॥ प्रथमाध्याये प्रथमः खण्डः॥
अग्निर्वै देवानामवमो विष्णॊः परमस्तदन्तरेण सर्वा अन्या देवताः॥
अतस्तां विधातुं तद्देवतारूपमग्निं विष्णुं चादौ प्रशंसति। योऽयुमग्निरस्ति सोऽयं देवतामध्येऽवमः प्रथमो द्रष्टव्यः। यस्तु विष्णुः सोयं परम उत्तमः। वैशब्द उक्तार्थे मन्त्रप्रसिद्धिद्योतनार्थः। अग्निर्मुखं प्रथमो देवतानाम्। संयातानामुत्तमो विष्णुरासीत्। इति हि मन्त्र आम्नायते। यद्वा वैशब्द उपपत्तिप्रसिद्धार्थः। उपपत्तिश्चैवं योजनीया। यद्यपि देवशब्दः सौधारणत्वात्सर्वदेवतावाची तथाप्यत्र प्रकरणबलादग्निष्तोमाङ्गेषु शस्त्रेषु प्रतीयमानाह् प्रधानदेवता विवक्ष्यन्ते। शस्त्राणि च द्वादश। तेष्वाज्यशस्त्रं प्रथमं तस्मिंश्च भूरग्निर्ज्योतिरित्यग्निराम्नातः। अग्निमारुतशस्त्रमन्तिमं तस्मिन्विष्णोर्नुकमिति विश्णुराम्नातः। एवमग्निष्तोमसंस्थायां शस्त्रपठापेक्शमग्नेः प्राथम्यं विष्णोरुत्तमत्वं च। यद्वा सर्वासु संस्थासूक्तन्यायेनाग्नेः प्राथम्यं विष्णोरुत्तमत्वमन्तिमस्स्ंस्थायामप्तोर्यामाख्यायां त्रयस्त्रिंशत् स्तोत्रशस्त्रो पेतायामन्तिमं स्तोत्रं शस्त्रं च वैष्णवमिति तदपेक्शया द्रष्टव्यं । यद्वा प्रथमायां दीक्षणीयेष्टावग्निरिज्यते। अन्तिमायामुदवसानियेष्टेः स्थानेवैष्णवी पूर्णाहुतिर्वाजसनेयिभिराम्नाता। सर्वथापि स्तोतव्यान्यष्टव्यांश्च देवानपेक्ष्याग्नेः प्राथमं विष्णोरुत्तमत्वं च युक्तम्। तदन्तरेण तयोः प्रथमोत्तमयोरग्नाविष्ण्वोर्मध्ये तत्तच्छस्त्र प्रतिपाद्या अन्या इन्द्रवाय्वादयः सर्वाः प्रधानदेवता वर्तन्ते। तस्मात्सर्वदेवतानामुभयतो रक्षकवदवस्थितावग्नाविष्णू प्रशस्तावित्यर्थः॥१॥
आग्नावैष्णवम् पुरोॢाशं निर्वपन्ति दीक्षणीयम् एकादशकपालं॥
सौमिकेषु यष्टव्यासु स्तोतव्यासु च सर्वासु देवतास्त्वग्नाविष्णू प्रशस्य तद्देवताकामिष्तिं विधत्ते। अग्निश्च विष्णुश्चाग्नाविष्णू तावुभौ परस्पर व्यासक्तौ यस्य पुरोडाशस्यैका देवता सोऽयमाग्नावैष्णवो यथोक्त देवतां प्रति हविष्ट्वेन प्रदेयद्रव्यरूपः पक्वः पिष्टपिण्डः पुरोडाश इत्युच्यते। डकारस्यात्र ळकार एतच्छाखाध्ययनसम्प्रदायेन प्रापितः। शकटाव स्थापितव्रीहिसङ्घान्निष्कृष्य मुश्टि चतुष्टयपरिमितानां व्रीहीणां शूर्पे प्रक्षेपो निर्वापस्तत्पूर्व्को यागोऽत्र निर्वापेणोपलक्श्यते। आग्नावैष्णवं पुरोडाशमिति सामानाधिकरण्येनावगतस्यद्रव्यदेवता सम्बन्धस्य यागमन्तरेणानुपपन्नत्त्वात्। सति तु यागे सम्बन्ध उपपद्यते। " उद्दिश्य देवतां द्रव्यत्यागो यागोऽभिधीयते" इति यागलक्षणस्य पूर्वचार्यैरुक्तत्वात्। निर्वपन्तीत्ययंशब्दो न वर्तमानार्थः किन्तु विध्यर्थः। स च लकारो लिङर्थे लेडिति सूत्रेण विध्यर्थो द्रष्टव्यः। एवं च सति शाखान्तरेण संवादो भवति। तथा च तैत्तिरीया विस्पष्टं विधिमामनन्ति "आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः" इति। तत्रैकप्रयोगापेक्षमेकवचनम्। अत्र तु बहुप्रयोगगतं सत्रगतं वा यजमानबहुत्वमपेक्ष्य निर्वपन्तीति बहुवचनम्। यद्वा छान्दसो वचनव्यत्ययः। सोमयागे प्रवृत्तस्य यजमानस्य संस्कारो दीक्षणं तस्य च संस्कारस्य हेतुः कर्मविशेषो दीक्षणीयाशब्दवाच्यः। तस्य च कर्मविशेषस्य वाचकेन शब्देन तत्कर्मसाधनमुपलक्ष्यते। ततो दीक्षणीयाख्यकर्मसाधनं पुरोडाशमिति सामानाधिकरण्यमुपपन्नम्। एकादशसु कपालेषु संस्कृतः पुरोडाश एकादशकपालः। तेषु हि पुरोडाह्सः श्रप्यते॥२॥
सर्वाभ्य एवैनं तद् देवताभ्यो ऽनन्तरायं निर्वपन्ति॥
अत्र प्रथमोत्तमयोरग्नाविष्ण्वोः पुरोडाशदेवतात्वे फलितंदर्शयति। तत्तेनाग्नावैष्णवत्वेन तयोरग्नाविष्ण्वोर्मध्यवर्तिनीनां सौ मिकीनां सर्वासां देवतानामुपलक्षितत्वादनन्तरायं निरवशेषं काचिदपि देवतावशिष्टा यथा न भवति तथैनं पुरोडाशं यजमाना निर्मपन्त्येव। अनेन निर्वापेण सर्वा देवतास्तृप्यन्तीत्यर्थः। यथा वैयाकरणा प्रत्याहारेष्वाद्यन्तयोर्वर्णयोर्ग्रहणेन मध्यपातिनां सर्वेषां वर्णानां ग्रहणमिच्छन्ति। न्यायस्तदीय एवं व्यवह्रियते। "तन्मध्यपतितस्तद्ग्रहणेन गृह्यते" इति। यथा वा लोके भुञ्जनानामेकपङ्क्तावुपविष्टानामाद्यन्त योर्ब्राह्मनयोः परितोषेन मध्यवर्तिनः सर्वे परितुष्टा इति निश्चितं तथेदं द्रष्टव्यम्॥३॥
अग्निर् वै सर्वा देवता। विष्णुः सर्वा देवताः॥
नन्वग्नाविष्णोरेव निर्वापसम्बन्धः श्रूयते न तु मध्यवर्तिदेवतानां तत्कथं तासां तृप्तिरित्याशङ्क्य तत्सिद्ध्यर्थं तयोरेव सर्वदेवतान्तर्भावं दर्शयति- अग्नेः सर्वदेवतारूपत्वे श्रुत्यन्तर प्रसिद्धिद्योतनार्थो वैशब्दः। तथा च तैत्तिरीयाः पौरोडाशिके काण्डे समामनन्ति "ते देवा अग्नौ तनूः संन्यदधत तस्मादाहुरग्निः सर्वा देवताः" इति। सौ मिकेऽपि काण्डे श्रूयते- "देवासुराः संयत्ता आसंस्ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुरग्निः सर्वा देवताः" इति। विषलृ व्याप्तावित्यस्माद्धारोरुत्पन्नो विष्णुशब्दः। व्याप्तिश्च सर्वजगदुपादानकारणत्वेन सर्वात्मकत्वादुपपद्यते। अत एव स्मरन्ति-"भुतानि विष्णुर्भुवनानि विष्णुः" इति॥४॥
एते वै यज्ञस्यान्त्ये तन्वौ यद् अग्निश् च विष्णुश् च॥
सर्वदेवतात्मकत्वेनाग्नाविष्णू प्रशस्य प्रकरान्तरेण पुनः प्रशंसति अग्निश्च विष्णुश्चेत्यनयोर्देवतयोर्यच्छरीरद्वयमस्ति. एते उभे तनौ यज्ञस्यान्त्ये सोमयागस्यादावन्ते च वर्तमाने आद्या चान्त्या चेति विवक्षायामेकशेषेनान्त्ये इति भवति। यथा माता च पिता चेत्यत्र पितरावित्येकशेषस्तद्वत्। आद्यन्तवर्तित्वं चाग्निर्वै देवानामवम इत्यत्रैवोपपादितम्। तत्तथा सत्याद्यन्तवर्तित्वे सति तादृशदेवताकं पुरोडाशं निर्वपन्तीति यदस्ति तत्तेन यथोक्तनिर्वापेणान्ततो यागस्यादावन्ते च देवान्सर्वानृध्नुवन्त्येव परिदरन्त्येव। तमेतं सार्थवादं दीक्षणीयेष्टिविधिं तैत्तिरीया अपि विस्पष्टमामनन्ति- आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणोऽग्निः सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चारभतेऽग्निरवमो देवानां विष्णुः परमो यदाग्नावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे॥ इति॥५॥
ते वै यज्ञस्यान्त्ये तन्वौ यद् अग्निश् च विष्णुश् च॥ तद् यद् आग्नावैष्णवम् पुरोॢाशं निर्वपन्त्य्।॥
इदानीं यथोक्त विधौ ब्रह्मवादिचोद्यमुद्भावयति। तत्र तत्र कपालसङ्ख्यायां ब्रह्मवादिन आहुश्चोदयन्ति। एकादशसु कपालेषु सम्स्कृतः पुरोडाश एकमेव द्रव्यं तस्य भोक्तारौ द्वौ देवौ। एनयोरेद्वयोः समप्रधानत्वेन विषमांशस्यायुक्तत्वात्तत्र द्रव्ये का क्ल् प्तिर्विभाग कल्पनानिमित्तम् किं स्यात्काविभक्तिर्निमित्तविशेषाभावे नैमित्तिको विभागविशेषः कथं घटेत। इति शब्दोश्चोद्यसमाप्त्यर्थः॥६॥
अष्टाकपाल आग्नेयो। ऽष्टाक्षरा वै गायत्री। गायत्रम् अग्नेश् छन्दस्; त्रिकपालो वैष्णवस्। त्रिर् हीदं विष्णुर् व्यक्रमत: सैनयोस् तत्र कॢप्तिः सा विभक्तिर् ॥
ब्रह्मवादिष्वेव मध्येऽभिज्ञानां चोद्यपरिहारमुद्भावयति- अष्टसु कपालेषु संस्कृतः पुरोडाशभागोऽग्नेः सम्बन्धी। स च सम्बन्धश्छन्दोद्वार द्रष्टव्यः। गायत्राख्यं छन्दोऽग्नेः सम्बन्धि तयोरग्निगायत्र्योः प्राजापतिमुखजन्यत्वसम्यात्। एतच्च मुखजन्यत्वं तैत्तिरीयाः सप्तमकाण्डे पठन्ति- "प्रजापतिरकामयत प्रजायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्रीछन्दः" इति। तस्यश्च गायत्राः पादक्शरेष्वष्टत्वं सङ्ख्या दृश्यते। सोऽयं यथोक्तपुरोडाशभागस्याग्नेश्च सम्बन्धः। त्रिषु कपालेषु सम्स्कृतः पुरोडाशभागो विष्णोः सम्बन्धी। हि यस्मात्कारनाद्विष्णुरिदं सर्वं जगत्त्रिर्व्यक्रमत त्रिरावृत्तेन स्वकीयपादविक्षेपेण व्याप्तवान्। तथा च मन्त्र आम्नायते- इदम् विष्णुर्विचक्रमे त्रेधा निदधे पदम् (ऋ. सं. १-२२-१७) इति। त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः (ऋ. सं १-२२-१८) इति च। सा यथोक्ताष्टत्वसङ्ख्या त्रित्वसङ्ख्याचैनयोर्देवतयोस्तत्र पुरोडाशे क्ल् प्तिर्विभागकल्पनाहेतुः। तदनुसारेण विभक्तिस्तादृशो विभागोऽवगन्तव्यः॥७॥
घृते चरुं निर्वपेत यो ऽप्रतिष्ठितो मन्येताऽस्यां ॥
इत्थं सार्थवादेन विधिवाक्येन दीक्शणीयेष्टिं विधाय तस्यामेवेष्टौ प्रतिष्थाकमस्य पुरोडाशमपोद्य द्रव्यान्तरं विधत्ते पुत्रादिप्रजाया गवादिपशुभिश्च रहितत्वमप्रितिष्ठि तत्वं तादृशोऽहमिति मन्यमानो यजमानः प्रतिष्ठार्थं घृतेन तण्डुलैश्चरुं निष्पादयेत्॥८॥
वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति ॥
अप्रतिष्ठितत्वस्यात्यन्तिकदोषत्वं दर्शयति - यो यजमानः प्रजापशुरूपया प्रतिष्ठया वर्जितः सोऽस्यां वाव कृत्स्नायामप्येतस्यां भूमौ न प्रतितिष्ठति श्लाघ्यो न भवति। तस्मादप्रतिष्ठा परिहर्तव्येत्यर्थः॥९॥
तद् यद्घृतं तत् स्त्रियै पयो। ये तण्डुलास् ते पुंसस्। तन् मिथुनम्: मिथुनेनैवैनं तत् प्रजया पशुभिः प्रजनयति प्रजात्यै ॥
घृतचरुणा तत्परिहारं दर्शयति_ तत्तत्र घृतपक्वे चरौ यद्घृतमस्ति तत्स्त्रियै पयः स्त्रियाः शोणितं द्रवत्वसाम्येन पहःशब्दः शोणितमुपलक्शयति। विलीनस्य घृतस्येषद्रक्तत्वसाम्येन योषिद्वीर्यत्वमुपचर्यते। चरौ ये तण्डुलाः सन्ति ते पुंसो रेत इति शेषः। श्वेतत्वं तत्र साम्यं। तद्घृततण्डुलोभयात्मकं चरुद्रव्यं मिथुनसदृशं तत्तस्मात्कारनन्मिथुनरूपेणैव चरुद्रव्येणैवैनं यजमानं पुत्रादिप्रजया गवादिपशुभिश्च प्रजनयति प्रवर्थयति। तस्मादिदं चरुद्रव्यं प्रजननाय प्रतिष्थारूपाय सम्पद्यत इत्यर्थः॥१०॥
प्रजायते प्रजया पशुभिर् य एवं वेदाऽरब्धयज्ञो ॥
चरोः प्रतिष्ठाहेतुत्ववेदनं प्रशंसति- तावेतौ पुरोडाशचरुपक्षावापस्तम्बेन दर्शितौ- "दीक्शणीयायास्तंस्त्रं प्रक्रमयत्याग्नावैष्णवमेकादशकपालं निर्वपत्याग्नावैष्णवं वा घृते चरुम् पुरोडाशो ब्रह्मवर्चसकामस्य घृते चरुः प्रजाकामस्य पशुकामस्य वादित्यं घृते चरुम् द्वितीयं प्रजाकामस्य पशुकमस्यैके समामनन्ति"॥११॥
आरभ्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजत॥ आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्न् एव हविषि तस्मिन् बर्हिषि दीक्षेतैषो एका दीक्षा ॥
उक्ताया दीक्षणीयेश्टेः कालं बिधत्ते- यः पुमान्दर्शपूर्णमासाभ्यां यजते तेन सर्वोऽपि यज्ञः प्रारब्दः सर्वस्य तदपेक्शितत्वात्। सोमयागस्य दर्शपूर्णमासविकृतित्वाभावेऽप्यङ्गादीनां दीक्शणीयाप्रायणीयादीनामिष्टीनां तद्विकृतित्वादस्ति तदपेक्शा। अग्निहोत्रस्य तदङानां च तन्निरपेक्षत्वेऽप्याहवनीयाद्यग्निसापेक्षत्वादग्नीनां च पवमानेष्टिसाध्यत्वादिष्टीनां दर्शपूर्णमासविकृतित्वादस्ति परंपराया तदपेक्षातस्तदनुष्थानेन सर्वस्यापि यज्ञस्य प्रारम्भः सिध्यति। यद्यपि यज्ञारम्भेणैव तदीयदेवतानां पूजयितुमारम्भः सिद्ध एव तथापि प्राधान्यख्यापनार्थमारब्न्धदेवत इति पुनर्देवताभिधानम्। यस्माद्दर्शपूर्णमासयाजिना सर्वोऽपि यज्ञ आरब्धप्रायोऽत एव देवतानां पूजाप्यारब्धप्राया तस्मदरब्धस्य सोमयगस्यानुष्ठेयत्वाद्दर्शपूर्णमासानुष्थानादूर्ध्वं दीक्षेत दीक्षणीयेष्टिं कुर्यात्। अमावास्याकाले कर्तव्यं हविरामावास्यं तद्वत्पौर्णमासं च। हविःशब्दोऽत्रयज्ञमुपलक्शयति। वाशब्दौ समुच्चयार्थौ। अमावास्यादिसम्बन्धिना पौर्णमासीसम्बन्धिना च यज्ञेनेष्ट्वादीक्षेत। उक्तार्थ एव तस्मिन्नित्यादिना प्रपञ्चयते। हविः शब्दवद्वर्हिःशब्दोऽपि यज्ञोपलक्षकः। तस्मिन्नमावास्याख्ये हविषि यज्ञे तस्मिन्पौर्णमासाख्ये बर्हिषि यज्ञेऽनुष्ठिते सति पश्चादेव दीक्शेत। तदाहाश्वलायनः- "दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचतुर्मास्यैरथसोमेन" इति। यजेतेति शेषः। इष्तिराग्रयणेष्टिः। पशुर्निरूढपशुबन्धः। आपस्तम्बोऽप्याह- "अथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते" इति। एतच्छब्दादुत्तर उकारोऽपिशब्दपर्यायः। एषाप्येकादीक्षा। एवमुक्ते सत्यन्यापि काचिद्दीक्षास्तीति सूचितं भवति। अत एवाश्वलायन इष्टि पूर्वत्वं सोमपूर्वत्वं चेत्युभौ पक्षावुदाजहार- " ऊर्ध्वं दर्शपुर्णमासाभ्यां यथोपपत्त्येके प्रागपि सोमेनैके" इति। उपपत्तिर्द्रव्यादिसम्पत्तिस्तामनतिक्रम्येति यथोपपत्ति। दर्शपूर्णमासाभ्यामूर्ध्वं द्रव्यादिसम्पत्तौ सत्यां सोमेन यजेतेति केषांचिन्मतं ताभ्यां प्रागपि सम्पत्तौ सोमपानमित्यपरेषां मन्त्म्। तैत्तिरीयाश्चेष्तिपूर्वत्वमभिप्रेत्य वसन्तादिकालविशेषॆष्टाधानमाम्नाय पुनः सोमपूर्वत्वमभिप्रेत्य कालनियममन्तरेणाधानमामनन्ति- "अथो खलु यदैवैनं यज्ञौपनमेत्। अथादधीत सैवास्यर्धिः" इति। आपस्तम्बोऽपीदमेव सोमाधानमभिप्रेत्य वसन्तादिकालविशेषप्रतीक्शां वारयति- "नर्तून्सूर्क्षेन्न नक्षत्रं" इति। तस्मात्पक्षद्वयम्॥१२॥
सप्तदश सामिधेनीर् अनुब्रूयात् ॥
चोदकप्राप्तां पञ्चदशसङ्ख्यामपवदितुं सङ्ख्यान्तरं विधत्ते प्र वो वाचा आभिद्यव (ऋ. सं. ३-२७-१) इत्याद्या एकादशसङ्ख्याका ऋचो वह्नि समिन्धनहेतुत्वात्सामिधेन्य इत्युच्यन्ते। तासु त्रिः प्रथमामन्वाह त्रिरुत्तमामिति वचनात्ताः पञ्चदश सम्पद्यन्ते। प्रकृतावेव विहितासु प~चदशस्वृक्षु चोदकप्राप्तासु ये समिध्यमानसमिद्धवत्यौ द्वे ऋचौ तयोर्मध्ये धाय्याभिधेये ऋचौ प्रक्षेप्तव्ये। तथा चाश्वालायनः- ‘दीक्षणीयायां धाय्ये विराजौ’ इति। तत्र पृथुपाजा अमर्त्य इत्येका तं सबाधो यतस्रुच इति द्वितीया। एतच्च प्रयोगसङ्रहकारेणोदाहृतम्- " अथ दीक्षणीयायां धाय्ये भवतः शोचिष्केशस्तमीमहों पृथुपाजास्तं सबाधः" इति। अग्नये समिध्यमानायानुब्रूहीत्येवमध्वर्युणा प्रेषितो होता सामिधेनीः सप्तदशानुब्रूयात्॥१३॥
सप्तदश सामिधेनीर् अनुब्रूयात् सप्तदशो वै प्रजापतिर्: द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन॥ तावान् संवत्सरः। संवत्सरः प्रजापतिः ॥
तामेताम् सङ्ख्यां प्रशंसति- सपदश चावयवा यस्य प्रजापतेः सोऽयं सप्तदशस्तस्मिन्नर्थे वैशब्दोक्तप्रसिद्धिर्द्वादशेत्यादिना स्पष्टीक्रियते। चैत्राद्या मासा द्वादश प्रसिद्धाः। यद्यपि षड्वा ऋतव इति ( तै. सं. ६-२-३-४) श्रुत्यन्तराल्लोकप्रसिद्धेश्च वसन्ताद्याः षट्सङ्ख्याकास्तथापि शीतत्वासाम्येन हेमन्तशिशिरावेकीकृत्य पञ्चसङ्ख्योच्यते। द्वादशभिर्मासैस्तन्मेलनात्मक पञ्चर्तुभिश्च यावान्कालो भवति तावान्कालः संवत्सर इत्युचते। स च संवत्सरस्तत्तदृतूचितवर्षादिनिष्पादनेन प्रजानां पालकत्वात्प्रजापतिस्तदीयत्वेन सप्तदशसङ्ख्याप्रशस्तेत्यर्थः॥१४॥
प्रजापत्यायतनाभिर् एवाभी राध्नोति य एवं वेद ॥
सप्तदशसङ्ख्यावेदनं प्रशंसति- संवत्सरात्मकः प्रजापतिरायतनमाश्रयो यासां सामिधेनीनां ताः प्रजापत्यायतनास्तदीयसङ्ख्योपेतत्वात्तदायतनत्वं तादृशीभिराभिः समिधेनीभिर्वेदिता राध्नोति समृद्धो भवति। सति वेदने तदनुष्ठानप्रवृत्तेः फलप्राप्तिसमृद्धिरुपपद्यते॥१५॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये
॥अथ प्रथमाध्याये द्वितीयः खण्डः॥
॥यज्ञो वै देवेभ्य उदक्रामत्। तम् इष्टिभिः प्रैषम् ऐछन्॥ यद् इष्टिभिः प्रैषम् ऐछंस्। तद् इष्टीनाम् इष्टित्वं॥ तम् अन्वविन्दन्न् ॥
दीक्षणीयेष्टिं निरूप्य तत्प्रशंसार्थमिष्टिशब्दनिर्वचनं दर्शयति। ज्योतिष्तोमाभिमानी यज्ञपुरुषः केनापि निमित्तेनापरक्तो देवेभ्योऽपक्रान्तवान्। तं यज्ञं देवा दीक्शणीयाप्रायणीयादिभिरिष्तिभिः प्रैषमन्वेष्टुमैच्छन्। इच्छन्ति यज्ञमाभिरितीष्तिशब्दव्युत्पत्तिः। यजतिधातोरिष्टिशब्दः सर्वत्र प्रसिद्धः। अत्र त्विच्छतिधातोरिति विशेषः अन्विष्य तं यज् जमनुक्रमेण लब्धवंशः॥१॥
॥ अनुवित्तयज्ञो राध्नोति य एवं वेदा ॥
तल्लाभवेदनं प्रशंसति। वेदिता तदनुष्ठानेन लब्धयज्ञफलेन समृद्धो भवति। पुनरपि दीक्षणीयादीष्टिप्रशंसार्थं तास्विष्टुषु विद्यमानानामाहुतीनां वाचकं शब्दं निर्वक्ति॥२॥
॥अहूतयो वै नामैता यद् आहुतय। एताभिर् वै देवान् यजमानो ह्वयति। तद् आहुतीनाम् आहुतित्वम् ॥
आहुतय इत्युक्तकारेण ह्रस्वेनाहूतय इत्येवं दीर्घेनयुक्तं द्रष्टव्यं। ह्वयथाभिरिति तद्व्युत्पत्तिः। जुहोतिधातोरुत्पन्नः शब्दः पूर्वं प्रसिद्धः। अयं तु ह्वयतिधातोरुत्पन्न इति विशेषः॥३॥
॥ऊतयः खलु वै ता नाम याभिर् देवा यजमानस्य हवम् आयन्ति॥ ये वै पन्थानो याः स्रुतयस् ता वा ऊतयस्; त उ एवैतत् स्वर्गयाणा यजमानस्य भवन्ति॥
इष्टिराहुतीश्च मिलित्वा प्रकारान्तरेण प्रशंसति। हूयन्ते देवा अस्मिन्निति हवोऽत्र सोमयागो याभिरिष्तिभिस्तत्र ताभिराहुतीभिश्च निमित्तभूताभिर्देवा यजमानस्य यज्ञमागच्छन्ति ता इष्टय आहूतयश्चोतय इत्येतन्नाम प्रतिपद्यन्ते। खलुशब्दो वैशब्दश्च प्रसिद्धार्थः। अवन्ति रक्शन्तीत्यवतेर्धातोरूतिशब्दः प्रसिद्धः। आयन्यागच्छन्ति याभिरित्याङ् पूर्वस्यायतिधातोर्वा वर्णविकारेणोतिशब्दः। यद्वा तस्मादेव धातोः स्वर्गप्रापकत्वाभिप्रायेण शब्दे व्युत्पाद्यते। ये केचित्पन्था न इष्तिरूपाः स्वर्गस्य प्रौढमार्गाः सन्ति याश्च स्रुतयस्तन्मार्गावयवरूपा आहुतयः सन्ति ता द्विविधा ऊतय इत्युच्यन्ते। त उ एवैतत्त एवैते द्विविधा अपि मार्गा यजमानस्य स्वर्गयाणाः स्वर्गप्रापका भवन्ति॥४॥
॥तद् आहुर्: यद् अन्यो जुहोत्य्। अथ यो ऽनु चाह यजति च कस्मात् तं होतेत्य् आचक्षत इति ॥
पुनरपीष्टिप्रशंसार्थं तदङभूतयोर्याज्यानुवाक्ययोर्वक्तरि प्रयुज्यमानं होतृशब्दं निर्वक्तुं ब्रह्मवादिनां प्रश्नमवतारयति। तत्तास्विष्टिषु किञ्चिच्चोद्यमाहुः। यद्यस्मात्कारणाद्धोतुरन्योऽध्वर्योर्युक्तः। याज्ञिकास्तु तमध्वर्युं होतेति नाचक्शते। अथ यः पुमाननु चाह पुरोनुवाक्यां चानुब्रूते यजति च याज्यां च पठति तं पुमांसमनुवक्तेति यष्टेति चानभिधाय कस्मात्कारनाद्धोतेत्याचक्षते। इति शब्दः प्रश्न समात्यर्थः॥५॥
॥यद् वाव स तत्र यथाभाजनं देवता अमुम् आवहामुम् आवहेत्य् आवाहयति। तद् एव होतुर् होत्र्̥त्वं होता भवति॥
अभिज्ञानामभिप्रेतं प्रश्नस्योत्तरं दर्शयति। यद्वाव यस्मादेव कारणाद्याज्यानुवाक्ययोर्वक्ता स पुमांस्तश्रयागे यथा भाजनं यथा स्थानं सर्वा देवता आवाहयति अमुमग्निमावह, अमुं सोममावहेति तदेव तस्मादेव कारणाद्याज्ञिकप्रसिद्धस्य होतुस्तन्नाम सम्पन्नम्। अत्र ण्यन्तस्य वहधातोश्छान्दस्या प्रक्रियया होतृशब्दनिष्पत्तिर्न तु जुहोतिधातोस्तस्माद्धोमकर्तृत्वाभावेऽप्यावाहयितृत्वसद्भावाद्धोतृत्वमुपपन्नमित्ययं याज्यानुवाक्ययोर्वक्तापि होता भवत्येव॥६॥
॥होतेत्य् एनम् आचक्षते य एवं वेद॥
होतृत्ववेदनं प्रशंसति। याज्ञिका एनं वेदितारं होतारं मुख्यो होतेति कथयन्ति। हौत्रे कर्मणि कुशलो भवतीत्यर्थः॥७॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये द्वितीयः खण्डः॥
अथ प्रथमाध्याये तृतीयः खण्डः
॥ पुनर् वा एतम् र्̥त्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति ॥
इत्थमिष्ट्याहुतिहोतृशब्दानां निर्वचनेन दीक्षणीयेष्टिं प्रशस्य तयेष्ट्या दिक्शितस्य संस्कारविशेषान्विधातुं प्रस्तौति- यं यजमानं दीक्षणीयेष्ट्या दीक्षितं कुर्वन्ति तं यजमानं पुरा मातापितरौ किञ्चित्कालं गर्भं कृतवन्तौ पुनरप्येनमिदानीम्रुत्विजो यज्ञकाले बर्भं कुर्वन्ति गर्भवदसौ संस्कारैः पालनीय इत्यर्थः॥१॥
॥अद्भिर् अभिषिञ्चन्ति ॥
एकं संस्कारं विधत्ते। अप्सु स्नपयन्तीत्यर्थः। एतदेवाभिप्रेत्य तैत्तिरीया यजमानस्य वपनादूर्ध्वं स्नानमामनन्ति- अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्। अप्सु स्नाति साक्षादेव दीक्षा तपसी अवरुन्धे इति। यजमानस्य स्नानकर्तृत्वेऽपि ऋत्विजां स्नापयितृत्वमभिप्रेत्याभिषिंचन्तीत्युक्तम्॥२॥
॥रेतो वा आपः। सरेतसम् एवैनं तत् क्र्̥त्वा दीक्षयन्ति ॥
उक्तानामपां प्रशंसामाह। कार्यकारणयोरभेदादपां रेतस्त्वं वैराजदेहगताद्रेतस अप उत्पन्नाः। तथा चारण्यके सृष्टिप्रकरने समाम्नास्यते- शिश्नादेतो रेतस आप इति। यदा मनुष्यादिशरीरगतं रेतोमूत्रादिकमपां कार्यम्। तच्च गर्भोपनिषद्याम्नातम्- अस्मिन्पञ्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्द्रवं तदाप इति। तत्तेनाभिषेचनेनैनं यजमानं सरेतसं पुत्रोत्पादनसमर्थं कृत्वा संस्कुर्वन्ति॥३॥
॥ नवनीतेनाभ्यांजन्ति ॥
संस्कारान्तरं विधत्ते। सर्वस्मिन्नपि शरीरेऽनुलेपयन्तीत्यर्थः॥४॥
॥आज्यं वै देवानां। सुरभि घ्र्̥तम् मनुष्याणाम्। आयुतम् पित्र्̥̄णां। नवनीतं गर्भाणां॥ तद् यन् नवनीतेनाभ्यञ्जन्ति। स्वेनैवैनं तद् भागधेयेन समर्धयन्ति॥
नवनीतस्य बर्घस्थानीययजमानयोग्यतां दर्शयति। आज्यघृतयोर्भेदः पूर्वाचार्यैरुदाहृतः- सर्पिर्विलीनमाज्यं स्याद्घनीभूतं घृतं विदुः इति। ईषद्विलीनमायुतं सुरभि योग्यं प्रियमित्यर्थः। घृतायुतनवनीतेष्वप्येतत्पदमनुवर्तते। ननु तैत्तिरीया घृतस्य देवप्रियत्वमामनन्ति- घृतं देवानां मस्तु पितॄणां निष्पक्वं मनुष्याणां इति। ईशद्विलीनं मस्तु निःशेषेण विलीनं निष्पक्वम्। नायं दोष उभयत्र नवनीतप्रशंसारूपार्थवादत्वेन घृताज्ययोर्व्यत्ययेन पाठेऽपि विरोधाभावात्। तथा सति नवनीतस्य बर्भयोग्यत्वे सति यदि नवनीतेनाभ्यङ्गं कुर्युस्तदानीमेनं यजमानं स्वोचितेनैव भागेन समृद्धं कुर्वन्ति॥५॥
॥आञ्जन्त्य् एनं तेजो वा एतद् अक्ष्योर् यद् आञ्जनं। सतेजसम् एवैनं तत् क्र्̥त्वा दीक्षयन्ति॥
नेत्रयोरञ्जनेन संस्कारं विधत्ते। अक्ष्णोर्दृष्टिप्रसादहेतुत्वेनाञ्जनं प्रशंसति। आञ्जनस्याक्षितेजस्त्वं लोके प्रसिद्धं। तत्प्रकारविशेषः शाखान्तरे दक्षिणं पूर्वमाङ्क्त इत्यादिना विहितः॥६॥
॥ एकविंशत्या दर्भपिञ्जूलैः पावयन्ति ॥
संस्कारान्तरं विधत्ते। दर्भपिञ्जूलशब्देन कुशसङ्घाता उच्यन्ते। तैरेकविंशतिसङ्ख्याकैर्यजमानं मार्जयित्वा शुद्धं कुर्युः॥
॥ शुद्धम् एवैनं तत् पूतं दीक्षयन्ति ॥
यद्यप्यसावभिषेकेणैव शुद्धस्तथाप्यतिशयेन शुद्धिरित्येवमभिप्रायं दर्शयति । पूर्वमपि शुद्धमेव संतमेनं यजनानं पुनरपि तत्तेन कुश-संघमार्जनेन पूतं कृत्वा संस्कुर्वंति | यद्यपि शाखांतरे - द्वाभ्यां पवयति अहोरात्राभ्यामेवैनं पावयति त्रिभिः सावयति इत्यदिना संख्यां-तरविषया बहवः पक्षा उपन्यस्तास्तथाप्येतॆ सर्व एकविंशतावंतर्भावादव-युत्यानुवादरूपाः प्रशंसार्थाः | अत एव तत्रांतिमे पर्याय एकविंशत्या पावयतीत्युपसंहारः कृतः |
॥ दीक्षितविमितम् प्रपादयन्ति ॥
उक्तैः संस्कारैः संकृतस्य दीक्षितस्य प्राचीनवंशाख्यशालाप्रवेशं विधत्ते। दीक्षितस्य प्रवेशार्थं विशेषेण निर्मितह् प्राचीनवंशो दीक्शितविमितस्तं प्रवेशयेयुः॥
॥ योनिर् वा एषा दीक्षितस्य यद् दीक्षितविमितं। योनिम् एवैनं तत् स्वाम् प्रपादयन्ति ॥
पूर्वत्र दीक्षितस्य गर्भत्वाभिधानादौचित्येन प्रचीनवंशं योनित्वेन प्रशंसति। प्राचीनवंशस्य योनित्वोपचारात्तत्तेन प्राचीनवंशप्रवेशेन स्वकीययोनिप्रवेशः सम्पाद्यते। सोऽयं प्रवेशः शाखान्तरे विस्पष्टमाम्नायते। बहिः पावयित्वान्तः प्रापयति मनुष्यलोक एवैनं पावयित्वा पूतंदेवलोकं प्रणयति इति। आपस्तम्बोऽप्याह- आवो देवास ईमह इति पुर्वया द्वारा प्राग्वंशं प्रविश्य इति॥
॥ तस्माद् ध्रुवाद् योनेर् आस्ते च चरति च ॥
तस्य दीक्शितस्य किञ्जिन्नियमं विधत्ते। अत्र तिस्रः पञ्जम्यः सप्तम्यर्थे द्रष्टव्याः। तस्मिन्दीक्षितार्थं निर्मितदेवयजनाख्ये स्थिरस्थाने स दीक्षित उपवेशनं सञ्जरणं न कुर्यात्॥
॥ तस्माद् ध्रुवाद् योनेर् गर्भा धीयन्ते च प्र च जायन्ते ॥
विहितमर्थं प्रशंसति | यस्मा द्गर्भस्था नीयस्य दीक्षितस्य स्थिरे देव यजनस्थाने योनिरूप उपवेतनं संचरणं च शस्मा ल्लोकेपि स्थि रे योनिमध्ये नवसंख्याकान्मा सांगर्भ धार्यन्ते तस्मादेव स्थिराद्योनिम-ध्यादु श्प द्यन्ते |
॥ तस्माद् दीक्षितं नान्यत्र दीक्षितविमिताद् आदित्यो ऽभ्युदियाद् वाभ्यस्तमियाद् वापि वाभ्याश्रावयेयुः ॥
तस्य दीक्षितस्य देवयजनाद्बहिर्निर्गमनं निषेधति। यस्माद्दीक्षितस्योपवेशनसञ्ज्चरणयोर्देवयजनमेव स्थानं तस्मात्कारनाद्दीक्षितविमिताद्देवयजनदेशादन्यत्र बहिर्देशे दीक्षितमभिलक्ष्यादित्यो नोदियान्नास्तमियच्छ। किञ्जर्त्विजो यं बहिरवस्थितं दीक्षितमभिलक्ष्याश्रावणादिकं न कुर्युः। यद्यपि ध्रुवाद्योनेरास्ते चरतिविधानादेवायमर्थः सिद्धस्तथापि मलमूत्रविसर्गाद्यावश्यककार्यार्थं कदाचिद्बहिर्निर्गमनमभ्युपगम्य तत्र विशेषाभिधानमेतत्। कालान्तरे कथञ्ज्चिद्गमनेऽप्युदयास्तमयाश्रवणादिकालेषु सर्वथा न निर्गच्छ्दित्यर्थः। तदेतद्दृष्टान्तपुरस्सरं शाखान्तरे प्रपञ्जितम्- गर्भो वा एष यद्दिक्षितो योनिर्दिक्शितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्कन्दति तादृगेव तन्नप्रवस्तव्यमात्मनो गोपिथाय इति॥
॥ वाससा प्रोर्णुवन्ति ॥
संस्कारान्तरं विधत्ते। ऋत्विजो यजमानं वस्त्रेणाच्छादयेयुः।
॥ उल्बं वा एतद् दीक्षितस्य यद् वास। उल्बेनैवैनं तत् प्रोर्णुवन्ति ॥
गर्भस्थानीयं दीक्षितं प्रत्यौचित्येन वस्त्रस्योल्बत्वं दर्शयति। उल्बशब्देन गर्भस्याभ्यन्तरं चर्म सर्ववेष्टनमुच्यते। अयमर्थः शाखान्तरे स्पष्टीकृतः- गर्भो वा एष यद्दीक्षित उल्बं वासः प्रॊर्णुते तस्माद्गर्भाः प्रावृता जायन्ते इति॥
॥ क्र्̥ष्णाजिनम् उत्तरम् भवत्य् उत्तरं वा उल्बाज् जरायु। जरायुणैवैनं तत् प्रोर्णुवन्ति ॥
वाससो बहिर्वेष्टनान्तरं विधत्ते। बहिर्वेष्टनत्वासाम्येन कृष्णाजिनस्य जरायुरूपत्वं दर्शयति॥
॥ मुष्टी कुरुते ॥
संस्कारान्तरं विधत्त्ते। यजमानो हस्तयोर्मुष्टिं कुर्यात्। तत्प्रकार आपस्तम्बेन स्पष्टमभिहितः- अथाङ्गुलीर्न्यञ्ज्चति। स्वाहा यज्ञं मनसेति द्वे इभ्यः स्वाहा दिव इति द्वे स्वाहा पृथिव्या इति द्वे स्वाहोरूरन्तरिक्शादिति द्वे स्वाहा यज्ञम् वातादारभ इति मुष्टी करोति इति॥
॥ मुष्टी वै क्र्̥त्वा गर्भो ऽन्तः शेते। मुष्टी क्र्̥त्वा कुमारो जायते॥ तद् यन् मुष्टी कुरुते। यज्ञं चैव तत् सर्वाश् च देवता मुष्ट्योः कुरुते ॥
गर्भसाम्येन यज्ञस्य सर्वदेवतानां च धारणेन प्रशंसति। बर्भस्य मुष्टीद्वये शास्त्रप्रसिद्ध्यर्थो वैशब्दः। जायमानस्यमुष्टिद्वयं लोके प्रसिद्धम्। मुष्टिमध्ये यज्ञधारणं शाखान्तरेऽप्याम्नातम्- मुष्टीकरोति वाचं यच्छति यज्ञस्य धृत्यै इति॥
॥ तद् आहुर्: न पूर्वदीक्षिणः संसवो ऽस्ति। परिग्र्̥हीतो वा एतस्य यज्ञः। परिग्र्̥हीता देवता। नैतस्यार्तिर् अस्त्य् अपरदीक्षिण एव यथा तथेति ॥
प्रकारान्तरेण मुष्टिद्वयं प्रशंसति। तत्तत्र मुष्ट्योः करने ब्रह्मवादिनः किञ्चिद्गुणमाहुः। द्वयोर्बहूनां वा यजमानानां सम्भूयसोमाभिषवः संसवः। स च महान्दोषस्तस्मिन्नेव देशे तस्मिन्नेव काले मत्सरग्रस्तैर्यजमानैः प्रवर्तितत्वात्। नद्या वा पर्वतेन वा व्यवधानरहितयोः समीपवर्तिनोः परस्परमन्त्रध्वनिसवनयोग्ययोर्देशयोः स्पर्धमानाभ्यां यजमानाभ्यां प्रवर्तितौ यौ सोमयागौ तयोरयं संसवाख्यो दोषः। तथा च सूत्रकार आह- संसवोऽनन्तर्हितेषु नद्या वा पर्वतेन वा इति। सोऽयं दोषः पूर्वदीक्षिणो नास्ति। एकस्मिन्नेव दिवसे द्वयोर्यजमानयोर्मध्ये यः पूर्वं दीक्षणीयेष्टिं करोति स पूर्वदीक्षी। एतस्य मुष्ट्योर्मध्ये यज्ञः परिगृहीतः सर्वाश्च देवताः परिगृहीताः। तदानीमितरसम्बन्धिनो यज्ञस्यप्रवृत्तत्वेन तत्र गच्छम इत्येवं यज्ञस्य देवतानां वालोचनाभावात्। पश्चाद्दीक्षणीयेष्टिं कुर्वाणस्यापरदीक्षितस्य यज्ञो देवताश्च सुलभा न भवन्ति पूर्वमन्येन यजमानेनावरुद्धत्वात्। तस्मादपरदीक्षिण आर्तियो विनाशो यथास्ति तथा पुर्वदीक्षिण आर्तिर्नैवास्ति। संवेशायत्वोपवेशाय त्वा इत्यादि मन्त्रेण येयं संसवप्रायश्चित्ताहुतिः सेयमपरदीक्षिणैव कर्तव्या न पूर्वदीक्षिणेत्यर्थः। इति शब्दो ब्रह्म वादिवचनसमात्यर्थः॥
॥ उन्मुच्य क्र्̥ष्णाजिनम् अवभ्र्̥थम् अभ्यवैति। तस्मान् मुक्ता गर्भा जरायोर् जायन्ते ॥
यदेतत्कृष्णाजिनवेष्टनं विहितं तस्यावभृथगमनात्प्रागेवोन्मोचनं विधत्ते। योनिस्थानीयाद्देवयजनदेशान्निर्गत्यावभृथगमनं गर्भरूपस्य दीक्षितस्य जन्मस्थानीयं जन्म च लोके जरायुरूपवेष्टने छिन्ने सति पश्चात्सम्पद्यते। तस्मादत्रापि जरायुस्थानीयं कृष्णाजिनमुन्मुच्य जन्म स्थानीयमवभृथदेशगमनं कुर्यात्॥
॥ सहैव वाससाभ्यवैति। तस्मात् सहैवोल्बेन कुमारो जायते ॥
कृष्णाजिनवद्वाससोऽपि प्रसक्तमुन्मोचनं वारयति। उल्बाख्यस्याभ्यन्तरवेष्टनस्य जन्मकालेऽप्यनिवृत्त्तिदर्शनादुल्बस्थानीयवस्त्रस्यावभृथगमनकालेऽप्यनुवृत्तिर्द्रष्टव्या। अथ मीमांसा। पञ्चमाध्यायस्य तृतीयपादे चिन्तितम्- इष्टिदण्डादिभिर्दीक्षा किंवेष्ट्यैवोक्तितोऽग्रिमः। युक्तः संस्कार इष्ट्यैव दण्डादिव्यञ्जकत्वतः॥ ज्योतिष्टोमे श्रूयते- आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः इति। अन्यदपि श्रुतम्- दण्डेन दीक्षयति कृष्णाजिनेन दीक्षयति इति। अत्रेष्टिवद्दण्डादीनामपि साधनत्वविधानात्सर्वैरियं दीक्षेति जेन्मैवम्। इष्टेः क्रियारूपत्वात्संस्कारहेतुत्त्वं युक्तं दण्डादस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति। न चैवं दण्डादिवैयर्थ्यं दीक्षितोऽयमित्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भावात्तस्मादिष्ट्यैव दीक्षा सिद्ध्यति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये तृतीयः खण्डः॥
अथ प्रथमाध्याये चतुर्थः खण्डः
॥ त्वम् अग्ने सप्रथा असि। सोम यास् ते मयोभुव इत्य् आज्यभागयोः पुरोनुवाक्ये अनुब्रूयाद्। यः पूर्वम् अनीजानः स्यात् तस्मै ॥
विवक्षितस्य हौत्रस्योपोद्घातत्वेन दीक्षणीयेष्टिं विधाय तां च बहुधा प्रशस्य प्रसङ्गाद्दीक्षितसंस्कारा विहिताः। अथ विवक्षितं हौत्रं विधत्ते। यो यजमान इतः पूर्वं सोमयागं न कृतवानिदानीं क्रियमाण एव प्रथमः प्रयोगस्तस्मै यजमानाय तदर्थं दीक्षणीयेष्टौ प्रथमस्याज्यभागस्य त्वमग्न इति पुरोनुवाक्या। द्वितीयस्य सोम यास्त इति पुरोनुवाक्या। तदुभयमध्वर्युणा प्रेषितो होतानुब्रूयात्॥
॥ त्वया यज्ञं वि तन्वत इति। यज्ञम् एवास्मा एतद् वितनोति ॥
उक्तस्य प्रथममन्त्रस्य प्रथमप्रयोगानुकूल्यं दर्शयति। तस्मिन्मन्त्रे त्वयेश्यादिस्तृतीयः पादस्तस्यायमर्थः। हे अग्ने क्रियमाणमस्मद्यज्ञमिममृत्विजस्त्वया त्वत्प्रसादेन वितन्वते विस्तारयन्तीति। एतदेतेन मन्त्रवचनेनास्मै यजमानाय यज्ञं वितनोत्येव पूर्वमविस्तारितमपि यज्ञमिदानीं विस्तारयन्त्येव॥
॥ अग्निः प्रत्नेन मन्मना। सोम गीर्भिष् ट्वा वयम् इति। यः पूर्वम् ईजानः स्यात् तस्मै ॥
अधिकारिविशेषेण प्रकारान्तरंविधत्ते यो यजमानः पूर्वं सोमयागं कृतवांस्तस्मै यजमानार्थं पुनः सोमयागप्रयोगे दीक्षणीयेष्टावग्निः प्रत्नेनेति प्रथमस्याज्यभागस्य पुरोनुवाक्या। सोम गीर्घिरिति द्वितीयस्य।
॥ प्रत्नम् इति पूर्वं कर्माभिवदति ॥
तत्र प्रथममन्त्रस्य पुनः प्रयोगानुकूल्यं दर्शयति। तस्मिन्मन्त्रे यत्प्रत्नमिति पदं तेन पदेन पूर्वमनुष्थितं सोमयागाख्यं कर्माभिधीयते। पुराणप्रतनप्रत्नपुरातनचिरन्तनाः इति प्रत्नशब्दस्याभिधानकारैः पुरातनपर्यायत्वाभिधानात्॥
॥ तत्-तन् नाद्र्̥त्यम् ॥
ईजानादीजानभेदेन व्यवस्थितं यन्मन्त्रचतुष्टयमुक्तं सोऽयं पूर्वः पक्श इत्यभिप्रेत्य दूषयति। तत्र दीक्षणीयेष्टिगतयोराज्यभागयोस्त्वमग्न इत्यादिकमनुब्रूयादिति यन्मतमस्ति तन्मतं नादरणीयम्॥
॥ अग्निर् व्र्̥त्राणि जङ्घनत्। त्वं सोमासि सत्पतिर् इति वार्त्रघ्नाव् एव कुर्याद् ॥
किं तर्ह्यादरणीयमित्याशङ्क्याह। वृत्रं शत्रुं हन्तीति वृत्रहा। वृत्रघ्नः सम्बन्धिनौ मन्त्रौ वार्त्रघ्नौ। वृत्राणि जङ्घनदिति तल्लिङ्गात्तत्सम्बन्धित्वम्। अग्निर्वृत्राणीति प्रथमस्याज्यभागस्य पुरोनुवाक्या त्वं सोमासीति द्वितीयस्य॥
॥ व्र्̥त्रं वा एष हन्ति यं यज्ञ उपनमति। तस्माद् वार्त्रघ्नाव् एव कर्तव्याव् ॥
एतयोर्मन्त्रयोरानुकूल्यं दर्शयति। यं यजमानं यज्ञ उपनमति सोमयागे प्रेरयति एष यजमानो वृत्रं पापरूपं शत्रुं हन्त्येव तस्मात्कारणाद्वृत्रहत्यासम्बन्धिनावेव मन्त्रौ कर्तव्यौ। यथा प्रथममन्त्रे वृत्राणि जङ्घनदिति लिङ्गमस्ति तथा द्वितीयेऽपि त्वं राजोत वृत्रहेति लिङ्गं विद्यते। तस्मादुभयोरपि तत्सम्बन्धित्वं पूर्वोक्तयोस्तु पक्षयोर्वि तन्वते प्रत्नमित्यानुकूल्यलिङ्गं प्रथमयोरेव मन्त्रयोर्दृश्यते न तूत्तरयोस्तस्मात्तन्नादरणीयमिति दूषयित्वोभयलिङ्गसद्भावादयं पक्षः स्वीकृतः॥
॥ अग्निर् मुखम् प्रथमो देवतानाम्। अग्निश् च विष्णो तप उत्तमम् मह इत्य् आग्नावैष्णवस्य हविषो याज्यानुवाक्ये भवत ॥
आज्यभागरूपेऽङ्गकर्मणि पुरोनुवाक्यायुग्मं विधाय प्रधानकर्मणि हविषि यज्यानुवाक्ये विधत्ते। प्रथमनिर्दिष्टत्वादग्निर्मुखमित्येषा पुरोनुवाक्या पश्चान्निर्दिष्टत्वादग्निश्चेति याज्या। यद्यप्यर्थानुसारेणानुवाक्यायाज्ये भवत इति विधातव्यं तथाप्यल्पाच् तरमिति व्याकरणसूत्रानुसारेण याज्याशब्दस्य पूर्वनिपातो द्रष्टव्यः॥
॥ आग्नावैष्णव्यौ रूपसमृद्धे॥ एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं। यत् कर्म क्रियमाणम् र्̥ग् अभिवदति॥
तयोऋचोः कर्मानुकूल्यं दर्शयति। अग्निश्च विष्णुश्च ययोऋचोः प्रतिपाद्ये देवते भवतस्ते उभे ऋचावाग्नावैष्णव्यौ। ते च कर्मानुकूल्येन रूपेण समृद्धे। न च रूपसमृद्धं वैयर्थ्यं शङ्कनीयम्। कर्मणो यदङ्गं रूपसमृद्धं भवत्येतदेव यज्ञस्याङ्गेषु समृद्धं सम्पूर्णं न तु तस्मिन्किञ्चिदपि वैकल्यमस्ति। केयं रूपसमृद्धमिति चेत्। पठ्यमानेयमृगनुष्ठीयमानं कर्माभिवदति साकल्येन ब्रवीतीति यदस्ति एषैव रूपसमृद्धिः॥
॥ अग्निश् च ह वै विष्णुश् च देवानां दीक्षापालौ। तौ दीक्षाया ईशाते॥ तद् यद् आग्नावैष्णवं हविर् भवति यौ दीक्षाया ईशाते तौ प्रीतौ दीक्षाम् प्रयछतां। यौ दीक्षयितारौ तौ दीक्षयेताम् इति ॥
मन्त्रप्रतिपाद्यदेवताप्रशंसाद्वारेण पुनरपि मन्त्रौ प्रशंसति। योऽयजमग्निः सर्वेषां देवानां प्रथमो यश्च विष्णुः सर्वेषामुत्तमस्तावुभौ देवानां मध्ये दीक्षाख्यस्य च व्रतस्य पालयितारौ तावुभौ दीक्षाया ईशाते स्वामिनौ भवतस्तस्मात्तयोर्दीक्षापालकत्वं युक्तम्। तथा सति यद्यग्नाविष्णुदेवताकं हविर्दीक्शणीयेष्टौ भवति तदानीं यौ दीक्षायाः स्वामिनौ देवौ तौ प्रीतौ यजमानाय दीक्षां प्रयच्छताम्। उक्तस्यैव व्याख्यानं यौ दीक्शयितारावित्यादिकम्। इतिशब्दोऽभिप्रायपरामर्शार्थः। अनेनाभिप्रेयेणाग्नावैष्णवं हविः क्रियते। तस्मान्मन्त्रप्रतिपाद्यावग्ना विष्णू प्रशस्तावित्यर्थः॥
॥ त्रिष्टुभौ भवतः सेन्द्रियत्वाय ॥
मन्त्रगतं छन्दः प्रशंसति। त्रिष्टुप् छन्दस इन्द्रियसाधनत्वेनेन्द्रियरूपत्वं श्रुत्यन्तरे श्रुतम्- इन्द्रियं वै त्रिष्टुप् इति। अतो मन्त्रगतं छन्दो यजमानस्य सेन्द्रियत्वाय भवति। अथ मीमांसा। द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्- पुरोनुवाक्या याज्या विकल्प्या वा समुच्चिता। पुरेवाद्यः समाख्यानाद्वचनाच्च समुच्चयः॥ देवताप्रकाशनकार्यस्यैकत्वाद्युग्मयोर्यथा विकल्पस्तथैवकयुग्मगतयोरिति चेन्मैवम्। पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः। किञ्च पुरोनुवाक्यामनूच्य याज्यया जुहोतीति प्रत्यक्षवचनेन देवतोपलक्षणहविः प्रकाशनकार्यभेदोक्ति पुरस्सरं साहित्यं विधीयते तस्मात्समुच्चयः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये चतुर्थः खण्डः॥
॥ प्रथमाध्ये पञ्चमः खण्डः॥
॥ गायत्र्यौ स्विष्टक्र्̥तः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ॥
प्रधानस्य हविषो याज्यानुवाक्ये विधाय स्विष्टकृद्रूपस्य यागस्य फलविशेषाय छन्दोविशेषयुक्ते याज्यानुवाक्ये विधातुकमः प्रथमं द्वे ऋचौ विधत्ते। स हव्यवाळमर्त्य (ऋ. सं. ३-११-२) इत्येका गायत्री। अग्निर्होता पुरोहित (ऋ. सं. ३-११-१) इत्यपरा गायत्री। ते उभे स्विष्टकृद्यागस्य संयाज्ये कुर्यात्। कीदृशोऽधिकारी। तेजः शरीरकान्तिः। ब्रह्मवर्चसं श्रुताध्ययनसम्पत्तिः। तदुभयकामोऽत्राधिकारी। संयाज्याशब्दार्थमाश्वलायन आह- स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात् इति स्विष्टकृत्सम्बन्धिनौ याज्यानुवाक्ये इत्यर्थः॥
॥ तेजो वै ब्रह्मवर्चसं गायत्री ॥
गायत्र्या उक्तफलसाधनत्वमुपपादयति। तत्सवितुर्वरेण्य (ऋ. सं. ३-६२-१०) मित्यस्यामृचि यद्गायत्रीछन्दस्तस्य तेजोब्रह्मवर्चससाधनत्वेन तद्रूपत्वं लोके प्रसिद्धं। स्नानधौतवस्त्रदर्भतिलकधारण पुरस्सरं गायत्रीं जपतो ब्राह्मणस्य देहे काचिदाकारशोभा दृश्यते तदितं तेजः। स च जपिता वेदमधीते तदर्थं च शृणोति तदिदं ब्रह्मवर्चसम्॥
॥ तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् गायत्र्यौ कुरुते॥
वेदनपुरस्सरमनुष्ठातुः फलं दर्शयति। यद्यपि विधिवाक्येऽनुष्ठानमात्रात्फलमुक्तं तथापि वेदनपूर्वकानुष्ठाने तस्मिन्नेव फले कश्चिदतिशयो द्रष्टव्यः॥
॥ उष्णिहाव् आयुष्कामः कुर्वीत ॥
फलान्तराय छन्दोत्तरं विधत्ते। अग्ने वाजस्यगोमत (ऋ. सं. १-७९-४) इत्येकोष्णिक्। स इधानो वसुष्कवि (ऋ. सं. १-७९-५) रित्यपरा। ते उभे शतसंवत्सरपर्यन्तायुष्कामः कुर्वीत॥
॥ आयुर् वा उष्णिक्॥ सर्वम् आयुर् एति य एवं विद्वान् उष्णिहौ कुरुते ॥
गायत्र्या अप्यक्षरचतुष्टयेनोष्णिक् छन्दसोऽधिकत्वादायुर्वृद्धिहेतुत्वं युक्तमित्यभित्रेत्योष्णिक्गयुषोरभेदमाह। पूर्ववद्वेदनं प्रशंसति॥
॥ आनुष्टुभौ स्वर्गकामः कुर्वीत ॥
फलान्तराय छन्दोन्तरम् विधत्ते। त्वमग्ने वसू (ऋ. सं १-४५-१) निति द्वे अनुष्टुभौ॥
॥ द्वयोर् वा अनुष्तुभोश् चतुःषष्टिर् अक्षराणि। त्रय इम ऊर्ध्वा एकविंशा लोका; एकविंशत्यैकविंशत्यैवेमाम्̐ल् लोकान् रोहति। स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति प्रतितिष्ठति य एवं विद्वान् अनुष्टुभौ कुरुते ॥
अनुष्टुभोः स्वर्गहेतुत्वमुपपादयति। श्रुत्यन्तरे द्वात्रिंशदक्षरानुष्टुबित्यभिधानाद्द्वयोरनुष्टुभोर्मिलित्वा चतुःषष्टिसङ्ख्याकान्यक्षराणि सम्पद्यन्ते। इमे पृथिव्यन्तरिक्षस्वर्गरूपा एकैकस्मादूर्ध्वत्वेन वर्तमानाः प्रत्येकमेकविंशत्यवयवसमूहरूपा लोकास्त्रयो विद्यन्ते। तेष्वेकैकं लोकमेकैकाक्षरगतयैकविंशतिसङ्ख्यया यजमान आरोहति। अन्तिमेन चतुःषष्टितमेनाक्षरेण तृतीये स्वर्ग एव लोके यजमानः प्रतितिष्ठति स्थिरोऽवतिष्ठते। वेदनं प्रशंसति॥
॥ ब्र्̥हत्यौ श्रीकामो यशस्कामः कुर्वीत ॥
फलान्तराय छन्दोन्तरं विधत्ते। श्रीर्धनधान्यादिसम्पत्तिः। यशः सत्कुलदानादिजन्या कीर्तिः। एना वो अग्नि (सु. सं. ७-१६-१) मिति द्वे बृहत्यौ।
॥ श्रीर् वै यशश् छन्दसाम् ब्र्̥हती श्रियम् एव यश आत्मन् धत्ते य एवं विद्वान् ब्र्̥हत्यौ कुरुते॥
श्रीयशसोः कारणत्वेन बृहत्यास्तदुभयरूपत्वं दर्शयति। गायत्र्यादीनां छन्दसां मध्ये या बृहती सैव श्रीरूपा यशोरूपा च। सर्वेषां छन्दसां पशुसम्पादनमात्सर्ये सति बृहत्या विजयमाप्तायाः पशुरूपत्वाच्छ्रीरूपत्वम्। तथा च तैत्तिरीया आमनन्ति- छन्दांसि पशुष्वाजिमयुस्तान्बृहत्युदजयत्तस्माद्बार्हताः पशव उच्यन्त इति। इतरच्छन्दोभिराश्रितत्वादपि श्रीरूपत्वं त एवामनन्ति- यानि च छन्दाग् स्यत्यरिच्यन्त। यानि च् नोदभवन्। तानि निर्वीर्याणि हीनान्यमन्यन्त। साब्रवीद्बृहतीं। मामेव भूत्वा मामुपसग्ग् श्रयत इति। मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहतीति। मध्यत्वेन प्रशंसनाद्यशोरूपत्वमपि द्रष्टव्यम्। वेदनं प्रशंसति। एवकारः श्रीयशसोः समुच्चयार्थः॥
॥ पङ्क्ती यज्ञकामः कुर्वीत पाङ्क्तो वै यज्ञ उपैनं यज्ञो नमति य एवं विद्वान् पङ्क्ती कुरुते॥
अहीनसत्त्राद्युत्तरयज्ञप्राप्तिकामस्य छन्दोन्तरं विधत्ते। अग्नि तं मन्य (ऋ. सं. ५-६-१) इति द्वे पङ्क्ती। यज्ञस्य पङ्क्तिसम्बन्धित्वं दर्शयति। वैशब्दो वक्ष्यमानबहुविधपाङ्क्तत्वप्रसिद्धिप्रदशनार्थः। वेदनं प्रशंसति।।
॥ त्रिष्टुभौ वीर्यकामः कुर्वीतौऽजो वा इन्द्रियं वीर्यं त्रिष्टुब् ओजस्वीन्द्रियवान् वीर्यवान् भवति य एवं विद्वांस् त्रिष्टुभौ कुरुते॥
वीर्यप्राप्त्यर्थं छन्दोन्तरं विधत्ते। द्वे विरूपे चरत (ऋ. सं. १-६५-१) इति द्वे त्रिष्टुभौ। त्रिष्टुप् छन्दसो वीर्यसाधनत्वेन तद्रूपत्वं दर्शयति। वीर्यं शरीरबलम्। तच्चौजस इन्द्रियस्य चोपलक्षणम्। ओजो बलहेतुरष्टमो धातुः। इन्द्रियं चक्षुरादिपाटवम्। वेदनं प्रशंसति॥
॥ जगत्यौ पशुकामः कुर्वीत जागता वै पशवः पशुमान् भवति य एवं विद्वाञ् जगत्यौ कुरुते॥
गवादिपशुप्राप्तये छन्दोन्तरं विधत्ते। जनस्य गोपा (ऋ. सं.-५-११-१) इति द्वे जगत्यौ। पशूनां जगतीछन्दःसाध्यत्वेन तत्सम्बन्धं दर्शयति। वेदनं प्रशंसति॥
॥विराजाव् अन्नाद्यकामः कुर्वीताऽन्नं वै विराट्॥
अत्तुं योग्यमन्नं कामयमानस्य छन्दोन्तरं विधत्ते। प्रेद्धो अग्न ( ऋ. सं. ७-१-३) इमो अग्न (ऋ. सं. ७-१-१८) इति द्वे विराजौ। अन्नस्य विराजनहेत्वेन विराड्रूपत्वमाह॥
॥तस्माद् यस्यैवेह भूयिष्ठम् अन्नम् भवति स एव भूयिष्ठं लोके विराजति। तद् विराजो विराट्त्वं॥
तदेव स्पष्टयति। यस्मादन्नस्य विराजनहेतुत्वं तस्मात्कारणादिह लोके यस्यैव पुरुषस्यान्नंप्रभुतं भवति स एव जनमध्येऽत्यन्तं शोभते तस्माद्विराजत्यनेनेति व्युत्पत्त्या विराट्शब्दो नोष्पन्नेः॥
॥ वि स्वेषु राजति। श्रेष्ठः स्वानाम् भवति य एवं वेद॥
वेदनं प्रशंसति। यः पुमान्विराजो महिमानं वेत्ति स पुमान्स्वकीयेषु ज्ञातिषु मध्ये विशेषेण राजति लौकिकसामर्थ्येन शोभते। तथा स्वीयानां ज्ञातीनां मध्ये वृत्तविद्याविनयादिभिः श्रेष्ठो भवति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये पञ्चमः खण्डः॥
॥ प्रथमाध्ये षष्ठः खण्डः॥
॥अथो पञ्चवीर्यं वा एतच् छन्दो यद्विराट्॥
काम्ये संयाज्ये नानाविधे विधाय नित्ये संयाज्ये विधातुं विराट्छंदः प्रशंसति। अथो काम्य संयाज्या कथनानंतरं नित्ये संयाज्ये कथ्येते इति श्रेषः | विराडाख्यं यच्छंदोऽस्ति एतच्छंदः पंचविधवीर्योपेतत्वेन प्रसिद्धं ॥
॥यत् त्रिपदा तेनोष्णिहागायत्र्यौ। यद् अस्या एकादशाक्षराणि पदानि तेन त्रिष्टुब्। यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुम्॥ न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां॥ यद् विराट् तत् पञ्चमं॥
तदेव विस्पष्टयति । यस्मात्कारणादियं विराट् पादत्रयोपेता तेनॆ कारणेनोष्णि ग्रूपा गायत्रीरूपा च भवति तयोरपि पादत्रयोपेतत्वेन समत्वादतस्तयोरुभयोर्वीर्यं विराज्यस्ति । यस्मात्कारणादस्या विराजः पादा एकादशाक्षरोपेतास्तेन कारणेनेयं त्रिष्टुब्रूपा भवति तदीयं वीर्यं प्राप्नोति । यस्मात्कारणादियं त्रयस्त्रिंशदक्ष रोपेता तेन कारणेनानुष्टुब्रूपा तदीयं वीर्यं प्राप्नोति । यद्यप्यनुष्टुप्द्वात्रिं शदक्षरा तथाप्येकेनाक्षरेण न्यूनेनाधिकेन वा छंदांसि नैव नश्यंति । तथा द्वाभ्यामक्षराभ्यां न्यूनाभ्यामधिकाभ्यां वा न नश्यंति । एको हि दोषो गुणसंनिपाते निमज्ज तींदोः किरणेष्टिवांकः इति न्यायात् । ननु त्रिंशदक्षरा विराडिति श्रूयते तत्र प्रेद्धो अग्न इत्यस्यामृचि एकोनत्रिंशदक्षराणीमो अग्न इत्यस्यामृचि द्वात्रिंशदक्षराण्यतस्तयोर्न विराट्त्वमिति चेन्मैवं । न वा एकेनाक्षरेणेति वाक्येनैव परिहृतत्वात् । यस्माद्विराट्तस्मादेतदीयं पंचमं वीर्यमस्ति ।
॥सर्वेषां छन्दसां वीर्यम् अवरुन्द्धे। सर्वेषां छन्दसां वीर्यम् अश्नुते। सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकताम् अश्नुते। ऽन्नादो ऽन्नपतिर् भवत्य्। अश्नुते प्रजयान्नाद्यं य एवं विद्वान् विराजौ कुरुते॥
एवंविधविराड्वेदनं प्रशंसति । गायत्र्युष्णिक् त्रिष्टुबनुष्टुब्विरा ड्रूपाणां सर्वेषां छंदसां यत्सामर्थ्यमस्ति तदयं वेदितावरुंधेऽभि-मुखी करोति । कृत्वा चाश्नुते प्राप्नोति । तथा सर्वछंदोभिमानिदेवानां सायुज्यं सहभावं सरूपतां समानरूपत्वं सलोकतामेकस्थाननिवासं च प्राप्नोति । अन्नादोऽन्न भक्षणसमर्थो नीरोगः । अन्न पतिर्बह्वन्न स्वामी भवति न केवलं स्वयमेव किंतु स्वकीयया पुत्रादिप्रजया सहान्न्नाद्य मश्नुते ।
॥तस्माद् विराजाव् एव कर्तव्ये प्रेद्धो अग्न। इमो अग्न इत्य् एते॥
इत्थं छंदः प्रशस्येदानीं विधत्ते । यस्माद्विराजो ह्युक्तमहिमास्ति तस्मादित्यर्थः । तयोः प्रतीकद्वयं दर्शयति ।
॥र्̥तं वाव दीक्षा सत्यं दीक्षा। तस्माद् दीक्षितेन सत्यम् एव वदितव्यम्॥
इत्थं दीक्षणेयेष्टौ स्विष्टकृतः संयाज्ये विधाय दीक्षितस्य सत्यवदनं विधत्ते । मनसा यथा वस्तुचिंतनमृतशब्दाभिधेयं वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयं तदुभयात्मिका दीक्षा तद्वैकल्ये विनश्यति । यस्मादेवं। तस्माद्दीक्षितेन सत्यमेव वदितव्यं न तु किंचिदप्यनृतं वदेत् ।
॥अथो खल्व् आहुः को ऽर्हति मनुष्यः सर्वं सत्यं वदितुं; सत्यसंहिता वै देवा। अन्र्̥तसंहिता मनुष्या इति॥
तदशक्याभिधानमित्यभिप्रेत्यानुजिघृक्षया प्रकारांतरं विधातुं प्रस्तौति । प्रकारांतरप्रारंभार्थोऽयमथोशब्दः । ब्रह्मवादिन एवमाहुः खलु मनुष्यः को नाम सर्वं वाक्यं सत्यं वदितुमर्हति न कश्चिदपि तथा कर्तुं शक्नोति । देवा एव सत्यसंहिताः सत्ये तात्पर्यवंतः । मनुष्यास्तु प्रायेणानृते तात्पर्ययुक्ताः । इतिशब्दो ब्रह्मवादिवचनसमाप्त्यर्थः ।
॥विचक्षणवतीं वाचं वदेत॥
तदानीं सत्यवदनफलसिद्ध्यर्थं प्रकारांतरं विधत्ते । विचक्षणेत्यक्षर-चतुष्वयात्म कोऽनयं मंत्रस्तद्युक्तं वाक्यं प्रयुंजीत । देवदत्त विचक्षण गामानय युज्ञ दत्त विचक्षण गां बधानेत्येवं तत्प्रयोगः । यदाहापस्तंबः-चनसित विचक्षण इति नामधेयांतेषु दधाति चनसितेति ब्राह्मणं विचक्षणेति राजन्यवैश्यौ इति ।
॥चक्षुर् वै विचक्षणं। वि ह्य् एनेन पश्यती॥
विचश्षणेति मंत्रस्य सत्यवदनपूर्तिहेतुत्वं प्रतिपादयति । चक्षुरिंद्रि यमेव विचक्षणशब्दवाच्यंतदेव स्पष्टीक्रियशे । चक्षिज् दर्शने इत्यस्माद्धा-तोरयं शब्दो निष्पन्नः । तथा सति विशेषेण वस्तुतत्त्वमेनेनाचष्टे पश्यतीति विचक्षणं नेत्रं । तस्मा च्चक्षुर्विचक्षणमिति पर्यायौ । उक्तनिर्वचनप्रदर्शनार्थ इतिशब्दः ।
॥एतद् ध वै मनुष्येषु सत्यं निहितं यच् चक्षुः॥
अस्त्वेवं तयोः पर्यायित्वं कथमेतावता सत्यसंपूर्तिसिद्धिरित्याशंक्याह - प्रत्यक्षानुमानादिप्रमाणानां मध्ये प्रत्यक्ष प्रमितिसाधनं यच्चक्षुरिंद्रियमस्ति एतदेव मनुष्येषु सर्वेषु सत्यं निहितं यथावस्तु ज्ञानसाधनत्वेनाभिमतं तस्माच्च क्षुष्पर्यायविचक्षणशब्द प्रयोगेण सत्यसंपूर्तिर्भवति ।
॥तस्माद् आचक्षाणम् आहुर्: अद्राग् इति॥ स यद्य् अदर्शम् इत्य् आहाथास्य श्रद् दधति॥ यद्य् उ वै स्वयम् पश्यति। न बहूनां चनान्येषां श्रद् दधाति॥
अन्वयव्यतिरेकाभ्यां चक्षुषो यथावस्तुदर्शनसाधनत्वं साधयति । यस्माच्चक्षुषस्तत्त्वदर्शनहेतुत्वं मनुष्याणामभिप्रेतं तस्माल्लोके सभायामागत्य कांचिद्वार्तामाचक्षाणं पुरुषं प्रति सभ्या एवमाहुरद्रागिति किंत्वेवमेवाद्राक्षीरित्यर्थः । स च पुरुषो यद्यहमेवाद्राक्षमिति ब्रूयात्तदास्य वचनं सत्यमिति सभ्याः सर्वे श्रद्धधति विश्वासं कुर्वंति । तदिदमेकमुदाहरणं । यद्यु वा इत्ययं निपातसमूह उदाहरणांतरप्रदर्शनार्थः । अथवा कश्चित्पुमान्स्वयमेव चक्षुषा स्कंधमूलाद्युपेतं स्थाणुं पश्यति । आन्ये बहवः पुरुषा दूरवर्तिनोऽपश्यंतः पुरुषोऽयमित्याचक्षते-चनशब्दोऽपिशब्दार्थः । बहूनामनप्यन्येषां वचनमयं पुरुषो न श्रद्दधाति किंतु स्वकीयं चाक्षुषं दर्शनमेव श्रद्दधाति । वाजसनेयिनोऽप्या मनंति-द्वौ विवदमानावेवायातावदमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दधीत इति । तैत्तिरीयाश्चामनंति-आनृतं वै वाचावदति । आनृतं मनसा ध्यायति । चक्षुर्वै सत्यं आद्रागित्याद । अहमदर्शमिति । तत्सत्यं । इति ॥
॥तस्माद् विचक्षणवतीम् एव वाचं वदेत्। सत्योत्तरा हैवास्य वाग् उदिता भवति भवति॥
तथाविधचक्षुः पर्यायस्य विचक्षणशब्दस्य सत्यसंपूर्तिहेतुत्वमुप पाद्य पूर्वोक्तं विधिमुपसंहरति । अस्य विचक्षणशब्दोपेतवचनवादिनो या वागस्ति सा सत्योत्तरा स्वरूपेणानृतापि विचक्षणेतिमंत्रसामर्थ्येन सत्यभूयिष्ठैव भवति । अनृतदोषो न स्पृशतीत्यर्थः । भवतिशब्दस्याभ्यासोऽध्यायसमाप्त्यर्थः ।
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य प्रथमाध्ये षष्ठः खण्डः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक वीरबुक्कण सम्राज्यधुरन्धर सायणाचार्य कृतावैतरेय ब्राह्मणभाष्ये प्रथमोध्यायः॥
॥ अथैतरेयब्राह्मणे द्वितीयाध्याये प्रथमः खण्डः॥
॥स्वर्गं वा एतेन लोकम् उप प्रयन्ति यत् प्रायणीयस्। तत् प्रायणीयस्य प्रायणीयत्वम् ॥ प्रथमे दीक्षणीयेष्टिस्तत्स्तुतिस्तत्र संस्कृतिः। याज्यानुवाक्ये संयाज्याः सत्योक्तिश्चेति वर्णिताः॥
अथ प्रयणीयादिकं विधातुं द्वितीयोऽध्याय आरभ्यते। तत्रादौ प्रायणीयशब्दार्थं वदति। प्रायणीयाख्यो यः कर्मविशेषोऽस्त्येतेन यजमानाः स्वर्गं लोकं सामिप्येन प्राप्नुवन्ति। तस्मात्प्रयन्त्यनेनेति व्युत्पत्त्या तत्प्रायणीयनाम सम्पन्नम्॥
॥प्राणो वै प्रायणीय। उदान उदयनीयः। समानो होता भवति। समानौ हि प्राणोदानौ। प्राणानां कॢप्त्यै प्राणानाम् प्रतिप्रज्ञात्यै॥
अथ विधास्यमानौ प्रायणीयोदयनीयाख्यौ कर्मविशेषौ स्तस्तौ सह प्रशंसति। प्राणवायोः प्रायणीयकर्मणश्च प्रशब्दसाम्यादभेदः। उदानवायोरुदयनीयकर्मणश्चोच्छब्दसाम्यादभेदः। किञ्च प्रायणीईयोदयनीययोः कर्मणोर्याज्यानुवाक्यादिप्रयोगार्थमेक एव होता भवति। प्राणोदानवायू चैकदेहवर्तित्वादेकेन होत्रानुष्ठेयाभ्यां कर्मभ्यां समानानतो वायुविशेषयोश्चाभेदः। तच्च कर्मद्वयानुष्थानं प्राणवायूनं क्ल् प्त्यै स्वस्वव्यापारसामर्थ्याय भवति। तथा प्राणवायूनां प्रत्येकमयं प्रणोऽयमुदान इत्यादिविशेषस्य प्रज्ञानाय भवति। तस्मात्कर्मद्वयं प्रशस्तमित्यर्थः॥
॥यज्ञो वै देवेभ्य उदक्रामत्। ते देवा न किं चनाशक्नुवन् कर्तुं न प्राजानंस्॥ ते ऽब्रुवन्न् अदितिं: त्वयेमं यज्ञम् प्रजानामेति॥ सा तथेत्य् अब्रवीत्। सा वै वो वरं व्र्̥णा इति॥ व्र्̥णीष्वेति॥ सैतम् एव वरम् अव्र्̥णीत: मत्प्रायणा यज्ञाः सन्तु मदुदयना इति॥ तथेति॥ तस्माद् आदित्यश् चरुः प्रायणीयो भवत्य् आदित्य उदयनीयो। वरव्र्̥तो ह्य् अस्या॥
अथ देवताविशेषविधानायाख्यायिकामुप्रक्रमते। योऽयं यज्ञः सोमयागाभिमानी पुरुषः सोऽयं केनापि निमित्तेनापरक्तः सन्देवसकाशादुत्क्रम्य गतवान्। यज्ञपुरुषे गते सति ते देवाः किमपि यज्ञाङ्गं कर्तुं शक्तिरहितास्तदभिज्ञारहिताश्चाभवन्। ततस्ते सर्वे समागत्यादितिं प्रार्थितवन्तो हे अदिते त्वत्प्रसादेन वयमिमं यज्ञं कर्तुं ज्ञातुं च शक्ता भूयास्मेति। ततोऽदितिरङ्गीकृत्य ज्ञापयितुमुक्ता चरुरूपेणैतमं परमवृणीत ये सोमयागास्ते सर्वे मत्प्रयणा मदुपक्रमा मदुदयना मदवसानाश्च सन्त्विति तस्य वरस्य देवैरङ्गीकृतत्वात्प्रायणीयः प्रारम्भकालीनेष्टिगतश्चरुरदितिदेवताकः कर्तव्य उदयनीय़ः समाप्तिकालीनोऽपि चरुरदितिदेवताकः कर्तव्यः। यस्मादस्या अदितेस्तादृशश्चरुर्वरेण प्रार्थितस्तस्मात्तथानुष्ठानं युक्तम्। तमिममर्थं तैत्तिरीयाश्चामनन्ति देवा वै देवयजनमध्यवसाय दिशो न प्राजानंस्तेऽन्योन्यमुपाधावंस्त्वया प्रजानाम त्वयेति तेऽदित्याग्ं समध्रियन्त त्वया प्रजानामेति साब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना आसन्निति रस्मादादित्यः प्रायणीयो यज्ञानामादित्यः उदयनीयः इति॥
॥अथो एतं वरम् अव्र्̥णीत: मयैव प्राचीं दिशम् प्रजानाथाग्निना दक्षिणां। सोमेन प्रतीचीं। सवित्रोदीचीम् इति॥
अदितेर्वरान्तरं दर्शयति। अथो अपि चेत्यर्थः। मयेत्यादिना वरः प्रपञ्च्यते। हे देवा यूयमिदं देवयजनं समीचीनमित्येवं बहुधा विचारयंस्तस्तदर्थं बहुषु देशेषु पर्यटन्तो दिग्भ्रमं प्राप्यप्राच्यादिदिशं न ज्ञातवन्तोऽतो भवतां दिग्विशेषज्ञापनायाहमग्निः सोमः सविता चेत्येते चत्वारश्चतुर्षु देशेष्ववस्थिताः। तथासति यत्राहमस्मि सा प्राची दिगित्येवं मय्यैव प्राचीं दिशं बुध्यध्वम्। एवमग्न्यादिभिर्दक्षिणादयस्त्रिस्तो दिशो बोद्धव्याः। इत्येष द्वितीयो वरः। एते देवा अनेन चरुणा तत्र यष्टुं योग्या इति तात्पर्यार्थः॥
॥पथ्यां यजति॥
तत्र प्रथमं यगं विधत्ते। पथ्येति देवतायानामधेयं। यद्यपि शाखान्तरे- पथ्याग् स्वस्तिं यजति प्राचीमेव तया दिशं प्रजानाति इति पथ्या स्वस्तिरित्येतावन्नामधेयमाम्नातं तथापि भीमशब्दवन्नामैकदेशेनात्र व्यवहारः। ननु पूर्वत्र मय्यैव प्राचीं दिशं प्रजानाथेत्यदितेर्वाक्यमाम्नातमिह तु पथ्यां यजतीत्युक्तौ पूर्वापरविरोध इति चेन्नायं दोषः। अदितिदेवताया एव पथ्याख्यं मूर्त्यन्तरमिति वक्तुं शक्यत्वात्।
॥पथ्यां यजति यत् पथ्यां यजति। तस्माद् असौ पुर उदेति। पश्चास्तम् एति; पथ्यां ह्य् एषो ऽनुसंचरति॥
उक्तं विधिमनूद्य प्रशंसति। यद्यस्मात्कारणात्पूर्वस्यां दिश्यवस्थितां पथ्यां देवतां यजति तस्मात्कारणादसावादित्यः पुरः पूर्वस्यां दिश्युदेति पश्चात्पश्चिमायां दिश्यस्तमेति। हि यस्मात्कारणादेश आदित्यः पथ्याख्यां देवतामनुसृत्य सञ्चरति तस्मात्पुर्वापरयोरुदयास्तमयावुपपन्नौ। न च पूर्वदिशह् पथ्यासम्बन्धेऽपि पश्चिमदिशः स नास्तीति वाच्यम्। उदयनीयायां पश्चिमदिशि पथ्याया यक्ष्यमाणत्वात्। द्वयोर्दिशोस्तत्सम्बन्धे सति आदित्यस्य तदनुसञ्चारो युक्तः। दक्षिणदिग्वर्तिनोऽग्नेर्यागं विधत्ते॥
॥अग्निं यजति यद् अग्निं यजति। तस्माद् दक्षिणतो ऽग्र ओषधयःपच्यमाना आयन्त्य्। आग्नेय्यो ह्य् ओषधयः॥
तं विधिमनूद्य प्रशंसति। यस्मादत्र देवानां दिग्विशेषज्ञापनाय दक्षिणस्यां दिश्यवस्थितमग्निं यजति तस्मात्कारणाद्विंध्यपर्वतस्य दक्षिणभागे व्रीह्याद्योषधयोऽग्रे पच्यमाना आयन्ति तत्तत्स्वामिगृहे ष्वागच्छन्ति। विन्ध्यस्योत्तरभागे यवगोधूमचणकादिधान्य प्राचुर्यम्। तानि च धान्यानि माघ फाल्गुनयोः पच्यन्त इति पश्चाद्भावीनि। दक्षिणदिग्भागे तु यवादिप्राचुर्याभावात्। प्राचुर्याणि च व्रीह्यादीनीति कार्तिकमार्गशीर्षयोः पच्यमानत्वादग्रे पाकोऽभिहितः। हि यस्मात्कारणादोषधय आग्नेय्य आसां पाकस्याग्न्यधीनत्वात्। यथौदनरूपेण बाह्यपाकोऽग्न्यधीन एवं बीजरूपेण सस्यपाकोऽपि तदन्तर्वर्त्यग्न्यधीन इति द्रष्टव्यम्। तस्मादग्निसंबन्धिन्यां दक्षिणस्यां दिश्यग्रे पाको युक्तः॥
॥सोमं यजति यत् सोमं यजति। तस्मात् प्रतीच्यो ऽप्य् आपो बह्व्यः स्यन्दन्ते। सौम्या ह्य् आपः॥
पश्चिमदिश्यवस्थितस्य सोमस्य यागं विधत्ते। तं विधिमनूद्य प्रशंसति। यस्मादापः सोनुसम्बन्धिन्यः सोमस्यामृतकिरणत्वात्तस्माद्बह्व्य आपः प्रतीच्योऽपि प्रत्यङ्मुख्योऽपि सत्यः स्यन्दन्ते। पश्चिमसमुद्रसमीपे प्रवहन्तीनां नदीनां पश्चिमाभिमुखत्वदर्शनात्। सोमस्यात्र पश्चिमदिश्यवस्थितत्वेन तदीयानामपां तन्मुखत्वं युक्तम्॥
॥ सवितारम् यजति यत् सवितारं यजति। तस्माद् उत्तरतः पश्चाद् अयम् भूयिष्ठम् पवमानः पवते। सवित्र्̥प्रसूतो ह्य् एष एतत् पवत॥
उत्तरदिश्यवस्थितस्य सवितुर्यागं विधत्ते। तं विधिमनूद्य प्रशंसति। सविता प्रेरको देवः सोऽत्र यस्मादुत्तरस्यां दिश्यवतिष्ठते तस्मात्तेन सवित्रा प्रेरितो वायुरुत्तरपश्चिमयोरन्तरालवर्तिन्यां वायव्यां दिशि भूयिष्थं पवतेऽथधिकं सञ्चरति॥
॥उत्तमाम् अदितिं यजति यद् उत्तमाम् अदितिं यजति। तस्माद् असाव् इमां व्र्̥ष्ट्याभ्युनत्त्य् अभिजिघ्रति॥
ऊर्ध्वदिग्वर्तिन्या अदितेर्यागं विधत्ते। उत्तमां मूर्धावस्थितामित्यर्थः। अत एव तैत्तिरीया आमनन्ति- पथ्यां स्वस्तिमयजन्प्राचीमेवतया दिशं प्रजानन्नग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमदित्योर्ध्वां इति। उक्तं विधिमनूद्यप्रशम्सति। यस्मादूर्ध्वदिग्वर्तिनां तस्मादूर्ध्वदिग्वर्तिनां द्यौरिमामधोवर्तिनीं स्वकीयया वृष्ट्याभ्युनत्ति सर्वतः क्लेदयति। पुनरपि घर्मकालेऽभिजिघ्रति भूमिगतं रसमाभिमुख्येनादत्ते। अत्र पथ्यादीनां चतसृणां देवतानामाज्येन यागः। अदितेस्तु चरुणेति द्रष्टव्यम्। तदहापस्तम्बः- चतुर आज्यभान्प्रतिदिशं यजति पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतो मध्येऽदितिं हविषा इति॥
॥पञ्च देवता यजति। पाङ्क्तो यज्ञः॥ सर्वा दिशः कल्पन्ते। कल्पते यज्ञो ऽपि॥
यथोक्तदेवतागतां सङ्ख्यां प्रशंसति। पथ्याद्यदित्यन्ताः पञ्च देवता यज्ञस्य पञ्चसङ्ख्यायोगात्पाङ्ग्तत्वं बहुधा वक्ष्यतेऽतो यज्ञे देवताविषया पञ्चसङ्ख्या युक्ता। दिशोऽपि प्राच्याद्या ऊर्ध्वान्ताः पञ्चसङ्ख्याकाः। अतो देवतागतपञ्चसङ्ख्यया गताः सर्वा दिशः कल्पन्ते समर्था भवन्ति। पूर्वमविज्ञाताः सत्यो ज्ञाता भवन्तीत्यर्थः। यज्ञोऽप्यनया कल्पते स्वप्रयोजनसमर्थो भवति॥
॥तस्यै जनतायै कल्पते यत्रैवं विद्वान् होता भवति॥
वेदनं प्रशंसति। यत्र यस्यां जनतायां याज्ञिकजनसमूहे होता प्रायणीयदेवतानां वेदिता भवति तस्यां जनयामयं होता स्वप्रयोजनसमर्थो भवति॥
॥॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य द्वितीयाध्याये प्रथमः खण्डः॥
॥
॥ अथ द्वितीयाध्याये द्वितीयः खण्डः
॥यस् तेजो ब्रह्मवर्चसम् इछेत् प्रयाजाहुतिभिः प्राङ् स इयात्। तेजो वै ब्रह्मवर्चसम् प्राची दिक् तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् प्राङ् एति॥
प्रयणीयेष्टिं विधाय तत्र प्रयाजानां काम्यप्रकारविशेषं विधत्ते। समिधो यजति तनूनपातं यजतीत्यादिना विहिताः पञ्च प्रयाजाहुतयस्तासां प्रकृतावनुष्ठानप्रकार आपस्तम्बेन दर्शितः- पञ्च प्रयाजान्प्राजो यजति प्रतिदिशं वा समिधः पुरस्तात्तनूनपातं दक्षिणत इडां पश्चाद्बर्हिरुत्तरतः स्वाहाकारं मध्ये इति। स प्रकारोऽत्र चोदकप्राप्तस्तमपोद्य शरीरकान्ति श्रुताध्ययनसम्पत्तिं च कामयमानस्य प्रकारान्तरं विधीयते। यः पुमांस्तेजो ब्रह्मवर्चसमिच्छेत्सपुमान्प्रयाजाहुतिभिः प्राजियात्। प्रागपवर्गास्ता आचरेदित्यर्थः। आदित्योदये प्राच्यास्तेजस्त्वं तदाभिमुख्येन गायत्रीजपानुष्ठानद्ब्रह्मवर्चसत्वं च। वेदनं प्रशंसति॥
॥यो ऽन्नाद्यम् इछेत् प्रयाजाहुतिभिर् दक्षिणा स इयाद्। अन्नादो वा एषो ऽन्नपतिर् यद् अग्निर् अन्नादो ऽन्नपतिर् भवत्य्। अश्नुते प्रजयान्नाद्यं य एवं विद्वान् षिणैति॥
अन्नाद्यकामस्य दक्षिणापवर्गत्वं विधत्ते। दक्षिणस्या दिश्यवस्थितो योऽग्निः सोऽग्निरन्नादः। भक्षितस्यान्नस्योदराग्निना जीर्यमाणत्वात्सस्येष्ववस्थाय व्रीह्यादिपाकहेतुत्वात्स्थाल्यादिष्टवस्थायौदनपाकहेतुत्वादन्नपतित्वम्। अतोऽन्नकामस्य दक्षिणापवर्गत्वं युक्तम्। वेदनं प्रशंसति॥
॥यः पशून् इछेत् प्रयाजाहुतिभिः प्रत्यङ् स इयात्। पशवो वा एते यद् आपः पशुमान् भवति य एवं विद्वान् प्रत्यङ्ङ् एति॥
पशुकामस्य प्रत्यगपवर्गत्वं विधत्ते। प्रत्यग्दिश्यवस्थितस्य सोमस्य सम्बन्धिन्य आप इति पूर्वमुक्तं तासां चापां पानद्वारेण तृणोत्पादनद्वारेण वा पशूपकारित्वात्पशुत्वमतः पशुकामस्य तथाविधप्रत्यगपवर्गत्वं युक्तम्। वेदनं प्रशंसति॥
॥यः सोमपीथम् इछेत् प्रयाजाहुतिभिर् उदङ् स इयाद्। उत्तरा ह वै सोमो राजा प्र सोमपीथम् आप्नोति य एवं विद्वान् उदङ्ङ् एति॥
अहीनाद्युत्तरक्रतुषु सोमपानं कामयमानस्योत्तरापवर्गत्वं विधत्ते। यः सोमवल्लीरूपो राजमानत्वेन राजा तस्योत्तरस्यां दिशि प्रभूतत्वात्तद्रूपत्वमतः सोमपानद्वारास्योत्तरापवर्गत्वं युक्तम्॥ वेदनं प्रशंसति॥
॥स्वर्ग्यैवोर्ध्वा दिक्। सर्वासु दिक्षु राध्नोति॥
स्वर्गकामस्याहवनीये प्रयाजहोमविधिमर्थवादेनोन्नयति। येयमूर्ध्वा दिक्स्वर्गाय हितैव तस्मात्स्वर्गकाम ऊर्ध्वां दिशं भावयन्नाहवनीय मध्ये प्रयाजान्यजेतेत्यर्थः। यथा स्वर्गं प्राप्नोति तथा सर्वासु दिक्षु स समृद्धश्च भवत्यतह् समृद्धिकामो मध्ये यजेतेत्येवगन्तव्यम्॥
॥सम्यञ्चो वा इमे लोकाः। सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥
वेदनं प्रशम्सति। इमे भूरादयस्त्रयो लोकास्ते सम्यञ्चः स्वोचितभोगप्रदा अतो य एवमाहवनीयमध्ये होमं वेदास्मै यजमानाय भूरादय इमे लोकाः सम्यञ्चः स्वस्वोचितभोगप्रदाः सन्तः श्रियै धनधान्यादिसम्पदे दीद्यति प्रकाशन्ते॥
॥पथ्यां यजति॥ यत् पथ्यां यजति। वाचम् एव तद् यज्ञमुखे सम्भरति॥
इत्थं काम्यान्प्रयाजहोमप्रकारान्विधाय पूर्वोक्तप्रायणीय देवताः क्रमेण स्तोतुं प्रथमदेवतां प्रशंसति। पथ्याभिधां देवतां यजतीति पूर्वोक्तविधिरत्र स्मारितः प्रयाजविधिभिर्व्यवहितत्वात्। स्तोतव्यस्य स्मारनमपेक्षितम्। स्मारितस्य स्तुतावन्वेतुम् पुनरनुवादः। पथ्यायागेन यज्ञमुखे सोमयागप्रारम्भे वाचमेव मन्त्ररूपां सम्भरति सम्पादयति। यतो यज्ञानुष्ठानरूपाय मार्गाय हिता पथ्या मन्त्ररूपा वाक्तादृश्यतः पथ्यायाग एव वाक्सम्पादनम्॥
॥प्राणापानाव् अग्नीषोमौ। प्रसवाय सविता। प्रतिष्ठित्या अदितिः॥
अग्न्यादिकाश्चतस्रो देवताः प्रशंसति। मुखनासिकाभ्यो बहिः सञ्चरन्नुच्छ्वासरूपो वायुः प्राणः। स ह्यौष्ण्यं शरीरे जनयति। ततोऽग्नेः प्राणरूपत्वं प्रतिनिकृत्य मुखनासिकाभ्यामन्तः सञ्चरन्वायुरपानः। स च शरीरे शैत्यं जनयतीति निःश्वासस्य सोमरूपत्वम्। सविता देवः प्रसवाय यज्ञकर्मणि प्रेरणायोपयुज्यते। अदितिर्भूमिः प्रतिष्ठित्यै स्थिरावस्थानायोपयुज्यते॥
॥पथ्याम् एव यजति॥ यत् पथ्याम् एव यजति। वाचैव तद् यज्ञम् पन्थाम् अपिनयति॥
पुनरपि प्रक्रारान्तरेण प्रथमां देवतां स्तौति। अत्रैवकारः पुर्वोक्तस्तुतिविशेषस्तस्यायमर्थः। देवतान्तरं परित्यज्य प्रथमथः पथ्यामेव यजति। ईदृशं यजनं यदस्ति तत्तेन यजनेन मन्त्ररूपया वाचैव च क्रियमाणं यज्ञं वैकल्यपरिहारेण समीचीनमनुष्ठानमार्गं प्रापयति देवतान्तरस्य प्रथमयागे तु नैतत्सम्भवतीति॥
॥चक्षुषी एवाग्नीषोमौ। प्रसवाय सविता। प्रतिष्ठित्या अदितिः॥
द्वितीयाद्यां देवतां प्रशंसति। अग्नीषोमयोस्तेजस्वित्वाद्दिग्विशेषज्ञानहेतुत्वाच्चक्षुरिन्द्रियरूपत्वम्। चतुर्थ पञ्चमदेवतयोस्तुपूर्वोक्तस्तुतिरेव समीचीनेत्यभिप्रेत्य पुनस्तत्पाठः॥
॥चक्षुषा वै देवा यज्ञम् प्राजानंश्। चक्षुषा वा एतत् प्रज्ञायते यद् अप्रज्ञेयं; तस्माद् अपि मुग्धश् चरित्व यदैवानुष्ठ्या चक्षुषा प्रजानात्य् अथ प्रजानाति॥
अग्नीषोमयोश्चक्षुः स्वरूपत्वे कोऽतिशय इत्याशङ्क्याह। देवाः पुरा यज्ञपुरुष उत्क्रान्ते सत्यन्विष्य चक्षुषैव प्रज्ञावन्तः। लोकेऽपि यद्वस्तु सहसा प्रज्ञातुमशक्यं तदेतच्चक्षुषैव प्रज्ञायते। तस्मादित्यादिना तदेवोदाह्रियते। यस्माद्दुर्ज्ञेयमपि चक्षुषा ज्ञातुं शक्यं तस्मादेव कारणाल्लोके मुग्धो दिङ्मोहं प्राप्तः पुरुषो वनेशु बहुधा चरित्वा य दैव यस्मिन्नेव कालेऽनुष्ठ्या केनापि प्रयत्नविशेषेण पर्वतारोहणादिरूपेण सूर्योदयादिरूपं दिग्विशेषलिङ्गं चक्षुषा प्रजानाति। अथ तदानीमेव ग्रामादिमार्गं प्रजानाति। तस्म्माच्चक्षुः स्वरूपाभ्यमग्नीषोमाभ्यां दिग्विशेषज्ञानं युक्तम्॥
॥यद् वै तद् देवा यज्ञम् प्राजानन्न् अस्यां वाव तत् प्राजानन्न्। अस्यां समभरन्न्; अस्यै वै यज्ञस् तायते। ऽस्यै क्रियते। ऽस्यै सम्भ्रियत। इयं ह्य् अदितिश् तद् उत्तमाम् अदितिं यजति॥ यद् उत्तमाम् अदितिं यजति। यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै॥
अथादितेः प्रतिष्ठाहेतुत्वं प्रपञ्चयति। पूर्वत्र चक्षुशा वै देवा यज्ञं प्राजानन्निति यदुक्तं तत्प्रज्ञानं यद्वैयस्मिन्नेव काले सम्पन्नं तत्तस्मिन्कालेऽस्यां वाव प्राजानन्भूमावेव यज्ञपुरुषं प्रज्ञातवन्तः। ततोऽस्यां भूमौ समभरन्यज्ञसाधनानि सम्पादितवन्तः। अस्यैवा अस्यामेव भूमौ यज्ञस्तायते विस्तीर्यते। न केवलं यज्ञस्यैव भूमिराधारः किन्तु लौकिकं कृष्यादिकमप्यस्यां क्रियते तत्साधनमप्यस्यां सम्पाद्यते। न च भूमेः प्राशस्त्ये सत्यदितेः किमायातमिति वाच्यम्। हि यस्मादियं भूमिरदितिः। तत्तस्माददितिमुत्तमां चरमदेवतां यजति। ईदृशं यजनं यदस्ति तत्क्रियमाणस्य यज्ञस्यादितिद्वारा देवेषु प्रज्ञानाय सम्पद्यते। तच्च देवप्रज्ञानं यजमानस्य स्वर्गलोकावगमाय भवति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य द्वितीयाध्याये द्वितीयः खण्डः॥
॥ अथ द्वितीयाऽध्याये तृतीयः खण्डः॥
॥देवविशः कल्पयितव्या इत्य् आहुस्। ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति; सर्वा विशः कल्पन्ते। कल्पते यज्ञो ऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान् होता भवति॥
प्रायणीयेष्टौ काम्यान्प्रयाजप्रकारान्विधाय देवताश्च प्रशस्य तासां देवतानां सम्बन्धिन्यौ याज्यानुवाक्ये क्रमेणाभिसन्धातुं प्रस्तौति। विश इत्ययं शब्दः प्रजामात्रवाची वैश्यजातिविशेषवाची वा। सन्ति हि देवेष्वपि जातिविशेषाः। अग्निर्बृहस्पतिश्च देवेषु ब्राह्मणौ। अग्ने महान् असि ब्राह्मणभारत। ब्रह्म वै देवानां बृहस्पतिः इति श्रुतेः। क्षत्रियादिजातयस्तु सृष्टिप्रकरने वाजसनेयिभिः स्पष्टमेवाम्नाताः- तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवताक्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः इति। स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति। तमथ शौर्द्रं वर्णमसृजत पूशनं इति। एवमादित्यो वै दैवं क्षत्रमित्यादिकमुदाहार्यम्। एवं सति देवेषु विशो वैश्यजातिरूपाः प्रजा मरुदादयो याः सन्ति ता अस्मिन्यागे कल्पयितव्याः सम्पादयितव्या इत्येवं ब्रह्मवादिन आहुः। कल्पमानाः सम्पन्नास्ता देवविशोऽनुसृत्य मनुष्यविशोऽपि तदनुग्रहात्सम्पद्यन्त इत्येवं दैव्यो मानुष्यश्च सर्वा विशो यजमानस्य सम्पद्यन्ते। तासु सम्पन्नासु द्रव्यलाभाद्यज्ञोऽपि कल्पते स्वप्रयोजनसमर्थो भवति। एतद्वेदनं प्रशंसति। पूर्ववद्व्याख्येयम्॥
॥स्वस्ति नः पथ्यासु धन्वस्व् इत्य् अन्वाह स्वस्त्य् अप्सु व्र्̥जने स्वर्वति \ स्वस्ति नः पुत्रक्र्̥थेषु योनिषु स्वस्ति राये मरुतो दधातनेति॥
प्रथमं देवतायाः पुरोनुवाक्यां विधत्ते। स एष प्रथमपादः कृत्स्नाया ऋचः प्रतीकग्रहणार्थः। अस्यामृचि देवविशां वाचकं मरुच्छब्दं दर्शयितुमवशिष्टं पादत्रयं पठति। इतिशब्दो मन्त्र समाप्त्यर्थः। मन्त्रस्यायमर्थः। हे मरुतो नोऽस्माकं धन्वसु पथ्यासु मरुदेशरूपेषु मार्गेषु स्वस्ति दधातन जलप्रदानेन क्षेमं कुरुत। किञ्च सतीष्वप्यप्सु वृजने वर्जिते जनशून्ये स्वर्वति स्वर्गयुक्ते मार्गे स्वस्ति दधातन। यथा पुत्रकृथेषु पुत्रोत्पत्तिकरणेषु योनिशु कलत्रेषु नोऽस्माकं स्वस्ति दधातन तधा राये धनाय स्वस्त्यस्तु॥
॥मरुतो वै देवानां विशस्। ता एवैतद् यज्ञमुखे ऽचीकॢपत्॥
अस्यामृचि मरुच्छब्दः कथमेतावता विशां कल्पनमित्याह। एतदेतेन मरुच्छब्दोपेतमन्त्रपाठेन यज्ञमुखे यज्ञप्रारम्भरूपे कर्मणि ता देवानां विशोऽचीक्लृपत्कल्पितवान्भवति॥
॥सर्वैश् छन्दोभिर् यजेद् इत्य् आहुः॥ सर्वैर् वै छन्दोभिर् इष्ट्वा देवाः स्वर्गं लोकम् अजयंस्। तथैवैतद् यजमानः सर्वैश् छन्दोभिर् इष्ट्वा स्वर्गं लोकं जयति॥
छन्दोबाहुल्यमभिधाय प्रशंसति। स्पष्टोऽर्थः।
॥स्वस्ति नः पथ्यासु धन्वसु। स्वस्तिर् इद् धि प्रपथे श्रेष्ठेति पथ्यायाः स्वस्तेस् त्रिष्टुभाव्॥ अग्ने नय सुपथा राये अस्मान्। आ देवानाम् अपि पन्थाम् अगन्मेत्य् अग्नेस् त्रिष्टुभौ॥ त्वं सोम प्र चिकितो मनीषा।
या ते धामानि दिवि या प्र्̥थिव्याम् इति सोमस्य त्रिष्टुभाव्॥ आ विश्वदेवं सत्पतिं। य इमा विश्वा जातानीति सवितुर् गायत्र्यौ॥ सुत्रामाणम् प्र्̥थिवीं द्याम् अनेहसम्। महीम् ऊ षु मातरं सुव्रतानाम् इत्य् अदितेर् जगत्याव्॥ मन्त्रविशेषान्मन्त्रछन्दांसि च पञ्चानां देवानां क्रमेणोदाहरति। स्वस्ति न इत्यनुवाक्या। स्वस्तिरिद्धीति याज्या। अग्ने नयेत्यनुवाक्या। आ देवानामिति याज्या। त्वं सोमेत्यनुवाक्या। याते धामानीति याज्या। आ विश्वदेवमित्यनुवाक्या। य इमेति याज्या। सुत्रामाणमित्यनुवाक्या। महिमूष्विति याज्या॥
॥एतानि वाव सर्वाणि छन्दांसि: गायत्रं त्रैष्टुभं जागतम्। अन्व् अन्यान्य्; एतानि हि यज्ञे प्रतमाम् इव क्रियन्त॥
नन्वत्र त्रीण्येव छन्दांस्युक्तानि न तु सर्वाणीत्याशङ्क्याह। मुख्यानि सर्वाणि छन्दांसि त्रीण्येव। इतराणि तु मुख्यान्यनुसृत्य वर्तन्ते। मुख्यत्वमेवैतानि हीत्यादिना स्पष्टीक्रियते। हि यस्मात्कारणादेतानि त्रीणि यज्ञे व्रतमामिव क्रियन्तेऽत्यन्तप्राचुर्येणैव प्रयुज्यते ततो मुख्यत्वम्।
॥एतैर् ह वा अस्य छन्दोभिर् यजतः सर्वैश् छन्दोभिर् इष्टम् भवति य एवं वेद॥
एतद्वेदनं प्रशंसति । स्पषोऽर्थ॥
॥॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य द्वितीयाध्याये तृतीयः खण्डः॥
॥
॥ अथ द्वितीयाऽध्याये चतुर्थः खण्डः॥
॥ता वा एताः प्रवत्यो नेत्र्̥मत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो याज्यानुवाक्या॥ एताभिर् वा इष्ट्वा देवाः स्वर्गं लोकम् अजयंस्। तथैवैतद् यजमान एताभिर् इष्ट्वा स्वर्गं लोकं जयति॥
पञ्चानां देवतानां क्रमेण याज्यानुवाक्ये उदाहृते अथ संयाज्ये वक्तव्ये तत्रादौ तावदुदाहृता याज्यानुवाक्याः प्रशंसति। स्वस्तिनः पथ्यास्वित्याद्या महीमूषु मातरमित्यन्ता दर्शर्चो याः पूर्वमुदाहृतास्ता एवैताः प्रशब्दनेतृशब्दपथिशब्दस्वस्तिशब्दवत्यः। तत्र प्रशब्दः स्वस्तिरिद्धि प्रपथे त्वं सोम प्रचिकित इत्यत्र श्रूयते। नेतृशब्दोऽग्ने नयेत्यत्र श्रूयते। नयतिधातोः कर्तुस्तत्रावगमात्। पथिशब्दोऽग्ने नय सुपथा आ देवनामपि पन्थामित्यत्र श्रूयते। स्वस्ति शब्दः स्वस्ति नः पथ्यासु स्वस्तिरिद्धीत्यत्र श्रूयते। तथा सति छत्रिन्यायेन सर्वा अप्येता ऋचः प्रादिभिः शब्दैर्युक्ता इति वक्तुम् शक्याः। एवं सत्युत्कर्षद्योतकैरेतैः शब्दैर्युका एता ऋचः प्रायणीयेष्टिगतस्य हविषो याज्यानुवाक्याः प्रशस्ता भवन्ति। एताभिर्वा इत्यादेरर्थो विस्पष्टः॥
॥तासु पदम् अस्ति: स्वस्ति राये मरुतो दधातनेति॥ मरुतो ह वै देवविशो ऽन्तरिक्षभाजनास्॥तेभ्यो ह यो ऽनिवेद्य स्वर्गं लोकम् एतीश्वरा हैनं नि व रोद्धोर् वि वा मथितोः॥ स अद् आह: स्वस्ति राये मरुतो दधातनेति।तम् मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति; न ह वा एनम् मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते। न विमथ्नते॥
प्रथमायामृचि चतुर्थं पादमादाय तत्रत्यस्य मरुच्छब्दस्यान्वयव्यतिरेकाभ्यां तात्पर्यं दर्शयति। तासु पूर्वोक्तास्वृक्षु पदं पादस्तस्मिन्पादे प्रोक्ता मरुतो देवानां वैश्या अन्तरिक्षे निवसन्ति। एनं यजमानं नि वा रोद्धोः स्वर्गमनं निरोद्धुं वा वि वा मथितोर्विशेषेण मथितुमालोडयितुं विनाशयितुं वा ते मरुत ईश्वराः समर्थाः सोऽयं व्यतिरेकः भास्यात्रोपन्यस्तत्वात्। स यदाहेत्यादिरन्वयः। उक्तबाधसमाधानस्य तत्रोपन्यासात्। यदि होता स्वस्ति राय इत्यादिपादं पठेत्तदानीं मरुद्भ्यो यजमानं निवेदयति ततो मरुतः स्वर्गं लोकं गच्छन्तं यजमानं नैव निरुन्घते नापि विमथ्नते नापि विनशयन्ति॥
॥स्वस्ति हैनम् अत्यर्जन्ति स्वर्गं लोकम् अभि य एवं वेद॥
वेदनं प्रशंसति। स्वर्गमभिलक्ष्य जिगमिषुमेनंवेदितारं स्वस्ति क्षेमो यथा भवति तथा मरुतोऽतिशयेन प्रापयन्ति॥
॥विराजाव् एतस्य हविषः स्विष्टक्र्̥तः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे॥
इत्थमुक्ताः प्रधानहविषो याज्यानुवाक्याः प्रशस्य संयाज्ये विधत्ते। विराट् छन्दस्कानां बहूनां विद्यमानत्वात्त्रयस्त्रिंशदक्षरशब्देन ते ऋचौ विशेष्येते॥
॥सेद् अग्निर् अग्नीम्̐र् अत्य् अस्त्व् अन्यान्। सेद् अग्निर् यो वनुष्यतो निपातीत्य् एते॥
तयो ऋचोः प्रथमपादावुदाहरति
॥विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकम् अजयंस्। तथैवैतद् यजमानो विराड्भ्याम् इष्ट्वा स्वर्गं लोकं जयति॥
विराजौ प्रशंसति। तथैवैतदिति दार्ष्टान्तिक प्रतिज्ञा यजमान इत्यादिकं तद्विवरणम्॥
॥ते त्रयस्त्रिंशदक्षरे भवतस्॥ त्रयस्त्रिंशद् वै देवा: अष्टौ वसव। एकादश रुद्रा। द्वादशादित्याः। प्रजापतिश् च वषट्कारश् च॥ तत् प्रथमे यज्ञमुखे देवता अक्षरभाजः करोत्य्। अक्षरेणाक्षरेणैव तद् देवताम् प्रीणाति। देवपात्रेणैव तद् देवतास् तर्पयति॥
ऋचोरवस्थितामक्षरसङ्ख्यां प्रशंसति। वषट्कारो देवताविशेषः। तत्तथा सति देवतानामक्षराणां च सङ्ख्यासाम्ये सति। यज्ञमुखं यज्ञोपक्रमः। स च सुत्यादिने प्रातरनुवाकादिना भविष्यति। तदपेक्षया प्रायणीयेष्टिः प्रथमम् यज्ञमुखं। तस्मिन्यज्ञमुखे वस्वादिकाः सर्वदेवता सङ्ख्यासाम्यादक्षभाजः करोति। तत्तेन देवतानामक्षरपापणेनैकैकां देवतामेकैकेनाक्षरेण तोषयति। देवानां पात्रं फलमेकैकमक्षरं तेनैव पात्रेण तत्तदानीं देवतास्तर्पयति प्रीणातीत्यस्यैव विवरणमेतत्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य द्वितीयाध्याये चतुर्थः खण्डः॥
॥ अथ द्वितीयाऽध्याये पञ्चमः खण्डः॥
॥प्रयाजवद् अननुयाजं कर्तव्यम् प्रायणीयम् इत्य् आहुर्। हीनम् इव वा एतद् ईङ्खितम् इव यत् प्रायणीयस्यानुयाजा इति॥
संयाज्ये विधाय प्रयाजानूयाजविषये किञ्चिद्विशेषविधानं पूर्वपक्षत्वेन शाखान्तरीयमतमुपन्यस्यते। प्रायणीयेष्टेर्दर्शपूर्णमासविकृतित्वाच्छोदकेन प्रयाजा अनूयाजाश्च प्राप्ताः समिधो अग्न आज्यस्येत्याद्या मन्त्रसध्या ये प्रयाजा देवं बर्हिरित्याद्या मन्त्रसाध्यास्त्रयोऽनूयाजाप्रायणीयाख्यं कर्म प्रयाजोपेकमनूयाजवर्जितं कर्तव्यमिति शाखान्तरीया आहुः। तत्रैषा युक्तिः प्रायणीयस्यानूयाजा इति यदस्ति तदेतद्धीनमिव वै सस्यैव व्याख्यानमीङ्खितमिवेति विलम्बितमित्यर्थः। अनूयाजेष्विज्यमानेषु कर्मणि विलम्बो भवेत्तस्मान्नयष्टव्या अनूयाजाः। इतिशब्दः पूर्वसमाप्त्यर्थः। यथा प्रायणीयेकर्मण्यनूयाजा वर्ज्यन्ते तथैवोदयनीये कर्मणि प्रयाजा वर्जनीया इति पूर्वाभिप्रायः। तमेतं तैत्तिरीया विस्पष्टमामनन्ति- प्रयाजवदननूयाजं प्रायणीयं कार्यमनूयाजवदप्रयाजमुदयनीयं इति॥
॥तत्-तन् नाद्र्̥त्यम् प्रयाजवद् एवानुयाजवत् कर्तव्यम्॥
॥ स्वोक्तं पूर्वपक्षं निराचष्टे। तस्मिन्प्रायणीये कर्मणि तत्कर्मानुयाजवर्जनरूपं नादरणीयम्॥
॥प्राणा वै प्रयाजाः प्रजानुयाजा; यत् प्रयाजान् अन्तरियात् प्राणांस् तद् यजमानस्यान्तरियाद्। यद् अनुयाजान् अन्तरियात् प्रजां तद् यजमानस्यान्तरियात्॥
वर्जने बाधमुपन्यस्यति। प्रथमशब्दसामान्यात्प्रथमभावित्वाद्वा प्रयाजा यजमानस्य प्राणरूपाः। पश्चाद्भावित्वादनुयाजाः पुत्रादिरूपाः। यदा प्रयाजा वर्ज्यन्ते तदा यजमानसम्बन्धिनां प्राणनामन्तरायो विच्छेदः स्यात्। अनुयाजवर्जने पुत्रादिविच्छेदः। अयमेव पूर्वपक्षबाधस्तैत्तिरीयैराम्नातह्- तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजानूयाजा यत्प्रयाजान्तरियादात्मानमन्तरियाद्यदनूयाजानन्तरियात्प्रजामन्तरियात् इति। यद्यपि प्रायणीये प्रयाजवर्जनप्रसक्तं तथाप्युदयनीये तैत्तिरीयोपन्यस्तं प्रयाजवर्जनमभिप्रेत्यायं बाधोपन्यासः॥
॥तस्मात् प्रयाजवद् एवानुयाजवत् कर्तव्यम्॥
इत्थं पूर्वपक्षे बाधमुपन्यस्य चोदकैः प्राप्तस्योभयानुष्ठानस्य प्रतिप्रसवरूपं सिद्धान्तं विधत्ते। यस्मादन्यतरत्यागे बाधस्तस्मादित्यर्थः। तैत्तिरीया अप्येतदामनन्ति- प्रयाजवदेवनूयाजवत्प्रायणीयं कार्यं प्रयाजवदनूयाजवदुदयनीयं इति। अत्र सर्वत्रैतरेयपाठेऽनुयाज इति ह्रस्व उकारः। तैत्तिरीयापाठे दीर्घ इति विवेकः॥
॥पत्नीर् न संयाजयेत्। संस्थितयजुर् न जुहुयात् तावतैव यज्ञो ऽसंस्थितः॥
चोदकप्राप्तात्पत्नीसंयाजान्समिष्टयुजुश्च निषेधति। ततः किमित्यपेक्षा यामाह। तदानीं यज्ञस्य समाप्तत्वादुत्तरकालीनं सोमक्रयादिकं न प्रवर्तेत। एतेषामननुष्ठानमात्रेण यज्ञोऽसमाप्तो भवति। तत उत्तरानुष्ठानं निर्बाधं प्रवर्तते॥
॥प्रायणीयस्य निष्कासं निदध्यात्। तम् उदयनीयेनाभिनिर्वपेद्। यज्ञस्य संतत्यै यज्ञस्याव्यवछेदाया॥
किञ्चिद्विशेषं विधत्ते। भाण्डगतो लेपरूपो हविःशेषो निष्कासः। प्रायणीयकर्मसम्बन्धिनं निष्कासं कस्मिंश्चित्पात्रे स्थापयेत्। ततः सुत्यादिने सोमयागस्यावसान उदयनीयेष्टिगतेन हविषा सह तं निष्कासं समभिनिर्वपेत्। एवं सति प्रायणीयशेषस्यानुवर्तनात्सोमयागः सन्ततो भवति न तु तस्य विच्छेदः प्राप्नोति। तैत्तिरीयाश्चामनन्ति- प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य सन्ततिः इति॥
॥अथो खलु यस्याम् एव स्थाल्याम् प्रायणीयं निर्वपेत् तस्याम् उदयनीयं निर्वपेत्। तावतैव यज्ञः संततो ऽव्यवछिन्नो भवति॥
प्रकारान्तरमाह। नात्र निष्कासोऽपेक्षितः किन्तु स्थाल्येकत्वमात्रेण यज्ञस्य सन्ततत्वाद्व्यवच्छेदराहित्यं सिद्ध्यति। सातत्यव्यवच्छेदराहित्ययोरर्थत एकत्वेऽप्यन्वयव्यतिरेकरूपत्वेन पृथगुपन्यासः॥
॥अमुष्मिन् वा एतेन लोके राध्नुवन्ति नास्मिन्न्। इत्य् आहुर्। यत् प्रायणीयम् इति॥प्रायणीयम् इति निर्वपन्ति प्रायणीयम् इति चरन्ति। प्रयन्त्य् एवास्माल् लोकाद् यजमाना इति॥
अथ प्रायणीयोदयनीयेष्ट्योर्याज्यानुवाक्याव्यत्यासं विधातुं प्रस्तौति। प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति ब्रह्मवादिनः किञ्चिद्दोषमाहुः। प्रायणीयमित्येवं विधिनोपेतं यत्कार्यमस्ति एतेन कर्मणा यजमानाः स्वर्गलोक एव समृद्धिं प्राप्नुवन्ति नास्मिल्लोके। कथमिति चेत्। ज्प्रायणीयमित्येतन्नाम मनसा कृत्वा निर्वपन्ति। चरणकालेऽपि तथैव चरन्ति। चरणमाहुतिप्रक्षेपः। तस्य च नाम्नोऽयमर्थः। अनेन कर्मणा यजमाना अस्माल्लोकात्प्रयन्त्येव न त्वस्मिलोके कञ्चित्कालं प्रतितिष्ठन्ति तस्मात्प्रायणीयनाम सम्पन्नमिति। श्रौत इति शब्दो ब्रह्मवाद्युद्भावितदोषसमाप्त्यर्थः॥
॥अविद्ययैव तद् आहुर्॥ व्यतिषजेद् याज्यानुवाक्याः॥
अथ तद्दोषसमाधानं विधत्ते। अज्ञानेनैव ब्रह्मवादिनस्तद्वचनमाहुः। न त्वत्र तदुक्तदोषोऽस्ति। तद्दोषानुदयाय स्वस्तिनः पथ्यास्वितारभ्य महीमूषु मातरमित्यन्तानां याज्यानुवाक्यानां व्यतिषङ्गं विस्पष्टयति॥
॥याः प्रायणीयस्य पुरोनुवाक्यास् ता उदयनीयस्य याज्याः कुर्याद्। या उदयनीयस्य पुरोनुवाक्यास् ताः प्रायणीयस्य याज्याः कुर्यात्॥ तद् व्यतिषजत्य् उभयोर् लोकयोर् र्̥द्ध्या। उभयोर् लोकयोः प्रतिष्ठित्या॥ उभयोर् लोकयोर् र्̥ध्नोत्य्। उभयोर् लोकयोः प्रतितिष्ठति प्रतितिष्ठति य एवं वेद॥
तमेव व्यतिषङ्गं विस्पष्टयति। तत्तेन याः प्रायणीयस्येत्युक्तप्रकारेण व्यतिषङ्गः सम्पद्यते। स च लोकद्वये भोग्यवस्तुसमृद्ध्यैस्थैर्येणावस्थानाय भवति। तथानुष्ठानेन यजमानो लोकद्वये समृद्धप्रतिष्ठितश्च भवति। यथोक्तदोषसमाधाने तैत्तिरीया आमनन्ति- याः प्रायणीयस्य याज्यास्ता उदयनीयस्य कुर्यात्प्राङ्मुखं लोकमारोहेत्प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति इति। व्यतिषङ्गवेदनं प्रशंसति॥
॥आदित्यश् चरुः प्रायणियो भवत्य् आदित्य उदयनीयो यज्ञस्य ध्र्̥त्यै। यज्ञस्य बर्सनद्ध्यै। यज्ञस्याप्रस्रंसाय॥
योऽयं प्रथमखण्डे प्रायणीयोदयनीययोरदितिदेवताकश्चरुर्विहितस्तमिमं प्रशंसति। सोमयागस्यादौ प्रायणीयेष्टिः। अन्तेचोदयनेष्टिस्तयोरुभयोरयमदितिदेवताकश्चरुः। सोऽयं तस्य यज्ञस्य धारणाय मण्याकारो ग्रन्थिविशेषः। तस्य बन्धनं तत्सिद्ध्यर्थमुभयत्रादित्यचरुकरनम्। बन्धनस्थानीयेन चरुणा यज्ञस्य धारणं सिध्यति। सति च धारणे यज्ञाङ्गं किञ्चिदपि स्रस्तं लुप्तं न भवति। ततो यज्ञस्याप्रस्रंसायोभतश्चरुः॥
॥तद् यथैवाद। इति ह स्माह। तेजन्या उभयतो ऽन्तयोर् अप्रस्रंसाय बर्सौ नह्यत्य्। एवम् एवैतद् यज्ञस्योभयतो ऽन्तयोर् अप्रस्रंसय बर्सौ नह्यति यद् आदित्यश् चरुः प्रायणीयो भवत्य् आदित्य उदयनीयः॥
अत्र दृष्टान्तमाह। अधो वक्ष्यमाणं निदर्शनं यथा भवति तथा दार्ष्टान्तिकमित्येवं कश्चिद्ब्रह्मवाद्याह स्म तेजन्या इत्यादिना। तावेव दृष्टान्तदार्ष्टान्तिकौ स्पष्टी क्रियते। तेजनी रज्जुस्तस्या उभयोरन्तयोरप्रस्रंसाय विश्लेषनिवारनाय लौकिकः पुरुषो बर्सौ नह्यतिमण्याकारौ ग्रन्थी बध्नाति। एवमेव चरुद्वयं यदस्ति तदेतद्यज्ञस्योपक्रमोपसंहाररूपयोरुभयोरशैथिल्याय मण्याकारबन्धनस्थानीयं भवति॥
॥पथ्ययैवेतः स्वस्त्या प्रयन्ति। पथ्यां स्वस्तिम् अभ्य् उद्यन्ति;स्वस्त्य् एवेतः प्रयन्ति। स्वस्त्य् उद्यन्ति स्वस्त्य् उद्यन्ति॥
येयं प्रायणीये पथ्याख्या प्रथमा देवतास्ति उदयनीये तस्या उत्तमात्वमर्थवादेनोन्नयति। इतः शब्दः षष्ठ्यर्थे वर्तते। आसामाज्यहविष्कानां देवतानां मध्ये पथ्ययैव स्वस्त्यैतच्छब्दद्वयाभिहितयैव देवतया प्रयन्ति प्रारम्भते प्रायणीये तां देवतां प्रथमं यजन्तीत्यर्थः। पथ्यां स्वस्तिमभिशब्दद्वयाभिहितां देवतामभिलक्ष्योद्यन्ति समापयन्ति। उदयनीये तां देवतामुत्तमां यजन्तीत्यर्थः। स्वस्त्याख्याया देवताया आद्यन्तयोर्यागे सति यजमाना इतोऽस्मिन्कर्मणि स्वस्त्येव क्षेम एव यथा भवति तथा प्रयन्ति प्रारभन्ते। तथा स्वस्त्युद्यन्ति क्षेमेण समापयन्ति। अभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य द्वितीयाध्यायस्य पञ्चमः खण्डः॥
॥ अथैतरेयब्राह्मणे तृतीयोऽध्याये प्रथमः खण्डः॥
॥प्राच्यां वै दिशि देवाः सोमं राजानम् अक्रीणंस्। तस्मात् प्राच्यां दिशि क्रीयते ॥
प्रायणीया तदंगं च देवतादिकमिारितं । तथैवोदयनीया च तद्वितेषाश्च वर्णिताः ॥ अथ सोमप्रवहणाङ्गमन्त्रादयो वक्तव्याः। तत्रादौ सोमक्रयणस्य दिशं विधत्ते। प्राचीनवंशात्पूर्वस्यां दिशि देवैः पुरा सोमस्य क्रीतत्वादृत्विग्भिरपि तथा सोमः क्रेतव्य इत्यर्थः॥
॥तं त्रयोदशान् मासाद् अक्रीणंस्। तस्मात् त्रयोदशो मासो नानुविद्यते; न वै सोमविक्रय्य् अनुविद्यते। पापो हि सोमविक्रयी॥
प्रसङ्गात्सोमविक्रयिणः प्रत्यवायं दर्शयति - पुरा संवत्सरस्य त्रयोदशमासाः सन्ति नेदानीं। देवास्त्रयोदशस्य मासस्याभिमानिनः पुरुषात्तं सोमं क्रीतवन्तः। यस्मात्तदभिमानी पुरुषः सोमविक्रयी तस्माल्लोके तदीयस्त्रयोदशमासो नानु विद्यते शुभकर्मानुकूलो नास्ति। मेषादि सङ्क्रान्त्यादिरहितत्वान्मलमास इत्यभिप्रेत्य तस्मिन्मासे शिष्टाः शुभकर्माणि वर्जयन्ति। अत एवादानीमपि सोमविक्रयी शिष्टाचारस्यानुकूलो नैव विद्यते। सोमविक्रयिणः पापरूपत्वे श्रुत्यन्तर प्रसिद्धिद्योतनार्थोहि शब्दः। अत एव श्रुत्यन्तरे तद्विषयो मन्त्र एवं व्याख्यायते- ‘अस्मे ज्योतिः- सोमविक्रयिणि तम इत्याह। ज्योतिरेव यजमाने दधाति। तमः सोमविक्रयिणमर्पयति’ इति। तमः शब्दः पापवाची॥
॥तस्य क्रीतस्य मनुष्यान् अभ्य् उपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदंस्। तान्य् एकयर्चावारुरुत्सन्त। तानि नाशक्नुवंश् तानि द्वाभ्यां तानि तिस्र्̥भिस् तानि चतस्र्̥भिस् तानि पञ्चभिस् तानि षड्भिस् तानि सप्तभिर् नैवावारुन्धत। तान्य् अष्टाभिर् अवारुन्धताष्टाभिर् आश्नुवत॥ यद् अष्टाभिर् अवारुन्धताष्टाभिर् आश्नुवत। तद् अष्टानाम् अष्टत्वम् अश्नुते यद्-यत् कामयते य एवं वेद॥
क्रयादूर्ध्वं प्राचीनवंशंप्रति नीयमाने सोमे पठितव्यानामृचामष्टसङ्ख्यामादौ प्रशंसति- क्रीतः सोमोयदा मनुष्यान्यजमानादीनभिलक्ष्या गच्छति तदानीं तस्य सोमस्य दिगादीनि वुदसीदन्विशेषेणोत्सन्नान्यभवन्। दिक्षब्देनाधिष्ठानमुपलक्ष्यते। सोमं नेतुं यदधिष्ठानं यच्चवीर्यं सोमनिष्ठं बलप्रदानसामर्थ्यं यच्चेन्द्रियचक्षुरादिपाटवहेतुत्वं तत्सर्वं विनष्टम्। तदानीं ते यजमाना ये मनुष्यास्तानि दिगादीन्येकयर्चाऽवरोद्धुं स्वाधीनं कर्तुमैच्छन्। ततस्तान्यवरोद्धुं नाशक्नुवन्। एवं द्वित्वादि सप्तपर्यन्तया मन्त्रसङ्ख्यया नैवावरोधं कृतवन्तः। अष्टसङ्ख्ययात्ववरोधं कृतवन्तः। अष्टसङ्ख्ययात्ववरोधं कृत्वातानि दिगादीनि प्राप्तवन्तः। अष्टसङ्ख्यया तस्मादवरुध्यन्त। एभिर्नश्यन्तेऽश्नुवत एभिरिति वा व्युत्पत्याऽष्टशब्दो निष्पन्नः। एतद्वेदनं प्रशंसति- तत्काम्यमश्नुत इति योज्यम्॥
॥तस्माद् एतेषु कर्मस्व् अष्टाव्-ष्टाव् अनूच्यन्त। इन्द्रियाणां वीर्याणाम् अवरुद्ध्यै॥
इदानीमष्टसङ्ख्यां विधत्ते- इदानीं प्रस्तुतं सोमप्रवणाख्यं यत्कर्म तत्र करिष्यमाणं कर्मान्तरं तथाविधेषु प्रत्येकमष्टवष्टावृजो होतानुब्रूयात्। तथाष्टसङ्ख्ययेन्द्रियाणि वीर्याणि चावरुद्धानि भवन्ति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयोऽध्याये प्रथमः खण्डः॥
॥ अथ तृतीयाध्याये द्वितीयः खण्डः॥
॥सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्य् आहाध्वयुः॥
मन्त्रगतां सङ्ख्यां विधाय तन्मन्त्रान्विधातुमादौ प्रैषमन्त्रं विधत्ते- यः सोमः क्रीतः स क्रयदेशात्पाचीनवंशं प्रति प्रोह्यते नीयते तदर्थमनुकूला ऋचो हे होतरनुक्रमेण ब्रूहि। तमेवं प्रैषमन्त्रमध्वर्युः पठेत्॥
॥भद्राद् अभि श्रेयः प्रेहीत्यन्वाहः॥
अथ होतुः प्रथमामृचं विधत्ते- सेयमृक्तैत्तरीयशाखायामेवमाम्नाता- ‘भद्रादभि श्रेयः प्रेहि बृहस्पति पुर एता ते अस्तु। अथेमवस्य वर आपृथिव्या आरे शत्रून्कृणुहि सर्ववीरः’ इति। तस्यायमर्थः। हे सोम भद्रान्मङ्गलरूपाद्भूलोकरूपात्तस्मात्क्रयदेशाच्छ्रेयः श्रेष्ठं स्वर्गलोकस्थानीयं प्राचीनवंशदेशमभिलक्ष्य प्रेहि प्रकर्षेणगच्छ। तथा गच्छतस्ते बृहस्पतिः पुर एता पुरतो गन्ताऽस्तु। अथ गमनादूर्ध्वं पृथिव्याः सम्बन्धिन्या समन्ताध्वरे श्रेष्ठे देवयजन ईमवस्येदं तवावस्थान योग्यं स्थानं निश्चिनु। सर्वेभ्यो वीरः शूरस्त्वं शर्तून्पापरूपान्यज्ञविद्वेषिण आरे कृणुहि दूरे कुरु निराकुर्वित्यर्थः॥
॥अयं वाव लोको भद्रस्॥ तस्माद् असाव् एव लोकः श्रेयान्। स्वर्गम् एव तल् लोकं यजमानं गमयति॥
तस्यामृचि प्रथमपादं व्याचष्टे- तत्तेन प्रथमपादपातेन। स्पष्टमन्यत्॥
॥ब्र्̥हस्पतिः पुरेता ते अस्त्व् इति॥ ब्रह्म वै ब्र्̥हस्पतिर्। ब्रह्मैवास्मा एतत् पुरोगवम् ՚१ अकः। ՚१ न वै ब्रह्मण्वद् रिष्यति॥
द्वितीयपादमनूद्य व्याचष्टे- बृहस्पतेर्ब्रह्मत्वं ब्राह्मणजातिमत्वं ‘ब्रह्मवै देवानां बृहस्पतिः" इत्यादि श्रुत्यन्तरे प्रसिद्धम्। एतदेतेन द्वितीयपादपाठेनास्मै यजमानार्थं ब्रह्मैव ब्राह्मणमेव पुरोगवं पुरोगन्तारमकः करोति। ब्रह्मण्वद्ब्राह्मणसहायोपेतं कर्म न वै रिष्यति सर्वथा नाशं न प्राप्नोति॥
॥अथेम् अव स्य वर आ प्र्̥थिव्या इति॥ देवयजनं वै वरम् प्र्̥थिव्यै। देवयजन एवैनं तद् अवसाययत्य्॥ आरे शत्रून् क्र्̥णुहि सर्ववीर इति॥ द्विषन्तम् एवास्मै तत् पाप्मानम् भ्रात्र्̥व्यम् अपबाधते ऽधरम् पादयति॥
तृतीयपादमनूद्य व्याचष्टे- देवयजनाख्यस्य यागदेशस्य पृथिवीसम्बन्धिश्रीष्ठस्थानत्वात्तत्रैवैनं सोमं तत्तेन तृतीयपादपाठेनास्मै यजमानाय द्वेषं कुर्वन्तं पापरूपं शत्रुमपबाधते अधरं पादयतीति। निक्रुष्टं पदं प्रापयतीत्यर्थः॥
॥सोम यास् ते मयोभुव इति त्र्̥चं सौम्यं गायत्रम् अन्वाह सोमे राजनि रोह्यमाणे। स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयति॥
होत्रानवक्तव्या द्वितीयाद्यास्तिस्र ऋचो विधत्ते- तिसृणामृचां सङ्घातस्तृचः स च सोमदेवताको गायत्री छन्दस्कश्च सोमानयनकाले तं तृचमनुब्रूयात्। तत्तेनानुवचनेन स्वात्मरूपया देवतया स्वकीयच्छन्दसा चैनं सोमं समृद्धं करोति। अत्र नीयमानद्रव्यविशेषः सोमो मन्त्रदेवताऽप्यसावेव तस्मात्स्वात्मरूपत्वं गायत्री द्युलोकात्सोममानीतवतिति तैत्तरीयाः कद्रूश्चेत्यनुवाके समामनन्ति। तस्माच्छन्दसः स्वकीयत्वम्॥
॥सर्वे नन्दन्ति यशसागतेनेत्य् अन्वाह॥
पञ्चमीमृचं विधत्ते- सा च संहितायामेवमाम्नाता- ‘सर्वेनन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः। किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय’ (ऋ. सं. मं. १०. सू. २७. ऋ. १०) इति। तस्या ऋचोऽयमर्थः। सर्वे सखायो यजमानप्रभृतयः सख्या सोमरूपेण नन्दन्ति तुष्यन्ति। कीदृशेन सख्या। यशसा यशोहेतुना। आगतेन समीपं प्राप्तेन। सभासाहेन विद्वत्सभां विद्याप्रसङ्गेन सहतेऽभिभवति सभासहस्तादृशेन। स तादृशः सोमरूपः सख्यैषामृत्विग्यजमानानां किल्बिषस्पृत् किल्बिषात्पापात्स्पृणोति पालयति किल्बिषस्पृत्। पित्तुशब्दोऽन्नवाची। तस्य सनिर्दानं येन सोमेन लभ्यते सोऽयं पितुषणिः। सोमस्य पापनिवारकत्वमन्नप्रदानेन। सर्वशास्त्रप्रसिद्धि द्योतनार्थो हि शब्दः। तथाऽयं सोमे वाजिनशब्दाभिधेयेन्द्रियाय वीर्याय वाऽरं हितोऽलमत्यन्त हितो भवतीति॥
॥यशो वै सोमो राजा। सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश् च यज्ञे लप्स्यमानो भवति यश् च न॥
तस्याः ऋचः प्रथमं पादं व्याचष्टे- यशः कारनात्सोमस्य यशस्त्वम्। यः पुमानृत्विग्भुत्वा यज्ञे धनं लप्स्यते यश्च द्रष्टुमागतो न तु धनार्थी सर्वोऽप्यसौ सोमक्रयणं दृष्ट्वा तुष्यति॥
॥सभासाहेन सख्या सखाय इत्य्॥ एष वै ब्राह्मणानां सभासाहः सखा यत् सोमो राजा॥
द्वितीयपादमनूद्य व्याचष्टे- योऽयों राजमानः सोमः सोऽयं ब्राह्मनसभामभिभवति। सर्वे ब्राह्मनः सोमाधीनाभवन्तीत्यर्थः॥
॥किल्बिषस्प्र्̥द् इत्य्॥ एष उ एव किल्बिषस्प्र्̥द् वै भवति। यः श्रेष्ठताम् अश्नुते स किल्बिषम् भवति तस्माद् आहुर्: मानुवोचो मा प्रचारीः। किल्बिषं नु मा यातयन्न् इति॥
तृतीयपादे प्रथमं पादमनूद्य व्याचष्टे- योऽयं सोमोऽस्ति एष उ एव किल्बिषात्पालयति सर्वकामहेतोः सोमयागस्य पापक्षयायानुष्ठातुं शक्यत्वात्। यज्ञानुष्ठाने च प्रवृत्तानामृत्विग्यजमानानां कः किल्बिषप्रसङ्ग इत्याशङ्क्याऽऽह- यः पुमान्प्रौढे यज्ञे प्रवृत्तो भवति तत्रापि यः श्रेष्ठतां प्रयोग पाटवाभिमानमश्नुति स तादृशः पुरुषः कर्मसमाप्तिव्यग्रतया पण्डितं मन्यत्वेन वाग्वैकल्यं कुर्वन्किल्बिषं भवति पापं प्राप्नोति। तमेतं पापप्रसङ्गं विस्पष्टयति- मानुवोचोऽन्य चित्तः सन्पुरोऽनुवाक्यां मा पठ। हेऽध्वर्यो माप्रचारीर्यग्रतया प्रचारमन्यथानुष्ठानं मा कार्षीः। नु क्शिप्रं कुर्वन्तो भवन्तः किल्बिषं मा यातयन्मा प्राप्नुवन्तः। इति शब्दो यजमानानां युक्तसमाप्तौ इत्थं सम्भावितात्किल्बिषात्सोमः पालयति॥
॥पितुषणिर् इत्य्॥ अन्नं वै पितु। दक्षिणा वै पितु; ताम् एनेन सनोत्य्। अन्नसनिम् एवैनं तत् करोति॥
तृतीयपादे द्वितीयपादमनूद्यव्याचष्टे- अनवाची पितुशब्दो लब्धव्यत्वसाम्याद्दक्षिणामप्युपलक्षयति॥ तां दक्षिणामेतेन सोमेन निमित्त भूतेन सनोति ऋत्विग्भ्यो ददाति। तत्तेन पितुशब्द पाठेनैनं सोममन्नं सनिमन्नदाननिमित्तभुतवेव करोति॥
॥अरं हितो भवति वाजिनायेतीन्द्रियं वै वीर्यं वाजिनम् आजरसं हास्मै वाजिनं नापछिद्यते य एवं वेद॥
चतुर्थं पादमनूद्य तत्र वाजिनशब्दं व्याचष्टे- वेदनं प्रशंसति जरासमाप्तिपर्यन्तं वेदितुरिन्द्रयवीर्ययोरपच्छेदो नभवति॥
॥आगन् देव इत्यह॥
षष्ठीं ऋचं विधत्ते- स च मन्त्रः संहितायामाम्नातः- "आगन्देव ऋतुभिर्वर्धतु क्शयं दधातु नः सविता सुप्रजामिषम्। स नः क्षपाभिरभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु" (ऋ. सं. मं ४- सू.५३. ऋ. ७) इति। तस्यायमर्थः- सोमो देव आगन्निह कर्माण्यागच्छतु। आगत्य च ऋतुभिः सह क्शयं निवासस्थानं वर्धतु वृद्धिं प्रापयतु। नोऽस्माकं सविता प्रेरकः स देवः सुप्रजां शोभनापत्यमिशमन्नं च दधातु सम्पादयतु। सदेवो नो अस्मान्षपाभिरात्रीभिरहोभिश्च जिन्वतु प्रीणयतु। तथा प्रजोपेतं धनमस्मे समिन्वत्वस्मासु सम्यक्प्रापयत्विति॥
॥आगतो हि स तर्हि भवत्य् र्̥तुभिर् वर्धतु क्षयम् इत्य्॥ र्̥तवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य। तैर् एवैनं तत् सहागमयति॥
अस्या ऋचः प्रथमपादे पूर्वभागं व्याचष्टे- तर्हि तस्मिन्क्रयोत्तरकाले स सोम आगतो भवतिति प्रसिद्धम्। उत्तरभागमनूद्य व्याचष्टे- यथा लोके कस्यचिन्मनुष्यस्य भ्रातरोऽपि मनुष्यजातीयास्तथा राजजातीयस्य सोमस्य भ्रातरोऽपि राजजातीयाः। तत्तेन मन्त्रभगपाठेन तैरृतुभिर्भ्रातृभिः सहैनं सोममस्मिन्कर्मण्यागमयति॥
॥दधातु नः सविता सुप्रजाम् इषम् इत्य् आशिषम् आशास्ते स नः क्षपाभिर् अहभिश् च जिन्वत्व् इत्य्॥
अहानि वा अहानि रात्रयः क्षपा। अहोरात्रैर् एवास्मा एताम् आशिषम् आशास्ते॥ प्रजावन्तं रयिम् अस्मे सम् इन्वत्व् इत्य् आशिषम् एवाशास्ते॥ द्वितीयपादमनूद्य व्याचष्टे- आशासनीयोपेक्शणीयः प्रजादिपदार्थ आशीस्तामनेन पादपा?ठेनाशाऽऽस्ते। तृतीयपादमनुद्य व्याचष्टे- लोकप्रसिद्धान्यहान्येवात्र मन्त्रोक्तान्यहानि। अहोभिरिति वक्तव्ये वर्णविकारेणाहभिरित्युक्तत्वात्। शब्दान्तरभ्रमं व्युदसितुमिदं व्याख्यानम्। एवमत्रव्याख्यातव्यः पदविशेषो नास्ति किन्त्वाशीः प्रार्थनारूपं तात्पर्यमेवेत्यभिप्रेत्यैवकारः प्रयुक्तः॥
॥या ते धामानि हविषा यजन्तीत्य् अन्वाह ॥
सप्तमीमृचं विधत्ते- सेयमृक्संहितायामाम्नाता- ‘ या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञं। गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान् ९१-९१-४) इति। हे सोम ते तव धामानि यान्युत्तरवेद्यादिस्थानानि यजमाना हविषा यजन्ति ते तव ता विश्वा तानि सर्वाणि स्थानानि व्याप्येति शेषः। ततो भवान्यज्ञं परिभूरस्तु परितः प्राप्तवान्भवतु। किञ्च। त्वं गयस्फानो गयानामस्मदीयानां गवां वर्धयिता प्रतरणः प्रतारयिता सर्वापदुत्तारनहेतुः सुवीरः शोभन पुत्रपौत्रादिप्रदो भवेति शेषः। हे सोम वीरहास्मदीयानां वीरपुरुषाणां हननमकुर्वाणो दुर्यानस्मदीयगृहान्प्रति प्रचर प्रकर्षेन गच्छ॥
॥ता ते विश्वा परिभूर् अस्तु यज्ञं गयस्फानः प्रतरणः सुवीर इति॥ गवां नः स्फावयिता प्रतारयितैधीत्य् एव तद् आहा॥
अत्र प्रथमपादस्य स्पष्टार्थत्वबुद्ध्या व्याख्यानमुपेक्ष्य द्वितीयपादमपि स्पष्टार्थाभिप्रायेनैव पठति। तृतीयपादमनूद्य व्याचष्टे- स्फावयिता वर्धयिता॥
॥अवीरहा प्र चरा सोम दुर्यान् इति॥ ग्र्̥हा वै दुर्या॥ बिभ्यति वै सोमाद् राज्ञ आयतो यजमानस्य ग्र्̥हाः॥ स यद् एताम् अन्वाह शान्त्यैवैनं तच् छमयति। सो ऽस्य शान्तो न प्रजां न पशून् हिनस्ती॥
चतुर्थपादमनूद्य व्याचष्टे- आयत आगच्छतः सोमाद्राज्ञो यजमानस्य गृहा गृहवर्तिनो वीरपुरुषाः केनापि परिचर्यावैकल्येन राजा कोपं करिष्यतीति मत्वा तस्मात्सर्वे बिभ्यति तदानीं सहोता यद्येतामवीरहेतिपदयुक्तामृचमन्वाह तत्तेनानुवचनेन शान्त्या शान्तिहेतुभूतया सुवीरपदोक्त्यैवैनं राजानं शमयति शान्तं करोति। स च राजा शान्तः सन्नस्य यजमानस्य पुत्रादिकां प्रजां गवादिपशूंश्च न हिनस्ति॥
॥इमां धियं शिक्षमाणस्य देवेति वारुण्य परिदधाति॥
अष्टमीम्रुचं विधत्ते- इयमृग्वरुनदेवताका तया परिदधाति। अनुवचनं समापयेदित्यर्थः। सेयमृक्संहितायामेवमाम्नाता- "इमां धियं शिक्षमाणस्य देवक्रतुं दक्षं वरुण संशिशाधि। ययाऽति विश्वा दुरिता तरेम सुकर्माणमधि नावं रुहेम" (ऋ. सं. ८-४२-३) इति। तस्यायमर्थः। हे वरुण देवेमां धियं यज्ञानुष्ठानविशयां बुद्धिं शिक्शमाणस्याभ्यस्यतो यजमानस्य क्रतुं यज्ञ विषयं वीर्यं दक्षं कौशलं यज्ञविषय प्रज्ञानं संशिशाधि सम्यगुपदिश। यया वाग्रूपया नावा विश्वा दुरिता सर्वाणि पापान्यतितरेम। तादृशीं सुतर्माणं सुष्ठुतरणहेतुं वाग्रूपां नावमधिरुहेमाऽऽधिक्येनाऽऽरोहणं कुर्म इति॥
॥वरुणदेवत्यो वा एष तावद् यावद् उपनद्धो। यावत् परिश्रितानि प्रपद्यते; स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयति॥
वारुण्या समापने कारणमाह- यावत्कालं सोम उपनद्धो वस्त्रादिना बद्धः स्याद्यावच्च परिश्रितानि प्राचीनवंशादिस्थानानि प्रतिपद्यते तावदेष सोमो वरुणदेवताको बन्धनस्य वरुणपाह्साधीनत्वादावरनस्यापि वरुणाधीनत्वात्। तत्तथा सति वारुन्या परिदधानो होता स्वयैव सोम सम्बन्धिन्यैव देवतया स्वेन सम्बन्धिना छन्दसा तमेनं सोमं समृद्धं करोति। अस्या ऋचस्त्रिष्टुप्छन्दः। सा च त्रिष्टुप् सोममाहर्तुं द्युलोकेगत्वा दक्षिणा (णां) तपश्चाहृतवती। तथा च शाखान्तरे श्रूयते- " सा दक्षिणाभिश्च तपसा चागच्छत्" इति। तस्मादिदं छन्द्स्ः सोमस्य स्वकीय़म्॥
॥शिक्षमाणस्य देवेति॥ शिक्षते वा एष यो यजते क्रतुं दक्षं वरुण सं शिशाधीति। वीर्यम् प्रज्ञानं वरुण सं शिशाधीत्य् एव तद् आह॥
प्रथमपादे शिक्षमाणस्येति पदं व्याचष्टे- पुनः पुनरभ्यासः शिक्षा यजनशीलस्य सोऽस्ति। द्वितीयपादमनूद्य व्याचष्टे।
॥ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेमेति॥ यज्ञो वै सुतर्मा नौः। क्र्̥ष्णाजिनं वै सुतर्मा नौर्। वाग् वै सुतर्मा नौर्; वाचम् एव तद् आरुह्य तया स्वर्गं लोकम् अभि संतरति॥
द्वितीयार्धमनूद्य व्याचष्टे- यत्र यज्ञस्य वा कृष्णाजिनस्य वा प्रस्तावस्तत्र तत्परत्वेन सुशर्मशब्दो व्याख्येयः। इह तु मन्त्ररूपा वाग्निवक्षिता। तत्तेन मन्त्रपाठेन वाग्रूपामेव नावमारुह्य तया नाव स्वर्गमभिलक्ष्य सम्यक्स्वर्गं तरति॥
॥ता एता अष्टाव् अन्वाह रूपसमृद्धा एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं। यत् कर्म क्रियमाणम् र्̥ग् अभिवदति॥
उक्ताः सर्वा ऋचः प्रशंसति- विवक्षितार्थप्रतिपादकेन रूपेण समृद्धाः। तामेव समृद्धिं विशदयति- पूर्ववद्व्याख्येयम्॥
॥तासां त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमां ता द्वादश सम्पद्यन्ते: द्वादश वै मासाः संवत्सरः। संवत्सरः प्रजापतिः प्रजापत्यायतनाभिर् एवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह। यज्ञस्यैव तद् बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥
आद्यन्तयोरृचोरावृत्तिं विधत्ते- आवृत्तिसहितानामृचां सङ्ख्यां प्रशंसति- वेदनं प्रशंसति- आवृत्तिं प्रशंसति- तत्तेनावर्तनेन- बर्सौ रज्वा उभयोरन्तयोः स्थितौ मण्याकारौ ग्रन्घी तद्वदत्रापि नह्यति बध्नाति। तच्च बन्धनं स्थेम्ने स्थैर्याय भवति। तस्यैवान्वयव्यतिरेकाभ्यां व्याख्यानं प्राबल्यं अवस्रंसनं च॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयोऽध्याये द्वितीयः खण्डः॥
॥ अथ तृतीयाध्याये तृतीयः खण्डः॥
॥अन्यतरो ऽनड्वान् युक्तः स्याद् अन्यतरो विमुक्तो ऽथ राजानम् उपावहरेयुर् ॥
सोमप्रवहणीरृचो विधाय सोमस्य शकटादवरोहणं विधत्ते- क्रयदेशे सोमं शकटे प्रक्षिप्य प्राचीनवंशसमीपे समानीय शकटबद्धयोरनडुहोर्मध्ये कञ्चिदनड्वाहं विमुच्येतरमनवमुच्य राजानं शकटादधस्तादृत्विज उपाहरेयुह्। युक्तः शकटे बद्धो विमुक्तः शकटाद्वियोजितः॥
॥यद् उभयोर् विमुक्तयोर् उपावहरेयुः। पित्र्̥देवत्यं राजानं कुर्युः॥
उभयोरनडुहोर्विमोचने दोषमुन्यस्यति- राज्ञः सोमस्य पितृभिः स्वीकृतत्वादयं सोमे देवयोग्यो न भवेत्॥
॥यद् युक्तयोर्। अयोगक्षेमः प्रजा विन्देत्। ताः प्रजाः परिप्लवेरन् यो ऽनड्वान् विमुक्तस् तच् छालासदाम् प्रजानां रूपं। यो युक्तस् तच् चक्रियाणां॥ ते ये युक्ते ऽन्ये विमुक्ते ऽन्य उपावहरन्त्य्। उभव् एव ते क्षेमयोगौ कल्पयन्ति॥
उभयोरनडुहोः शकटयोगेऽपि दोषमाह- अप्राप्तस्य धनादेः सम्पादनं योगः। प्राप्तस्य रक्षणं क्षेमः। योग सहितः क्षेमः योगक्षेमः तदभावः प्रजाः पुत्रादिका विन्देल्लभेत्प्राप्नुयात्। योऽनड्वान्विमुक्तस्तदेतच्छालासदां गृहावस्थितानां प्रजानां पुत्रादीनां रूपं योऽनड्वानधस्ताच्छकटे युक्तस्तच्च क्रियाणां लौकिकानां वैदिकानां च रूपम्। यद्वा चक्रमस्यास्तीति चक्रि शकटं तेन चक्रिणा यान्तीति शकटमारुह्य गच्छन्त्यः प्रजाश्चक्रियास्तासाम्रूपम्॥ एवं सति ते ये यजमानानां मध्ये ये केचिद्बुद्धिमन्तो यजमाना अन्ये युक्त एकस्मिन्ननडुहि शकटबद्धेऽन्ये विमुक्त इतरस्मिन्ननडुहि शकटाद्वियोजिते सति सोममुपावहरन्ति ते बुद्धिमन्त उभावेव क्षेमं योगं च सम्पादयन्ति। तमिममर्थं तैत्तरीयाश्चाऽऽमनन्ति- ‘यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्यादुभावविमुच्य यथानागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्य विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य सन्तत्यै’ इति। नन्वेकत्र सोमावरोहण काल उच्यते इतरत्राऽऽतिथ्येष्टिकाल इति न समानविषयत्वमिति चेन्न। उभयोरेककालीनत्वात्॥
॥देवासुरा वा एषु लोकेषु समयतन्त॥ त एतस्याम् प्राच्यां दिश्य् अयतन्त। तांस् ततो ऽसुरा अजयंश् ते दक्षिणस्यां दिश्य् अयतन्त। तांस् ततो ऽसुरा अजयंश् ते प्रतीच्यां दिश्य् अयतन्त। तांस् ततो ऽसुरा अजयंश् त उदीच्यां दिश्य् अयतन्त। तांस् ततो ऽसुरा अजयंस्॥ त उदीच्याम् प्राच्यां दिश्य् अयतन्त। ते ततो न पराजयन्त॥ सैषा दिग् अपराजिता। तस्माद् एतस्यां दिशि यतेत वा यातयेद् वेश्वरो हान्र्̥णाकर्तोः ॥
अथाख्यायिकामुखेन सोमोपावहरणस्यैशानीं दिशं विधत्तेसमयतन्त सङ्ग्राममकुर्वन्। प्राच्यादिषु चतसृषु दिक्षु देवानां पराजय आसीत्। ऐशान्यां दिशि नास्ति पराजयः। तस्मात्तस्यां दिशि सोमोपावहरनाय यतेत प्रयत्नम् कुर्याद्वा यातयेत्प्रयत्नं कारयेद्वा। एवमेव वैकल्यराहित्यं कर्तुं प्रभुर्भवति। तहवा सोमस्य राज्ञो विजयित्वेनोत्तरत्र प्रशंसा कर्तुं देवासुरावा इत्यादिना लौकिकस्य राज्ञ ऐशान्यां दिशि स्वकीयभृत्यप्रेरनं प्रतिपादितम्॥
॥ते देव अब्रुवन्न्: अराजतया वै नो जयन्ति। राजानं करवामहा इति॥ तथेति॥ ते सोमं राजानम् अकुर्वंस्। ते सोमेन राज्ना सर्वा दिशो ऽजयन्न्॥ एष वै सोमराजा यो यजते॥ प्राचि तिष्ठत्य् आदधति। तेन प्राचीं दिशं जयति॥ तं दक्षिणा परिवहन्ति। तेन दक्षिणां दिशं जयति॥ तम् प्रत्यञ्चम् आवर्तयन्ति। तेन प्रतीचीं दिशं जयति॥ तम् उदीचस् तिष्ठत उपावहरन्ति। तेनोदीचिं दिशं जयति सोमेन राज्ञा सर्वा दिशो जयति य एवं वेद॥
इदानीं सोमस्य जयहेतुत्वं दर्शयति- ते देवाः परस्परमेमब्रुवन्; अस्माकं राजाभावात् प्राच्यादिदिक्षु पराजय आसीदसुराणां जय आसीत्। ततो राजानं सम्पादयाम इति विचार्य सोममेव राजानं कृत्वा प्राच्यादिदिक्षु जयं प्राप्ताः। एवं सति यो यजमानः सोमयागं करोति, एष एव सोमराजा। सोमो राजा यस्येति बहुव्रीहि। अतः सोमाख्यस्वामिनः प्रचारादयं यजमानः सर्वत्र जयति। तत्कथमिति चेत्तदुच्यते। सोमवाहनार्थे शकटे प्राचि तिष्थति प्राङ्मुखे अवस्थिते सति ऋत्विजः तत्र सोममादधति प्रक्शिपन्ति। तेन सोमसम्बन्धि शकटस्य प्राङ्मुखत्वेन यजमानः प्राच्यां दिशि जयं प्राप्नोति। शकटस्थितं सोमं दक्षिणा परिवहन्ति शकटं दक्षिणाभिमुखत्वेन पर्यावृत्य वहन्ति तेन दक्षिणस्यां दिशि जयः। तमुदीचस्तिष्ठत उदङ्मुखत्वेनावस्थिताच्छकटात्तं सोममुपावहरन्ति तेनोदङ्मुखत्वेनोदीच्यां दिशि जयः। एवं सोमराजप्रसादाद्यजमानः सर्वा दिशो जयति। अत्रार्थवादेन विधय उन्नेयाः प्राङ्मुखे शकटे सोममादध्युः। ततो दक्षिणाभिमुखत्वेन परिवहेयुः। ततः प्रत्यङ्मुखत्वेनावर्तयेयुः। तत उदङ्मुखाच्छकटात्सोममुपावहेयुरिति। एतत्सर्वमभिप्रेत्याऽह आपस्तम्बः- ‘सञ्जग्राह प्रत्यवस्तनुवस्यत इति प्रांचोऽभिप्रवाय दक्षिणमावर्तत इत्यग्रेण प्राग्वंशं प्रागीषमुदगीशं वा शकटमवस्थाप्य’ इति। वेदनं प्रशंसति- अत्र शब्दादेव श्रुतस्यापि सर्वादिशो जयतीति वाक्यस्य द्विरावृतिः कर्तव्या॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयाऽध्याये तॄतीयः खण्डः॥
॥ अथ तृतीयाध्याये चतुर्थः खण्डः॥
॥हविर् आतिथ्यं निरुप्यते सोमे राजन्य् आगते॥
सोमोपावहरणं विधायातिथ्येष्टिरूपं कर्मविधत्ते- प्राचीनवंश समीपं सोमे राजनि समागते सति तस्यातिथि रूपत्त्वात्तदीयमातिथ्याख्य कर्मसम्बन्धि हविर्निर्वपेत्। यद्यप्यस्य हविषोऽतिथिर्देवता न भवति विष्णुदेवताया वक्ष्यमाणत्वात्तथापि सोमस्यातिथिरूपस्योपचाराय क्रियमाणत्वादातिथ्यमिति कर्मनाम युक्तम्॥
॥सोमो वै राजा यजमानस्य ग्र्̥हान् आगछति। तस्मा एतद् धविर् आतिथ्यं निरुप्यते। तद् आतिथ्यस्यातिथ्यत्वं॥
एतमेवाभिप्रायं विस्पष्टयति- तिथिविशेशमनपेक्ष्य भोजनार्थं कस्यचिद्गृहं प्रत्यकस्माद्यः समागतः सोऽतिथिः। सोमोऽपि तथाविधत्वादतिथिरित्युच्यते। तत्सम्बन्धित्वादातिथ्यमिति नामधेयम्॥
॥नवकपालो भवति॥ नव वै प्राणाः। प्राणानां कॢप्त्यै प्राणानाम् प्रतिप्रज्ञात्यै॥
हविर्विशेशं विधत्ते- नवसु कपालेषु संस्कृतः पुरोडाशो नवकपालः। पुरुषस्य शिरोगतेषु सप्तसु छिद्रेषु वर्तमानाः सप्तप्राणाः। अधोभागावस्थितयोर्वर्तमानौ द्वौ। एवं नवसङ्ख्याकाः प्रानाः। तथाचान्यत्र श्रूयते ‘सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ’ इति। एवं सति कपालगता नवसङ्ख्या प्राणानां क्ल् प्त्यै स्वव्यापारसामर्थ्याय भवति। सामर्थ्ये च प्राणोऽयमीदृश इति सर्वैः प्राणाः प्रज्ञाता भवन्ति॥
॥वैष्णवो भवति॥ विष्णुर् वै यज्ञः। स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयति॥
द्रव्यं विधाय देवतां विधत्ते- विष्णुर्देवता यस्य पुरोडाशस्य सोऽयं वैष्णवः। विष्णोर्व्यापित्वात्सर्वयज्ञस्वरूपत्वम्। तथासत्यातिथ्येष्टेरपियज्ञत्वाद्विष्णुः स्वकीयादेवता भवति। तया देवतयैनं समृद्धं करोति। यद्यप्यत्र मन्त्राविहितत्वात्तच्छन्दो न प्रकृतं तथाऽपि यज्ञस्य विहितत्वाद्याज्यानुवाक्ययोरवश्यंभावेन च्छन्दोऽर्थसिद्धम्। तेन स्वकीयेन च्छन्दसा यज्ञम् समृद्धं करोति। ते च याज्यानुवाक्ये आश्वलायनेन दर्शिते- ‘इदं विष्णुर्विचक्रमे- (१-२२-१७) तदस्य प्रियमभिपाथो अश्यां’ (१-१५४-५) इति। तयोश्च गायत्री त्रिष्ट्प्वेति च्छन्दोद्वयम्। तेन च्छन्दो द्वयेनास्य यज्ञस्य समृद्धिः॥
॥सर्वाणि वाव छन्दांसि च प्र्̥ष्ठानि च सोमं राजानं क्रीतम् अन्व् आयन्ति। यावन्तः खलु वै राजानम् अनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते॥
अत्र शाखान्तरोक्तानग्नेरातिथ्यमसि विष्णवे त्वेत्यादिकांश्च निर्वापमन्त्रान्हृदि निधाय तत्प्रशंसारूपमर्थवादं दर्शयति- गायत्री त्रिष्टुबित्याद्नी सर्वच्छन्दासि बृहद्रथन्तर वैरूपादिसामसाध्यानि पृष्ठ स्तोत्राणि। तदुभयाभिमानिनो देवा अनुचराह् सन्तो राजानमनु यजमानगृहं प्रत्यागच्छन्ति- अतो राज्ञा सहाऽऽगतेभ्यः सर्वेभ्यः सहतिथ्यं कर्तव्यम्। तथा सत्यग्नेरातिथ्यमसीत्यादिमन्त्रैः सर्वेषामनुचरानां गायत्र्यादीनां तृप्तिर्भवतीत्यर्थः। तथा च तैत्तरीया आमनन्ति- ‘ यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाम्सि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्नवेत्वेत्याह गायत्र्या एवैतेन करोति’ इत्यादि। अत्राऽऽतिथ्येष्टिमध्येऽग्निमन्थनमापस्तम्ब आह- ‘चतुर्होत्रातिथ्यमासाद्य सम्भारयजूंशि व्याचष्टे। यजमानं वाचयतीत्येके। पशुवन्निर्मथ्यः सामिधेन्यश्च’ इति। आश्वलायनोऽप्याह- ‘आतिथ्येळान्ता तस्यामग्निमन्थनम्’ इति॥
॥अग्निम् मन्थन्ति सोमे राजन्य् आगते॥ तद् यथैवादो मनुष्यराज आगते ऽन्यस्मिन् वार्हत्य् उक्षाणं वा वेहतं वा क्षदन्त। एवम् एवास्मा एतत् क्षदन्ते यद् अग्निम् मन्थन्त्य्; अग्निर् हि देवानाम् पशुः॥
तदिदमग्निमन्थनं विधत्ते- लोके यथैवादोऽतिथिसत्करनं तथैव सोमस्यापि तत्सत्करणं द्रष्टव्यम्। तावेतौ दृष्टान्तदार्ष्टान्तिकौ मनुष्यराज इथादिना स्पष्टीक्रियते। महति मनुष्यभूपतौ वान्यस्मिंश्चिद्विद्यावृत्तादिसम्पन्नत्वेनार्हति पूज्ये महति ब्राह्मणेऽब्राह्मणे वा गृहं प्रत्यागते सथतिथिसत्कारार्थं शास्त्रकुशलाः शिष्टाः किञ्चिदुक्षाणं वृषभं वा वेहतं गर्भघातिनीं वृद्धां गां वा क्षदन्ते हिम्सन्ति। अयं सत्कारः स्मृतिषु प्रसिद्धो युगान्तरधर्मो द्रष्टव्यः। एवमेवात्रापि अग्निं मन्थन्तीति यदस्ति, एतदस्मै सोमायातिथिसत्कारार्थं क्षन्दतेऽग्नेर्देवपशुत्वात्। यथानड्वान्ह्व्यं वहति तथाऽग्निरपि हव्यं वहति तस्मादग्नेः पशुसाम्यम्। अत्र मीमांसा। सप्तमाध्याये तृतीयपादे चिन्तितम्फ़्। "वैष्णवे त्रिकपाले वैष्णवान्नवकलपालतः। धर्मातिदेशः स्यान्नोवा विद्यतेऽताग्निहोत्रवत्॥ श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः। सगौणवृत्तिमाश्रित्य धर्मान्नातिदिशत्यतः॥ अतिथ्येष्टौ वैष्नवो नवकपालो विहितः। तत्र श्रुतौ विष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्रशब्दवन्नवकपालधर्मानतिदिशतीति पूर्वः पक्षः। विष्णुर्देवता यस्येति विग्रहे विहिततद्धितप्रत्ययो देवतामभिधत्ते न तु धर्मान्। तस्मान्नातिदिशति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयाऽध्यायय्स चतुर्थः खण्डः॥
॥ अथ तृतीयाध्याये पञ्चमः खण्डः॥
॥अग्नये मथ्यमानायानुब्रूहीत्य् आहाध्वर्युर् अभि त्वा देवा सवितर् इति सावित्रीम् अन्वाह तद् आहुर्: यद् अग्नये मथ्यमानायानु वाचाहाथ कस्मात् सावित्रीम् अन्वाहेति सविता वै प्रसवानाम् ईशे। सवित्र्̥प्रसूता एवैनं तन् मन्थन्ति॥ तस्मात् सावित्रीम् अन्वाह॥ यद् अग्नये मथ्यमानायानु वाचाहाथ कस्मात् सावित्रीम् अन्वाह॥
अग्निमथनं विधाय तत्रत्या ऋचो विधातुं प्रैषमन्त्रं विधत्ते- तत्र प्रथमामृचं विधत्ते- सविता देवता गायत्र्या ऋचः सा सावित्री। अत्र प्रैषानुवचनमन्त्रयोः वैयधिकरण्यरूपं चोद्यमुद्भावयति तत्तत्र ब्रह्मवादिनश्चोद्यमाहुः यद्यस्मात्कारणादध्वर्युरग्नये मथ्यमानायेत्यग्नयेनुकूलयावाचा प्रैषमन्त्रमाह तत्तस्मात्कारनादाग्नेयीहोत्रानुवक्तव्या तां परित्याज्याथानन्तरं कस्कात्कारणाद्धोता सावित्रीमृचमनुब्रूते। इति शब्दश्चोद्यसमाप्त्यर्थः। तस्य चोद्यस्योत्तरमाह- योऽयं सविता देवः स एव प्रसवानां कर्मस्वनुज्ञानमीशे स्वामी भवति। तथासति तत्तेन मन्त्रपाठेन सवित्रानुज्ञाता एव सन्त एनमग्निं मन्थति। तस्मात्कारणात्सावित्रीमृचमनुब्रूयात्॥
॥मही द्यौः प्र्̥थिवी च न इति द्यावाप्र्̥थिवीयाम् अन्वाह तद् आहुर्: यद् अग्नये मथ्यमानायानु वाचाहाथ कस्माद् द्यावाप्र्̥थिवीयाम् अन्वाहेति॥ द्यावाप्र्̥थिवीभ्यां वा एतं जातं देवाः पर्यग्र्̥ह्णंस्। ताभ्याम् एवाद्यापि परिग्र्̥हीतस्॥ तस्माद् द्यावाप्र्̥थिवीयाम् अन्वाह॥
द्वितीयामृचं विधत्ते- द्यौश्च पृथिवी च देवते यस्या ऋचः सेयं द्यावापृथिवीया। अत्रापि पूर्ववच्च्योद्यपरिहारौ दर्शयति। पुरा ददाचिद्देवा उत्पन्नमग्निं द्यावापृथिवीभ्यां परिगृहीतवन्तः। अद्यापि ताभ्यामेव परिगृहीतो दृश्यते। पावकोऽग्निर्भूम्या परिग्रुहीतः प्रकाशकसूर्यरूपोऽग्निर्दिवा परिगृहीतः। तस्मादग्निपरिग्रहाय द्यावापृथिवी देवताकाया ऋचोऽनुवचनं युक्तम्॥
॥त्वाम् अग्ने पुष्कराद् अधीति त्र्̥चम् आग्नेयं गायत्रम् अन्वाहाग्नौ मथ्यमाने। स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयत्य् अथर्वा निर् अमन्थतेति रूपसमृद्धं एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं। यत् कर्म क्रियमाणम् र्̥ग् अभिवदति॥
तृतीयाद्यास्त्रिस्र ऋचो विधत्ते- अस्य तृचस्यागिन् देवताकत्वेन वैयधिकरण्यचोद्यानुदयात्स्वयैवेत्यादिना प्रशम्सैव क्रियते। गायत्री छन्दोऽग्नेः स्वकीयमुभयोः प्रजापतिमुखजन्यत्वात्। प्रथमायामृचि द्वितीयपादमनूद्य प्रशंसति- अथर्वाख्य ऋषिर्निःशेषेण मन्थनं कृतवानित्युच्यते- तदेतद्वचनमग्निमन्थनस्यानुकूल्येन रूपेण समृद्धम्॥
॥स यदि न जायेत यदि चिरं जायेत। राक्षोघ्न्यो गायत्र्यो ऽनूच्या अग्ने हंसि न्य् अत्रिणम् इत्य् एता रक्षसाम् अपहत्यै रक्षांसि वा एनं तर्ह्य् आलभन्ते। यर्हि न जायते यर्हि चिरं जायते॥
इत्थमुक्तास्वग्निमन्थनास्वृक्षु पञ्चस्वनूक्तासु षष्ठप्रभृतीनामृचां अनुवचनात्पुर्वं नैमित्तिकाः काश्चिदृचो विधत्ते- पञ्चानामृचानामृचामनुवचने सति तस्मिन्काले यदि सोऽग्निर्नोत्पद्येत तत उत्पत्तिलिङ्गं धूमादिरूपं यदि न द्रुश्येत द्रुश्यमानेऽपि वा लिङ्गे यदि सहसा नोत्पद्यते किन्तु विलम्बेन तदानीं सहसा तदुत्पत्यर्थं रक्षोहननलिङ्गोपेता गायत्री छन्दस्का ऋचोऽनुब्रूयात्। प्रतीकग्रहणेन ता ऋचो दर्शयति। अग्ने हंसीत्यादिके सूक्ते नवर्चो विद्यन्ते। एते रक्षोहननलिङ्गकाः। तासामनुवचने प्रयोजनमाह- कः प्रसङ्गो रक्शसामित्याशङ्क्याह। यस्मिन्काले मथ्यमानस्य वह्नेः सर्वथानुत्पत्तिर्विलम्बो वा भवेत्तदानीमेनं वह्निं रक्षांस्येवाऽऽलभन्ते संस्पृशन्ति प्रतिबध्नन्तीत्यर्थः। ततो रक्षोहननाय ता ऋचः पठनीयाः॥
॥स यद्य् एकस्याम् एवानूक्तायां जायेत यदि द्वयोर्। अथो त ब्रुवन्तु जन्तव इति जाताय जातवतीम् अभिरूपाम् अनुब्रूयाद्॥
नैमित्तिका ऋचो विधाय प्रकृतामेव षष्ठीमृचं विधत्ते- राक्षोघ्नीनामृचां मध्ये यद्येकस्यामेव पठितायां स वह्निर्जायत यदिवाद्वयोः पठितयोरुत्पद्येत। एवं तृतीयादीनामुपलक्षणम्। अथेदानीमुत्पत्तिलक्षण एव, उत ब्रुवन्त्येतामनुब्रूयात्। सा च जातायाभिरूपाजातस्याग्नेरनुकूला। तदेवाऽऽनुकूल्यं जातवतीमिति शब्देन स्पष्टीक्रियते। जातम् जन्मवाचिपदं तदस्यामस्तीति जातवती तस्याऋचो द्वितीयः पादं एवं पठ्यते- ‘उदग्निर्वृत्रहाऽजनि’ इति। तस्मिन्नजनीति जन्मवाचकं पदमस्ति॥
॥यद् यज्ञे ऽभिरूपं तत् समृद्ध आ यं हस्ते न खादिनम् इति हस्ताभ्यां ह्य् एन मन्थन्ति शिशुं जातम् इति॥ शिशुर् इव वा एष प्रथमजातो यद् अग्निर् न बिभ्रति विशाम् अग्निं स्वध्वरम् इति यद् वै देवानां नेति तद् एषाम् ओ म् इति प्र देवं देववीतये भरता वसुवित्तमम् इति प्रह्रियमाणायाभिरूपा यद् यज्ञे ऽभिरूपं तत् समृद्धम् आस्वे योनौ नि षीदत्व् इत्य् एष ह वा अस्य स्वो योनिर् यद् अग्निर् अग्नेर् आ जातं जातवेदसीति जात इतरो। जातवेदा इतरः प्रियं शिशीतातिथिम् इत्य्॥ एष ह वा अस्य प्रियो ऽतिथिर् यद् अग्निर् अग्नेः॥
अस्या ऋचोऽभिरूपत्वं प्रशंसति- सप्तमीमृचं विधत्ते। अनुब्रूयादिति शेषः। सा च संहितायां पठिता- ‘आयं हस्ते न खादिनं शिशुं जातं न बिभ्रति। विशामग्निं- स्वध्वरम्’ इति। तस्या अयमर्थः। यं शब्दः प्रसिद्धवाची न शब्द उपमार्थः। यं मन्थनेन प्रसिद्धमग्निं हस्ते न हस्त इव ऋत्विज आबिभ्रति समन्ताद्धारयन्ति। तत्तदृत्विजां हस्ताभ्यां मन्थनं हस्तधारणसदृशं शिशुं जातं नेत्यनेन दृष्टान्तोऽभिधीयते। जातं शिशुमिव। यथा सद्यः समुत्पन्नं शिशुं हस्ताभ्यां धारयन्ति तद्वत्। कीदृशमग्नि विश्वास्वध्वरं, शोभनोऽध्वरो यागो यस्याग्नेः सोऽयं स्वध्वरः। विशां प्रजानामृत्विग्यजमानरूपाणां अध्वरनिष्पादकम्। पुनरपि कीदृशं। खादिनम् हविरादीनां भक्षकमिति। अस्यामृचि प्रथमपादे हस्तशब्देन विवक्षितमर्थं दर्शयति- हि यस्मादेनमग्निं हस्ताभ्यां मन्थन्ति तस्माद्धस्ते धारनमुपपद्यते। द्वितीयपादे पूर्वभागमनुद्य तात्पर्यं दर्शयति- योऽग्निर्मन्थनेन प्रथममुत्पन्न एष शिशुना सदृश इत्येतस्य भागस्य तात्पर्यम्। द्वितीयभागस्योत्तरभागं तृतीयपादं चानुवदति। अत्र नेति पदं व्याचष्टे- देवानां सम्बन्धिनि मन्त्रे क्वचित्क्वचिन्नेति पदं यदेवास्ति तदेषां देवप्रतिपादकानां मन्त्राणां नेति पदमोमित्यस्मिन्नर्थे वर्तते। लोके प्रतिषिद्धवाची नेति शब्दो वेदेङ्गीकारवाची। न ओमित्यस्य पदस्यार्थे वर्तते। तथा सति लोकवैपरीत्यस्य दृष्टत्वादुपमार्थोऽपि वक्तुं शक्यते। तदेकदुभयं निरुक्तकारेणोक्तं। ‘नेति प्रतिषेधार्थीयो भाषायां’ इति। ‘उपरिष्टादुपचार उपमार्थीयः’ इति च। अयं च नेति शब्दः शिशुं जातं नेत्युपमेयादुपरिष्टात्प्रयुज्यते। तस्मादुपमार्थी। देवानामित्यत्र देवप्रतिपादकानां मन्त्राणां सम्बन्धीति व्याख्यातम्। यद्वादकारवकारयोर्विपर्यासेन वेदानां सम्बन्धीति व्याख्येयम्॥ ॥अष्टमीमृचं विधत्ते- अनुवक्तव्येति शेषः। आहवनीये प्रक्षिप्यमाणोऽयं मथितोऽग्निः प्रह्रियमाणस्तस्येयमृगनुरूपा। कथमिति चेत्तदुच्यते। देववीतये देवानां कामायाभिलाषाय वसु वित्तं हविर्लक्शणधन्नभिज्ञं देवं मथितमग्निं हे ऋत्विजः प्रभरत, आहवनीये प्रहरत प्रक्शिपत। तस्मात्प्रह्रियमाणानुरूपत्वम्। अत्र जातायानुब्रू३हीत्यध्वर्युणा प्रेषितो होता पूर्वोक्तामुत ब्रुवन्तु जन्तव इत्येतामनुब्रूयात्। तथा प्रह्रियमानायानुब्रू३हीत्येवं प्रेशितः प्र देवमित्यादिकामृचं ब्रूयात्। एवमुत्तरा अपि च। तदेतत्सर्वं तैत्तरीयाः सङ्गृह्याऽऽमनन्ति- ‘अग्नये मथ्यमानायानुब्रू३हीत्याह। सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थन्ति। जातायानुब्रू३हि प्रह्रियमाणायानुब्रूहीत्याह काण्डे काण्डएवैनं क्रियमाणे समर्धयति। गायत्री सर्वान्वाह’ इति। प्रदेवमित्यस्या ऋचः प्रह्रियमानाभिरूपत्वे यज्ञाङ्गसमृद्धिरूपं प्रयोजनं दर्शयति अस्या ऋचस्तृतीयपादमनुवदति- अयं मथितोऽग्निरागत्य स्वे योनौ स्वकीयस्थान आहवनीयरूपे। नितरामुपविशत्विति पादस्यार्थः। तस्मिन्पादे योनिपदं व्याचष्टे॥ ॥आहवनीयाख्यो योऽगिरस्ति, एष वा अस्य मथितस्याग्नेः स्वकीयं स्थानम्॥
॥आ जातं जातवेदसीति जात इतरो। जातवेदा इतरः प्रियं शिशीतातिथिम् इत्य्॥ एष ह वा अस्य प्रियो ऽतिथिर् यद् अग्निर् अग्नेः स्योन आ ग्र्̥हप्तिम् इति। शान्त्याम् एवैनं तद् दधात्य् अग्निनाग्निः सम् इध्यते कविर् ग्र्̥हपतिर् युवा हव्यवाद् जुह्वास्य इत्य् अभिरूपा यद् यज्ञे ऽभिरूपं तत् समृद्धं त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सतेति विप्र इतरो विप्र इतरः। सनु इतरः सन्न् इतरः सखा सख्या समिध्यस इत्य्॥ एष ह वा अस्य स्वः सखा यद् अग्निर् अग्नेस्॥
नवमीमृचं विधत्ते। अनुब्रूयादिति शेषः। सा चैवं संहितायामाम्नाता- आजातं जातवेदसि प्रियं शिशीतातिथिम्। स्योन आ गृहपरिं इति। अस्यायमर्थः। कीदृशमाहवनीयस्य प्रीतिहेतुमथितिं। इदानीमागतत्वादतिथिरूपं स्योने सुखकर आहवनीय आगृहपतिमागत्य गृहस्वामित्वेन वर्तमानम्। तस्यामृचि प्रथमपादे पदद्वयं व्याचष्टे। इतर इदानीं मथितोऽग्निः सद्यः समुत्पन्नत्वाज्जात इत्युच्यते। इतरः पूर्वप्रसिद्धाहवनीयोऽग्निरिदानीं जातमिममग्निं वेत्तीति। जातवेदा इत्युच्यते। द्वितीयपादमनूद्य व्याचष्टे- योऽग्निर्मन्थनेनोत्पन्न एष एवास्य पूर्वप्रसिद्धस्याऽऽहवनीयस्याग्नेः प्रियश्चातिथिश्च। तृतीयपादमनूद्य व्याचष्टे। स्योन सुखरूपे पूर्वाग्नौ स्थापनं यदस्ति तत्तेन स्थापनेन नूतनमेवमग्निं शान्त्यामेव श्तापयति। पूर्वाग्नेः सुखनिवासहेतुत्वाच्छन्तित्वम्। दशमीमृचं विधत्ते- अनूच्येति शेषः। अस्या अयमर्थः। अग्निनाऽऽधार भूतेन आहवनीयानुगृहित इदानीं प्रहृतोऽग्निः सम्यग्दीप्यते। कीदृशोऽग्निः। कविर्विद्वानुकूताभिज्ञोऽत एव गृहपतिर्यजमानस्य गृहस्य पालकः। युवा नूतनः। देवेभ्यो हव्यं वहतिति हव्यवाट्। होमसाधनभूतः। जुहूदेवास्यं मुखं यस्यासौ जुह्वास्यः। सेयम्रुक्प्रह्रियमाणाग्निगुणकीर्तनात्तस्याग्नेरनुरूपा। तदेतदानुरूप्यं प्रशंसति- एकादशीमृचं विधत्ते- अनुब्रूयादिति शेशः। हे नूतनाग्ने त्वं सिद्धेनाहवनीयेनाग्निना समिध्यस इति तृतीयपादगतेन पदेन योज्यं। उभयोरग्नेर्विद्यमानत्वात्सम्यगनुष्ठान निर्वाहकश्वाद्वा सच्छब्दवाच्यत्वम्। ‘अग्ने महा असि ब्राह्मणभारत’ इति श्रुतेर्ब्राह्मणजात्यभिमानित्वाद्विप्रत्वम्। तदेतदुभयं विशदयति। तृतीयपादमनूद्य व्याचष्टे- योऽग्निराहवनीयाख्य एष एवास्य अग्नेर्मथितस्य स्वकीयः सखा॥
॥तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु स्वेषु क्षयेषु वाजिनम् इति एष ह वा अस्य स्वः क्षयो यद् अग्निर् अग्नेर् यज्ञेन यज्ञम् अयजन्त देवा इत्य् उत्तमया परिदधाति यज्ञेन वै तद् देवा यज्ञम् अयजन्त यद् अग्निनाग्निम् अयजन्त। ते स्वर्गं लोकम् आयंस् तानि धर्माणि प्रथमान्य् आसन् ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्। ते ऽग्रे ऽग्निनाग्निम् अयजन्त। ते स्वर्गं लोकम् आयन्न्॥
द्वादशीमृचं विधत्ते- अनुब्रूयादिति शेषः। हे ऋत्विजस्तं नूतनमग्निं मर्जयन्त शोधयन्त। कीदृशं शोभनस्य क्रतोर्निर्वाहकम्। आजिषु सङ्ग्रामेषु पुरोयावानं पुरोगन्तरं स्वेषु क्षयेषु स्वक्जीयेषु गृहेष्वावहनीयादिषु वाजिनमन्नवन्तं गच्छन्तं वा। क्षयशब्देनात्र आहवनीयाग्निरूपगृहविवक्षां दर्शयति- उत्तमया चानया परिदधाति, अनुवचनं समापयेत्। यदाहाश्व्लायनः। ‘यज्ञेन यज्ञमयजन्तदेवा इति परिदध्यात्सर्वत्रोत्तमां परिधाणीयेति विद्यात्’ इति। उदाहृतमृचः पादं व्याचष्टे- अग्निना प्रह्रियमाणेन नूतनेन पूर्वसिद्धमाहवनीयाग्निमयजन्त पूजितवन्त इति यदस्ति तेनकारनेन यज्ञेन वै देवा यज्ञमयजन्तेत्युच्यते। उभौ यज्ञशब्दौ स्वकारणभूतमग्निद्वयमुपलक्शयतः। देवशब्देनेदानीं देवत्वेन वर्तमानाः पूर्वसिद्धाऋत्विजो विवक्षिताः। ता च पूर्वमनुष्ठितेन यागेन स्वर्गलोकं प्राप्ताः॥ अवशिष्टं पदत्रयं पठति- इदानीं देवत्वे न वर्तमानैः पूर्वसिद्धैरृत्विग्यजमानैर्यानि ज्योतिष्तोमादीनि कर्माण्यनुष्ठितानि सर्वाणि प्रथमानि धर्माण्यादिसृष्टिकालीनानि सुकृतसाधनन्यासन्। ते ह ते चानुष्ठातारो महिमानो महिमत्वोपेता नाकं सचन्त कं सुखमकं दुःखं तद्रहितो भोगो नाकस्तं सम्प्राप्तवन्तः। यत्र यस्मिल्लोके पूर्वेसाध्याः पूर्वसृष्टिगता यज्ञादि साधका इदानीं यज्ञादिभिः साध्यत्वेन वर्तमाना देवाः सन्ति वर्तन्ते तं नाकं सचन्तेति पूर्वत्रान्वयः। चतुर्थपादस्य तात्पर्यं दर्शयति। छन्दासि वै गायत्रादि च्छन्दोभिमानिनएव साध्या इदानीं जनैः पूज्या देवास्तेऽग्रे च पूर्वसृष्टाग्निना मथितेनाग्निनाऽऽहवनीयमग्निमयजन्त पूजितवन्तः। ते च तेन यागेन स्वर्गं प्राप्ताः॥
॥आदित्याश् चैवेहासन्न् अङ्गिरसश् च। ते ऽग्रे ऽग्निनाग्निम् अयजन्त। ते स्वर्गं लोकम् आयन्सैषा स्वर्ग्याहुतिर् यद् अग्न्याहुतिर्॥ यदि ह व अप्य् अब्राह्मणोक्तो यदि दुरुक्तोक्तो यजते ऽथ हैषाहुतिर् गछत्य् एव देवान्। न पाप्मना संस्र्̥ज्यते गछत्य् अस्याहुतिर् देवान् नास्याहुतिः पाप्मना संस्र्̥ज्यते य एवं वेद॥ केवलं छन्दोदेवा एव चतुर्थपादे विवक्षिताः किन्त्वन्येऽपीत्याह इदानीमादित्यशब्देनाभिधेया देवा अङ्गिरः शब्देनाभिधेया ये चर्ष यस्ते द्विविधा अपीहैवाऽऽसन्भूमावेव पूर्वसृष्टौ मनुष्यरूपेणावस्थिताः। तेऽग्र इत्यादि पूर्ववत्। तदेवं चतुर्थपादतात्पर्यद्वयमुक्तम्। यद्वा छन्दांसीत्यादिकमेव चतुर्थपादतात्पर्यम्। आदित्यादिकमितरपादतात्पर्यमिति द्रष्टव्यम्। येऽयमाहवनीयेऽग्नौ मथिताग्नि प्रक्षेपलक्शणाहुतिस्तां प्रशंसति। अग्निरूपद्रव्याहुतिर्या विद्यते सैषा स्वर्गाय हिता। यदिहेत्यादिना स्वर्गत्वमेव स्पष्टीक्रियते- ब्राह्मणं विधायकं वाक्यं तेन प्रेरितो ब्राह्मनोक्तः। तद्विपरीतः पण्डितं मन्यमानः स्वबुद्ध्यैव यत्कञ्चिद्योऽनुतिष्ठति सोऽयमब्राह्मणोक्तः। पुरुषेणान्यथावबुद्धं विधिवाक्यं दुरक्तं तेनप्रेरितो दुरुक्तोक्तः। अथवा स्मृतिष्वब्राह्मणत्वेन प्रतिपादितो योऽस्ति सोऽयमब्राह्मणोक्तः। तद्यथा॥ "अब्राह्मणास्तु षट्प्रोक्ता इति शातातपोऽब्रवीत्। आद्यस्तु राजभृत्यः स्याद्द्वितीयः क्रयविक्रयी॥तृतीयो बहुयाज्याख्यश्चतुर्थोऽश्रौतयाजकः। पञ्चमो ग्रामयाजी च षष्ठो ब्रह्मबन्धुः स्मृतः॥
यद्यपि याजनाध्यापनप्रतिग्रहा ब्राह्मणस्य जीवनहेतुत्वेन विहितत्वादनिषिद्धास्तथापि यावता जीवनं निष्पद्यते तावदेव याजनं शास्त्रेणाङ्गीकृतम्। यस्तु सत्यपि जीवने धनाधिक्यवाञ्छया याजनशीलः सोऽत्र बहुयाजी विवक्षितः। यः पुमान्श्रौतकर्मण्यधिकृतोऽनादरेण स्वयं श्रौतं नानुतिष्ठति अन्यानपि नानुष्थापयति किन्तु स्मार्तकर्मपरःसन् अनुतिष्ठत्यनुष्ठापयति सोऽयमश्रौतयाजकः। ग्रामे नगरे च योग्यायोग्याश्च यावन्तः सन्ति धनाभिलाषेण तावतां सर्वेषां याजको ग्रामनगरयाजी। यः पुमान्प्रातः सूर्योदयात्प्राक् सन्ध्यां नोपास्ते सायंचास्तमयात्प्राङ्नोपास्ते सोऽयं ब्रह्मबन्धुः एते षडब्राह्मणत्वेन स्मृतिषूक्तः। दुष्टान्यपवादरूपाणि वचनानि दुरुक्तानि तैरभिशस्तो दुरुक्तोऽक्तः। अब्राह्मणोक्तो वा दुरुक्तोक्तोऽवा यद्यपि यजेत तथाप्येषाऽऽहवनीये हुता मथिताऽग्न्याहुतिर्देवान्प्राप्नोत्येव। ततो यजमानस्य पापसंसर्गो न भवति। वेदनं प्रशंसति उक्तार्थवेदिता यद्यपि यत्किञ्चित्कर्म विकलमनुतिष्ठति तथापि तत्सर्वं सकलं भवति॥
॥ता एतास् त्रयोदशान्वाह रूपसमृद्धा एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं।यत् कर्म क्रियमाणम् र्̥ग् अभिवदति तासां त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमां। ताः सप्तदश सम्पद्यन्ते॥ सप्तदशो वै प्रजापतिर्: द्वादश मासाः पञ्चर्तवस्॥ तावान् संवत्सरः। संवत्सरः प्रजापतिः प्रजापत्यायतनाभिर् एवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह। यज्ञस्यैव तद् बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥
न्यूनाधिकसङ्ख्या भ्रमव्युदानाय विहितानामृचां सङ्ख्यां दर्शयति- राक्षोघ्नीनां नैमित्तिकत्वात्तत्परित्यागेनेतरस्त्रयोदशसङ्ख्याकाः। ताश्च मथ्यमानस्य जायमानस्य प्रह्रियमाणस्यावहनीयेन संसृज्यमानस्य च प्रतिपादनेनानुकूलेनैवरूपेण समृद्धाः। तामेतां समृद्धिं प्रशंसति। आद्यन्तयोरृचोरावृत्तिविधिमावृत्तानां सङ्ख्याप्रशंसां वेदनप्रशंसामावृत्तिप्रशंसां च दर्शयति- पूर्ववद्व्याख्येयम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयाऽध्यायस्य पञ्चमः खण्डः॥
॥ अथ तृतीयाध्याये षष्ठः खण्डः॥
॥समिधाग्निं दुवस्यत्। आ प्यायस्व सम् एतु त इत्य् आज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं। यत् कर्म क्रियमाणम् र्̥ग् अभिवदति॥
आतिथ्येष्टिमध्ये कर्तव्यमग्निमन्थनमुक्त्वा तदिष्टिविशेषं विधत्ते- समिधाग्निमिति प्रथमाज्यभागस्य पुरोनुवाक्या। आप्यायस्व समेतुत इति द्वितीयस्य। प्रथममन्त्रस्य द्वितीयपादे घृतैर्बोधयतातिथिमिति श्रूयमाणत्वादातिथ्यवत्यौ॥
॥सैषाग्नेय्य् अतिथिमती। न सौम्यातिथिमत्य् अस्ति॥ यत् सौम्यातिथिमती स्याच्। छश्वत् सा स्यात्॥
तदेतदाक्षिपति- स्ॐया त्वतिथिशब्दोपेता नास्ति। आप्यायस्वेत्यस्यामृच्यतिथिशब्दस्याश्रवनात्। यदि स्ॐयातिथिशब्दोपेता स्यात्तदानीं शस्वदवश्यं सास्ॐया पुरोनुवाक्या भवेत्। न त्वसावतिथिमती। तस्मादातिथ्यवथाविति द्विवचनमयुक्तमित्यर्थः॥
॥एतत् त्व् एवैषातिथिमति यद् आपीनवती॥
आक्षेपं समाधत्ते- तुशब्द आक्षेपनिवारणार्थः। अपीनमभिवृद्धिस्तद्वाचकस्याऽऽप्यायस्वेति शब्दस्य विद्यमानत्वादियं स्ॐयाऽऽपीनवती। यदापीनवत्वमस्ति एतदेवैतेनापीनवत्वेनैवैषा स्ॐया तिथिमयी सम्पद्यते। आपीनवत्वस्यातिथ्युपलक्षकत्वात्॥
॥यदा वा अतिथिम् परिवेविषत्य् आपीन इव वै स तर्हि भवति॥
तदेवोपलक्षकत्वं विशदयति- तमतिथिं गृहस्वामी यदैव परिवेविषति परिवेषनेन पात्रे भोज्यप्रक्षेपनेन भोजयति तर्हि तस्मिन्भोजनोत्तरकाले सोऽतिथिरापीन इवोदरपूर्त्या वृद्धिं पाप्त इव भवत्येव॥ तस्माद्वृद्धि वाचक आप्यायस्वेति शब्दोऽतिथिलक्षकः। अतो द्विवचनं पुरोनुवाक्यात्वं च युक्तम्॥
॥तयोर् जुषाणेनैव यजती॥
आज्यभागयोर्याज्यां विधत्ते- प्रकृतावाम्नातौ जुषाणोऽग्निराज्यस्यवेतु। जुषानः सोम आज्यस्य हविषो वेत्त्विति। तेनैव मन्त्रेण यजेत। अग्निर्वृत्राणीत्यादिके प्रकृतिगते पुरोनुवाक्ये चोदकप्राप्ते अपोद्य यथा समिधाग्निमित्यादिके विहिते तद्वद्याज्यान्तरप्रसक्तिं वारयितुं विधिः॥
॥इदं विष्णुर् वि चक्रमे। तद् अस्य प्रियम् अभि पाथो अश्याम् इति वैष्णव्यौ त्रिपदाम् अनूच्य चतुष्पदया यजति॥
प्रधानस्य हविषो याज्यानुवाक्ये विधत्ते- याज्यानुवाक्ये कुर्यादिति शेषः। तयोर्विभागं विधत्ते- इदं विष्णुरिति त्रिपदा तां पुरोनुवाक्यारूपेणानु ब्रूयात्। तदस्य प्रियमिति चतुष्पदा तया यजेत। याज्यारूपेण तां पठेत्॥
॥सप्त पदानि भवन्ति॥ शिरो व एतद् यज्ञस्य यद् आतिथ्यं। सप्त वै शीर्षन् प्राणाः। शीर्षन्न् एव तत् प्राणान् दधाति॥
ऋग्द्वयगतां पादसङ्ख्यां प्रशंसति- आतिथ्येष्टेर्यज्ञशिरोरूपत्वाच्छिरसि च्छिद्रवर्तिनां प्राणानां सप्तत्वादत्र पादसङ्ख्यया यज्ञस्य शिरसि सप्त प्राणाः स्थापिता भवन्ति॥
॥होतारं चित्ररथम् अध्वरस्य। प्र-प्रायम् अग्निर् भरतस्य श्र्̥ण्व इति स्विष्टक्र्̥तः संयाज्ये भवत आतिथ्यवत्यौ रूपसमृद्धे॥ एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं। यत् कर्म क्रियमाणम् र्̥ग् अभिवदति॥
संयाज्ये विधत्ते- होतारमिति पुरोनुवाक्या। प्र प्रायमिति याज्या। प्रथमाया ऋचश्चतुर्थपादे श्रिया त्व१ग्निमतिथिं जनानामिति श्रूयमाणत्वादातिथ्यवत्वम्। द्वितीयस्या अपि चतुर्थपादे द्युतानो दैव्यो अतिथिरिति॥
॥त्रिष्टुभौ भवतः सेन्द्रियत्वाय॥
मन्त्रद्वयगतं छन्दः प्रशंसति- इन्द्रियं वै त्रिष्टुबिति श्रुत्यन्तरा त्त्रिष्टुभ इन्द्रियहेतुत्वम्॥
॥इलान्तम् भवतीॢान्तेन वा एतेन देवा अराध्नुवन् यद् आतिथ्यं। तस्माद् इॢान्तम् एव कर्तव्यम्॥
अत्रेडाभक्षणादूर्ध्वभाविकर्तव्यमपि चोदकेन प्राप्तं तदेतद्वारयति- पुरोडाशसम्बन्धि यदेतदिडाभागभक्षणं तदन्तमेवाऽऽतिथ्येष्टिरूपमं कर्म भवेत्। तावतैव समृद्धिसिद्धेः। द्विविधमिडाभक्षणम्। अनुयाजयागात्पूर्वमुत्तरकालीनं च॥
॥प्रयाजान् एवात्र यजन्ति नानुयाजान्॥
तयोः पूर्वकालीनमत्रान्तत्वेन दर्शयितुमनुयाजान्निषेधति-
॥प्राणा वै प्रयाजानुयाजास्। ते य इमे शीर्षन् प्राणास् ते प्रयाजा। ये ऽवाञ्चस् ते ऽनुयाजाः॥ स यो ऽत्रानुयाजान् यजेद्। यथेमान् प्राणान् आलुप्य शीर्षन् धित्सेत् ताद्र्̥क् तद्॥
अनुयाजानां यजने दोषं प्रकटयति- प्रशब्दसाम्यात्प्रयाजानां प्रानत्वं तदनुवर्तित्वसाम्यादनुयाजानामपि प्राणत्वम्। तथा अति ते य इमे शीर्षन्प्राणाः शिरस्यवस्थिताः श्वासादिकारिणः प्राणा ये केचित्सन्ति ते प्रयाजरूपाः प्रकृष्टसाम्यादुत्तमाङ्गवर्तित्वेन प्रानानां प्रकृष्टत्वम्॥ प्रयाजानां च प्रथमानुष्ठानत्वेन प्रकृष्टत्वम्। ये त्ववाञ्चो नाभेदधस्ताद्वर्तमाना अपानवाय्वादयस्तेऽनुयाजरूपा निकृष्टत्वसाम्यादपानवाय्वादीनां मध्याङ्गवर्तित्वेन निकृष्टत्वम्। अनुयाजानां पश्चाद्भावित्वेन निक्रुष्टत्वम्। एवं सति यः पुमान्- अत्राऽऽतिथ्येष्टावनुयाजान्यजेल्लोके कश्चिद्यथेमानवाग्देशवर्तिनोऽपानवाय्वादीनालुप्य च्छित्वा शीर्षं धित्सेत्, शिरसि स्थापयितुमिच्छेत्, तादृक् तत् तथैव सुपांस्तत्कर्तुमिच्छेत्। देशवर्तिप्राणस्थानीयानुयाजानां यज्ञशिरः स्थानीयातिथ्यकर्मण्यनुष्ठानमयुक्तं तथा पुत्रादिप्रजास्थानीयानामनुयाजानां शिरस्थानीयेऽनुष्ठानमयुक्तमत्यपि द्रष्टव्यम्॥
॥अतिरिक्तं तत्। सम् उ वा इमे प्राणा विद्रे ये चेमे ये चेमे॥
दोषान्तरमाह- ये चेमे शिरसि योग्याः प्राना येऽप्यमीनीचदेशस्थिताः प्राणास्ते सर्वे समुविद्रे सम्भूयैकत्र शिरस्यवतिष्ठेरन्। तच्चातिरिक्तं योग्यस्थानीयादधिकं शिरोरूपमातिथ्यं कर्म चक्षुरादीनामेव प्राणानां योग्यस्थानं न त्वधोदेशवर्तिनां अपानादीनां तत्रावकाशोऽस्तीत्यर्थः॥
॥तद् यद् एवात्र प्रयाजान् यजन्ति नानुयाजांस्। तत्र स काम उपाप्तो यो ऽनुयाजेषु यो ऽनुयाजेषु॥नन्वनुयाजानामनुष्थानाभावे कर्माङ्गसाकल्यलक्षनः फलविशेषो न प्राप्येतेत्याशङ्क्याह- तत्तस्मिन्नातिथ्य कर्मणि यदि प्रयाजानेव यजन्ति न त्वनुयाजां स्तदानीमनुयाजेषु यः कामः फलविशेषः स सर्वोऽपि तत्र कर्मणि प्राप्तो भवति॥ यथालोके कञ्चिदान्दोलिकादिभारं वहत्सु बहुषु मध्ये कस्यचिदशक्तौ सत्यामवशिष्टा एव वहन्ति तद्वदित्यर्थः। द्विरब्यासोऽध्याय समाप्त्यर्थः। अत्र मीमांसा। दशमाध्यायस्य सप्तमपादे चिन्तितम्॥ प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः। नियमो वा विकल्पः स्यान्निषेध परिसङ्ख्यया॥ शंय्विडान्तत्ववाक्याच्च नियमो विधिमात्रतः। नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा॥ ज्योतिष्टोमे श्रूयते। "शंय्वन्ता प्रायणीया सन्तिष्ठते न पत्नीः संयाजयन्ति। इडान्ताऽऽतिथ्या सन्तिष्ठते नानु याजान्यजति" इति। प्रकृतौ यदा होता तच्छंयोरिति जपति तदानीमध्वर्युः परिधीनग्नौ प्रक्षिपति। तदाह कल्पसूत्रकारः- ‘अनूच्यमाने शंयुवाक आहवनीयेपरिधीन्प्रहरति’ इति। ततो हविः शेषेषु भक्षितेषु पत्नीः संयाजयन्तीति क्रमः। पत्नीसंयाजानामुपरि फलीकरनप्रायश्चित्तहोमकपालोद्वासनैरिष्टिः समाप्यते। एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः शंयुवाकान्तत्वम्, आतिथ्येष्टेरिडाभक्षनान्तत्वं च विकल्पितं स्यात्। कुतः, निषेधवाक्याभ्यां प्रकारद्वयप्रतीतेः। तथाहि। शंय्वन्तत्वेडान्तत्वविधिनैवोपरितनपत्नीसंयाजानुयाजनिषेधे पुनर्न्निषेधवचनं परिसङ्ख्यार्थम्। पत्नीसंयाजानुजव्यतिरिक्ते नास्ति निषेध इति परिसङ्ख्या। तेन प्रकृतिवद्यथाप्राप्तं कपोलोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते विधिवाक्येन शंय्विडान्तत्वं तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः। विधिमात्रस्य अत्र प्रवृत्तेः। शंयंतत्वमिडान्तत्वं च तयोः प्रतिनियतम्। पत्नीसंयाजाद्यभास्त्वर्थसिद्धः। ततो नञ्पद युक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादोऽन्यथा बहवो दोषाः प्रसज्येरन्। विकल्प तावदष्टौ दोषाः प्रसिद्धाः परिसङ्ख्यायां च त्रयो दोषाः। विधिपरिसङ्ख्याभ्यां वाक्यभेदोऽपरो दोषः। ततः शंय्विडान्तत्वंनियतम्। तत्रैवान्यच्चिन्तितम्॥ "तत्रैव शंय्विडे पूर्वे परे वा स्वेछ्छयाथवा। परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः॥ निषेधस्यार्थवत्वाय परे एवानुवादगीः। पूर्वैकवाक्यतां याति पूर्वे एवाविरोधितः॥
प्रायणीयातिथ्येयानिर्णीते शंय्विडे पुनः सन्दिह्येते। प्रकृतौ द्विविधे शंय्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहित। ते चात्रे चोदकप्राप्ते। तत्र द्यिविधश्रुतेरर्थे चोदकेनातिदिष्टेसति विशेशनियामकाभावादिच्छया इच्छयास्वीकार्ये इत्येकः पक्षः। यदि प्रायणीया पूर्वशंय्वन्ता आतिथ्याच पूर्वेडान्तास्यात्तदानीमन्तत्वविधिनैव ताभ्यां शंय्विडाभ्यामूर्ध्वां प्राप्तानां पत्नीसंयाजानामनुयाजानां च वारितत्वान्न निषेधो व्यर्थः स्यात्। परयोः शंय्विडयोरन्तत्वेतु ताभ्यां शंयिड्वाभ्यां पूर्वप्राप्तानां तेषां अनिवारणात्तन्निवारणाय सार्थको निषेधस्तस्मात्परे एव शंय्विडे ग्राह्ये। इति द्वितीयः पक्शः। निशेधोऽयं नित्यानुवाद इत्युक्तम्। स्द् च पूर्वयोः शंय्विडयोरन्तत्वेऽप्यकवाक्यतामापद्य अनुवादकत्वेनोपपद्यते। असञ्जातविरोधिन्यौ हि पूर्वे शंय्विडे। तस्मात्ते एव ग्राह्ये इति राद्धान्तः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य तृतीयाऽध्यायस्य षष्ठः खण्डः॥
॥ अथ चतुर्थाद्याये प्रथमः खण्डः॥
॥ॐयज्ञो वै देवेभ्यˆ उदक्राम-न्नवोऽह मन्नं भविष्यामीति-नेति देवाˆ अब्रुव-न्नन्नमेव नो भविष्यसीति, तन्देवाˆ विमेथिरे- सˆहैभ्यो विहृतो न प्र बभूव, ते होचु र्देवाˆ- न वै नˆ इत्थँ विहृतोऽलं भविष्यति- हन्तेमँ यज्ञं संभरामेति- तथेति, तं सञ्जभ्रु ॥ सोम प्रवाहिका अग्निमन्थनीया ऋचस्तथा। आतिथ्यास्तद्विशेषाश्च तृतीयाध्याय ईरिताः॥
अथ प्रवर्ग्यादयो वक्तव्यास्तदर्थमादावाख्यायिकामाह- यज्ञशब्देनात्र प्रवर्ग्यो विवक्षितः। तदभिमानी देवः केनापि निमित्तेनापरक्तोऽन्येऽभ्यो देवेभ्य उत्क्रान्तवान्। हे देवा युष्माकमहमन्नं न भविष्यामीत्येवमुक्क्रमणकाले प्रोक्तवान्। ततो देवस्तदुत्क्रमणं नेति प्रतिषिध्य सर्वथा त्वमस्माकमन्नं भवेति प्रार्थितवन्तः। प्रवर्ग्याख्ये कर्मणि युद्धविस्तद्देवनामन्नं तदभिमानी च पुरुषो देवैः प्रार्थितं तदन्नत्वं नाङ्गीचकार। तमनङ्गीकुर्वानं पवर्ग्यं पुरुषं देवा विमेथिरे ताडनभर्त्यनादिभिर्हिंसितवन्तः। स च प्रवर्ग्यो देवैर्विशेशेण बाधित एभ्यो देवेभ्यो न प्रबभूव प्रभुतो नाभूत्। अन्नत्वेनावस्थातुं नशक्त इत्यर्थः। ततो देवाः परस्परमेवं विचारितवन्तः। एवं विहृतो विशेषेण बाधितः प्रवर्ग्यो नोऽस्माकमन्नंनैव भविष्यतीति सम्पुर्णमन्नं न भविष्यति तमिमं प्रवर्ग्याख्यंयज्ञं सम्भरामोचितैः साधनैः सम्यक्पोषायामेति। सम्पूर्तिहेतुदर्शननिमित्तजन्यहर्षद्योतनार्थो हन्तशब्दः। तथेति परस्परमङ्गीकृत्य तं प्रवर्ग्यं सञ्जभ्रुः साधनसम्पादनेन सम्यक्पोषितवन्तः॥
॥तं सम्भृत्योचु-रश्विना.विमं भिषज्यतमि,त्यश्विनौ वै देवानां भिषजा-वश्विना वध्वर्यू~, तस्मा.दध्वर्यू~ घर्मं संभरत,॥
अथ हविरादीनां साधनानां सम्पादनम् विधत्ते- देवाः प्रवर्ग्यकर्मोपयुक्तं महावीरादिसम्भारं सम्भृत्य स्वकीयावश्विनौ प्रत्येव मूचुः। हेऽश्विनाविमं प्रवर्ग्यपुरुषदेहमस्माभिर्हिंसितं युवां भिषज्यतमौषधैरेतस्य समाधानं कुरुतमिति। देवानां मध्ये भिषजवेवाश्विनौ तस्मात्तत्प्रर्थनमेव युक्तम्। किञ्च। देवानां यज्ञकर्मण्यश्विनावध्वर्यू। अतएवान्यत्र कस्य चिन्मन्त्र ब्राह्मणे पथ्यते- ‘अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्’ इति। अतोऽपि कारनादश्विनोर्यज्ञसमाधानकरणं युक्तम्। तस्मात्कारणादध्वर्यू। उभाभ्यामश्विभ्यां यज्ञशरीरं चिकित्सितं तस्मादिदानीमप्यध्वर्यू घर्मम् सम्भरन्तः प्रवर्ग्यसाधनं सम्पादेयाताम्। तदेतत्तैत्तरीया देवा वै सत्रमासतेत्यस्मिन्ननुवाके प्रवर्ग्यविषयमुपाख्यानं प्रपञ्चयन्ति। तस्मिन्नेवाख्याने यज्ञस्य प्रवर्ग्यरूपं शिरो धनुषः कोट्या छिन्नमित्युक्त्वा- पश्चादेतदाम्नायते- ‘तेनाथ शीर्ष्णा यज्ञेन यजमाना नाशिषोऽवारुन्धत। न सुवर्गं लोकमभ्यजयन्। ते देवा श्विनावब्रुवन्। भिशजौ वै स्थः। इदं यज्ञस्य शिरः प्रतिधत्तमिति। तावब्रूतां वरं व्रुणावहै। ग्रह एवनावत्रापि ग्रुह्यतामिति। ताभ्यामेतमाश्विनमगृघ्णन्। तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम्। यत्प्रवर्ग्यस्तेन स शीर्ष्णा यज्ञेन यजमाना आवाऽऽशिषोऽवरुन्धन्त। अभि सुवर्गं लोकमजयन्। यत्प्रवर्ग्यं प्रवृणक्ति। यज्ञस्यैव तच्छिरः प्रतिदधाति’ इति॥
॥तं सम्भृत्याहतु- र्ब्रह्म न्प्रवर्ग्येण प्रचरिष्यामो- होत रभिष्टुहीति॥
प्रवर्ग्यसाधनानि सम्पादितवतोस्तयोरनुज्ञापनमन्त्रं प्रैषमन्त्रं च विधत्ते- तं प्रवर्ग्यकर्मोपयुक्तं साधनसमूहं सम्भृत्य सम्पाद्य चतुर्णामध्वर्यूणां मध्येऽध्वर्युः प्रतिप्रस्थाता चेत्युहावध्वर्यू ब्रह्माणं होतारं च प्रत्येव ब्रूयाताम्। भो ब्रह्मन् वयम्रुत्विज सर्वे प्रवर्ग्याख्येन कर्मणा प्रचरिष्यामोऽनुष्थास्यामः। सोऽयमनुज्ञापनमन्त्रः हे होतस्त्वभिष्टुहि प्रवर्ग्यस्तुतिरूपाः सर्वा ऋचः पठ। सोऽयं प्रैषमन्त्रः इति शब्दो मन्त्रद्वयसामाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाऽध्यायस्य प्रथमः खण्डः॥
॥ अथ चतुर्थाद्याये द्वितीयः खण्डः॥(पञ्चिक-१, प्रकरण-१९)
॥ॐब्रह्म जज्ञानं प्रथमं पुरस्ता.दिति प्रतिपद्यते, ब्रह्म वै बृहस्पति-र्ब्रह्मणैवैन न्तद्भिषज्यति ॥
होतुरभिष्टवार्थास्वृक्शु प्रथमामृचं विधत्ते- प्रतिपद्यतेऽनेन मन्त्रेण होताभिष्टवं प्रारभत इत्यर्थः। अस्मिन्मन्त्रे ब्रह्मशब्देन देवानां मध्ये ब्राह्मणजातिरूप बृहस्पतिरुच्यते। तस्मादनेन मन्त्रेणोपक्रमे सति ब्रहमणैव ब्राह्मणजात्यैवैनं प्रवर्ग्यं तदाभिषज्यति चिकित्सते॥
॥ इयं पित्रे राष्ट्र्येत्यग्र इति- वाग्वै राष्ट्री- वाचमेवास्मिं.स्तद्दधाति॥
द्वितीयामृचं विधत्ते- अस्मिन्मन्त्रे तृतीयान्तो राष्ट्रीशब्दो वाचं ब्रूते। तत्तेन मन्त्रपाठेनास्मिन्प्रवर्ग्ये वाचमेव सम्पादयति॥
॥महा न्मही~ अस्तभाय द्विजातˆ इति ब्राह्मणस्पत्या, ब्रह्म वै बृहस्पति- र्ब्रह्मणैवैन न्तद्भिषज्यति॥
तृतीयामृचं विधत्ते- अस्य मन्त्रस्य चतुर्थपादे बृहस्पतिर्देवतेति श्रूयमाणत्वाद्बृहस्पतेश्च ब्राह्मनस्वामित्वादियमृग्ब्राह्मणस्पत्या॥
॥अभि त्यन्देवंसवितार मोण्यो रिति सावित्री,प्राणो वै सविता- प्राण मेवास्मिं.स्तद्दधाति॥
चतुर्थीमृचं विधत्ते- सवितारमिति श्रुतत्वादियमृक्सावित्री। पठनीयेति शेशः। प्राणस्य देहेन्द्रियप्रेरकत्वात्सवितृत्वं। तत्तेन मन्त्रेणास्मिन्प्रवर्ग्ये प्राणमेव सम्पादयति। ता एताश्चतस्र ऋचः शाखान्तरगता आश्वलायनेन पठिता द्रष्टव्याः॥
॥सं सीदस्व महा असीत्येवैनं समसादयान् ॥
पञ्चमीम्रुचं विधत्ते- अनेन मन्त्रेणैनं प्रवर्ग्याख्यं महावीरं खरशब्दाभिधेये सन्तापनस्थाने समसादयन्स्थापयेयुरित्यर्थः॥
॥अञ्जन्ति यं प्रथयन्तो न विप्राˆ इत्यज्यमानायाभिरूपा- यद्यज्ञेऽभिरूप- न्तत्समृद्धं ॥
षष्ठीमृचं विधत्ते- अस्मिन्मन्त्रेऽञ्जन्तीतिपदस्य श्रुतत्वादाज्येनाज्यमानाय महावीराख्याय पात्राययेयमृगभिरूपा भवति॥
॥पतङ्ग.मक्त.मसुरस्य मायया - यो न.स्सनुत्यो अभिदास दग्ने- भवा नो अग्ने सुमना उपेता.विति द्वेद्वे अभिरूपे यद्यज्ञेऽभिरूप- न्तत्समृद्धम्॥
सप्तमीमारभ्य द्वादशपर्यन्ताः षडृचो विधत्ते- पतङ्गमिति संहितायामाम्नातयोर्ध्वयोः प्रतीके। यो नः सनुत्य इति द्वयोः प्रतीके। भवा नो अग्नय इति द्वयोः। एतासां सर्वासामभिष्टूयमानार्थ प्रतिपादकत्वादभिरूपत्वम्। तच्चात्रैतास्वृक्षु बुद्धिमतायोजनीयम्॥
॥ङ्कृणुष्व पाज प्रसितिन्न पृथ्वी मिति पञ्चराक्षोघ्न्यो- रक्षसा मपहत्यै॥
त्रयोदशीमारभ्य सप्तदशीपर्यन्ताः पञ्चर्चो विधत्ते-
॥ परि त्वा गिर्वणो गिरो-ऽधि द्वयो रदधाˆ उक्थ्यँ वच- श्शुक्रन्ते अन्य.द्यजतन्ते अन्य- दपश्य.ङ्गोपा मनिपद्यमान मिति चतस्रˆ एकपातिन्यः॥
अष्टादशीमारभ्यैकविंशत्यन्ताश्चतस्र ऋचो विधत्ते- एकस्य मन्त्रस्य पातः प्रतीकमेकपातः सोऽयं यास्वृक्षु ता एकपातिन्यः। परित्वा गिर्वन इति यत्प्रतीकां तत्संहितायां क्रमेणाम्नातानां चतसृणां प्रतीकमित्याशङ्क्येत चतस्र्र इति ब्राह्मनेऽभिधानात्, एवमधि द्वयोः शुक्रं तेऽपश्यं गोपामिति त्रिषु प्रतीकेषु शङ्कोदयात्, तद्व्यावृत्यर्थमेकपातिन्य इत्युच्यते। एकैकस्या ऋचः प्रतीकान्येतानि मिलित्वा चतस्र इति तात्पर्यार्थः॥
॥ता एकविंशति र्भव-न्त्येकविंशोऽयं पुरुषो- दशहस्त्याˆ अङ्गुलयो- दशपाद्या- आत्मैकविंश,स्तमिम मात्मान मेकविंशं संस्कुरुते॥
सङ्ख्यान्तरभ्रमव्युदासायोक्तमन्त्रगतां सङ्ख्यां प्रशंसति- तां सङ्ख्यां प्रशंसति। अयं पुरुषो मनुष्यदेहो जीवनोपेत एकविम्शति सङ्ख्यानामवयवानां समूहरूपत्वादेकविंश इत्युच्यते- दश हस्त्या इत्यादिना तदेव स्पष्टीक्रियते। आत्मशब्देन मध्यदेहो जीवात्मा वाभिधीयते। सङ्ख्यासामान्यात्तैर्मन्त्रैदात्मानमेव संस्करोति
॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाऽध्यायस्य द्वितीयः खण्डः॥
॥ अथ चतुर्थाद्याये तृतीयः खण्डः॥(पञ्चिक-१, प्रकरण-२०)
॥ॐस्रक्वे द्रप्सस्य धमत.स्समस्वर न्निति नवपावमान्यो, नव वै प्राणा प्राणा.नेवास्मिं.स्तद्दधाति॥
अथैकसूक्तगताः काश्चिदृचो विधत्ते- अस्मिन्स्रक्वे द्रप्सस्येति सूक्ते पवमानदेवताका ऋचो नवसङ्ख्याका अतः सङ्ख्यासाम्यात्तात्पाठेनास्मिन्प्रवर्ग्याभिमानिनि पुरुषे नवच्छिद्रवर्तिनः प्राणानवस्थापयति॥
॥अयँ वेन.श्चोदय त्पृश्निगर्भाˆइत्ययँ वै वेनो-ऽस्माद्वा ऊर्ध्वाˆ अन्ये प्राणाˆ वेन-न्त्यवाञ्चोऽन्ये- तस्मा.द्वेन,प्राणो वा अयं सन्नाभेरिति- तस्मा.न्नाभि-स्तन्नाभे.र्नाभित्वं- प्राण मेवास्मिं.स्तद्दधाति॥
अथैकामृचं विधत्ते- एतन्मन्त्रगतस्य वेनशब्दस्य नाभिपरत्वमभिप्रेत्य प्रशंसति- शरीरमध्येऽवस्थितं नाभिं हस्तेनाभिनीय प्रदर्शयन्नयं वै वेन इत्युच्यते। तस्य नाभेर्वेनत्वं कथमिति चेदुच्यते अस्मान्नाभेरूर्ध्वा अन्ये प्रानश्चक्षुरादयः केचिद्वेनन्ति चरन्ति। तथा नाभेरवाञ्चोऽपानवाय्वादयह् तेचिद्वेनन्ति चरन्ति। तस्माद्वेनन्त्यस्मादवधिभूतान्नाभेरिति व्युत्पात्या वेनशब्दवाच्यो नाभिः। नाभिशब्दवाच्यत्वं कथमिति चेत्तदुच्यते। अयं नाभिः प्राणाधरत्वेन स्वयं प्राणरूपः सन्नितरानूर्ध्ववर्तिनोऽधोवर्तिनश्च प्रानानुद्दिश्य प्रत्येकं नाभेर्नाभैषीरित्येवं वदन्निव मर्यादा रूपतेव्नावस्थितस्तस्मादयं देहमध्यवर्ती नाभिर्भवति। नैवभीतिं कुर्वीत्यभिप्रेत्य मर्यादात्वेनावस्थानमेव नाभेर्नाभिशब्दप्रव्रुत्ति निमित्तम्। तस्मादयं वेन इति मन्त्रपाठेन प्रानमेवास्मिन्प्रवर्ग्ये स्थापयति॥
॥पवित्रन्ते विततं ब्रह्मणस्पते –तपो.ष्पवित्रँ वितत न्दिवस्पदे- वि यत्पवित्र न्धिषणाˆ अतन्वतेति पूतवन्त, प्राणा.स्त इमेऽवाञ्चो रेतस्योमूत्र्य पुरीष्याˆ इत्येता नेवास्मिं.स्तद्दधाति॥
अथैकत्र समाम्नातमृग्द्वयमन्यत्र समाम्नातामेकामृचं विधाय सह प्रशम्सति- अत्र वियत्पवित्रमित्येषा शाखान्तरगता सूत्रकारेन पठिता। त्रिष्वप्येतेषु मन्त्रेषु शुद्धिवाचिनः पवित्रशब्दस्य विद्यमानत्वाईशे पूतवन्तः। यज्ञपुरुषस्य प्रानस्थानीयाः पूर्वमुदाहृता मन्त्रविशेषा यज्ञपुरुषस्य नाभेरूर्ध्वभाविप्रानस्थानीयाः पवित्रन्ते विततमित्याद्यास्त्रयो मन्त्रा ये सन्ति त इमे नाभेरवाञ्चोऽधोदेश प्राणस्थानीयास्तेषु रेतसे हित एकः प्राणो मूत्राय हितोऽपरः प्राणस्तयोरुभयोर्गोलकद्वारकस्यैकत्वेऽपि स्वरूपेणेन्द्रियभेदात्पृथङ्निर्देशः। द्वारान्तरसञ्चारी पुरीशाय हितस्तृतीयः प्राण इत्युक्तानेतावानेव त्रीन्प्राणान्मन्त्रत्रयपाठेनास्मिन्प्रवर्ग्ये स्थापयति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाऽध्यायस्य तृतीयः खण्डः॥
॥ अथ चतुर्थाद्याये चतुर्थः खण्डः॥
॥ॐगणानान्त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यं, ब्रह्म वै बृहस्पति- र्ब्रह्मणैवैन न्तद्भिषज्यति॥
अत्र सूक्त विशेषाविधातव्याः। तत्रैकोनविंशत्युचं विधत्ते- तस्मिन्सूक्ते प्रथमाया ऋचस्तृतीयपादे ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते इति श्रूयमाणात्वादिदं सूक्तं ब्रह्मणस्पतिदेवताकम्। ब्रह्म वा इत्यादिकं पूर्ववद्व्याख्येयम्॥
॥प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्व,स्सतनु मेवैन न्तत्सरूप.ङ्करोति॥
तृचात्मकं सूक्तान्तरं विधत्ते- अस्मिन्सूक्ते पठिताः प्रथश्चेत्यादय स्त्रिस्र ऋचो घर्मतन्वः प्रवर्ग्यस्य शरीरस्थानीयास्तन्मन्त्रपाठेनैनं प्रवर्ग्यं सतनुं शरीरोपेतं करोति। सतनुमित्यस्यैव व्याख्यानं सरूपमिति। यद्वा तस्मिन्शरीरे शोभनरूपसहितं प्रवर्ग्यं करोति॥
॥रथन्तर मा जभारा वसिष्ठः।भरद्वाजो बृहदा चक्रे अग्ने रिति बृहद्रथन्तरवन्त.मेवैन न्तत्करोति॥
अस्मिन्सूक्ते- प्रथमाद्वितीययोरृचोर्यौ चरुर्थौ पादौ तावनूद्य प्रशंशति। सामद्वयवाचिरथन्तरशब्दबृहच्छब्दयोरत्र श्रूयमाणत्वेन तत्पाठेन प्रवर्ग्यं सामद्वयोपेतं करोति॥
॥अपश्यन्त्वा मनसा चेकितान मिति प्रजावा न्प्राजापत्य-प्रजा.मेवास्मिं.स्तद्दधाति॥
तृचान्तरं सूक्तात्मकं विधत्ते- एतत्सूक्तगतानां तिसृणामृचां प्रथग्विनियोगमाश्वलायन आह- अपश्यन्त्वेतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानमिति। अस्य च सूक्तस्य ऋषिः प्रजावानित्येतन्नामकः स च प्रजापतेः पुत्रस्तदीयपाठेन प्रजां सम्पादयति॥
॥ का राध.द्धोत्राऽश्विना वा मिति नव विच्छन्दस,स्तदेत द्यज्ञस्यान्तस्त्यँ- वि क्षुद्रमिव वा अन्तस्त्य मणीयˆ इव च स्थवीयˆ इव च, तस्मादेताˆ विच्छन्दसो भवन्ति॥
सूक्तान्तरे नवसङ्ख्या ऋचो विधत्ते- काराधदित्यस्मिन्सूक्ते विद्यमाना ऋचो नवसङ्ख्याकास्ताश्च विविधेन च्छन्दसा युक्ताः। तच्च विविधत्वमनुक्रमणिकायामुक्तम्- ‘आद्या गायत्री द्वितीया ककुप्तृतीया चतुर्थ्यौ काविराण्नष्टरूप्यौ पञ्चमी तनुशिरा षष्ठ्यक्षरैरुष्णिग्विष्टारबृहतीकृतिर्विराट्त्रिस्रो गायत्र्यः’ इति॥ यद्यपैतद्वादशर्चं सूक्तं तथापि नवैवर्चोत्रापेक्षिता इति नवेत्युक्तम्। तदेतत्सूक्तं प्रवर्ग्याख्यस्य यज्ञस्य अन्तस्त्यमुदरगतावयवस्वरूपम्। लोकेऽप्यन्तस्त्यं शरीरमध्यस्थावयवजातम्। विक्षुद्रमिव वै विविधत्वेन तारतम्येन स्वल्पमेव भवति। तद्यथा। किञ्चिन्मांसनाड्यादिकमणीय इवच, अथन्तं सूक्ष्ममेव भवति। अन्यच्च मांसनाड्यादिकं स्थवीय इव च, अत्यन्तं स्थूलमेव भवति। यस्मादुदरगतमवयवजातमीदृशं तस्मात्तत्स्थानीया एता ऋचो विच्छन्दसो भवन्ति॥
॥एताभि र्हाश्विनो कक्षीवा न्प्रियन्धामोपागच्छत्-स परमँ लोक मजय,-दुपाश्विनो प्रिय न्धाम गच्छति- जयति परमँ लोकँ-यˆ एवँ वेद॥
उत्तमलोकप्राप्तिहेतुत्वेन ता ऋचः प्रशंसति- कक्षीवानित्येतन्नामकः कश्चिदृषिः। स च का राधदि त्येताभिरृग्भिर्जयं क्रुत्वाऽश्विनोर्मत्प्रियंधाम स्थानं तत्प्राप्नोत्। ततस्ताभ्यामनुगृहीतस्ततोऽप्युत्तमं लोकं जितवान्। एतद्वेदनं प्रशंसति।
॥आभात्यग्नि रुषसा मनीक मिति सूक्तं,॥
पञ्चर्चं सूक्तान्तरं विधत्ते- अभिष्टवार्थं पठेदिति सर्वत्रद्रष्टव्यम्॥
॥ पीपिवांस मश्विना घर्म मच्छेत्यभिरूपँ, यद्यज्ञेऽभिरूप- न्तत्समृद्धम्॥
प्रथमाया ऋचश्चतुर्थपादं पठित्वा तन्मुखेन सूक्तं प्रशंसति। हे अश्विनौ पीपवांसमभिव्रुद्धं घर्ममच्छ प्रवर्ग्यमभिलक्ष्येत्येवस्मिन्पादेऽवगम्यते। एतत्सूक्तं प्रवर्ग्यस्यानुरूपम्॥
॥तदु त्रैष्टुभँ- वीर्यँ वै त्रिष्टु-ब्वीर्य मेवास्मिं.स्तद्दधाति॥
सूक्तगतं च्छान्दः प्रशंसति। तदु तच्च सूक्तम्॥
॥ ग्रावाणेव तदिदर्थ.ञ्जरेथे~ इति सूक्त,मक्षी~इव कर्णाविवनासेवे.त्यङ्गसमाख्याय.मेवास्मिं-स्तदिन्द्रियाणि दधाति॥
अष्टर्चं सूक्तान्तरं विधत्ते- तस्य सूक्तस्य पञ्चम्यामृचि द्वितीयपाद एवमाम्नातः। ‘अक्षी इव चक्षुषा यातमर्वात्’ इति। षष्ठ्यामृच्युत्तरार्थमेवमाम्नातम्। ‘नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमन्वे’ इति। एवं च सत्यङ्गसमाख्याऽयमेव अक्षिकर्णनासादिरूपाण्यङ्गानि पुनः पुनः कथयन्नेव तस्मिन्घर्म इन्द्रियाणि स्थापयति॥
॥ तदु त्रैष्टुभँ- वीर्यँ वै त्रिष्टुब्वीर्य मेवास्मिं.स्तद्दधा,ती ॥
सूक्तगतं छन्दः प्रशंसति
॥ईळे द्यावापृथिवी~ पूर्वचित्तय इति सूक्तम्॥
पञ्चविंशत्युचं सूक्तान्तरं विधत्ते
॥अग्नि ङ्घर्मं सुरुचँ यामन्निष्टय इत्यभिरूपँ- यद्यज्ञेऽभिरूप- न्तत्समृद्धम्॥
प्रथमाया ऋचो द्वितीयपादमुदाहृत्य तद्वारा सूक्तं प्रशंसति। अग्निमित्यादिके द्वितीयपादे सुरुचं घर्ममिति शोभनदीप्तियुक्तः प्रवर्ग्यः पठितस्तस्मादिदं सूक्तमनुरूपम्॥
॥तदु जागत-ञ्जागताˆ वै पशव-पशू नेवास्मिं.स्तद्दधाति॥
तत्सूक्तगतं छन्दः प्रशंसति- पुरा कदाचित्सोममाहर्तुं द्युलोकेगतं जगती तमाहुर्तुमशक्ता सती पशून्दीक्षां चाऽऽहृतवती तस्मात्पशवोजागताः। एतच्च कद्रूश्चेत्यनुवाके तैत्तरीयैः समाम्नातम्। ‘सा पशुभिश्च दीक्षया चागच्छत्तस्माज्जगती छन्दसां पशव्यतमा’ इति। अतस्तदीयपाठेन पशून्सम्पादयति॥
॥याभि रमु मावतँ- याभि रमु मावत मित्येतावतो हात्राश्विनौ कामा.न्ददृशतु,स्तानेवास्मिं.स्तद्दधाति- तैरेवैन न्तत्समर्धयति॥
सूक्तगतास्वृक्षु सर्वासु विद्यमानमर्थमुपजीव्यसूक्तं प्रशंसति- अस्य सूक्तस्य प्रथमायामृचि द्वितीयार्थमेवमाम्नातम्। ‘याभिर्भरे कारमंशाय जिन्वयस्ताभिरूषु ऊतिभिरश्विनाऽऽगतम्’ इति। तस्यायमर्थः। हेऽश्विनौ युवामंशाय तन्नाम्नः पुरुषस्योपकाराय भरे युद्धे कारं विजयं कृत्वा याभिरूतिभिः पालनैरंशनामकं तं पुरुषं जिन्वथः प्राणयथस्ताभिरू षु तादृशीभिरेवोतिभिः पालनैरागतमिह कर्मणि समागच्छतमिति। द्वितीयस्यामृचि द्वितीयार्धमेवमाम्नातम्- ‘याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु उतिभिरश्विनाऽऽगतम्’ इति। तस्यायमर्थः। हे अश्विनाविष्टयेऽभीष्टसिध्त्यर्थं कर्मण्यनुष्ठीयमाने लौकिके वैदिके वा सर्वस्मिन्कर्मणि याभिरूतिभिर्धियः प्राणिनां बुद्धीरवथो रक्षथः ताभिरेवोतिभिरागच्छतमिति। एवं सर्वास्वप्यृक्ष्वर्थोऽनुसन्धेयः। तमर्थं सर्वं सामान्यवाचिना सर्वनामशब्देन परामृश्य श्रुतिर्याभिरित्येकेन वाक्येन सङ्गृह्णाति याभिरूतिभिरमुमीदृशमावतं युवां रक्षितवन्ताविति। सर्वेषां ऋगर्थानां सङ्ग्राहिकां वीप्सामभिप्रेत्य याभिरमुमावतमिति द्विः पठ्यते। तास्वृक्षुकामाः श्रूयन्ते तावन्तः कामा इह कर्मण्यश्विनौ ददृशतुः कटाक्षेणानुगृहीतवन्तौ। तत्सूक्तपाठेन तानेव सर्वान्कामानस्मिन्प्रवर्ग्ये यजमाने वा सम्पादयति ते च कामाः समृद्धाः सम्पत्यन्ते॥
॥अरूरुच दुषस पृश्नि रग्रियˆ इति रुचितवती- रुच मेवास्मिं.स्तद्दधाति॥
अन्यां काञ्चिदृचं विधत्ते- अस्यामृच्यरूरुचदिति श्रुतत्वाद्रुचितमभीश्टं कान्तिवाऽस्यामस्तीत्सनौ रुचितवती सा पठनीया। तस्याः पूर्वोक्त सूक्ते स्थानविशेष आश्वलायनेन दर्शितः- प्रागुत्तमाया अरूरुचदुषसः पृश्निदग्रिय इत्यावपेतोत्तरेणार्धर्चेन पत्नीमीक्षेत’ इति तन्मन्त्रपाठेन यजमाने कान्तिं सम्पादयति।
॥ द्युभि रक्तुभि परि पात मस्मा.नित्युत्तमया परि दधाति॥
सूक्तस्यान्तिमयर्चाऽभिष्टवे पूर्वभागस्य समावनं विधत्ते।
॥अरिष्टेभि रश्विना सौभगेभिः। तन्नो मित्रो वरुणो मामहन्ता मदिति स्सिन्धु पृथिवी उत द्यौ- रित्येतै रेवैन न्तत्कामै स्समर्धयती॥
तस्या ऋचोऽवशिष्टं पादत्रयमनूद्य कृत्स्नं- मन्त्रतात्पर्यं दर्शयति- तस्या ऋचोऽयमर्थः। हे अश्विनौ द्युभिर्दीप्तिभिर्द्युलोकोचितभोगैर्वाऽक्तुभिदञ्जनसाधनद्रवैराज्यतैलाभितरिष्टेभिर्हिंसा परिहारैः सौभगेभिः सवं भोगर्सपत्तिलक्षणैः सौभाग्यैश्चास्मान्पातं रक्षतम्। तत्तसत्यनन्तरं नोऽस्मान्मित्रावरुणादिति समुद्रपृथिवीद्युदेवताः सर्वा अपि मामहन्तामतिशयेन पूजयन्त्विति। तन्मन्त्रपाठेनैनं यजमानमेतैरेव कामैद्युभिरक्तुभिरित्यादिशब्दोक्तैः फलैः समृद्धं करोति॥
॥ति नु पूर्वं पटलम्॥॥
अभिष्टवस्य पूर्वभागमुपसंहरति- ब्रह्मजज्ञानमित्यारभ्य पृथिवी उत द्यौरित्यन्तेनोक्तप्रकारेणाभिष्टवस्य पूर्वो भागो वर्णितः। अत्र भागद्वयकल्पनमेकैकस्मिन्भागे प्रथमोत्तमयोरृचोरावृत्यर्तं। अत एवोक्तम्।" आद्यांत्यात्रित्वसिद्ध्यर्थं पटलद्वितयं कृतम्।अन्यथाभिष्टवस्यैक्यात्त्रित्वं तत्रैव वै भवेत्" इति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाऽध्यायस्य चतुर्थः खण्डः॥
॥ अथ चतुर्थाद्याये पञ्चमः खण्डः॥
॥ॐअथोत्तर॥ पटलान्तरं प्रतिजानीते- पटलमुच्यत इति शेशः। पटल शब्दः समूहवाची। समूहः पटलं न नेत्यभिधानकारैरुक्तत्वात्। उत्तरभागस्तो मन्त्रसमूहः कथ्यत इत्यर्थः॥
॥उप ह्वये सुदुघा न्धेनु मेतां- हिङ्कृण्वती वसुपत्नी वसूना- मभि त्वा देवसवित- स्समी वत्स.न्न मातृभि- स्सँ वत्सˆइव मातृभि- र्यस्ते स्तन श्शशयो यो मयोभू- र्गौ रमीमेदनु वत्सं मिषन्त- न्नमसे दुप सीदत- सञ्जानाना उप सीद न्नभि -ज्ञ्वा दशभि र्विवस्वतो- दुहन्ति सप्तैकां- समिद्धो अग्नि रश्विना- समिद्धो अग्नि र्वृषणाऽरति र्दिव- स्तदु प्रयक्षतममस्य कर्मा-त्मन्व.न्नभो दुह्यते घृतं पयˆ- उत्तिष्ठ ब्रह्मणस्पते-ऽधुक्ष.त्पिप्युषी मिष- मुप द्रव पयसा गोधुगोष- मा सुते सिञ्चत श्रिय- मा नून मश्विनो र्ऋषि- स्समु त्ये महती रपˆ- इत्येकविंशति.रभिरूपाˆ- यद्यज्ञेऽभिरूप-न्तत्समृद्धम्॥ एकविंशतिसङ्ख्याका ऋचस्तत्तत्प्रतीकग्रहणेन विधत्ते- विहितास्वृक्षु उपह्वय इति प्रथमा। ओं क्रुण्वतीति द्वितीया। अभित्वेति तृतीया। समीवत्समिति चतुर्थी। संवत्सर इवेति पञ्चमी। यस्ते स्तन इति षष्ठी। गौरमीमेदिति सप्तमी। नमसेदित्यष्टमी। सञ्जानाना इति नवमी। आदशभिरिति दशमी। दुहन्ति सप्तैकामित्येकादशी। समिद्धो अग्निरश्विनेति द्वादशी। समिद्धो अग्निर्वृषणा रतिर्दिव इति त्रयोदशि। एतदुभयं शाखान्तरगतमाश्वलायनेव पठितम्। तदु प्रयक्शतमिति चतुर्दशी॥ आत्मन्वन्निति पञ्चदशी। उत्तिष्ठेति षोडशी। तस्या विनियोगमाश्वलायन आह- उत्तिष्ठब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठत इति अधुकाहदिति सप्तदशी। तद्विनियोगमाह- दुग्धा यामधुक्षदिति। उपद्रवेत्यष्टादशी। तद्विनियोगञ्चाह- अह्रियमाण उपद्रवेति। सेयं शाखान्तरगतत्वादाश्वलायनेन पठिता। आसुत इत्येकोनविंशी। आनूनमितिविंशी। अनयोर्व्यत्ययेन प्रयोगमाह आसिच्यमान आनूनमश्विनोरृषिरिति गव्य आसुते सिञ्चत श्रियमित्याज इति। समुत्य इत्येकविंशी। तद्विनियोगं चाह- आसिक्तयोः समुत्य इति सेयमृचा मेकविंशतिघुर्मदुहो धेनोर्दोहनस्यानुरूपा। तास्वृक्षु दोहनोचितानां दृश्यमानत्वात्॥
॥उदुष्य देव स्सविता हिरण्यये.त्यनूत्तिष्ठति, प्रैतु ब्रह्मणस्पति रित्यनुप्रैति, गन्धर्वˆ इत्था पदमस्य रक्षतीति खर मवेक्षते, नाके सुपर्ण मुप यत्पतन्त मित्युपविशति, तप्तोवाङ्घर्मो नक्षति स्वहोतो.भा पिबत मश्विनेति पूर्वाह्णे यजति॥
अथ षण्णामृचां प्रतीकानि क्रमेणादाय तद्विनियोगं दर्शयति- महावीरमादायोत्तिष्ठत्स्वन्येषु होतोदुष्य देव इत्यनेन मंत्रेण ताननूत्तिष्थेत्॥ तेषु गच्छत्सु मन्त्रेणानुगच्छेत्। खरः प्रवृंजनस्थानं। तप्तो वामित्येषा शाखांतरगतत्वात्सूत्रकारेण पठिता। उभा पिबतमिति स्वशाखागता ताभ्यामुभाभ्यां पुर्वाह्णेयजति। तदुभयं याज्यारूपेन पाठेन पठेत्। प्रवर्ग्यस्य कालद्वयेऽप्यनुष्थेयत्वात्पूर्वाह्ण इति विशेष्यते॥
॥अग्ने वीही.त्यनु वषट्करोति स्विष्टकृद्भाजनम्॥
विनियोगसहितं मन्त्रान्तरम् विधत्ते- पूर्वोक्त यो र्याज्ययोह् पाठान्ते वौषडिति यत्पठनं सोऽयमनुवषट्कारः। एतंमन्त्रं होता पठेत्। हेऽग्ने वीहि खाद धक्षयेत्यर्थः। घर्मस्य यजेत्यध्वर्युणा प्रेषितो होता पूर्वोक्त याज्याद्वयं सवषट्कारं यदा पठति तदानीमध्वर्युरश्विना घर्मं पातमिति मन्त्रेण ज्य्होति। पुनरप्यग्ने वीहीति होत्रा पठिते सत्यध्वर्युः स्वाहेन्द्रावडिति जुहोति। तदेतत्सर्वमापस्तम्ब आह- "आश्राव्य प्रत्याश्राविते सम्प्रेष्यति घर्मस्य यजेत्यश्विना घर्मं पातमिति वषट्कृते जुहोति। स्वाहेन्द्रावडित्यनुवषट्कृते" इति। यदेतदनुपषट्कारे यजनं तदेतत्स्विष्टकृद्भाजनम् स्वष्टकृत्स्थानीयमित्यर्थः॥
॥यदुस्रिया स्स्वाहुत.ङ्घृतं पयो-ऽस्य पिबत मश्विने.त्यपराह्णे यज,त्यग्ने वीही.त्यनु वषट्करोति स्विष्टकृद्भाजन॥
यथा पूर्वाह्णे याज्यापाठस्तथाऽपराह्णकालानुष्ठानेऽपि विधत्ते- यदुस्रिया स्वाहुतमित्येषा शाखान्तरगतत्वादाश्वलायनेन पठिता। अस्य पिबतमिति स्वशाखागता। अन्यत्सवं पूर्ववत्॥
॥त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यन्ति- सोमस्य घर्मस्य वाजिनस्येति, सˆ यदनु वषट्करो-त्यग्नेरेव स्विष्टकृतो ऽनन्तरित्यै॥
अत्र मुख्यस्वष्टकृद्रहितत्वात्तल्लोपमाशंक्या परिहरति- सोमोवल्लीरसः। घर्मः प्रवर्ग्यहविः। वाजिनमामिक्षानुनिष्पादि नीरं। एतेषां स्वष्टक्रुदर्थमवधानम् न कुर्युः। न चैतावता तल्लोपः। स होताऽनुवषट्करोतीति यदस्ति तदेतत्स्विष्टकृन्नामकस्याग्नेरनन्तदित्यै। अन्तरायोलोपः तन्निवृत्यर्थं भवति॥
॥विश्वा आशा दक्षिणसा.दिति ब्रह्मा जपति॥
॥स्वाहाकृत श्शुचि र्देवेषु घर्म - स्समुद्रा दूर्मि मुदियर्ति वेनो - द्रप्स स्समुद्र मभि यज्जिगाति। सखे सखाय मभ्या ववृ-त्स्वोर्ध्वˆ ऊ षु णˆ ऊतय- ऊर्ध्वो न पाह्यंहस-स्त.ङ्घेमित्था नमस्विन इत्यभिरूपाˆ, यद्यज्ञेऽभिरूप- न्तत्समृद्धं ॥
प्रासङ्गितं ब्रह्मजपं विधाय होमादूर्ध्वं होत्रा पठनीया ऋचः सप्त विधत्ते- स्वाहाकृत इत्येषा प्रथमा। सा च शाखान्तरगतत्वादाश्वलायनेन पठिता। समुद्रा दूर्मिमिति द्वितीया। द्रप्सः समुद्रमिति तृतीया। सखे सखायमिति चतुर्थी। ऊर्ध्व ऊ षु ण इति पञ्चमी। घर्मप्रकाशकत्वादेशा अभिरूपाः॥
॥पावकशोचे तव हि क्षयं परीति भक्ष माकाङ्क्षते॥
होतुरेकयर्चा प्रवर्ग्य हविः शेशभक्षणप्रतीक्षां विधत्ते-
॥ हुतं हवि-र्मधु हवि-रिन्द्रतमेऽग्ना-वश्याम ते देवघर्म।मधुमत पितुमतो वाजवतोऽङ्गिरस्वतो- नमस्ते अस्तु मामाहिंसी रिति घर्मस्य भक्षयति॥
समन्त्रकं भक्षणं विधत्ते- अतिशयेनायमैश्वर्यवानिन्द्रतमस्तादृशेऽग्नौ प्रवर्ग्याख्यं हविर्हुतं तच्च मधुमाधुर्योपेतं हे घर्म प्रवर्ग्य देवरूपदेव ते त्विदीयं हविःशेषमश्याम भक्षयेम। कीदृशस्य ते मधुमतो माधुर्योपेतस्य पितुमतोऽन्नवतोऽन्नसाधनस्य वा जवतो गतिमतः स्वर्गप्राप्तिसाधनस्य। अङ्गिरस्वतः अङ्गिरोभिर्महर्षिभिरनुष्ठानकाले भक्षितत्वेन तद्युक्तस्य। ईदृशाय ते तुभ्यं नमोऽस्तु। मां भक्षयन्तं मा हिंसीरित्यनेन मन्त्रेण घर्मस्य शेषं भक्षयेत्। अयं मन्त्रोऽन्येषामपि भक्षयितृणां साधारणोऽत एव तैत्तरीयैरप्याम्नातः॥
॥श्येनो न योनिं सदन न्धिया कृत- मा यस्मि.न्त्सप्त वासवाˆ इति संसाद्यमानायान्वाह॥
अथ होतुर्मन्त्रद्वयं विधत्ते- श्येनो न योनिमिति पूर्वा। आ यस्मिन्सप्तेत्यपरा। सेयं शाखान्तरगतत्वादाश्वलायनेन पठिता। यदा प्रवर्ग्यपात्राणि संसाद्यन्ते तदा होता मन्त्रद्वयमिदमनुब्रूयात्।
॥हवि र्हविष्मो महि सद्म दैव्य मिति यदह रुत्सादयिष्यन्तो भवन्ति॥
बहुषु दिनेषु पुर्वाह्णापरह्णयोः प्रवर्ग्याख्यं कर्मानुष्ठीयते तत्रोत्तमदिनेऽपराह्णकालीने प्रवर्ग्याख्ये काञ्चिदृचं अधिकां विधत्ते- यदहर्यस्मिन्नहन्युत्सादयिष्यन्तः प्रवर्ग्यमुद्वासयितुमुद्युक्ता भवन्ति तस्मिन्नहनि हविर्हविष्म इत्येतामृचमधिकामुपोत्तमरूपामावपेत॥
॥ सूयवसा.द्भगवती हि भूयाˆ इत्युत्तमया परि दधाति॥
अथ कयाचिदृचाऽभिष्टवस्य समाप्तिं विधत्ते- आन्तिमात्प्राचीनेषु प्रवर्ग्येषु पुर्वोक्तामधिकामप्रक्षिप्यैवानया परिदध्यात्। अन्तिमे तां प्रक्षिप्य पश्चादनया परिदध्यात्। तदाहाऽऽश्वलायनः- सूयवसाद्भगवती हि भूया इति परिदध्यादुत्तमे प्रागुत्तमाया हविर्हविष्मो महि सद्मदैव्यमित्यावपेत॥ इति॥
॥ तदेत.द्देवमिथुनँ- यद्घर्म,स्स यो घर्म- स्तच्छिश्नँ, यौ शफौ- तौ शफौ, योपयमनी-ते~ श्रोणिकपाले~, यत्पय- स्तद्रेत,स्तदिद मग्नौ देवयोन्यां प्रजनने रेत स्सिच्यते,ऽग्नि र्वै देवयोनि- स्सोऽग्ने र्देवयोन्याˆ आहुतिभ्य संभवति॥
अथ पूर्वोक्तस्य प्रवर्ग्यकर्मणः प्रशंसार्थं मिथुनव्यापाराकारेण रूपकं दर्शयति- यद्धर्मः प्रवर्ग्याख्यं यत्कर्मास्ति तदेतद्देवमिथुनं देवसंबन्धिमिथुनव्यापारः। तत्कथमिति चेदुच्यते। स यो घर्मः प्रवर्ग्यहविराश्रयभुतो महावीराख्यो मृण्मयपात्रविशेषो यो सावस्ति तच्छिश्नं प्रजननेन्द्रियरूपं। तप्तस्यमहावीरस्य हस्ताभ्यां ग्रहीतुमशक्यत्वात्तद्ग्रहणसमर्धोदुम्बरकाष्ठनिर्मितौ शफौ शफनामानौ विद्येते तौ प्रजननेन्द्रियस्य पार्श्ववर्तिनौ शफाविव संदृश्येते चोदुंबरकाष्ठाभ्यां शफनामकाभ्यां महावीरस्य मध्यमभागे धृतत्वात्। तस्याधस्तादाधारार्थमुदुंबरकाष्ठनिर्मितोपयमनीशब्दवच्या दर्वी या विद्यते सेयं शरीरसंबन्धिनी ते श्रॊणिकपाले श्रोणिद्वयमध्यगतमस्थिद्वयं। उपयमन्या एकत्वेऽप्यधस्तान्महावीरस्य कदाचिद्दक्षिणभागे कदाचिद्वामभागे तद्धारनात्कपालद्वयरूपत्वम्। महावीरगते तप्त आज्ये प्रक्षेप्तव्यं यत्पयस्तद्रेतः स्वरूपम्। तदिदं रेतोरूपमाज्यमिश्रं पयोऽग्नौ देवयोनिरूपे प्रजनन उत्पत्तिस्थाने रेतः सिच्यते रेतोदूपेण प्रक्षिप्यते। अग्नेर्देवयोनित्वप्रसिध्यर्थो वैशब्दः। अग्नेः कर्मण्यनुष्ठाय देवरूपेण जायमानत्वात्सा प्रसिद्धिर्द्रष्टव्या। सैव प्रसिद्धिः सोऽग्नेरित्यादिना स्पष्टीक्रियते। स यजमानो देवयोनिरूपादग्नेरनुष्ठिताभ्य आहुतिभ्यश्च देवतारूपः सम्भवति उत्पद्यते॥
॥त्यृङ्मयो यजुर्मय स्साममयो वेदमयो ब्रह्ममयोऽमृतमय स्सम्भूय देवताˆ अप्येति-यˆ एवँ वेद, यश्चैवँ विद्वा.नेतेन यज्ञक्रतुना यजते॥
उक्तार्थवेदनं तद्वेदनपूर्वकमनुष्ठानं च प्रशंसति। वेदनशब्देनाथर्ववेदः सर्ववेदसमष्टियुक्तिर्वोच्यते। ब्रह्मशब्देन हिरण्य गर्भः। अमृतशब्देन परमात्मा। ता एकैकदेवताः सर्वाः सम्भूयैकीकृत्य समष्टिरूपमप्येति प्राप्नोति। वेदनमात्रेण शनैस्तत्प्राप्तिर्वेदनपूर्वकानुष्थानेन तु सहसेति विशेषो द्रष्टवः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाध्याये पञ्चमः खण्डः॥
॥अथ चतुर्थाध्याये षष्ठ खण्डः ॥
॥ॐदेवासुरा वा एषु लोकेषु समयतन्त,तेवा असुराˆ इमानेव लोका न्पुरोऽकुर्वत- यथौजीयांसो बलीयांसˆ, एवन्ते वा अयस्मयी मेवेमा मकुर्वत- रजता मन्तरिक्षं- हरिणी न्दिव-न्ते तथेमान्लोका न्पुरोऽकुर्वत, ते देवाˆ अब्रुव- न्पुरो वा इमेऽसुराˆ इमान्लोका.नक्रत- पुरˆ इमान्लोका न्प्रतिकरवामहा इति- तथेति, ते सदˆ एवास्या प्रत्यकुर्वता -ग्नीध्र.मन्तरिक्षा- द्धविर्धाने दिव- स्ते तथेमा.न्लोका न्पुर प्रत्यकुर्वत॥
प्रवार्ग्याख्यं कर्म परिसमाप्योपसदाख्यं कर्मवक्तुमाख्यायिकामाह-देवाश्चासुराश्च लोकत्रयैव्षये स्मयतन्त परस्परं युद्धं क्रुतवन्तः। तदानीमसुरा इमानेव भूरन्दीस्त्रील्लोकान्पुरोऽकुर्वत प्राकारपरिवेष्टितानि नगराणि क्रुतवन्तः॥ यथा लोके महान्तो राजानोऽभ्यधिकेनौजसा शरीरश्क्त्यासम्पन्ना अभ्यधिकेन सैन्यरूपेण बलेन च सम्पनाः प्रौढानि दुर्गाणि कुर्वन्ति एवमेते क्रुतवन्तः। तत्रेमां भूमिमयस्मयीं लोहप्राकारायुक्तामकुर्वत। अन्तरिक्षं लोकं च रजतप्राकारवेष्टिताम् पुरीमकुर्वत ॥ तथेत्युक्तनगरनिर्माणकृतस्योपसंहारः। तमिममर्थं सर्वं तैत्तरीयाः संक्षिप्य आमनन्ति। "तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी" इति। ततस्ते देवा विचारयन्तः परस्परमिदमब्रुवन्। असुरा इमे भूरादीनिमान्लोकान्पुरो वै स्वकीयनगराण्येव कृतवन्तः। अतो वयमपीमान्भूरादींल्लोकान्पुरोऽस्मदीयनगराणिप्रतिकरवामहै। असुरणां प्रतिकूलानि सम्पादयाम इत्येवं विचारं परस्परमङ्गीकृत्य त्रिषु लोकेषु असुराः क्वचिद्देशविशेषे यथा स्वकीयानि नगराणि कृतवन्तस्तथा देवा अस्याः पृथिव्याः सकाशात्सद एव प्रत्यकुर्वत। स्ॐइकवेद्यां प्राचीनवंशात्पूर्वभाविसदोनामकमण्डपमेवासुरप्रतिकूलमकुर्वत। अन्तरिक्षलोकादाग्नीध्रनामकं धिष्ण्यमकुर्वत। द्युलोकाद्धविर्धाननामके द्वे शकटे अकुर्वत। ते तथेत्यादिरुक्तार्थोपसंहारः। असुरनिर्मितपुरत्रयप्रतिकूलं सदाअग्नीध्रहविर्धानरूपत्रयं कृतवन्तः। असुरैर्लोकत्रये प्रौधासु तिसृषु दुर्गरूपासु पुरीषु निर्मितासु देवाश्च स्वरक्षार्थं सदः प्रभृतीनि त्रीणि दुर्गाणि कृत्वा विजयं प्राप्ताः॥
॥ते देवाˆ अब्रुव- न्नुपसदˆ उपायामो.पसदा वै महापुर-ञ्जयन्तीति- तथेति, ते यामेव प्रथमा मुपसद मुपायं-स्तयैवैना नस्मा.ल्लोका.दनुदन्त, यान्द्वितीया- न्तयाऽन्तरिक्षा,द्या.न्तृतीया- न्तया दिव,स्तां.स्तथैभ्यो लोकेभ्योऽनुदन्त॥
तं विजयप्रकारं दर्शयति- विजयार्थिनस्ते देवाः परस्परमिदमब्रुवन्। उपसदाख्यान्होमानुपयामानुतिष्थाम। लोकेषूपसदा वै परकीयदुर्गसमीपावस्थानेन दुर्गावरोधरूपेणैव महत्या सेनया दुर्गवेष्टनेन सर्वे राजानो महतीं दुर्गरूपां पुरंजयन्ति। अतो वयमाप्युपसदनहेतुभूतान्होमान्करवामेति विचार्य तिस्र उपसदो हुत्वा लोकत्रयनिर्मिताभ्यो दुर्गारूपाभ्यः पुरीभ्योऽसुरान्निःसारितवन्तः। तत्र याते अग्नेऽयाशया तनूरित्यनेन मन्त्रेण साध्योपसत्प्रथमदिनेऽनुष्ठितत्वात्प्रथमा। या ते अग्नेरजाशया तनूरित्यनेन मन्त्रेण साध्या द्वितीयदिनेऽनुष्ठेयत्वाद्द्वितीया। या ते अग्नेहराशयेति मन्त्रेण साध्या तृतीयदिनानुष्ठेयत्वात्तृतीया। युद्धेन ताः पुरीर्जेतुमशक्ता देवा उपसद्धोमैर्जितवन्तः। तथा च शाखान्तरे श्रूयते ‘ते देवा जेतुं नाशक्नुवन्नुपसदैवाजिगीषन्’ इति। लोकत्रयान्निः सारिताश्चासुरा वसन्ताद्यृतुदेवान्यरणं प्राप्तास्तदा तदानीमेवेकैकस्मिन्दिने द्विर्द्विरनुष्ठेयाभिः षड्भिस्तानसुरान्वसन्ताद्यृतुदेवताभ्यो निःसारितवन्तः॥
॥ ते वा ऋतुभ्योनुत्ताˆ असुराˆ मासा नश्रयन्त, ते देवाˆ अब्रुव- न्नुपसदˆ एवोपायामेति- तथेति, त इमा ष्षट्सती रुपसदो द्विर्द्वि रेकैका मुपायं-स्ताˆ द्वादश समपद्यन्त-द्वादश वै मासा.स्तान्वै मासेभ्योऽनुदन्त॥
ततो मासान्शरणं प्राप्यावस्थितानामसुराणां षड्दिनेष्वनुष्ठिताभिरावृत्ताभिर्द्वादशोपसद्भिर्निःसारणं कृतं तदिदं दर्शयति। मन्त्रत्रयेण दिनत्रयेऽनुष्ठेयास्तिस्रः पुनरप्यावृत्याऽन्यस्मिन्दिनत्रयेऽनुष्ठिताः षड्भवन्ति। एकैकस्मिन्दिने द्विरनिष्ठिता द्वादश सम्पद्यन्ते॥
॥ते वै मासेभ्यो नुत्ताˆ असुराˆ अर्धमासा नश्रयन्त, ते देवाˆ अब्रुव- न्नुपसदˆ एवोपायामेति- तथेति, त इमाˆ द्वादशसती रुपसदो द्विर्द्वि रेकैका मुपायं-स्ता श्चतुर्विंशति स्समपद्यन्त- चतुर्विंशति र्वा अर्धमासा स्तान्वा अर्धमासेभ्यो ऽनुदन्त॥
अनेनैव न्यायेन द्वादशसु दिनेष्वनुष्ठिताभिश्चतुर्विंशभिरुपसद्भिरर्धमासदेवताभ्यो निःसारितवन्त इत्येतद्दर्शयति॥
॥ ते वा अर्धमासेभ्यो नुत्ताˆ असुराˆ अहोरात्रे~ अश्रयन्त, ते देवाˆ अब्रुव- न्नुपसदा.वेवोपायामेति- तथेति, ते यामेव पूर्वाह्ण उपसद मुपायं-स्तयैवैना नह्नोऽनुदन्त- या.मपराह्णे तया रात्रे,स्तां.स्तथोभाभ्या महोरात्राभ्या मन्तरायन्॥
ततोऽहोरात्रदेवौ शरणं गतानामसुराणां कालविशेषद्वयानुष्ठानेन निःसारणं दर्शयति। अन्तरायन्नंतरितान्कृतवन्तो निःसारितवन्त इत्यर्थः॥
॥स्तस्मा.त्सुपूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यं- स्वपराह्णेऽपरया, तावन्त मेव तद्द्विषते लोकं परिशिनष्टि ॥
एकैकस्मिन्दिन एकैकस्या उपसदो द्विरनुष्ठानाय कालद्वयविशेषम् विधत्ते। यस्मात्पूर्वाह्णापराह्णौ कालविशेषावहोरात्राभ्यां शत्रूणां निःसारणे हेतू तस्मात्तस्मिन्नेव कालद्वयेऽनुष्ठातव्यं। एवं सति यावानहोरात्रयोः सन्धिकालस्तावन्तमेव द्विषते द्वेषिणे लोकं स्थानविशेषं परिशिनष्टि। इतरस्मात्कालान्निःसारितत्वेन सन्ध्याकाल एवासुरानाम् परिशिष्यते। अत्रैकैकस्मिन्दिने द्विर्द्विरनुष्ठेया उपसदो ज्योतिष्टोमे त्रिषु दिनेनुष्ठेयाः। अग्निचयने षट्सु दिनेषु। अहीनसत्रयोर्द्वादशदिनेषु। तथा च तैत्तरीयैराम्नातम्। ‘तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य यज्ञस्य सवीर्यायत्वा’ इति। तथा ‘षडुपसदोऽग्नेश्चित्यस्य भवन्ति’ इति श्रुत्यन्तरं द्रष्टव्यं। आश्वलायनस्त्वेवमाह - ‘एकाहानां तिस्रः षड्वाहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम्’ इति गवामयनाख्ये संवत्सर इत्यर्थः। अथमीमांसा पञ्चमाध्यायस्य तृतीयपादे चिन्तितम्॥आवृत्तिरुपसत्स्वेषा सङ्घस्यैकैकशोऽथवा। त्रिरध्यायं पठेत्यादाविव स्यात्समुदायगा॥प्रथमामध्यमान्त्येति प्राकृतक्रमसिद्धये। एकैकस्या द्विरभ्यासे षट्सङ्ख्याऽपि प्रसिध्यति॥अग्नौ श्रूयते - षडुपसद इति। तत्र चोदकप्रातानां तिसृणामुपसदां पूर्वन्यायेनाऽऽवृत्या षट्सङ्ख्या सम्पादनीया। सा चावृत्तिर्दण्डकलितवत्समुदायस्य युक्ता। यथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नं दण्डं पुनः पुनः पातयात न तु दण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति यथा वा त्रिवारं रुद्राध्यायं जपतीत्यत्र कृत्स्न एवाध्याय आवर्त्यते नत्वध्यायैकदेशः। एकैकोऽनुवाकः पृथगेव त्रिः पठ्यते - तथा त्रिसृणामुपसदां समुदाय आवर्तनीय इतिचेन्मैवम्। प्राकृतक्रमबाधप्रसङ्गात्। प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या प्रथमोपसत्। तत ऊर्ध्वदिने द्वितीया। ततोऽप्यूर्ध्वदिने तृतीया। ता एताः सकृदनुष्ठय पुनरुपरितनदिनेऽनुष्ठीयमानायां प्रथमत्वमपैति चतुर्थीत्वमायाति। तस्मात्प्राकृतक्रमसिद्धये प्रथमां दिनद्वयेऽभ्यस्य ततो द्वितीयां द्विरभ्यस्येदित्येवं स्वस्थानविवृध्या तासामावृत्तिः कार्या। न चाध्याय दृष्टान्तो युक्तः। अनुवाकसमुदायस्यैवाध्यायत्वादध्यायस्यैव चाऽऽवृत्तिविधानात् न त्विहसमुदायस्योपसत्वमस्ति। तस्मात्प्रत्येकमुपसदावर्तनीया॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाध्याये षष्ठः खण्डः॥
अथ चतुर्थाध्याये सप्तमः खण्डः
॥ॐजितयो वै नामैताˆ यदुपसदो,ऽसपत्नाँ वा एताभि र्देवाˆ विजितिँ व्यजयन्ताऽसपत्नाँ विजितिँ विजयते-यˆ एवँ वेद ॥
अथोपसदः प्रशंसति - उपसदो याः सन्त्येता जितयो वै नाम। जयहेतुत्वाज्जितय इत्येवं नाम प्रतिपद्यन्ते। जयहेतुत्वमेवासपत्नानामित्यादिना स्पष्टीक्रियते। देवा एताभिरुपसद्भिरसपत्नानां वैररहितामेव विजितिं विशिष्टं जयं व्यजयन्त विशेषेन प्राप्तवन्तः। वेदनं प्रशंसति॥
॥ या.न्देवा एषु लोकेषु या मृतुषु यां मासेषु यामर्धमासेषु यामहोरात्रयो र्विजितिँ व्यजयन्त- ताँ विजितिँ विजयते-यˆ एवँ वेद॥
सामान्याकरेण वेदनं प्रशस्य पुनः पूर्वोक्तार्थवादानुक्रमेण विशेषाकारेण प्रशंसति॥
॥ ते देवाˆ अबिभयु- रस्माकँ विप्रेमाण मन्विद मसुराˆ आभविष्यन्तीति, ते व्युत्क्रम्यामन्त्रयन्ता.ग्नि र्वसुभि रुदक्राम- दिन्द्रो रुद्रै- र्वरुणˆ आदित्यै- र्बृहस्पति र्विश्वैर्देवै॥
अथ तानूनप्त्रस्य नाम निर्वक्तुमाख्यायिकामाह - असुरैः सह युद्धार्थमुद्यता देवा स्वसेनाया मध्ये परस्परमेकैकस्य सेनानीत्वलक्षनं ज्यैष्ठ्यमुपगच्छान्तः परस्परविरोधिनो भूत्वाऽपसृत्याबिभयुर्मनसि भीतिं प्राप्ताः। केनाभिप्रायेणेति तदुच्यते। अस्माकं विप्रेमानमनु परस्परप्रेमराहित्यमनुवीक्ष्यासुरा इदमस्मदीयं राज्यमभविष्यन्ति सर्वतः प्राप्स्यन्तीति। ततस्ते देवा व्युत्क्रम्य प्रर्स्परविभागेन तस्माद्देशादपसृत्य स्वसम्बन्धिभिर्मन्त्रिभिः सहामन्त्रयन्त पर्यालोचनं कृतवन्तः। ततस्तत्राग्निर्देवो वसुभिरष्टमन्त्रिभिः सहितः पृथगुदक्रामत्। अत्र चतुर्विधैव विभाग उक्तः। शाखान्तरेतु पञ्चधा। तथाचाऽऽम्नायते - ‘देवासुराः संयत्ता आसंस्ते देवामि थो विप्रिया आसंस्तेऽन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानः पञ्चधा व्यक्रामन्। अग्निर्वसुभिः सोमोरुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्दैवैः’ इति॥
॥स्ते तथा व्युत्क्रम्यामन्त्रयन्त, तेऽब्रुव- न्हन्तयाˆ एव न इमा प्रियतमा स्तन्व- स्ताˆ अस्य वरुणस्य राज्ञो गृहे सन्निदधामहै, ताभिरेव न.स्सन सङ्गच्छातै- यो नˆ एत दतिक्रामा- द्यˆ आलुलोभयिषादिति- तथेति, ते वरुणस्य राज्ञो गृहे तनू स्सन्न्यदधत॥
एवं परस्परं विभज्यावस्थितानां देवसमूहानां पर्यालोचनपूर्वकं कृत्यं दर्शयति - स्वकार्यहानिनिमित्तदुःखप्परिहारोपायदर्शन निमित्त हर्षद्योतनार्थो हन्तशब्दः। अस्माकमत्यन्तं प्रिया याः पुत्रकळात्रादिरूपास्तन्वः सन्ति ताः सर्वा अस्य वरुणस्य राज्ञो गृहे संनिदधामहै बन्दीरूपेण स्थापयामः। तथा सति नोऽस्माकं मध्ये यः कोऽप्येतदतिक्रामादुल्लङ्घयेत्, उल्लङ्घ्य चाऽऽलुलोभयिषात्स्वपुत्रकळत्रादीनेव लोभयितुमिच्छेत्; गुप्तमनुष्यमुखेन अनेतुमिच्छेन्नोऽस्माकं मध्ये स तादृशः पुरुषस्ताभिरेव न सङ्गच्छातै पुत्रकलत्रादिभिर्न सङ्गच्छतां। इत्येतं समयं सर्वेऽप्यङ्गीकृत्य वरुणगृहे स्वपुत्रादिशरीराणि स्थापितवन्तः। परस्पराविरोधे सति वयमेवासुराणामिदं लोकत्रयं साधयाम इति विचार्येमं समयं कृतवन्तः॥ सोऽयं शाखान्तरे स्पष्टमाम्नायते - ‘तेऽमन्यन्तामसुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो यान इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निरृच्छाद्यो नः प्रथमोऽन्योन्यस्मै द्रुह्यात्’ इति॥
॥ ते यद्वरुणस्य राज्ञो गृहे तनू स्सन्न्यदधत- तत्तानूनप्त्र मभवत्-तत्तानूनप्त्रस्य तानूनप्त्रत्व॥
इदानीं निर्वचनं दर्शयति - यस्माद्वरुणगृहे पुत्रादितनूरवस्थाप्य परस्परसख्यायाऽऽज्यस्पर्शनं शपथरूपं कृतवन्तः इति शेषः। तस्मादिदमाज्यस्पर्शनाख्यं तानूनप्त्रं कर्माभवत्। इदं च कर्माऽऽपस्तम्बेन विस्पष्टमभिहितम् - ‘आतिथ्याया ध्रौवात्स्रुचि चमसे वा तानूनप्त्रं समवद्यति। चतुरवत्तं पञ्चावत्तं वा पतये त्वा गृह्णामीत्येतैः प्रतिमन्त्रमनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समवभृशंत्यनु मे दीक्षामिति यजमान इति। तनूनां पुत्रादिशरीराणां नप्त्रं न तपतमतिशयितंनिमित्तीकृत्य क्रियमानत्वादस्य कर्मणतानूनप्त्रं नाम सम्पन्नम्॥
॥न्तस्मा.दाहु- र्न सतानूनप्त्रिणे द्रोग्धव्य मिति॥
प्रसङ्गाल्लोकव्यवहारे कञ्चिद्धर्मं दर्शयति। यस्माद्देवाः परस्पर द्रोहपरिहाराय शपथं कृतवन्तस्तस्माद्ब्रह्मवादिन एवमाहुः। सतानूनप्त्रिणे सह शपथकारिणे न द्रोग्धव्यं। इतिशब्दस्तदुक्तिसमाप्त्यर्थः। देवसंबन्धिशपथविशेषवाचिना तानूनप्त्रशब्देन शपथमात्रमुपलक्ष्यते। बहुभिः सह क्रियमाणं तानूनप्त्रं यस्यास्ति सोयं सतानूनप्त्री॥
॥ तस्मा द्विद मसुरा नान्वाभवन्ति॥
प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति - तस्मादुतस्मादेव कारणाद्देवानां परस्परसख्यरूपादसुरा इदं लोकत्रयं नान्वाभवन्ति नैव समन्तात्प्राप्नुवन्ति। यद्यप्येतत्तानूनप्त्रीकर्मोपसद्भ्यः पूर्वमनुष्ठेयं तथाऽप्युपसत्प्रयुक्तविजय प्रसङ्गेन बुद्धिस्थत्वादत्राभिहितम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाध्याये सप्तमः खण्डः॥
॥अथ चतुर्थाध्याये अष्टमः खण्डः॥
॥ॐशिरो वा एत.द्यज्ञस्य- यदातिथ्य-ङ्ग्रीवाˆ उपसद, स्समानबर्हिषी भवत- स्समानं हि शिरोग्रीव॥
अथाऽऽतिथ्यकर्मण्यास्तीर्णस्यैव बर्हिष उपसत्स्वनुवृत्तिं विधत्ते - अथातिथ्यकर्मणो यज्ञशिरोरूपत्वादुपसदाम् च ग्रीवारूपत्वात्तयोरवयवयोर्मध्ये लोके विच्छेदादर्शनादत्राप्यविच्छेदायाऽऽतिथ्योपसत्कर्मणी समानबर्हिषी एकबर्हिषायुक्ते कर्तव्ये। आतिध्यकर्मण्यास्तीर्णं बर्हिर्नाग्नौ प्रहृतं। इडान्तत्वेन तत्र कर्मसमापनात्। तच्चापस्तम्बेनोक्तम् - ‘इडान्ता संतिष्थते धारयन्ति ध्रौवमाज्यं’ इति। शाखान्तरे च बर्हिषोऽनुवृत्तिराम्नाता। ‘यदातिथ्यायां बर्हिस्तदुपसदां तदग्नीषोमीयस्य’ इति॥
॥मिषुँ वा एता न्देवा स्समस्कुर्वत यदुपसद,-स्तस्याˆ अग्नि रनीक मासी- त्सोम श्शल्यो- विष्णु स्तेजनँ- वरुण पर्णानि, ता माज्यधन्वानो व्यसृजं-स्तया पुरोऽभिन्दन्तˆ आयं-स्तस्मा देताˆ आज्यहविषो भवन्ति॥
अथोपसत्सु द्रव्यदेवताविधानार्थं प्रस्तौति - यदुपसदो या उपसद्देवता अग्न्यादिका सन्ति, एतामग्न्यादिरूपामिषुं वै बाणमेव देवाः समस्कुर्वत संस्कृतवन्तः; अग्न्यादीन्बाणावयवरूपेण संयोजितवन्त इत्यर्थः। योऽयमग्निः सोऽयं तस्या इषोरनीकं मुखमासीत्। पत्रयुक्तद्बाणमूलादूर्ध्ववर्ती भागो मुखं तस्योपरि वर्तमानः लोहविशेषः शल्यं तस्य लोहस्य तीक्ष्णामुग्रं तेजनम्। पर्णानि बाणमूले स्थापितानि पक्षिणां पत्राणि शल्यादिरूपेणाग्निसोमविष्णुवरुणा योजिताः। वरुणोऽत्र प्रशंसार्थमेवोपादीयते न तु देवतात्वेन तदीययोर्याज्यानुवाक्ययोरनभिधास्यमानत्वात्। अत एव शाखान्तरे वरुणं परित्यज्य अग्न्यादय आम्नायन्ते - ‘ त इषुं समस्कुर्वत अग्निमनीकं सोमं शल्यं विष्णुं तेजनं’ इति। तामेतां इषुं देवा आज्यधन्वानः सन्तो विसृष्टवन्तः। तया विसृष्टयेष्वा तेषामसुराणां पुरो भिन्दतो विदारयन्त आयन्नागच्छन्। इदानीं द्रव्यदेवता विधत्ते - यस्मादग्न्यादयो बाणरूपा आज्यं च धनूः स्वरूपं तस्मादाज्यहविष्का एता अग्न्यादि देवता उपसत्सु भवेयुः॥
॥ चतुरोऽग्रे स्तनान्व्रत मुपै त्युपसत्सु- चतुस्सन्धि र्हीषु रनीकं शल्य स्तेजनं पर्णानि॥
उपसदङ्गन्हूतं व्रतोपयानं विधत्ते - उपसत्स्वनुष्ठीयमानासु, अग्रे प्रथमदिने सायंकाले चतुरः स्तनान्प्रतमुपैति। व्रतशब्देनात्र पयः पानमुच्यते। गोश्चतुर्षुस्तनेषु यावत्पयस्तावत्पूर्वोक्तस्य बाणस्य चतुः सन्धित्वादनीकाद्यवयवचतुष्टयोपेतत्वात् स्तनाना चतुः सङ्ख्या युक्ता॥
॥ त्रीन्त्स्तना न्व्रतमुपै त्युपसत्सु-त्रिषन्धि र्हीषु रनीकं शल्य स्तेजनम्।द्वौ स्तनौ व्रत मुपै.त्युपसत्सु- द्विषन्धि र्हीषु श्शल्यश्च ह्येव तेजन,ञ्चैकं स्तनँ व्रतमुपै त्युपस.त्स्वेकाह्येवेषु रित्याख्यायत,-एकया वीर्य.ङ्क्रियते॥
अनेनैव प्रकारेण द्वितीयोपसद्दिने प्रातःसायंकालयोस्तृतीय दिनस्य प्रातः काले चैकैकन्यूनाः स्तनसङ्ख्या विधत्ते - एतासां स्तनसङ्ख्यानामुक्ताः कालविशेषा आपस्तम्बेनोदाहृताः - ‘चतुरः सायं दुह्यात्त्रीन्प्रातर्द्वौ सायमेकमुत्तमः’ इति॥
॥परोवरीयांसो वा इमे लोकाˆ- अर्वागंहीयांस- परस्ता.दर्वाची रुपसद उपै,त्येषा मेव लोकाना मभिजित्या॥
यथोक्तं सङ्ख्याविशेषं प्रशंसति - इमे पृथिव्यन्तरिक्षद्युसप्तलोकाः परोवरीयांसः परस्तादूर्ध्वभागे निवसन्तोऽत्यन्तं विस्तृताः। अर्वागधोभागेंऽहीयांसोतिशयेनाणुवत्संकुचिताः। सत्यलोकादणुर्द्युलोकः तस्मादप्यणुरन्तरिक्षलोकः तस्मादप्यणुर्भूलोकः। एवं सत्युपसदोऽपिपरस्तादूर्ध्वलोकस्थानीयात्प्रथमदिनादारभ्य तत्तद्दिनान्तरदिनेषु स्तनसङ्ख्याह्रासेन अर्वाचीरुपैत्यनुतिष्ठतीति यदस्ति तदेषामेव लोकानामभिजयाय भवति॥
॥उपसद्याय मीळ्हुष- इमां मे अग्ने समिध-मिमा मुपसदँ वनेरिति तिस्रस्तिस्र स्सामिधेन्यो रूपसमृद्धाˆ- एतद्वै यज्ञस्य समृद्धँ- यद्रूपसमृद्धँ- यत्कर्मक्रियमाण मृगभिवदति॥
अथ पूर्वाह्णापराह्णयोर्व्यवस्थिताः सामधेनीः विधत्ते - उपसद्यायेत्याद्या अम्नातास्तिस्र ऋचः पूर्वाह्णे सामिधेन्य इमां मे अग्न इत्यादिका आम्नाता स्तिस्र ऋचोऽपराह्णे सामिधेन्यः। मन्त्रान्तरशङ्ग्काव्युदासेन वैशब्दार्थः कृत्स्नार्थपाठः। उपसद्यायोपसदं वनेरित्युपशब्दयोगेन रूपसमृद्धिः॥
॥जघ्निवती र्याज्याऽनुवाक्या कुर्या- दग्नि र्वृत्राणि जङ्घन- द्यˆ उग्रइव शर्यहा - त्वं सोमासि सत्पति- र्गयस्फानो अमीव-हेदँ विष्णु र्वि चक्रमे- त्रीणि पदा वि चक्रम- इत्येता ॥
याज्यानुवाक्या विधत्ते - हन्तिधात्वर्थयुक्ता जघ्निवतीः। तथाविधा ऋच उदाहरति। अग्निर्वृत्राणीति पुरोनुवाक्या। य उग्र इवेति याज्या। त्वं सो मेति पुरोनुवाक्या। गयस्फान इति याज्या। इदं विष्णुरिति पुरोनुवाक्या। त्रीणिपदेति याज्या। एताश्चाग्न्यादिदेवानां क्रमेण द्रष्टव्याः॥
॥ विपर्यस्ताभिरपराह्णे यजति॥
याः पूर्वाह्णे पुरोनुवाक्या उक्तास्तासामपराह्णे याज्यात्वं तथा तत्र त्यानां याज्यानामपराह्णे पुरोनुवाक्यात्वं च विधत्ते।
॥घ्नन्तो वा एताभि र्देवा पुरोऽभिन्दन्तˆ आयन्-यदुपसद॥
यथोक्त याज्यानुवाक्यायुक्ता उपसदः प्रशंसति - या उक्त मन्त्रोपेता उपसदः सन्ति, एताभिर्देवा असुराणां तिस्रः पुरो विदारयन्तोऽसुरांश्च हिंसन्त आगताः॥
॥स्सच्छन्दस कर्तव्याˆ- न विच्छन्दसो, यद्विच्छन्दस कुर्याद्- ग्रीवासु तद्गण्ड न्दध्या-दीश्वरो ग्लावो जनितो- स्तस्मा त्सच्छन्दसˆ एव कर्तव्याˆ नविच्छन्दस॥
उदाहृतासु याज्यानुवाक्यासु सर्वासु यदेकविधं छन्दो दृश्यते न तु विलक्षणं तदन्वयव्यतिरेकाभ्यां विशदयति - समानं छन्दो यासां ताः सच्छन्दसः। विलक्षणं छन्दो यासां ताः विच्छन्दसः। वैलक्षण्ये बाधमाह - विलक्षणच्छन्दसामनुष्ठाने ग्रीवास्थानीयासूपसत्सु गण्डमालाख्य रोगस्थानीयं दोषं दध्यादुत्पादयेत्। तथा सति होता यजमानस्य ग्लानिविशेषाञ्जनितोरुत्पादयितुमीश्वरः समर्थो भवेत्। अस्वपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति।
॥स्तदु ह स्माहोपावि र्जानश्रुतेय- उपसदा.ङ्किल वै तद्ब्राह्मणे यस्मा.दप्यश्लीलस्य श्रोत्रियस्य मुखँ व्येव ज्ञायते, तृप्तमिव रेभतीवे.त्याज्यहविषो ह्युपसदो ग्रीवासु मुख मध्याहित- न्तस्मा द्धस्म तदाह॥॥
उपसदां आज्यहविष्कत्वं प्रशंसति - तदु ह तस्मिन्नेवोक्तार्थे कश्चिद्वृत्तांत उच्यत इति शेषः। उपाविर्नामकः कश्चिदृषिः स तु जानश्रुतेयः, जनश्रुतायाः स्त्रिया अपत्यं स पुमानुपसदां किल वै, उपसन्नामकानां कर्मणामेव विधायके ब्राह्मणे तद्वाक्यमाह स्म। किमाहेति तदुच्यते। यस्मात्कारणादश्लीलस्यापि कुरूपस्य शोत्रियस्य वेदशास्त्रविदो मुखं तृत्पमिव दैन्य हीनतया तृप्तियुक्तमेव रेभतीव वेदशास्त्रपाठोपेतत्वाच्छंसन्निव व्येव ज्ञायते विशेषेणावश्यं प्रतीयते। इत्येतदृषेर्वचनं तस्य वचनस्याभिप्राय उच्यते। ग्रीवास्थानीया उपसद आज्यहविष्का अत एव शोभमानाः । लोकेऽपि शोभमानासु ग्रीवासु, आध्याहितमाश्रितं मुखं श्रोत्रियसम्बन्धि तृप्त्याद्युपेतं दृश्यते। तस्मात्कारणाच्छोभनग्रीवाहितमुखसाम्यमाज्य हविष्कत्वमित्यभिप्रेत्य स ऋषिस्तद्वाक्यमाह - अथ मीमांसा। चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम्॥
"यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम्। साधारणविधिर्वाऽऽद्यस्तदीयस्योपसंहृतेः॥ बर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा। आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते॥
