मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् १

संहिता

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥

पदपाठः

अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥

सायणभाष्यम्

अग्निनामकं देवमीळे । स्तौमि । ईड स्तुतौ । धा । २४-९ । इति धातुः । डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः । तथा च पठ्यते । अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रममिति । मंत्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम् । यज्ञस्य पुरोहितम् । यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति तथाग्निरपि यज्ञस्य पुरोहितम् । यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा । यज्ञस्य संबंधिनि पूर्वभाग आहवनीयरूपेणावस्थितम् । पुनः कीदृशम् । देवं दानादिगुणयुक्तम् । पुनः कीदृशम् । होतारमृत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते । अग्निर्वै देवानां होता । ऐ । ब्रा । ३-१४ । इति । पुनरपि कीदृशम् । रत्नधातमं यागफल रूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । अत्राग्नि शब्दस्य यास्को बहुधा निर्वचनं दर्शयति । अथातोऽनुक्रमिष्यामोऽग्निः पृथवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽंगं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्छाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमन क्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे । नि । ७-१४ । इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनंतरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकांक्षितमतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात्प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्याग्रणीरीत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणांतरम् । अग्निर्देवानां सेनानीरिति । एतदेवाभिप्रेत्य बह्वृचा मंत्रब्राह्मण आमनंति । अग्निर्मुखं प्रथमो देवतानामिति मंत्रः । ऐ ब्रा १-४ । अग्निर्वै देवनामवमः । ऐ ब्रा १-१ । इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनंति । अग्निरग्रे प्रथमो देवतानाम् । तै ब्रा २-४-३-३ । इति । अग्निरवनो देवतानामिति च । वाजसनेयिनस्त्वेवमामनंति । स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नामेति । यज्ञेष्टग्नि होत्रेष्टिपशुसोमरूपेष्टग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन्नंगं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्त कारो धातुत्रयादग्निशब्द निष्पत्तिं मन्यते । इत इण् गतौ । धा २४-३६ । इति धातुः । अक्तोऽन्चू व्यक्तिम्रक्षणकांतिगतिषु । धा । २९-२१ । इति धातुः । दग्भो दह भस्मीकरणे । धा २३-२२ । इति धातुः नीतो णीञ् प्रापणे । धा २२-५ । इति धातुः । अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । नीरिति नयतिधातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वाग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमंगं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्याग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषामग्निमीळॆ इत्यृग्भवतीति । तामेतामृचं यास्क एवं व्याख्यातवान् । अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो य्यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् (नि ७-१५) इति । अस्यायमर्थः । ईडितिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याच्ञाध्येषणापूजा अप्यत्रोचितत्वात्तदर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयेऽध्याये (नि २-१२) तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानु विधाय तत्फलत्वेन पुर एनं दधत इत्यामनंति । देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान्प्रति हविर्वहनामद्द्यस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मंत्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया । होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवावामाह्वातारमिति । और्णवाभनामकस्तु मुनिर्जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्न शब्दो द्वितीयाध्याये मघमित्यादिष्टष्टाविंशतौ धननामसु पठितः । रमणीयत्वाद्रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मंत्रव्याख्यानम् । अथ व्याकरण प्रक्रियोच्यते । अगिधातोर्गत्यर्थात् । धा ५-३८ । अंगेर्नलोपश्च । उ । ४-५० । इत्यौणादिकसूत्रेण निप्रत्ययः । इदित्त्वान्नुमागमेन प्राप्तस्य नकारस्य । पा ७-१-५८ इत्यौणादिकसूत्रेण निप्रत्ययः । इदित्त्वान्नुमागमेन प्राप्तस्य नकारस्य । पा । ७-१-५८ । लोपश्च भवति । अंगति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र धातो । पा । ६-१-१६२ । इत्यकार उदात्तः । आद्युदात्तश्च पा । ३-१-३ । इति प्रत्ययगत इकारोऽप्युदात्तः । अनुदात्तं पदमेकवर्जम् । पा । ६-१-१५८ । इति द्वयोरन्यतर मुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । सति शिष्टस्वरो बलीयान् । पा ६-१-१५८-९ । इति हि न्यायः । ततोऽंतोदात्तमग्निप्रातिपदिकं अनुदात्तौ सुप्पितौ (पा ३-१-४) इत्यमित्येत द्द्वितीयैकवचनमनुदात्तम् । तस्यामि पूर्वः (पा ६-१-१०७) इति यत्पूर्वरूपं तदुदात्तमेकादेश उदात्तेनोदात्तः (पा ८-२-५) इति सूत्रितत्वात् । अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितम् । नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्ग्योवैयाकरणागां चैके (नि १-१२) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखंडप्रतिपादिकत्वात्फिषोऽंत उदात्तः । फी १-१ । इत्यंतोदात्तत्वम् । पूर्वोक्तेष्टग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्ययास्क आह । अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्नि र्ब्रूयान्न त्वेव न निर्ब्रूयात् (नि २-१) इति । अस्यायमर्थः । तत्तत्र निर्वचनीयवदसमूहमध्येयेह्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरण सिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्यायादिः । किंच तौ स्वरसंस्कारौ प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ । तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्तवैलक्षण्येन कश्चित्स्वेन विवक्षितोऽर्थो नान्वितस्तस्मन्शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानमप्रादेशिके विकार इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशनाग्निशब्दैकदेशेनात्र नाभिधीयत इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बंधवान् । ब्राह्मणानुसारेण वा देवतांतरविशेषणत्वेन योजयितुं वा स निर्बंधः । तदानीं स पुमान्केनचिद्वृत्तिसामान्येन स्वविक्षितमर्थं परीक्षेत । तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्चाग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्याग्रणीत्वाद्यर्थो योजितः तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवरक्षरसाम्यान्निर्वक्ति । अक्नोपनशब्दस्यादौ निषेधार्थमकाररूपमक्षरं विद्यते । अग्नि शब्दस्याप्यादावकारोऽस्ति । तदिदमक्षरसाम्यं शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते । दग्धशब्दाग्नि शब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति । ईळ इत्येतत्पदं कृत्स्नमप्यनुदात्तम् । तिङ्ङतिङः (पा ८-१-२८) इत्यतिङंतादग्निशब्दात्परस्येळ इत्यस्य तिङंतस्य निघातविधानात् । पदद्वयसंहिताकाले त्वीकारस्य धातुगतस्योदात्तादनुदात्तस्य स्वरितः (पा ८-४-६६) इति स्वरितत्वम् । तस्मादूर्ध्वभाविन एकारस्य तिङ् प्रत्ययरूपस्य स्वरितात्संहितायामनुदात्तानाम् (पा १-२-३९) इत्यैकश्रुत्यं प्रचयनामकं भवति । पुरःशब्दोंतोदात्तः । अयं पुरो भुवः । तै सम् । ४-३-२-१ । इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् (पा ५-३-३९) इति पूर्वशब्दादस्प्रत्ययः पुरादेशश्च । तत्रोऽत्र प्रत्ययस्वरः (पा ३-१-३) धाञो निष्ठाया दधातेर्हिः (पा ७-४-४२) इत्यादेशे सति प्रत्ययस्वरेणांतोदात्तो हितशब्दः । तत्र समासांतोदात्तत्वे प्राप्ते (पा ६-१-२२३) तदपवादत्वेन तत्पुरषे तुल्यार्थेत्यादिना (पा ६-२-२) अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । पुरोऽव्ययम् (पा १-४-६७) इति गतिसंज्ञायां गतिरनंतरः । पा ६-२-४९ इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः । अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववद्द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्रौ । पा । १-२-३९ । उदात्तस्वरितपरस्य सन्नतरः (पा १-२-४०) इत्यतिनीचोऽनुदात्तः । यजयाचेत्यादिना (पा ३-३-९०) यजतेर्नङ् प्रत्यये सत्यंतोदात्तो यज्ञ शब्दः । विभक्ते सुप्स्वरेणानुदात्तत्वे सति (पा ३-१-४) पश्चात्स्वरितत्वम् । देवशब्दः पचाद्यजंतः (पा ३-१-१३४) स च फिट् स्वरेण (फि १-१) प्रत्ययस्वरेण पा ३-१-३ । चित्स्वरेण (पा ६-१-१६३) वांतोदात्तः । ऋत्विक्शब्द ऋतौ यजतीति विग्रहे सत्यृत्विग्दधृक् (पा ३-२-५९) इति निपातितः । गतिकारकोपपदात्कृत् (पा ६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरेणांतोदात्तः । विभक्तिस्वरः पूर्ववत् । होतृशब्दस्तृन्प्रत्ययांतः (पा ३-२-१३५) नित्स्वरेणाद्युदात्तः (पा ६-१-१९७) स्वरितप्रचयौ पूर्ववत् । रत्न शब्दो नब्विषयस्यानिसंतस्य । फि । २-३ । इत्याद्युदात्तः । तथा चाम्नायते रत्नं धातेति । रत्नानि दधातीति विग्रहः । समासत्वादंतोदात्तो शत्नधाशब्दः । यद्वा । कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य (पा ५-३-५५) पित्स्वरेणानुदात्ते सति (पा ३-१-४) स्वरितप्रचितौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम् । वेदावतार आद्याय ऋचोऽर्थश्च प्रपंचितः । विज्ञातं वेदगांभीर्यमथ संक्षिप्य वर्ण्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः