मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् ७

संहिता

यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥

पदपाठः

यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजमि॑मा । ज॒जान॑ ।
पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥

सायणभाष्यम्

हे अग्ने यं त्वा त्वां द्यावापृथिवी जनितवत्यौ आदित्यात्मना अग्न्यात्मना च तथायं त्वां आपः मेघोदरगताः विद्युदात्मना स्थितं जनितवत्यः यद्वा आपइत्यन्तरिक्षनाम द्या- वापृथिवी अन्तरिक्षंच इमे त्रयोलोकाः यंत्वामजीजनन् । किंच सुजनिमाशोभनजननः त्व- ष्टा प्रजापतिः यं त्वां जजान जनयामास हे अग्ने पितृयानं पितरोयेन मार्गेण गच्छन्ति तं पंथां हविर्वहनमार्गं अनुप्रविद्वान् प्रजानंस्त्वं समिधानः समिध्यमानः सन् द्युमत् दीप्ति युक्तं यथा भवति तथा विभाहि विशेषेण दीप्यसे ॥ ७ ॥

इनइति सप्तर्चं तृतीयं सूक्तं ऋष्याद्याः पूर्ववत् इनइत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्र- योरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०