ज्योतिष्टोमे श्रूयते - यदातिथ्यायां बर्हिस्तदुपसदां तदग्नीषोमीयस्य चेति। क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसध्ये दिनेऽनुष्ठेयः सोऽग्निषोमीयः। पत्रातिथ्येष्टौ विहितं यद्यर्हिस्तद्बदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत तदानीमातिथ्या विधानमनर्थकं स्यात्। यदि तत्रोपयुक्तमितरत्र विधियते विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मादातिथ्या बर्हिषो ये धर्मा आश्वलत्वादयस्ते धर्मा उपसत्सूपसंह्रियन्त इत्यतिदेशपरं वाक्यमिति प्राप्ते ब्रूमः। बर्हिःशब्दस्य धर्मातिदेशपरत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्वेकत्वं प्रतिभात्यतः साधारण्यमत्र विधेयं। आतिथ्यार्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थं किन्तूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विदिवाक्यस्यार्थः। तस्मादातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः। द्वादशाध्यायस्य प्रथमपादे चिन्तिअत्म्॥
"आतिथ्यादिगते बर्हिष्युक्षनादि पृथिङ्न वा। आद्योऽतत्न्त्र प्रसङ्गत्वान्न प्रसङ्गानिवारणात्॥"
यदातिथ्यायां बर्हिस्तदुपसदां तदग्निषोमीयस्येति श्रुतं तत्र बर्हिस्त्रयाणां साधारणमिति चतुर्थे निरूपितम्। तस्मिन्साधारले बर्हिषि प्रोक्षणादि संस्काराः प्रतिकर्म पृथगनुष्ठेयाः। कुतः। तन्त्रप्रयोगयोरत्रासम्भवात्। न तावत्तन्त्रमस्ति, दर्शगतयागत्रयवदेककालीनत्वा भावात्। नापि स्रसङ्गः, एकस्य तन्त्रमध्येऽन्ययोरपठितत्वाडिति प्राप्ते ब्रूमः। बर्हिष एकत्वात्सकृत्प्रोक्षणादिभिः संस्कारे पुनः प्रोक्षणाद्यपेक्षा नास्ति। ते च पोर्क्षणादयः प्राथम्यादातिथ्यायां कार्यः। तत उपसत्स्वग्नीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाध्याये अष्टमः खण्डः॥
॥अथ चतुर्थाध्याये नवमः खण्डः॥
॥देववर्म वा एत-द्यत्प्रयाजा श्चानुयाजा,श्चा.प्रयाज मननुयाजं भवतीष्वै संशित्या अप्रतिशराय॥
अथोपसत्सु प्रयाजाननुयाजांश्च निषेधति - ये प्रयाजा ये चानुयाजाः सन्ति तदुभयं देवानां वर्म वै कवचस्थानीयं। अत एव शाखान्तरे समामनन्ति - ‘यत्प्रयाजा अनूयाजा इज्यन्ते वर्म वा एतद्यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै’ इति। एवं सत्युपसदाख्यं कर्म प्रयाजानुयाजरहितं कर्तव्यं कवचस्यानुपयुक्तत्वात्। परकीयप्रहाराद्रक्षार्थं हि कवचं सम्पाद्यते। नात्र परप्रहारः सम्भवति पूर्वोक्ताया इषोस्तीक्ष्णत्वेन सकृत्प्रयोगादेव मारितेषु शत्रुषु प्रहतॄणामभावात्। एवं सति यदि कवचं सम्पाद्यते तदानीं स्वकीया या इषोरतीक्ष्णत्वं शङ्क्यत स्वस्य च शत्रुभिः सम्पादिता प्रतिहिंसा शक्येत तच्चायुक्तं\ तस्मादिष्वै संशित्यै स्वकीयस्य बाणस्य सम्यक्तीक्ष्णत्वार्थमप्रतिशराय स्वेषुशत्रुकत्रृकप्रतिहिंसायाः शङ्कापरिहार्थं च प्रयाजानुयाजवर्जनं युक्तं। तथा चाऽऽश्वलायन आह - ‘स्विष्टकृदादिलुप्यते प्रयाजा आज्यभागौ च’ इति। स्विष्टकृदादिष्वन्तर्भावादनुयाजलोपो युक्त एव॥
॥सकृदतिक्रम्याश्रावयति- यज्ञस्याभिक्रान्त्या अनपक्रमाय ॥
अत्राग्नीषोमविष्णुरूपाणां देवानां बहुत्वेनाश्रवणार्थमुत्तरस्माद्देशादाहवनीयस्य दक्षिणदेशं प्रत्यसदतिक्रमणं प्राप्तं तद्वारयितुमाह - वेद्याहवनीययोर्मध्ये सकृदेवातिक्रम्य दक्षिणदिश्यवस्थितो बहुषु यागेषु प्रत्येकमाश्रावणं कुर्यात्। एवं सत्युपसद्यज्ञस्य सर्वत आक्रमणं भवति स्थैर्यं भव्वति। अन्यथा पुनः पुनरुत्तरस्यां दिशि गमने लब्धावसरः सन्यज्ञोऽप्यपक्रामेत्। तस्मात्सकृदेवातिक्रमणं युक्तं। तदाहाऽऽपस्तम्बः - ‘ध्रौवादष्ट्यौ जुह्वां गृह्णाति चतुर उपभृति घृतवति शब्दे जुहूप्रभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति’ इति॥
॥तदाहु क्रूरमिव वा एत त्सोमस्य राज्ञोऽन्ते चरन्ति- यदस्य घृतेनान्ते चरन्ति, घृतेन हि वज्रेणेन्द्रो वृत्र महं॥
अथ समन्त्रकं सोमाप्यायनं विधातुं प्रस्तौति - तत्तत्र ब्रह्मवादिन एवमाहुः - सोमस्य राज्ञोऽन्ते समीपे घृतेन द्रव्येण तानूनप्त्रसंज्ञकं कर्म चरन्त्यनुतिष्ठन्तीति यदस्ति तदेतत्सोमस्य राज्ञः समीपे क्रूरमिव वै, उग्रमेव कर्म चरन्ति। हि यस्मात्कारनाद्घृतरूपेण वज्रेणेन्द्रो वृत्रं हतवान्, तस्माद्घृतकर्म क्रूरम्। तच्छाखान्तरे विस्पष्टमाम्नातम् - ‘घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण चरन्ति’ इति॥
॥तद्यदंशुरंशुष्टे देवसोमाप्यायता मिन्द्रायैकधनविद आतुभ्यमिन्द्र प्यायता मा त्व मिन्द्राय प्यायस्वा प्यायया-स्मान्त्सखीन्।सन्या मेधया स्वस्ति ते देवसोम सुत्या मुदृच मशीये-ति राजान माप्याययन्ति, यदेवास्य तत्क्रूरमिवान्ते चरन्ति- तदेवास्यैतेनाप्यायय,-न्त्यथो~एनँ वर्धयन्त्येव॥
तस्य क्रूरकर्मणः परिहाराय विधत्ते- यद्यस्मात्कारणात्सोमस्य राज्ञह् समीपे घृतसाधनकं तानूनप्त्रं कर्म क्रूरं तत्तस्मात्कारणात्क्रौर्य प्रैहारायांशुरंशुरिति मन्त्रेण सोमं राजानमाप्याययेयुः। जलेन प्रोक्षणमाप्यायनम्। एवं सति यत्क्रूरमाचरितं तत्सर्वमेतेन प्रोक्षणेनाऽऽप्याययन्ति शमयन्ति। अपि चैनं सोमं वर्धयन्त्येव। मन्त्रस्यायमर्थः। हे सोम देव, इन्द्रार्थं ते त्वदीयोऽंशुस्त्वदवयव आप्यायतां वर्धतां। कीदृशायेन्द्राय। एकधनविदे। सोमरूपं यदेकं धनं तद्वेत्ति विन्दते वेत्येकधनवित्। तस्मा एकधनविदे। तुभ्यं तदर्थमिन्द्रो वर्धतामिन्द्रार्थं च त्वं वर्धस्व। सखीनस्मान्सन्याक्षेपेण मेधया यज्ञप्रतिपादक ग्रन्थधारणाशक्त्या चाप्यायय वर्धय। हे सोम देव ते स्वस्ति क्षेमोऽस्तु। यस्यां क्रियायां सोमः सूयते अभिषूयते सा सुत्या। उदुत्तमा समाप्तिविषयर्ग्यस्यां सुत्यायां सेयमुदृक्तां सुत्यामुदृचमशीय प्राप्नुयां विघ्नमन्तरेण समाप्तिपर्यन्तमनुतिष्ठेयमिति। श्रौत इति शब्दो मन्त्रसमाप्त्यर्थः॥
॥द्यावापृथिव्योर्वा एष गर्भो- यत्सोमोराजा, तद्य.देष्टा राय एष्टा वामानि प्रेषे भगाय।ऋत मृतवादिभ्यो नमो दिवे नम पृथिव्या इति प्रस्तरे निह्नवते- द्यावापृथिवीभ्यामेव तन्नमस्कुर्व.न्त्यथो~ एने~ वर्धयन्त्येव वर्धयन्त्येव॥
समन्त्रकं निह्नवं विधत्ते - यः सोमो राजा, एष द्यावा पृथिव्योरेव गर्भः। यद्यस्मादेवं तत्तस्माद्गर्भरक्षार्थं प्रस्तर एतन्नामके दर्भमुष्टौ निह्न(ह्नु)वते सम्प्रणयन्ति नमस्कारोपचारं कुर्युरित्यर्थः। तदेतद्द्यावापृथिवीभ्यामित्यादिना स्पष्टीक्रियते। अपि चैने द्यावापृथिव्यौ वर्धयन्त्येव उत्साहयुक्ते कुर्वन्त्येव। निह्नवप्रकार आपस्तम्बेन दर्शितः ‘अथ निह्नवते दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान्पाणीनुत्तानान्कृत्वा सव्यान्नीच एष्टारायः’ इति। अस्मादभ्युदयमिच्छतीत्येष्टा प्रस्तरः सोमोवा। देहीति पदमध्याहर्तव्यम्। हे एष्टः इषे अन्नार्थं भगाय सौभाग्यार्थं च रायो धनानि प्रदेहि॥ यद्वा। एष्टेति प्रथमान्तं तदानीं प्रददात्वित्यध्याहारः। किञ्च। एष्टा वामान्यन्यानपि कामान्प्रददातु ऋतवादिभ्यः सत्यवादिभ्यो देवेभ्य ऋत्विग्यजमानेभ्यो वा। ऋतं सत्यं वदामीति शेषः। तदेव सत्यवचनं स्पष्टमुच्यते। दिवे द्युलोकदेवतायै नमोस्तु। पृथिव्यै भूलोकदेवतायै नमोऽस्त्विति। श्रौत इतिशब्दो मन्त्रसमाप्त्यर्थः। वर्धयन्त्येवेत्यभ्यासोऽध्याय समाप्त्यर्थः॥
अत्र मीमांसा --"उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं समाचरेत्। यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात्॥स्रौवाघारे पुनः श्रुत्या शिष्टस्य परिसङ्ख्यया। अपूर्वार्थत्वतो वाऽन्त्योऽनुवादः प्रतिषेधगीः"॥
ज्योतिष्टोमे विहितासूपसत्सु पठ्यते -‘अप्रयाजास्ता अननुयाजाः’ इति। तत्र निषिद्धान्प्रयाजानुयाजान्वर्जयित्वा अवशिष्टं चोदकप्राप्तमङ्गजातं सर्वमाचरीणीयमितिप्राप्ते ब्रूमः। प्रकृतौ विहित एव स्रौवाघारः पुनरिह विधीयते। स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसञ्चष्टे। अन्यथा पुनर्विधानवैयर्थ्यात्। ननु पुनर्विधानं प्रतिप्रसवार्थं अत एव श्रुतिरत्र स्रौवाघारमब्न्हावशङ्कानिराकरणपूर्वकं विदधाति - ‘नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं। पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्स्रुवेणाऽऽघारमाघारयति’ इति। अयमर्थः। स्रौवाघारः सर्वत्र यज्ञस्य मुखं तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ स्रौवाघारमहुत्वा तस्य स्थाने काञ्चिदन्यामाहुतिं ज्य्हुयात्तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात्। तस्मात्स्रौवाघारं आदौ कर्तव्य इति नैतद्युक्तम्। चोदकप्राप्तस्याऽऽघारस्याकस्मादभावशङ्काया अयुक्तत्वात्। तस्मात्परिसङ्ख्यार्थ एव पुनर्विधिः। आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः। यदि परिसङ्ख्या साऽपि त्रिदोषेत्युच्येत तर्हि गृहमेधीयवदपूर्वं कर्माऽस्तु। प्रयाजादिनिषेधो नित्यानुवादः। सर्वथा यावदुक्तमत्रानष्ठेयम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य चतुर्थाध्याये नवमः खण्डः॥
॥इति चतुर्थोऽध्यायः॥
॥अथैतरेयब्राह्मणे पञ्चमाध्याये प्रथमः खण्डः॥
अभिष्टवोपसत्तानूनप्त्राप्यायननिह्नवाः। कथिता धर्मसम्भारा व्रतोपायनमेवः च॥
॥ॐसोमो वै राजा गन्धर्वे.ष्वासीत् - तन्देवाश्च ऋषयश्चाभ्यध्याय- न्कथ.मय मस्मा.न्त्सोमो राजा गच्छेदिति, सा वा.गब्रवी-त्स्त्रीकामाˆ वै गन्धर्वाˆ- मयैव स्त्रिया भूतयापणध्व मिति, नेति देवाˆ अब्रुव- न्कथँ वय न्त्व.दृते स्यामेति, साऽब्रवी.त्क्रीणीतैव- यर्हि वाववो मयाऽर्थो भविता- तर्ह्येव वोऽहं पुन रागन्ताऽस्मीति- तथेति, तयामहान ग्न्याभूतया सोमं राजान मक्रीणं- ॥
अथ सोमक्रयाद्या वक्तव्याः। तत्र क्रयं वक्तुमाख्यायिकामाहस्वानभ्राजेत्यादि नामधारिणो गन्धर्वा द्युलोके सोमस्य रक्षकाः। तच्च शाखान्तरे मन्त्रव्याख्यान ब्राह्मणे श्रूयते। ‘स्वानभ्राजेत्याह। एतेषाममुष्मिल्लोके सोममरक्षन्’ इति। अथवा विश्वावसुप्रभृतयः सोमस्यापहन्तारो गन्धर्वाः। तद्पि तत्रैव श्रुतम्। ‘तं सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्रो रात्रीः परिमुषितोऽसत्’ इति। तेषु गन्धर्वेषु यः सोम आसीत्तं सोमं मित्रादयो देवा वसिष्थादि ऋषयश्च केन प्रकारेन सोमोऽस्मान्प्राप्नुयादिति विचारितवन्तः। तदानीं गन्धर्वहृदयाभिज्ञा वाग्देवी देवानब्रवीत्। गन्धर्वाः सर्वेऽपि स्त्री लम्पटाहं च स्त्री भुत्वा तिष्ठाम्यतो मया पणध्वं सोममूल्यत्वेन मां गन्धर्वाणामग्रे कुरुतेति। ततो देवा अनङ्गीक्रुत्य त्वदृते त्वां वाचं विना वयं कथं स्याम मन्त्ररूप वाग्राहित्ये सति कर्मणामप्रवृत्तेः केन प्रकारेण जीवामेति वाचमब्रुवन्। ततो वाग्देवानब्रवीत्। सन्देहं मा कुरुतावश्यं मया मूल्येन क्रीणीत यदैव मया युश्माकं प्रयोजनं भविष्यति तदैवाहं पुनरपि युष्मान्प्राप्स्यामीति। ततो देवा आङ्गीकृत्य तया वाचा सोममक्रीणन्। कीदृश्या महानग्न्या। महतीचासौ नग्नी च महानग्नी तया। रूपसम्पत्तिविवक्षया महत्वमुच्यते। बाल्यविविक्षया नग्नत्वम्। भूतया तदानीमेव कुमारीरूपेण निष्पन्नया। तदेतच्छाखान्तरे स्पष्टमाम्नातम् - ‘ ते देवा आब्रुवन्स्त्रीकामा वै गन्धर्वा स्त्रिया निष्क्रीणामेति। ते वाचं स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ इति॥
॥ स्ता मनुकृति मस्कन्नाँ वत्सतरी माजन्ति सोमक्रयणी- न्तया सोमं राजान.ङ्क्रीणन्ति- ॥
इदानीं सोमक्रयं विधत्ते - तामनुकृतिं स्त्रीरूपाम् वाचमनुक्रियमाणां निष्पन्नां तत्सदृशीमित्यर्थः। अस्कन्नां वीर्यस्कन्दनरहितां अप्राप्तयौवनां वत्सतरीमतिशयेन बालां सोमक्रयसाधनभूतां काञ्चिद्गामाजन्ति सम्पादयेयुरित्यर्थः। तया तादृश्या गवा सोमं राजानं क्रीणन्ति क्रीणीयुः। तां गां मूल्यरूपेण दत्वा सोमं स्वीकुर्यः॥
॥तां पुन.र्निष्क्रीणीयात्,पुनर्हि सा तानाऽगच्छत्॥
मूल्यत्वेन सोमविक्रयणे दत्ता या गौस्तस्याः पुनर्मूल्यान्तरदानेन स्वीकरनं विधत्ते - यस्मादियं वाग्गन्धर्वेभ्यो निष्क्रम्य पुनस्तान्देवान्प्राप्नोत्तस्मात्सोमक्रयण्याः पुनरादानं युक्तम्। वाचो वृत्तान्तः शाखान्तरे स्पष्टमाम्नातः - ‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्याऽऽतिष्ठत्तद्रोहितो जन्म ते देवा अब्रुवन्नयं युष्मदक्रमीन्नास्मादुपावर्तेते विह्वयामहा इति ब्रह्मगन्धर्वा अवदन्नगायन्देवाः सा देवान्गायन्नुपावर्तत तस्माद्गायन्तं स्त्रियः कामयन्ते’ इति॥
॥ तस्मा दुपांशु वाचा चरितव्यं सोमे राजनि क्रीते, गन्धर्वेषु हि तर्हि वाग्भवति, साऽग्ना.वेव प्रणीयमाने पुन रागच्छति ॥
मन्त्राणाम् मन्द्रध्वनिं विधत्त्ते- सोमक्रयादूर्ध्वकाले मूल्यरूपा वाग्देवी गन्धर्वेषु तिष्ठति। पुनरप्यग्नौ प्रणीयमाने देवानागच्छति। यस्मादेवं तस्मात्सोमक्रयादूर्ध्वमग्निप्रणयनात्प्राग्वाचोपांशु चरितव्यं। यथा परैर्ध्वनिर्न श्रूयते तथा मन्त्रपाठादिकं कर्तव्यमित्यर्थः॥अत्र मीमांसा। द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्।"क्रयणेषु विकल्पः स्यात्साहित्यं वाग्रिमो यतः। कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः॥" अजया क्रीणाति हिरण्येन क्रीणाति वससा क्रीणातीत्यादीनि बहूनि सोमक्रयसाधनानि द्रव्याण्याम्नातानि तेशां कार्याअक्याद्विकल्प इति चेन्मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरानतेः सालभ्याद्दशभिः क्रीणातीति सङ्ख्योक्तेश्च समुच्चयः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य पञ्चमाध्यायस्य प्रथमः खण्डः॥
॥ अथ पञ्चमाद्याये द्वितीयः खण्डः॥
॥ ॐअग्नये प्रणीयमानायानुब्रू3ही त्याहाध्वर्यु, ॥
सोमक्रयमभिधायाग्निप्रनयनीया ऋचो विधातुमादौ प्रैषमन्त्रं विधत्ते - प्राचीनवंशगत आहवनीये अवस्थितस्याग्नेः स्ॐइक्यामुत्तरवेद्यां नयनं यदस्ति तदेतदत्राग्निप्रणयनं तत्कुर्वन्नध्वर्युरग्नये प्रणीयमानायानुब्रूहीति प्रैषमन्त्रं होतारमुद्दिश्य पठेत्॥
॥प्र देव न्देव्या धिया भरता जातवेदसम्।हव्या नो वक्ष दानुष गिति गायत्रीं ब्राह्मणस्यानुब्रूया॥
तत्र होत्राऽनुवक्तव्यास्वृक्षु प्रथमामृचं विधत्ते - हे ऋत्विजो जातवेदसं देवं देव्या तद्रूपप्रकाशिकया तद्भावनायुक्तया धिया प्रभरत प्रकर्षेणोत्तरवेदिं प्रतिहरत नयत। अयं च जातवेदा आनुषगुत्तरवेद्यामनुषक्ताः सन्नो हव्या, अस्मदीयानि हवींषि वक्षद्देवान्प्रतिवहतु। इतृगेषा गायत्रीच्छन्दस्का तां ब्राह्मणस्य यजमानस्य होताऽनब्रूयात्॥
॥गायत्रो वै ब्राह्मण- स्तेजो वै ब्रह्मवर्चस.ङ्गायत्री- तेजसैवैन न्तद्ब्रह्मवर्चसेन समर्धयति॥
तदेतत्प्रशंसति - ब्राह्मनस्य प्रजापतिमुखजन्यत्वसाम्येन गायत्री सम्बन्धः। तेजो वा इत्यादिकं पूर्ववद्व्याख्येयं॥
॥इमं महे विदथ्याय शूष मिति त्रिष्टुभं राजन्यस्यानुब्रूयात्-त्रैष्टुभो वै राजन्यˆ- ओजो वा इन्द्रियँ वीर्य न्त्रिष्टु-बोजसैवैन न्तदिन्द्रियेण वीर्येण समर्धयति॥
क्षत्रियस्य यजमानस्य यागेऽन्यामृचं विधत्ते - तदेतत्प्रशंसति - त्रिष्टुब्राजन्ययोः प्रजापतिबाहुजन्यत्वेन सम्बन्धः। एतदपि गायत्री ब्राह्मनयोरिव सप्तमकाण्डे तैत्तरीयैराम्नातम् - ‘उरसो बाहुभ्यां पञ्चाशं निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो ब्रुहत्साम राजन्यो मनुष्याणाम्’ इति। ओजो वा इत्यादिकं पूर्ववद्व्याख्येयम्॥
॥शश्वत्कृत्वˆ ईड्याय प्र जभ्रुरिति स्वाना मेवैन न्तच्छ्रैष्ठ्य.ङ्गमयति, शृणोतु नो दम्येभि.रनीकै श्शृणो त्वग्नि र्दिव्यै रजस्रˆ इ-त्याजरसं हास्मि न्नजस्रो दीदाय यˆ एवँ वेदा॥
तस्या ऋचो द्वितीयपादं पठति - उक्तस्य पादद्वयस्यायमर्थः। शूषं सुखहेतुमिममग्निं महे विदध्याय महते स्तुत्याय राजन्याय राजन्यस्य यागसिध्यर्थं प्रजभ्रुः प्रकर्षेन हृतवन्तः उत्तरवेद्यां नीतवन्त इति। श्रौत इति शब्दो द्वितीयपादसमाप्त्यर्थः। तत्पादपठनेन ज्ञातीनां मध्ये यजमानस्य श्रैष्ठ्यं दर्शयति - तस्या ऋच उत्तरार्धं पठति - दम्येभिः परकीयसेनां दमयितुमर्हैरनीखैः स्वकीयैः सैन्यैः सहायं प्रणीयमानोऽग्निः सोऽस्मान्शृणोतु। एते यजमानाः सम्यगनुतिष्ठं तीत्येवं स्वकीयदूतमुखादवगच्छतु। यद्वा। दमो गृहं तद्योग्यैर्दम्यैर्गृहरक्षणार्थमवस्थापितैः इत्यर्थः। किञ्चायमग्निर्दिव्यैर्देवलोकयोग्यैर्भोगै सहाजस्रो निरन्तरमस्मद्ग्रुहे वर्तमानोऽस्मदीयां स्तुतिं शृणोत्विति। श्रौत इति शब्द उत्तरार्ध समाप्त्यर्थः। उक्तवेदनं प्रशंसति। वेदितुर्जरासमाप्तिपर्यन्तं अस्मिन्नेतदीये गृहेऽजस्रो नैरन्तर्येण वर्तमानोऽग्निर्दीदाय दीप्यते॥
॥अय मिह प्रथमो धायि धातृभि रिति जगतीँ वैश्यस्यानुब्रूया- ज्जागतो वै वैश्यो- जागता पशव- पशुभि.रेवैन न्तत्समर्धयति, वनेषु चित्रँ विभ्वँ विशेविश इत्यभिरूपा- यद्यज्ञेऽभिरूप- न्तत्समृद्ध,॥
वैश्यस्य यजमानस्यान्यामृचं विधत्ते - तदेतत्प्रशंसति।प्रजापति मध्यदेशजन्यत्वसाम्येन जगतीसम्बन्धः। एतदपि शाखान्तरे समाम्नातम् - ‘मध्यतः सप्तदशं निरमिमीत तं विश्वे देवा देवता अन्वसृज्यन्त जगतीच्छन्दो वैरूपं साम वैश्यो वै मनुष्याणां’ इति। जागता इत्यादिकं पूर्ववद्व्याख्येयम्। चतुर्थपादमनूद्य प्रशंसति - अत्र तत्तद्वैश्यवाचिनो वीप्सायुक्तस्य विट्शब्दस्य श्रूयमाणत्वाद्वैश्यं प्रत्यनुरूपत्वम्॥
॥मयमु ष्य प्र देवयु रित्यनुष्टुभि वाचँ विसृजते- वाग्वा अनुष्टु-ब्वाच्येव तद्वाचँ विसृजते,ऽयमु ष्य इति यदाहा-ऽयमुस्यागमँ-या पुरा गन्धर्वे.ष्ववा त्स मित्येव तद्वाक्प्रब्रूते॥
इत्थं जातिभेदेन प्रथमाया ऋचो व्यवस्थामभिधाय जातित्रयसाधारनभूतां द्वितीयामृचं विधत्ते - सोमक्रयणकाले यद्वा च उपांशुत्वं विहितं तस्यास्मिन्काले विसर्गं विधत्ते अयमुष्येत्येतस्यामृच्युपांशुरूपां वाचं विसृजेत्। तदेतत्प्रशंसति। अयमुष्येत्यस्या अनुष्टुप्छन्दस्कत्वादनुष्टुभो वाग्रूपत्वस्य सर्वश्रुतिप्रसिद्धत्वादनुष्टुब्रूपाया वाच्येवोपांशुध्वनिरूपां वाचं तन्मन्त्रपाठेन विसृजते। एतन्मन्त्रगतप्रथमपादस्य पूर्वभागमनूद्य व्याचष्टे। ब्राह्मनगतोऽयं शब्दोऽत्र स्त्रीलिङ्गत्वेन परिणेयः। तच्छब्दपर्यायस्य त्यच्छब्दस्य टाबन्तस्य स्येतिरूपं भवति। एवं सत्ययमुष्य इति मन्त्रो यदाह तत्र वाग्देवतेत्थं ब्रूते कथमिति तदुच्यते। पुरा गन्धर्वेषु याऽहं वागवात्संस्थिताऽस्मि स्याऽऽगमं सेयमेवाऽऽगममिदानीमागतास्मीति। अतो वाग्देवतयैवमुच्यमानत्वादत्रार्धर्चोऽभियुक्त इत्यर्थः॥
॥ऽयमग्नि रुरुष्यती-त्ययँ वा अग्नि रुरुष्य,-त्यमृता दिव जन्मनˆ इत्यमृतत्व मेवास्मिं.स्तद्दधाति, सहसश्चि.त्सहीया न्देवो जीवातवे कृतˆ इति देवो ह्येषˆ एत.ज्जीवातवे कृतो- यदग्नि॥
तृतीयामृचं विधत्ते- अनुब्रूयादित्यनुक्तस्थलेष्वनुवर्तते- एतत्पदार्थप्रसिद्धं वै शब्देन दर्शयति- अयं प्रणीयमानोऽग्निर्यजमानमुरुष्यति कर्मनिष्पादनेन रक्षतीत्येतत्प्रसिद्धं। द्वितीयपादमनूद्य तात्पर्यं दर्शयति- अमृतान्मरणरहिताद्देवतारूपाज्जन्मनो यथा रक्षा सम्पद्यते। न हि मरण राहित्यादधिका रक्षा क्वचिदस्ति। तद्वदियमग्निकर्तृकारक्षेत्यर्थः। तत्तेन मन्त्रपाठेन अमृतत्वमेव देवत्वमेवास्मिन्यजमाने सम्पादयति। द्वितीयार्धमनुवदति- देवोऽग्निर्जीवातवे अस्माकं जीवनौषधाय सहसश्चित्प्रबलादपि पुरुषात्सहीयानतिशयेन प्रबलीकृतो निष्पादित इत्युत्तरार्धस्यार्थः। तमिममर्थं विस्पष्टयति- योऽग्निरस्त्येष देव एतेनोत्तरार्धपाठेन जीवनौषधाय सम्पादितो भवति॥
॥इळायास्त्वा पदे वय न्नाभा पृथिव्याˆ अधीत्येतद्वा इळायास्पदँ- यदुत्तरवेदीनाभि,-र्जातवेदो निधीमहीति निधास्यन्तो ह्येनं भव,न्त्यग्ने हव्याय वोळ्हवˆ इति हव्यं हि वक्ष्य न्भवति॥
चतुर्थ्या ऋचः पूर्वार्धं पठति- पृथिव्या नाभा भूमिस्मानात्प्रागुत्तरवेद्याम् नाभिस्थानीये धिष्ण्ये हेग्ने त्वा निधिमहिति वक्ष्यमानपदेन सम्बन्धः। नाभिरेव विशेष्यते इळायाः पद इति इळाशब्दो गोवाची। इळाख्यां देवतां प्रकृत्य गौर्वा आस्यै शरीरमिति श्रुतत्वात्। इळेऽनन्ते सरस्वतीति वाङ्नामसु श्रुतत्वात्। तस्याः पदं घृतनिष्पीडनेन प्रशस्तं सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत इति श्रुतेः। तत्पदरूपत्वविशेषणोत्तरवेदिनाभिः प्रशस्यते। यद्वा नोमक्रयण्या गोपदपांसुरस्यां नाभौप्रक्षिप्यत इति तत्पदरूपत्वम्। नाभेः पदरूपत्वं विशदयति तृतीयं पादमनूद्य व्याचष्टे- एनमग्निं वेदिनाभौ निधास्यन्तः स्थापयितुमुद्युक्ता भवन्त्युत्विजः तस्मान्निधीमहित्युपपन्नं। चतुर्थं पादमनूद्य व्याचष्टे हेऽग्ने हविरोढुं त्वांनिधीमहीति पूर्वत्रान्वयः। हव्यं वक्ष्यन्वोढुमुद्युक्तो भवन्नग्निस्तस्माद्वोढव इत्येतदुचितम्॥
॥त्यग्ने विश्वेभि स्स्वनीक देवै रूर्णावन्तं प्रथम स्सीद योनि मिति विश्वै रेवैन न्तद्देवै स्सहासादयति, कुलायिन.ङ्घृतवन्तं सवित्र इति कुलायमिव ह्येत.द्यज्ञे क्रियते- यत्पैतुदारवा परिधयो-गुग्गुलू.र्णा.स्तुका स्सुगन्धितेजनानीति, यज्ञ.न्नय यजमानाय साध्विति- यज्ञमेव तदृजुधा प्रतिष्ठापयति॥
पञ्चम्या ऋचः पूर्वार्धं पठति- न्वनीक शोभनसैन्योपेत हेऽग्ने विश्वेभिः सर्वैर्देवैः सह त्वं प्रथमो मुख्यः सन्नूर्णावन्तमूर्णायुक्तमुत्तरवेदिनाभिस्थानं सीद प्राप्नुहि। तत्पाठेनोक्तार्थसिद्धिं दर्शयति तृतीयचतुर्थपादौ क्रमेणानूद्य व्याचष्टे। कुलायो नीडं पक्ष्यादिनि वासस्थानसदृशं तद्वानयंयज्ञो घृतवान्। तं घृतवन्तं यज्ञं सवित्रे प्रेरकायानुष्ठात्रे यजमानाय तदुपकार्थं साधु नय सत्यं निष्पादय। तत्कुलायित्वं तृतीयपादेऽभिहितम्। तत्कुलायमिवेत्यादिना स्पष्टीक्रियते। पितुदारुः बदिरवृक्ष इत्येके देवदारुव्रुक्ष इत्यन्ये। तत्संबन्धिनः पैतुदारुवाः परिधयोऽस्यामुत्तरवेद्यां स्थाप्यन्ते। गुग्गुलु प्रसिद्धं धूपसाधनम्। ऊर्णास्तुका अविसम्बन्धिरोमविशेषाः। सुगन्धितेजनं तृणविशेषः। यस्य मूलानि घर्मकाले पानीयमध्ये स्थाप्यन्ते। एत उत्तावेद्यां स्थापिताः सम्भाराः। यथा कुलायः काष्ठतृणादिभिर्निष्पाद्यते तद्वदत्र यज्ञे परिधिकाष्ठादिसद्भावात्कुलायित्वम्। यज्ञं नयेति चतुर्थपादे यद्यदुक्तम् तेन यज्ञमेव तदृजुधा, ऋजुप्रकारेण प्रतिष्ठितं करोति॥
॥ सीद होत स्स्व उ लोके चिकित्वा-नित्यग्निर्वै देवानां होता- तस्यैष स्वो लोको यदुत्तरवेदीनाभि,-स्सादया यज्ञं सुकृतस्य योना विति यजमानो वै यज्ञो यजमानायैवैता माशिष माशास्ते, देवावी र्देवान् हविषा यजास्यग्ने बृह.द्यजमाने वयोधाˆ इति- प्राणो वै वय- प्राणमेव तद्यजमाने दधाति॥
षष्ह्या ऋचः प्रथमं पादं पठित्वा व्याचष्टे- हे होतर्होमनिश्पादकाग्ने चिकित्वान्विज्ञानवांस्त्वं स्व उ लोके स्वकीय एव स्थाने उत्तरवेदिनाभिरूपे सीदोपविश। अग्नेर्देवहोतृत्वादुत्तरवेदिनाभेस्तदीयस्थानत्वाच्च प्रथमपादार्थ उपपन्नः। द्वितीयपादमनूद्य तत्रत्यस्य यज्ञशब्दस्य यजमानपरत्वं दर्शयति। यज्ञं यष्टारं सुकृतस्य योनौ पुण्यकर्मणां स्थाने सादय हेऽग्ने स्थापय। इज्यत इति व्युत्पत्या यज्ञशब्दः सर्वत्र यागवाची। इह तु यजतीति व्युत्पत्या यष्टारमाचष्टे। अतस्तदर्थमेवाशीः प्रार्थिता भवति। उत्तरार्धमनूद्य तत्रत्यस्य वयः शब्दस्य प्राणवाचित्वं दर्शयति- देवान्वेति कामयत इति देवावीर्देवप्रिय हेऽग्ने त्वं देवप्रियात्वाद्देवान्य्हविषा यजासि पूजयसि। यजमाने वयः प्राणं बृहदधिकं यथा भवति तथा धाः धेहि स्थापय। अत्र वयः सब्देन प्राण उपलक्ष्यते। बाल्यादिवयोविशेषहेतोः आयुषः निमित्तत्वात् ‘यावदस्मिन्शरीरे प्राणो वसति तावदायुः’ इति श्रुतेः। तस्मादुत्तरार्धपाठेन प्राणमेव यजमाने स्थापयतीति॥
॥नि होता होतृषदने विदानˆ इ-त्यग्नि र्वै देवानां होता- तस्यैत.द्धोतृषदनँ- यदुत्तरवेदीनाभि,-स्त्वेषो दीदिवा असद त्सुदक्षˆ इत्यासन्नो हि स तर्हि भव,-त्यदब्धव्रतप्रमति र्वसिष्ठˆ इत्यग्नि र्वै देवानाँ वसिष्ठ,-स्सहस्रंभर श्शुचिजिह्वो अग्नि- रित्येषा ह वा अस्य सहस्रंभरता- यदेन.मेकं सन्तं बहुधा विहरन्ति,प्र ह वै साहस्रंपोष माप्नोति-यˆ एवँ वेद॥
सप्तम्या ऋचः प्रथमापादमनूद्य व्याचष्टे- होता होमनिष्पादकोऽग्निस्तादृशस्य स्वस्य होतुः सदने योग्यस्थान उत्तरवेदिनाभिरूपे विदानः क्रियमाणं कर्मविचारयन्। असददिति वक्ष्यमाणेनान्वयः। अग्निर्वा इत्यादि व्याख्यानं विस्पष्टम्। द्वितीयं पादमनूद्य असददिति पदं व्याचष्टे- कीदृशोऽग्निः। त्वेषः स्वयं दीप्यमानः। दीदिवानन्येषामपि दीपकः। सुदक्षः सुष्ठु कुशलः। तादृशोऽग्निरासन्नोवेदिता भवति। स तर्हि तस्मिन्प्रणयनकाले सोऽग्निर्यस्मादुत्तरवेदिनाभेरासन्नस्तस्मादासददित्युचितम्। तृतीयपादमनूद्य वसिष्ठ शब्दार्थं दर्शयति- अदब्धे हिंसारहिते व्रते कर्मणि प्रकृष्टा मतिर्यस्याग्नेः सोऽयमदब्धव्रतप्रमतिः। वसिष्ठोऽतिशयेन निवासहेतुः। हविर्हवनेन देवानां स्वस्थाने निवासहेतुत्वादग्नेर्वसिष्ठत्वम्। चतुर्थं पादमनूद्य व्याचष्टे- अयमग्निर्बहुषु धिष्ण्येषु विहृतः सन्ननेकस्वरूपभरणात्सहस्रंभरः। मन्त्रपूतहविः स्वीकारेण शुचिजिह्वः शुद्धाजिह्वा यस्यासौ शुचिजिह्वः। स्वरूपेणैकमेव सन्तमग्निमृत्विजो बहुधिष्ण्येषु बहुधा विहरन्तिति यदस्ति, एषैवाग्नेः सहस्रम्भरता। वेदनं प्रशंसति- अत्र सहस्र सङ्ख्योपेतं पोषं गोसुवर्णादि पुष्टिं वेदिताप्राप्नोति॥
॥त्व.न्दूत स्त्वमु न परस्पाˆ इत्युत्तमया परिदधाति, त्वँ वस्यˆ आ वृषभ प्रणेता।अग्ने तोकस्य न.स्तने तनूना मप्रयुच्छ न्दीद्य द्बोधि गोपाˆ इ-त्यग्निर्वै देवाना.ङ्गोपाˆ- अग्निमेव तत्सर्वतो गोप्तारं परिदत्त- आत्मने च यजमानाय च- यत्रैवँ विद्वा नेतया परिदधा,त्यथो सँवत्सरीणा मेवैतां स्वस्ति.ङ्कुरुते,॥
अष्टमीमृचं विधत्ते- त्वं दूत इत्यनयाऽन्तिमयाऽग्निप्रणयनीया ऋचः समापयेत्। हेऽग्ने त्वं दूतोऽसि ‘अग्निर्देवानां दूत आसीदिति श्रुतेः। त्वमेव नो- अस्माकं परस्पातिशयेन पालयितासि। अवशिष्टं पादत्रयं पठति। हे वृषभ श्रेष्ठाग्ने त्वमासमन्तात् वस्यो निवासहेतुः प्रणेता बहुषु कर्मसु प्रेरको नोऽस्माकं शोकस्यापत्यस्य तनूनां शरीराणां च तने विस्तारेऽप्रयुच्छन्प्रमादमकुर्वन्दीद्यश्प्रकाशन्गोपा रक्षक सन्, बोधि बुध्यस्व सर्वदा चित्तेऽनुगृहाणेत्यर्थः। उक्तार्थामृचं प्रशंसयति- यत्र यस्मिन्कर्मणि एवमुक्तं मन्त्रमहिमानं विद्वानेतयान्तिमया समापयति- स होताऽग्नेर्देवरक्षकत्वमभिप्रेत्याऽऽत्मार्थं यजमार्थं चाग्निमेव सर्वतो रक्षकं परिदत्ते स्वीकरोति- किञ्च। संवत्सरीणामेवास्मिन्संवत्सरे निरन्तरमेवैतां स्वस्तिं क्षेमं कुरुते॥
॥ताˆ एताˆ अष्टा.वन्वाह रूपसमृद्धाˆ- एतद्वै यज्ञस्य समृद्धँ-यद्रूपसमृद्धँ- यत्कर्मक्रियमाण मृगभिवदति, तासा न्त्रि प्रथमा मन्वाह त्रिरुत्तमा- न्ताˆ द्वादश सम्पद्यन्ते, द्वादश वै मासा स्सँवत्सर- स्सँवत्सर प्रजापति- प्रजापत्यायतनाभि रेवाभी राध्नोति-यˆ एवँ वेद, त्रि प्रथमा न्त्रिरुत्तमा मन्वाह- यज्ञस्यैव तद्बर्सौनह्यति-स्थेम्ने बलायाविस्रंसाय॥
न्यूनाधिकसङ्ख्याभ्रमं व्युदसितुमाह- प्रणीयमानस्याग्नेः प्रकाशकत्वादेतासां रूपसमृद्धिः। आद्यन्तयोरृचोरावृत्तिं विधाय प्रशंसति पूर्ववद्व्याख्येयम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य पञ्चमाध्यायस्य द्वितीयः खण्डः॥
॥ अथ पञ्चमाद्याये तृतीयः खण्डः॥
॥ॐहविर्धानाभ्यां प्रोह्यमाणाभ्या मनुब्रू3ही त्याहाध्वर्यु,॥
अथ हविर्धान प्रवर्तनीया ऋचो विधतुमादौ प्रैषं विधत्ते- हविः सोमरूपं धत्तो धारयत इति हविर्धाने द्वे शकटे। तयोः स्वरूपमापस्तम्बो दर्शयति- ‘प्रयुक्तः पूर्वे शकटे बद्धयुगे प्रकटितशम्ये प्रक्षाल्य तयोः प्रथमग्रथतान्विस्रस्य नवान्प्रज्ञातान्कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामप्यपयन्परिश्रिते सच्छदिषी अवस्थापयति’ इति। तयोर्हविर्धानयोः प्राचीनवंशस्य पुरोभागमुपक्रम्योत्तरदेशपर्यन्तं नयनं प्रवर्तनं तदपि स एवाऽऽह- ‘प्राची प्रेतमध्वरमित्युक्तं गृह्णन्तं प्रवर्तयन्ति इति। तत्प्रवर्तनकालेऽध्वर्युः होतारं प्रति हविर्धानाभ्यामित्यादिप्रैषमन्त्रं प्रब्रूयात्॥
॥ र्युजे वां ब्रह्म पूर्व्य.न्नमोभि रित्यन्वाह- ब्रह्मणा वा एते देवाˆ अयुञ्जत- यद्धविर्धाने~- ब्रह्मणैवैने~ एत द्युङ्क्ते,न वै ब्रह्मण्व.द्रिष्यति॥
होत्रानुवचनीयानामृचां मध्ये प्रथमामृचं विथत्ते- हे हविर्धाने वां युवां ब्रह्मयुजे ब्रह्मणा युनक्तीत्येवं मन्त्रे यदुक्तमेतत्पाठेन ब्राह्मनमुखेनैव हविर्धाने युक्ते भवतः। पूर्वं देवैस्तथा कृतत्वात्। एतद्युक्तं ब्रह्मण्वद्ब्राह्मनोपेतं कर्म नैव विनश्यति तस्माद्युक्तोऽयं मन्त्रः॥
॥प्रेताँ यज्ञस्य शम्भुवेति तृच न्द्यावापृथिवीयमन्वाह, ॥
द्वितीयाद्यास्तिस्र ऋचो विधत्ते- मध्यमायामृचि द्यावा नह् पृथिवी इममिति श्रूयमाणत्वादयं तृचो द्यावापृथिवीयः॥
॥तदाहु-र्यद्धविर्धानाभ्यां प्रोह्यमाणाभ्या मनुवाचाहाऽथ कस्मा.त्तृच न्द्यावापृथिवीयमन्वाहेति- द्यावापृथिवी वै देवानां हविर्धाने~ आस्ता-न्ते~ उ एवाद्यापि हविर्धाने~- ते~ हीद मन्तरेण सर्वं हवि-र्यदिद.ङ्किञ्च- तस्मात्तृच न्द्यावापृथिवीयमन्वाह,॥
अस्य तृचस्य हविर्धानप्रतिपादकत्वाभावैद्वैयधिकरण्य मित्याक्षिप्य समाधत्ते- यद्यप्यत्र हविर्धानयोरनुकूलया वाचा प्रैषमाह तथापि द्यावा पृथिवीयस्तृचः न व्यधिकरनः पुरा द्यावा पृथिव्योरेव हविर्धानत्वात्। अद्यापि द्यावापृथिव्यावेव हविर्धाने। तत्कथमिति चेदुच्यते। यस्माल्लोके यत्किञ्चिद्धविरस्ति तदिदं सर्वं ते अन्तरेन द्यावापृथिव्योर्मध्ये वर्तते तस्माद्यावापृथिव्योर्हविर्धानत्वात्तदीयस्य तृचस्यानुवचनं युक्तम्॥
॥यमे~इव यतमाने~ यदैत मिति- यमे~इव ह्येते~ यतमाने~, प्रबाहु.गित॥
पञ्चमीमृचं विधत्ते- यमशब्द एकस्या मातुरुदरे सहोत्पन्नस्य शरीरद्वयस्य वाचकः। यमे इव यथा लोके तादृश्यौ द्वे कन्यके सह वर्तेते तथेमे शकटे यतमाने जगदुपकार्थं प्रयत्नम् कुर्वती यस्मात्कारनादैतमगतवती इत्येतस्य पादस्यार्थः प्रसिद्ध इति हिशब्दो द्योतयति। युगपदुत्पन्न कन्यकाद्वयवदेवैते प्रबाहुक्परस्पर सादृश्येन सहैव वर्तमाने इतः प्रचरतः। तदेतल्लोके प्रसिद्धमेव दृश्यते॥
॥प्र वां भर न्मानुषा देवयन्तˆ इति- देवयन्तो ह्येने~ मानुषा प्र भारन्ति॥
द्वितीयपादमनूद्य व्याचष्टे- यच्छब्दस्य पूर्वपादेऽभिहितत्वात्तच्छब्दोऽस्मिन्पादेऽध्याहर्तव्यः। यस्मात्प्राण्युपकारार्थं प्रयतमाने स्थिते तस्मात्कारनाद्देवयन्तो यष्टव्यत्वेन देवानिच्छन्तो मानुषा ऋत्विग्यजमाना हे हविर्धाने वां युवां प्रभरन् प्रकर्षॆण सम्पादयन्ति। एतत्पदार्थस्य याज्ञिक प्रसिद्धिद्योतनार्थो हि शब्दः॥
