मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् ६

संहिता

इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् ।
क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । श॒त॒ऽदाव्नि॑ । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् ।
क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य॑म्ऽइव । अ॒जर॑म् ॥

सायणभाष्यम्

हेइन्द्राग्नी शतदाव्नि शतमपरिमितमर्थिभ्योधनंददातीतिशतदावा तस्मिन्नश्वमेधेराजर्षौ सुवीर्यं शोभनवीर्यसहितं बृहन्महत् अजरं जरारहितं क्षत्रं धनं धारयतं निधारयतं कथामिव दिव्यंतरिक्षे सूर्यमिव ॥ ६ ॥

समिद्धोअग्निरितिषळृचंचतुर्दशंसूक्तं अत्रेयमनुक्रमणिका-समिद्धीविश्ववारात्रेयीत्रिष्टुब्जगतीत्रिष्टुबनुष्टुब् गायत्र्याविति । आत्रीगोत्रोत्पन्नाविश्ववारानामिकाअस्यसूक्तस्यऋषिः आद्यातृतीयेत्रिष्टुभौ द्वितीयाजगती चतुर्थ्यनुष्टुप् अंत्येगायत्र्यौ अग्निर्देवता सूक्तविनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१