मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् ३

संहिता

ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ ।
आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥

पदपाठः

ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ ।
आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥

सायणभाष्यम्

योग्निर्विश्वस्य देववीतेः सर्वस्य यज्ञस्य ईशे ईष्टे । अपिच विश्वायुः सर्वत्राप्रतिहतगम- नः उषसोव्युष्टौ विवासने उदयकाले होमार्थं यजमानानामीशे ईष्टे । शूषैः शत्रुबलैः अरि ष्टरथः अहिंसितयज्ञरथः सर्वपव यजमानः यस्मिन्नग्नौ मना मननीयानि हवींषि आस्क- भ्नाति आदरेण प्रतिबध्नाति प्रक्षिपति सोयमग्निरस्माभिर्यागार्थमाहूतइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः