषितत्वतेषितत्वेन। तृतीयैकवचने छान्दसस्तकारोपजनः। यद्वा। भावप्रत्ययान्तात्पुनरपि भावप्र। त्ययोविकरनद्वयवत्। इषितव्यत्वेन प्राप्तव्यत्वेन। हेतौ तृतीया। यतो युवांदेवेषु मध्ये प्राप्तव्यौ ततो हेतोर्यजामसि। हविर्भिर्यजामः। इदन्तोमसीति मस इकारागमः। एवं च युवोर्युवयोः सख्यैः सखित्वैः । सख्युर्यः। क्राणाय कुर्वते यजमानाय। करोतेः शानचि च्छान्दसो विकरनस्य लुक्। तादर्थ्ये चतुर्थी। यजमानार्थं रक्षसो यज्ञस्य बाधकान्राक्षसानभि ष्याम। अभिभवेम। उपसर्गप्रादुर्भ्याम्। पा. ८-३-८७। इत्यस्तेः सकारस्य षत्वम्॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०