॥सीदतं स्वमु लोकँ विदाने~।स्वासस्थे भवत मिन्दवे नˆ इति- सोमो वै राजेन्दु- स्सोमायैवैने~ एतद्राज्ञˆ आसदेऽचीकॢप॥
द्वितीयार्धमनूद्य व्याचष्टे- हे हविर्धाने उभे युवां प्रवर्तमाने सती स्वमु लोकं स्वकीयमेवस्थानं विदाने ज्ञातवती आसीदतं तत्र स्थितिं प्राप्नुतं नोऽस्मदीयायेन्दवे सोमाय स्वासस्थे सुशोभन आसने स्थितिं प्राप्ते भवतम्। अत्रेन्दु शब्देन सोमोराजा उच्यते। अत एव तत्पाठेन सोमराजार्थमासद असा(स)दनायावस्थानायाचीक्लृपत् कल्पितवान्भवति॥
॥दधि द्वयो रदधाˆ उक्थ्यँ वचˆ इति- द्वयो र्ह्येत त्तृतीय.ञ्छदि.रधि निधीयत॥
षष्ठीमृचं विधत्ते- हविर्धानाख्ययोः शकटयोरुपरि सोमस्यावस्थानाय गृहाकारेण परितो वेष्टनमुपर्याच्छादनं यत्क्रियते तदेतदाच्छादनं छदिःशब्दवाच्यम्। तादृशे द्वे छदिषी द्वयोर्हविर्धानयोरवस्थाप्य तयोः छदिषोरुपरि तृतीयं छदिर्हविर्धानयोरुदाहृतयोरवस्थाप्यते। तदेतत्तैत्तरीया आमनन्ति। ‘दण्डो वा औदुम्बरस्तृतीयस्य हविर्धानस्यवषट्कारेणाक्षमाच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुध्यै’ इति। तदेतत्तृतीयच्छदिरवस्थापनम्। एतन्मन्त्रप्रथमपादे प्रस्तूयते। यद्वयोश्छदिषोरध्यदधा उपरि तृतीयं छदिर्निधीयते तदिदमुक्थ्यं वच उक्थ्यशस्त्रनामकं यद्यज्ञं कर्म तद्योग्यं वचो मन्त्रपाठस्तद्रूपं इदं छदिरिति च्छदिषः प्रशंसा। अस्मिन्पादे पूर्वभागस्यार्थो याज्ञिकप्रसिद्ध इत्यभिप्रेत्य हिशब्दयुक्तेन वाक्येन वाचष्टे॥
॥उक्थ्यँ वचˆ इति यदाह- यज्ञियँ वै कर्मोक्थ्यँ वचो- यज्ञमेवैतेन समर्धयति॥
उत्तरभागं व्याचष्टे- उक्थ्यं वच इति यर्पदद्वयं मन्त्रो ब्रूते तेन पदद्वयेन शस्त्र पाठाख्यंयज्ञसम्बन्धि कर्मोच्यते। तस्मादेतेन मन्त्रपाठेन यज्ञमेव समृद्धं करोति॥
॥ यतस्रुचा मिथुना या सपर्यतः।असँयत्तो व्रते ते क्षेति पुष्यतीति ॥ द्वितीय तृतीय पादौ पठति॥
यदा तृतीयं छदिर्निधीयते तदानीं ये हविर्धाने स्तस्ते उभे यतस्रुचा नियतस्रग्युक्ते कृतहोमे हुतसोमे मिथुना मिथुनवत्परस्परयुक्ते सपर्यतः पूजिते भवतः। अयमर्थः। द्वयोरुपरि तृतीये च्छदिषि व्यवस्थापिते सति विवाहहोमादूर्ध्वं परस्परसंयुक्तौ मिथुनरूपौ स्त्रीपुरुषौ यथा पूज्येते तथा हविर्धाने हविषा पूजिते भवतैति॥ सम्पूर्वो यतिधातुः सङ्ग्रामे वर्तते। तेन क्रौर्यगुणो लक्ष्यते। संयत्तः क्रूरः असंयत्तः शान्तः। अत्रेन्द्रसम्बोधनमध्याहार्यम्। हे इन्द्र शान्तोऽध्वर्युस्ते व्रते त्वदीये कर्मणि क्षेति निवसति पुष्यति तच्च कर्म पुष्टं करोति॥
॥यदेवाद पूर्वँयत्तव.त्पदमाह- तदेवैतेन शान्त्या शमयति॥
एतस्य तृतीयपादस्य तात्पर्यं दर्शयति- यत्तवत्पदवाच्यस्तृतीयः पादः। अत्र व्रतपादात्पूर्वं यदेवादो यदिदं यत्तवत्पदं यत्तशब्दोपेतं संयत्त इति पदं तेन युद्धवाचिना यत्क्रौर्यं द्योतितं तदेव क्रौर्यमेतेनासंयत्तः पुष्यतीति पदद्वयेन प्रतीतया शान्त्या होता शमयति॥
॥भद्रा शक्ति र्यजमनाय सुन्वत- इत्याशिष माशास्ते॥
चतुर्थपादमनूद्य व्याचष्टे- सुन्वते सोमाभिषवं कुर्वते यजमानाय भद्रा कल्याणरूपा शक्तिर्भवत्विति शेषः। अनेन पादेन प्रार्थनीयं प्रार्थयते।
॥ विश्वा रूपाणि प्रति मुञ्चते कविरिति विश्वरूपा मन्वाह॥
सप्तमीमृचं विधत्ते- कविर्मेधावी मन्त्रप्रतिपाद्यो देवः सविता विश्वारूपाणि शुक्लकृष्णादीनि बहूनि दूपाण्याभरणत्वेन प्रतिमुञ्चते स्वशरीरे स्थापयति। अत्ररूपशब्दस्य विश्वशब्दस्य च विद्यमानत्वादियमृग्विश्वरूपशब्दाभिधेया॥
॥ स रराट्या मीक्षमाणोऽनुब्रूया॥
त्सया अनुवचने होतुः किञ्चिदिति कर्तव्यतामाह- हविर्धानमण्डपस्य चिकीर्षितस्य प्राच्यां द्वारि बन्धनीया दर्भमाला रराटे। द्वितीयार्थे सप्तमी। तां दर्भमालां पश्यन्ननूब्रूयात्।
॥विश्वमिव हि रूपं रराट्या श्शुक्लमिव च कृष्णमिव च॥
अस्या ऋचो दराट्यनुरूपत्वं दर्शयति- दर्भमालाया अत्यन्त शुष्कास्तृणविशेषाः शुक्ला दृश्यन्ते अशुष्कास्तु कृष्णा अतो विश्वमिव बहुविधमिव दर्भमालायाः स्वरूपं तेन विश्वारूपाणीत्ययंमन्त्रोऽनुकूलः॥
॥ विश्वं रूप मवरुन्ध- आत्मने च यजमानाय च- यत्रैवँ विद्वा नेतां रराट्या मीक्षमाणोऽन्वाह,॥
होतुरेतद्वेदनं प्रशंसति- विश्वरूपं प्रजापश्वादिविविधवस्तु स्वरूपम्॥
॥परि त्वा गिर्वणो गिरˆ इत्युत्तमया परिदधाति॥
अष्टम्याऽनुवचनसमाप्तिं विधत्ते- ।
॥स यदैव हविर्धाने~ संपरिश्रिते~ मन्येताऽथ परिदध्या॥
परिधानस्य कालं विधत्ते- यस्मिन्नेवकाले प्रवर्तिते द्वे शकटे सम्परिश्रिते स्वस्थानेऽवस्थाप्य सम्यगाच्छादिते इति स होता मन्येत तत्तदानीं समापयेत्॥
॥अनग्नंभावुकाह होतुश्च यजमानस्य च भार्याˆ भवन्ति- यत्रैवँ विद्वा नेतया हविर्धानयो स्संपरिश्रितयो परिदधाति ॥
होतुरेतद्वेदनं प्रशंसति- अनग्नंभावुका आच्छादनबाहुल्यसम्पत्या नग्नत्वरहिताः॥
॥यजुषा वा एते~ संपरिश्रियेते~- यद्धविर्धाने~, यजुषैवैने~ एत.त्परिश्रयन्ति॥
हविर्धानयोः परिश्रयणकालं ज्ञात्वा परिदध्यादित्युक्तं सकालः कथं ज्ञायत इत्याशङ्क्याह- युद्धविर्धाने द्वे शकटे विद्येते एते यजुषा वै यजुर्मन्त्रेणैव सम्परिश्रिते भवतः, तदेव कथमिति तदुच्यते। अध्वर्यव एते हविर्धाने यजुषैव परिश्रयन्तीत्येतत्प्रसिद्धमितिशेषः। तदेतदापस्तम्बो दर्शयति- ‘विष्णोः पृष्ठमसीति। तेषुमध्यमं छदिरध्यूहति। अरत्निविस्तारं नवायामम्’ इति॥
॥तौ यदैवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो मेथ्यौ निहन्याता- मथ परिदध्यात्॥
परिधानस्य कालं विधत्ते- अध्वर्युर्दक्षिणस्य हविर्धानस्य मेथीमीषाग्रभागावस्थापनकाष्ठं स्थापयति। तदेतच्छाखान्तरे श्रूयते- ‘दिवो वा विष्न उत वा पृथिव्या इत्याशीः पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं निहन्ति’ इति। उत्तरस्य तु प्रतिप्रस्थाता करोति। तदेतदुभयमापस्तम्बो दर्शयति- ‘दिवो वा विष्ण इत्यध्वर्युर्दक्षिणस्य हविर्धानस्य मेथीं निहन्तीति। तस्यामीषां निहन्ति। एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नुकमित्युक्त्वाऽस्य हविर्धानस्योत्तरं कर्णं तदासन्निति। तस्मिन्मेथीनि हननकाले परिदध्यात्’ इति॥
॥दत्र हिते~ संपरिश्रिते~ भवत॥
यद्यप्ययं कालः परिश्रयनकालात्प्राचीनस्तथापि तत्समीपवर्तित्वात्पूर्वविधिना सह नात्यन्तं विरोध इत्येतद्दर्शयति- अत्र मेथीनिहननदेशे तत्समीपवर्तिनि काले परिश्रयनं क्रियते॥
॥ता एता अष्टा.वन्वाह रूपसमृद्धाˆ- एतद्वै यज्ञस्य समृद्धँ- यद्रूपसमृद्धँ, यत्कर्मक्रियमाण मृगभिवदति, तासा न्त्रि प्रथमा मन्वाह त्रिरुत्तमा-न्ता द्वादश सम्पद्यन्ते- द्वादश वै मासा स्सँवत्सर- स्सँवत्सर प्रजापति प्रजापत्यायतनाभि रेवाभी राध्नोति-यˆ एवँ वेद, त्रि प्रथमा न्त्रिरुत्तमा मन्वाह- यज्ञस्यैव तद्बर्सौनह्यति-स्थेम्ने बलायाविस्रंसाय॥
ऋक्संख्यादिकं दर्शयति-
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य पञ्चमाध्यायस्य तृतीयः खण्डः॥
॥ अथ पञ्चमाद्याये चतुर्थः खण्डः॥
॥ ॐअग्नीषोमाभ्यां प्रणीयमानाभ्या मनुब्रू3ही.त्याहाध्वर्यु,॥
अथाग्नीषोमप्रणयनीया ऋचो विधातुमादौ प्रैषमन्त्रं विधत्ते- योऽयमग्निः प्राचीनवंशाख्यायाः शालाया मुखे द्वारभागे पूर्वसिद्धाहवनीयरूपेणावतिष्ठते तस्माच्छालामुखीयादग्नेः सकाशात्कियानप्याग्नीध्रीये धिष्ण्ये नेतव्यः। सोमश्च पूर्वं शलामुखीयसमीपेऽवस्थितः तेनाग्निनासहाऽऽनीतः सन्पुनरपि हविर्धानमण्डपे नेतव्यः। तदिदमग्नीषोमप्रणयनं तदर्थं होतारं प्रत्यध्वर्युः प्रैषमन्त्रं ब्रूयात्। तदेतत्सर्वमापस्तम्ब आह- ‘शालामुखीये प्रनयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति सम्प्रेष्यति’ इति। अग्निप्रथमाः सोमप्रथमा वा प्राचीमभिप्रव्रजं त्याग्नीध्रीयेऽग्निं प्रतिष्ठाप्येति स च सोमो जिगाति गातुविदित्यपरयाद्वारा हविर्धानं राजानं प्रपादयतीति च॥
॥ स्सावीर्हि देवप्रथमाय पित्र इति सावित्री.मन्वाह ॥
अग्नीषोमप्रणयनीयास्वृक्षु प्रथमामृचं विधत्ते- सेयं शाखान्तरगतत्वात्सूत्रकरेण पठिता। तस्यास्तृतीयपादेऽस्मभ्यं सवितरिति श्रुतत्वादियं सावित्री॥
॥तदाहु- र्यदग्नीषोमाभ्यां प्रणीयमानाभ्या मनुवाचाहाऽथ कस्मा.त्सावित्री मन्वाहेति- सविता वै प्रसवाना मीशे- सवितृप्रसूताˆ एवैनौ तत्प्रणयन्ति-तस्मा.त्सावित्री मन्वाह॥
aitareya_brahmana>
अत्र वैयधिकरण्यमाशङ्क्य समाधत्ते- पूर्ववद्व्याख्येयम्।
॥, प्रैतु ब्रह्मणस्पति रिति ब्राह्मणस्पत्या मन्वाह॥
द्वितीयां विधते- ।
॥तदाहु- र्यदग्नीषोमाभ्यां प्रणीयमानाभ्या मनुवाचाहाऽथ कस्मा द्ब्राह्मणस्पत्या मन्वाहेति- ब्रह्म वै बृहस्पति- र्ब्रह्मैवाभ्या मेत.त्पुरोगव मक-र्णवै ब्रह्मण्व.द्रिष्यति,॥
अत्रापि वैयधिकरण्यमाशङ्क्य समाधत्ते- पुरोगवं ब्राह्मणमेव पुरोगन्तारमकः करोति ब्राह्मणोपेतस्य कर्मणो विनाशाभावात्तद्युक्तम्॥
॥प्र देव्येतु सूनृतेति ससूनृत मेव तद्यज्ञ.ङ्करोति- तस्मा द्ब्राह्मणस्पत्या मन्वाह॥
द्वितीयपादमुपजीव्य तामृचं प्रशंसति- सूनृता प्रियवचनरूपा वाग्देवी प्रैतु ब्रह्मणा सह पुरो गच्छत्विति द्वितीयपादे श्रूयते तत्पाठेन यज्ञं ससूनृतमेव प्रियवचनयुक्तमेव करोति॥
॥होता देवो अमर्त्यˆ इति तृच माग्नेय.ङ्गायत्र मन्वाह- सोमे राजनि प्रणीयमान॥
तृतीयाद्यास्तिस्र ऋचो विधत्ते- जुहोत्यस्मिन्नग्नाविति होताऽग्निः। अतो होतृशब्दश्रवणादिदमाग्नेयम्॥
॥सोमे राजनि प्रणीयमाने, सोमँ वै राजानं प्रणीयमान मन्तरेणैव सदोहविर्धाना.न्यसुराˆ रक्षांस्यजिघासं-स्तमग्नि र्मायया ऽत्यनय॥
आग्नेयस्य सोमप्रणयनानुकूल्यं दर्शयति- यदिदं सदो नामकं मण्डपं यच्च हविर्धाननामकं मण्डपं शकटद्वयं च तान्यन्तरेण तेषां मध्येऽसुराश्च रक्षांसि च नीयमानं सोमं हन्तुमैच्छन्। तं भीतं सोममग्निः स्वकीयया मायया तानसुरांस्तानि दक्षांस्यतिक्रम्य नीतावान्। तस्मात्सोमप्रनयनेऽप्याग्नेयस्य योग्यत्वमस्ति। असुराणां रक्षसां चावान्तरजातिभेदो द्रष्टव्यः॥
॥त्पुरस्तादेति माययेति, मायया हि स त.मत्यनय- त्तस्माद्वस्याग्निं पुरस्ता द्धरन्ति॥
प्रथमाया ऋचो द्वितीयपादमनूद्यव्याचष्टे- मायया सहितोऽग्निः पुरस्ताद्गच्छतीति द्वितीयपादे श्रूयते- यस्मात्सोऽग्निर्मायया शक्त्या भीतस्थानमतिलङ्घ्य तं सोममनयत्तस्मादु तस्मादेव कारणादस्य सोमस्य पुरस्तादाग्नीध्रपर्यन्तमग्निमृत्विजो हरन्ति॥
॥उप त्वाऽग्ने दिवेदिव- उप प्रियं पनिप्नत मिति, तिस्र श्चैका.ञ्चान्वाह॥
षष्ठीमारभ्य चतस्र ऋचो विधत्ते- उप त्वाग्न इत्यादिकाः क्रमेणाम्नातास्त्रिस्र उप प्रियमित्येका॥
॥हेश्वरौ ह वा एतौ सँयन्तौ यजमानं हिंसितो- र्यश्चासौ पूर्वˆ उद्धृतो भवति- यमु चैन मपरं प्रणयन्ति, तद्य.त्तिस्र श्चैका.ञ्चान्वाह- सञ्जानाना वेवैनौ तत्सङ्गमयति- प्रतिष्ठाया मेवैनौ तत्प्रतिष्ठापय-त्यात्मनश्च यजमानस्य चाहिंसायै॥
उक्तस्य तृचस्योक्तायाश्चैकस्या अनुवचनमुपपादयति। यश्चासावग्निः पूर्वमुद्धृतः पूर्वभावी सन्नुत्तरवेद्यामानीय स्थापितः। यमप्यपरमग्निमिदानीं आग्नीध्रधिष्ण्यं प्रति प्रणयन्ति। एतावुभावग्नी संयुतौ ममैवाऽऽहुतिरित्येवं सङ्ग्रामं कुर्वन्तौ यजमानं हिंसितोरीश्वरौ हिंसितुं समर्थौ। तथा सति यदि तिस्रश्चैकां चानुब्रूयात्तदानीमेतौ द्वावप्यग्नी सञ्जानानावेव परस्परैकमत्ययुक्तावेव कृत्वा सङ्गमयत्यन्योन्यं संयोजयति। तिसृष्वृक्षु नमो भरन्त एमसीति पूर्वोद्धृतस्याग्नेः नमस्कारः श्रूयते। एतस्यामृचि अगन्म बिभ्रतो नम इति प्रणीयमानस्याग्नेर्नमस्कारः श्रुतस्तेन तुष्टौ परस्परद्वेषं परित्यजतः। तत्तथा सत्येतावुभावग्नी प्रतिष्ठायामेवोत्तरवेद्याग्नीध्रलक्षणस्वस्वोचितस्थान एव प्रतिष्ठापयति। तच्च होतुरात्मनश्च यजमानस्य च हिंसापरिहाराय भवति॥
॥ग्ने जुषस्व प्रति हर्य तद्वचˆ इत्याहुत्यां हूयमानाया मन्वा॥
दह्समीमृचं विधत्ते- आहुतिस्तु यजुर्वेदविहिता। तयैवेत्यृचाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिजित्या इति। सा चाऽऽपस्तम्बेन स्पष्टीकृता- ‘अग्नीध्रीयेऽग्निं प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति’ इति॥ तदाहुतिकाले होताऽग्ने जुषस्वेत्येतामनुब्रूयात्॥
॥हाग्नय एव तज्जुष्टि माहुति.ङ्गमयति॥
तामेतां प्रशंसति- जुषस्वेति मन्त्रेऽभिधानादाहुतिमग्नेः प्रियं स्म्पादयति।
॥सोमो जिगाति गातुविदिति तृचं सौम्य.ङ्गायत्र मन्वाह- सोमे राजनि प्रणीयमाने- स्वयैवैन.न्तद्देवतया स्वेन च्छन्दसा समर्धयति॥
एकादशीमारभ्य तिस्रो ऋचो विधत्ते- मन्त्रे सोमदेवताया एव प्रतिपाद्यत्वात्सोमात्म कस्येयं स्वकीयदेवता गायत्र्या सोमस्य द्युलोकादाहृतताच्छन्दोऽपि स्वकीयम्॥
॥सोम.स्सधस्थ मासद दित्यासत्स्यन् हि स तर्हि भवति॥
अस्य तृचस्यान्तिमं पादमादाय व्याचष्टे- अयं सोमः सधस्थं हविर्धानाभ्यां सहावस्थानप्रदेशं प्राप्याऽऽसददासन्नोऽभूत्। यस्मत्ससोमस्तर्हि तत्पादपाठकाल असत्स्यन्भवति हविर्धानदेशस्याऽऽसन्नतां करिष्यन्वर्तते तस्मात्सधस्थमासददिति युक्तम्॥
॥तदतिक्रम्यैवानु ब्रूया-त्पृष्ठतˆ इवाग्नीध्र.ङ्कृत्वा॥
अस्य तृचस्यानुवचनदेशं विधत्ते- पूर्वोक्तायामाहुत्यामध्वर्युणा हूयमानायां होता त्युचमुपक्रम्यानुब्रुवाणो गच्छंस्तदाग्नीध्रस्थानमतिक्रम्यैवाग्नीध्रं पृष्ठत एव कृत्वा तं पादमनूब्रूयात्। अतिक्रम्येत्यस्यैव पृष्ठतः कृत्वेति व्याख्यानम्॥
॥तमस्य राजा वरुण स्तमश्विनेति वैष्णवी मन्वाह॥
चतुर्दशीमृचं विधत्ते- व्रजं च विष्णुरिति चतुर्थपादे श्रुतत्वात्॥
॥क्रतुं सचन्त मारुतस्य वेधसः।दाधार दक्ष मुत्तम महर्विदँ- व्रजञ्च विष्णु स्सखिवा अपोर्णुत इति- विष्णुर्वै देवाना न्द्वारप- स्स एवास्मा एत द्द्वारँ विवृणो॥
अवशिष्टं पादत्रयं पठति। अस्या ऋचोऽयमर्थः। अस्य सोमस्योपनद्धस्य राजा स्वामी वरुणस्तं क्रतुं यागं सचत इत्यध्याहारः। अश्विना उभावश्वनौ देवौ मारुतो वायुर्वेधा ब्रह्मा च क्रतुं सचन्त समवयन्ति। मारुतस्य वेधस इति प्रथमार्थे षष्ठ्यौ। विष्णुर्देवो दक्षं देवानां तृप्तौ कुशलमत एवोत्तममहर्विदं श्रुत्या दिनाभिज्ञं सोमं दधार प्रणयनकाले धृतवान्। तथा विष्णुः सखिवान्सोमरूपेण सख्या युक्ततया तद्वान्व्रजं सोमस्थानं हविर्धानमपोर्णिते चेति समुच्चयार्थश्चकारः। उक्तमन्त्रतात्पर्यं विस्पष्टयति॥
॥अन्तश्च प्रागाˆ अदिति र्भवासीति प्रपाद्यमानेऽन्वाह,॥
पञ्चदशीमृचं विधत्ते- सोमे हविर्धानं प्राप्यमाणे सत्येतामृचमनुब्रूयात्।
॥श्येनो न योनिं सदन न्धिया कृत मित्यासन्ने॥
षोडशीमृचं विधत्ते- आसन्ने हविर्धानं प्रति सोमे समीपवर्तिनि सत्येतामनुब्रूयात्। नकार उपमार्थः। यथा श्येनः पक्षी तत्र तत्र सञ्चारं कृत्वा योनिं स्वस्थानं प्राप्नोति तथा धिया यजमानर्त्विग्बुध्या कृतं सम्पादितं सदनं हविर्धानं प्रति सोम एषतीति वक्ष्यमाणेन सम्बन्धः॥
॥ हिरण्यय मासद न्देव एषतीति॥
द्वितीयपादमनुवदति- हिरण्ययं सुवर्णसदृशं कृष्णाजिनमासदमुपवेशनयोग्यं सोमो देव एषति प्राप्नोति। इषु गतावितिधातुः॥
॥हिरण्मयमिव ह वा एषˆ एत द्देवेभ्य.श्छदयति- यत्कृष्णाजिन- न्तस्मा देता मन्वाहा॥
हिरण्ययशब्दं व्याचष्टे- हविर्धानस्य शकटस्योपरि सोमस्थापनार्थे कृष्णाजिनमास्तृणन्ति। तथाचापस्तम्ब आह- ‘दक्षिणस्य हैव्र्धानस्य नीडे पूर्ववत्कृष्णाजिनास्तरणं राज्ञः सादनम्’ इति। यदेतत्कृष्णाजिनमस्ति तदेतद्धिरण्ययमिव ह वै सुवर्णनिर्मितासनमिव देवार्थमेषोऽध्वर्युश्चदयत्यास्तृणाति। तस्मान्मन्त्रे हिरण्ययमित्युपपन्नम्। एतन्मन्त्रविधिमुपसंहरति- यस्मादासन्नदेशस्यानुकूलेयम्रुक्तस्मादेतामनुब्रूयात्॥
॥स्तभ्ना द्द्या मसुरो विश्ववेदाˆ इति वारुण्या परिदधाति॥
सप्तदश्या समपनं विधत्ते- चतुर्थपादे वरुणस्य व्रतानीति श्रवणादियं वारुणी।
॥वरुणदेवत्यो वा एषˆ ताव-द्याव दुपनद्धो- यावत्परिश्रितानि प्रपद्यते- स्वयैवैन न्तद्देवतया स्वेन च्छन्दसा समर्धयति॥
तस्या सोमसम्बन्धं दर्शयति। पूर्ववद्व्याख्येयम्॥
॥ तँ यद्युप वा धावेयु- रभयँ वेच्छेर-न्नेवा वन्दस्व वरुणं बृहन्त मित्येतया परिदध्या॥
अथात्र नैमिक्तकमृगन्तरं विधत्ते- तं यजमानमितरे बन्धवो जीवार्थिनो यद्युप वा धावेयुः प्राप्नुयुः। अथवा वैरिभ्यो भीता अभयं यजमानसमीपे यदीच्छेदंस्तदानीमेवा वदंस्वेत्येतया परिदध्यात्॥
॥द्यावद्भ्यो हाभय मिच्छति- यावद्भ्यो हाभय न्ध्यायति- तावद्भ्यो हाभयं भवति- यत्रैवँ विद्वा नेतया परिदधाति, तस्मा.देवँ विद्वा.नेतयैव परिदध्यात॥
होतुरेतद्वेदनप्रशंसापूर्वकमेतद्विधमुपसंहरति- यत्र योगे यथोक्तार्थं विद्वान्होतैतया परिदध्यात्तत्र यजमानो यावद्भ्यो बन्धुभ्यो हृद्रोगपरिहाररूपमभयमिच्छत्यथवा वैरिभीतिपरिहाररूपमभयं ध्यायति तावद्भ्यः सर्वेभ्यस्तादृशमभयं भवति। तस्मादेवा वदस्वेत्यनयैव परिदध्यात्॥
॥ताˆ एता.स्सप्तदशान्वाह रूपसमृद्धा, एतद्वै यज्ञस्य समृद्धँ- यद्रूपसमृद्धँ, यत्कर्मक्रियमाण मृगभिवदति- तासा.न्त्रि प्रथमा मन्वाह त्रिरुत्तमा- न्ताˆ एकविंशति स्सम्पद्यन्त- एकविंशो वै प्रजापति- र्द्वादशमासा- पञ्चर्तव- स्त्रय इमे लोका- असा.वादित्य एकविंश॥
मन्त्रगतसङ्ख्यादिकं दर्शयति।
॥त्तमा प्रतिष्ठा- तद्दैव.ङ्क्षत्रं- सा श्री,स्तदाधिपत्य-न्तद्ब्रध्नस्य विष्टप- न्तत्प्रजापते रायतन,न्तत्स्वाराज्य॥
उक्तसङ्ख्याप्रशंसार्थमेकविंशतिसङ्ख्यापूरण आदित्ये बहून्गुणान्दर्शयति। योयमादित्योऽसावुत्तमा प्रतिष्ठा। तल्लोकानां स्थैर्येणावस्थानात्। तदादित्यस्वरूपमेव दैवं क्षत्रं देवसंबन्धिनी क्षत्रजातिः। ‘आदित्यो वै दैवं क्षत्रम्’ इत्यन्यत्राभिधानात्। सा श्रीरादित्यप्राप्तिरेव भोग्यवस्तुसम्पत्तिः। तदादित्यमण्डलमाधिपत्यं स्वामित्वप्रापकम्। ‘आदित्य एषां भूतानामधिपतिः" इति श्रवणात्। तन्मण्डलं ब्रध्नस्यादित्यस्य विष्टपं स्थानभूतं तदेव मण्डलं प्रजापतेरप्यायतनं स्थानम्। आदित्यमण्डले प्रजापत्युपासनस्य अभिधानात्। तदेव मण्डलं स्वाराज्यं पारतन्त्र्याभावात्॥
॥ऋध्नो-त्येतमेवैताभि रेकविंशत्यैकविंशत्या॥
उपसंहरति- एकविंशति सङ्ख्याभिरेताभिरृग्भिरेतं यजमानं समृद्धं करोत्येव। अभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य पञ्चमाध्यायस्य चतुर्थः खण्डः॥
॥ अथ पञ्चमाद्याये पञ्चम खण्डः॥पञ्चमपञ्चिकायां प्रथमोध्यायः।।
ॐविश्वे वै देवाˆ देवता.स्तृतीय. मह. र्वहन्ति- सप्तदश. स्स्तोमो- वैरूपं साम- जगतीछन्दो, यथादेवत. मेनेन यथास्तोमँ यथासाम यथाछन्दसं राध्नोति-यˆ एवँ वेद, यद्वै समानोदर्क. न्त.त्तृतीयस्याह्नो रूपँ, यदश्वव. द्यदन्तव. द्यत्पुनरावृत्तँ. यत्पुनर्निनृत्तँ. यद्रतव. द्यत्पर्यस्तव. द्यत्त्रिव. द्यदन्तरूपँ यदुत्तमे पदे देवता निरुच्यते- य.दसौ लोकोभ्युदितो- यद्वैरूपँ यज्जागतँ यत्कृत. मेतानि वै तृतीयस्याह्नो रूपाणि, युक्ष्वा हि देवहूतमा अश्वा अग्ने रथीरिवेति तृतीयस्याह्नˆ आज्यं भवति, देवाˆ वै तृतीयेनाह्ना स्वर्गँ लोक.मायं-स्ता.नसुराˆरक्षां स्यन्ववारयन्त, ते विरूपाˆ भवत विरूपाˆ भवतेति भवन्तˆ आयं,स्ते यद्विरूपाˆ भवत विरूपाˆ भवतेति भवन्तˆ आयं-स्तद्वैरूपं सामाभव, त्तद्वैरूपस्य वैरूपत्वँ, विरूपपाप्मना भूत्वा- पाप्मान.मपहते-यˆ एवँ वेद, तान् हस्मा न्वेवागच्छन्ति- समेव सृज्यन्ते, तानश्वाˆ भूत्वा पद्भि. रपाघ्नत, यदश्वाˆ भूत्वा पद्भि.रपाघ्नत- तदश्वाना मश्वत्व,-मश्नुते यद्य.त्कामयते-यˆ एवँ वेद, तस्मा.दश्व पशूना.ञ्जविष्ठ,-स्तस्मा.दश्व प्रत्यङ्पदा हिन,स्त्यप पाप्मानं हते-यˆ एवँ वेद, तस्मा. देत.दश्वव.दाज्यं भवति तृतीयेहनि- तृतीयस्याह्नो रूपँ, वाय.वा याहि वीतये - वायो याहि शिवा दिवˆ- इन्द्रश्च वाय.वेषां सुताना- मा मित्रे वरुणे वय- मश्विना.वेह गच्छत- मा याह्यद्रिभि स्सुतं- सजू. र्विश्वेभि.र्देवेभि- रुत न प्रिया प्रियास्वि.त्यौष्णिहं प्रउगं समानोदर्क.न्तृतीयेहनि- तृतीयस्याह्नो रूप,न्तन्त.मिद्राधसे महे- त्रयˆ इन्द्रस्य सोमाˆ इति मरुत्वतीयस्य प्रतिप.दनुचरौ- निनृत्तव. त्त्रिव.त्तृतीये हनि- तृतीयस्याह्नो रूप,मिन्द्र नेदीयˆ एदिही.त्यच्युतप्रगाथ, प्र नूनं ब्रह्मणस्पति.रिति ब्राह्मणस्पत्यो निनृत्तवां.स्तृतीयेहनि- तृतीयस्याह्नो रूप,मग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्वन्त्यपˆ इति धाय्या अच्युता, नकि.स्सुदासो रथं पर्यास नरीरमदिति मरुत्वतीय प्रगाथ पर्यस्तवां.स्तृतीयेहनि- तृतीयस्याह्नो रूप,-न्त्र्यर्यमा मनुषो देवतातेति सूक्त- न्त्रिव. त्तृतीयेहनि- तृतीयस्याह्नो रूपँ, यद्द्यावˆ इन्द्र ते शतँ- यदिन्द्र यावत.स्त्व.मिति वैरूपं पृष्ठं भवति- राथन्तरेहनि तृतीयेहनि- तृतीयस्याह्नो रूपँ, यद्वावानेति धाय्याच्युता-भि त्वा शूर नोनुमˆ इति रथन्तरस्य योनि.मनु निवर्तयति, राथन्तरं ह्येतदह. रायतने,नेन्द्र त्रिधातु शरणमिति सामप्रगाथ. स्त्रिवां-स्तृतीयेहनि- तृतीयस्याह्नो रूप,न्त्यमू षु वाजिन. न्देवजूत. मिति तार्क्ष्योच्युतः।। 5.1.1।।
ॐयो जातˆ एव प्रथमो मनस्वा.निति सूक्तं समानोदर्क. न्तृतीयेहनि- तृतीयस्याह्नो रूप,न्तदु सजनीय- मेतद्वा इन्द्रस्येन्द्रियँ यत्सजनीय,मेतस्मिन् वै शस्यमान इन्द्र. मिन्द्रिय.माविशति, तद्धाप्याहु. श्छन्दोगा. स्तृतीयेहनि बह्वृचाˆ इन्द्रस्येन्द्रियं शंसन्तीति, तदु गार्त्समद,मेतेन वै गृत्समदˆ इन्द्रस्य प्रिय न्धामोपागच्छ-त्सˆ परमँ लोकमजय,दुपेन्द्रस्य प्रिय न्धाम गच्छति- जयति परमँ लोकँ-यˆ एवँ वेद, तत्सवितु. र्वृणीमहे-द्या नो देवसवित.रिति वैश्वदेवस्य प्रतिप.दनुचरौ राथन्तरेहनि तृतीयेहनि- तृतीयस्याह्नो रूप,न्तद्देवस्य सवितु.र्वार्यं महदिति सावित्र-मन्तो वै महदन्त.स्तृतीय.मह. स्तृतीयेहनि- तृतीयस्याह्नो रूप,ङ्घृतेन द्यावापृथिवी~ अभीवृते~ इति द्यावापृथिवीय,ङ्घृतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तं पुनर्निनृत्त. न्तृतीयेहनि- तृतीयस्याह्नो रूप,-मनश्वो जातो अनभीशु. रुक्थ्य. इत्यार्भवं, रथ.स्त्रिचक्रˆ इति त्रिव.त्तृतीयेहनि- तृतीयस्याह्नो रूपं, परावतो ये दिधिषन्तˆ आप्यमिति वैश्वदेव-मन्तो वै परावतोन्त. स्तृतीयमह. स्तृतीयेहनि- तृतीयस्याह्नो रूप,न्तदु गाय,मेतेन वै गय प्लातो विश्वेषा. न्देवानां प्रिय. न्धामोपागच्छ- त्सˆ परमँ लोक. मजय,दुप विश्वेषा न्देवानां प्रिय.न्धाम गच्छति- जयति परमँ लोकँ-यˆ एवँ वेद, वैश्वानराय धिषणा. मृतावृधˆ इत्याग्निमारुतस्य प्रतिप.दन्तो वै धिषणान्त.स्तृतीयमह. स्तृतीयेहनि- तृतीयस्याह्नो रूप, न्धारावरा मरुतो धृष्ण्वोजसˆ इति मारुतं बह्वभिव्याहृत्य,मन्तो वै बह्वन्त.स्तृतीयमह. स्तृतीयेहनि- तृतीयस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता, त्वमग्ने प्रथमो अङ्गिराˆ ऋषिरिति जातवेदस्यं पुरस्ता. दुदर्क. न्तृतीयेहनि- तृतीयस्याह्नो रूप,न्त्वन्त्व. मित्युत्तर- न्त्र्यह. मभिवदति सन्तत्यै, सन्ततै.स्त्र्यहै. रव्यवच्छिन्नै. र्यन्ति-यˆ एवँ विद्वांसो यन्ति।। 5.1.2।।
ॐआप्यन्ते वै स्तोमा- आप्यन्ते छन्दांसि तृतीयेह,न्येत.देव ततˆ उच्छिष्यते- वागित्येव तदेत-दक्षर. न्त्र्यक्षरँ- वागि.त्येक मक्षर,-मक्षरमिति त्र्यक्षरं, सˆ एवैषˆ उत्तर. स्त्र्यहो- वागेक-ङ्गौ.रेक-न्द्यौरेक,न्ततो वै वागेव चतुर्थ.मह.र्वहति, तद्य.च्चतुर्थ. मह र्न्यूङ्खय-न्त्येत.देव तदक्षर. मभ्यायच्छ,न्त्येत.द्वर्धय-न्त्येत त्प्र विभावयिषन्ति चतुर्थस्याह्नˆ उद्यत्या,- अन्नँ वै न्यूङ्खो- यदेलवाˆ अभिगेष्णा. श्चर,न्त्यथान्नाद्यं प्रजायते, तद्य.च्चतुर्थमह. र्न्यूङ्खय-न्त्यन्न.मेव तत्प्रजनय- न्त्यन्नाद्यस्य प्रजात्यै, तस्मा. च्चतुर्थ.मह. र्जातव. द्भवति, चतुरक्षरेण न्यूङ्खये.दित्याहु,श्चतुष्पादाˆ वै पशव- पशूना. मवरुद्ध्यै, त्र्यक्षरेण न्यूङ्खये. दित्याहु,स्त्रयो वा इमे त्रिवृतो लोकाˆ- एषा.मेव लोकाना मभिजित्या,- एकाक्षरेण न्यूङ्खये.दिति हस्माह लाङ्गलायनो ब्रह्मा मौद्गल्यˆ, एकाक्षरा वै वा-गेष वाव सम्प्रति न्यूङ्ख.न्न्यूङ्खयति- यˆ एकाक्षरेण न्यूङ्खयतीति, द्व्यक्षरेणैव न्यूङ्खये- त्प्रतिष्ठाया एव, द्विप्रतिष्ठो वै पुरुष- श्चतुष्पादा पशवो- यजमान. मेव तद्द्विप्रतिष्ठ. ञ्चतुष्पात्सु पशुषु प्रतिष्ठापयति, तस्मा.द्द्व्यक्षरेणैव न्यूङ्खये,न्मुखत प्रात.रनुवाके न्यूङ्खयति, मुखतो वै प्रजाˆ अन्नमदन्ति- मुखतˆ एव तदन्नाद्यस्य यजमान न्दधाति, मध्यतˆ आज्ये न्यूङ्खयति, मध्यतो वै प्रजाˆ अन्न.न्धिनोति- मध्यतˆ एव तदन्नाद्यस्य यजमान.न्दधाति, मुखतो मध्यन्दिने न्यूङ्खयति, मुखतो वै प्रजाˆ अन्नमदन्ति- मुखतˆ एव तदन्नाद्यस्य यजमान. न्दधाति, तदुभयतोन्यूङ्खं परिगृह्णाति- सवनाभ्या. मन्नाद्यस्य परिगृहीत्यै।। 5.1.3।।
ॐवाग्वै देवता चतुर्थ.मह. र्वह- त्येकविंश. स्स्तोमो- वैराजं सामा-नुष्टुप्छन्दो, यथादेवत. मेनेन यथास्तोमँ यथासाम यथाछन्दसं राध्नोति-यˆ एवँ वेद, यद्वा एति च प्रेति च- तच्चतुर्थस्याह्नो रूपँ, यद्ध्येव प्रथम.मह- स्त.देत.त्पुन.र्यच्चतुर्थँ- यद्युक्तव. द्यद्रथव. द्यदाशुम. द्यत्पिबव. द्यत्प्रथमे पदे देवता निरुच्यते, यदयँ लोकोभ्युदितो- यज्जातव. द्यद्धवव. द्यच्छुक्रव. द्यद्वाचो रूपँ, यद्वैमदँ यद्विरिफितँ यद्विच्छन्दा यदूनातिरिक्तँ यद्वैराजँ यदानुष्टुभँ यत्करिष्य.द्यत्प्रथमस्याह्नो रूप- मेतानि वै चतुर्थस्याह्नो रूपाण्या,ग्नि.न्न स्ववृक्तिभि.रिति चतुर्थस्याह्नˆ आज्यं भवति- वैमदँ विरिफितँ, विरिफितस्य ऋषे. श्चतुर्थेहनि चतुर्थस्याह्नो रूप,मष्टर्चं पाङ्क्तं, पाङ्क्तो यज्ञ- पाङ्क्ता पशव- पशूना. मवरुद्ध्यै, ताˆ उ दशजगत्यो, जग.त्प्रातस्सवनˆ एषˆ त्र्यह-स्तेन चतुर्थस्याह्नो रूप, न्ताˆ उ पञ्चदशानुष्टुभˆ- आनुष्टुभं ह्येतदह- स्तेन चतुर्थस्याह्नो रूप,न्ताˆ उ विंशति. र्गायत्र्य पुन, प्रायणीयं ह्येतदह- स्तेन चतुर्थस्याह्नो रूप,न्तदेतदस्तु तमशस्त. मयातयामसूक्तँ, यज्ञˆ एव साक्षा.त्त,द्य.देत च्चतुर्थस्याह्नˆ आज्यं भवति-यज्ञादेव तद्यज्ञ. न्तन्वते, वाचमेव तत्पुन. रुपयन्ति सन्तत्यै, स्सन्ततै. स्त्र्यहै. रव्यवच्छिन्नै. र्यन्ति-यˆ एवँ विद्वांसोयन्ति, वायो शुक्रो अयामि ते- विहि होत्राˆ अवीताˆ- वायो शतं हरीणा-मिन्द्रश्च वायवेषां सोमाना- मा चिकितान सुक्रतूˆ- आ नो विश्वाभि रूतिभि- स्त्यमु वो अप्रहण- मप त्यँ वृजिनं रिपु- मम्बितमे नदीतम इत्यानुष्टुभं प्रउग,मेति च प्रेति च शुक्रवच्च चतुर्थेहनि चतुर्थस्याह्नो रूप,न्तन्त्वा यज्ञेभि.रीमह इति मरुत्वतीयस्य प्रतिप,दीमह इ त्यभ्याया.म्यमि-वैतदह,स्तेन चतुर्थस्याह्नो रूप,-मिदँ वसो सुतमन्धˆ- इन्द्र नेदीयˆ एदिहि- प्रैतु ब्रह्मणस्पति- रग्निर्नेता त्वं सोम क्रतुभि- पिन्व.न्त्यप- प्र वˆ इन्द्राय बृहतˆ इति प्रथमेनाह्ना समानˆ आतान- श्चतुर्थेहनि चतुर्थस्याह्नो रूपं, श्रुधी हवमिन्द्र मा रिषण्यˆ इति सूक्तं हवव.च्चतुर्थेहनि- चतुर्थस्याह्नो रूपं, मरुत्वा इन्द्र वृषभो रणायेति सूक्त- मुग्रं सहोदा. मिह तं हुवेमेति हवव.च्चतुर्थेहनि- चतुर्थस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा,यतना.देवैतेन न प्र च्यवत,- इम.न्नु मायिनं हुव इति पर्यासो हववां-श्चतुर्थेहनि चतुर्थस्याह्नो रूप,न्ताˆ उ गायत्र्यो, गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैत.च्छन्दो वहति- यस्मि.न्निविद्धीयते, तस्मा.द्गायत्रीषु निविद.न्दधाति, पिबा सोममिन्द्र मन्दतु त्वा- श्रुधी हवँ विपिपानस्याद्रे.रिति वैराजं पृष्ठं भवति- बार्हतेहनि चतुर्थेहनि- चतुर्थस्याह्नो रूपँ, यद्वावानेति धाय्याच्युता, त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति, बार्हतं ह्येत.दह.रायतनेन, त्वमिन्द्र प्रतूर्तिष्विति सामप्रगाथो,शस्तिहा जनितेति जातवां-श्चतुर्थेहनि चतुर्थस्याह्नो रूप,न्त्यमू षु वाजिन.न्देवजूत.मिति तार्क्ष्योच्युतः।। 5.1.04।।
ॐकुह श्रुतˆ इन्द्र कस्मि.न्नद्येति सूक्तँ- वैमदँ विरिफतँ, विरिफितस्य ऋषे.श्चतुर्थेहनि चतुर्थस्याह्नो रूपँ, युध्मस्य ते वृषभस्य स्वराजˆ इति सूक्त-मुरु ङ्गभीर ञ्जनुषाभ्युग्रमिति जातव. च्चतुर्थेहनि चतुर्थस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन. न्दाधारा-यतना.देवैतेन न प्र च्यवते, त्यमु व.स्सत्रासाह.मिति पर्यासो-विश्वासु गीर्ष्वायत.मि-त्यभ्याया.म्यमिवैत.दह-स्तेन चतुर्थस्याह्नो रूप, न्ताˆ उ गायत्र्यो- गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति- तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.द्गायत्रीषु निविद.न्दधाति, विश्वो देवस्य नेतु-स्तत्सवितु.र्वरेण्य- मा विश्वदेवं सत्पति.मिति वैश्वदेवस्य प्रतिप.दनुचरौ- बार्हतेहनि चतुर्थेहनि- चतुर्थस्याह्नो रूप,-मा देवो यातु सविता सुरत्नˆ इति सावित्र- मेति चतुर्थेहनि- चतुर्थस्याह्नो रूपं, प्र द्यावा यज्ञै पृथिवी नमोभिरिति द्यावापृथिवीयं- प्रेति चतुर्थेहनि- चतुर्थस्याह्नो रूपं, प्र ऋभुभ्यो दूतमिव वाचमिष्य इत्यार्भवं- प्रेति च वाचमिष्य इति च चतुर्थेहनि- चतुर्थस्याह्नो रूपं, प्र शुक्रैतु देवी मनीषेतिवैश्वदेवं- प्रेति च शुक्रवच्च चतुर्थेहनि- चतुर्थस्याह्नो रूप, न्ताˆ उ विच्छन्दस- स्सन्ति द्विपदा- स्सन्ति चतुष्पदा- स्तेन चतुर्थस्याह्नो रूपँ, वैश्वानरस्य सुमतौ स्यामे- त्याग्निमारुतस्य प्रतिप,दितो जातˆ इति जातव.च्चतुर्थेहनि- चतुर्थस्याह्नो रूपं,कˆ ईँ व्यक्ता नर.स्सनीळा इति मारुत- न्नकि.र्ह्येषा.ञ्जनूंषि वेदेति जातव.च्चतुर्थेहनि- चतुर्थस्याह्नो रूप, न्ताˆ उ विच्छन्दस- स्सन्ति द्विपदा- स्सन्ति चतुष्पदा- स्तेन चतुर्थस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता,ग्नि.न्नरो दीधितिभि.ररण्यो. रिति जातवेदस्यं, हस्तच्युती जनयन्तेति जातव.च्चतुर्थेहनि- चतुर्थस्याह्नो रूप,न्ताˆ उ विच्छन्दस- स्सन्ति विराज- स्सन्ति त्रिष्टुभ- स्तेन चतुर्थस्याह्नो रूप- मह्नो रूपम्।। 5.1.05।।
इति प्रथमोध्यायः।।
पञ्चम पञ्चिकायां द्वितीयोध्यायः।।
ॐगौर्वै देवता पञ्चम.मह.र्वहति- त्रिणव.स्स्तोम- श्शाक्वरं साम-पङ्क्ति.श्छन्दो, यथादेवत. मेनेन यथास्तोमँ यथासाम यथाछन्दसं राध्नोति-यˆ एवँ वेद, यद्वै नेति न प्रेति यत्स्थित- न्तत्पञ्चमस्याह्नो रूपँ, यद्ध्येव द्वितीयमह- स्तदेत.त्पुन- र्यत्पञ्चमँ, यदूर्ध्वव. द्यत्प्रतिव. द्यदन्तर्व. द्यद्वृषण्व. द्यद्वृधन्व. द्यन्मध्यमे पदे देवता निरुच्यते, यदन्तरिक्ष. मभ्युदितँ- यद्दुग्धव. द्यदूधव. द्यद्धेनुम.द्यत्पृश्निम. द्यन्मद्व.द्यत्पशुरूपँ-यदध्यासव,द्विक्षुद्राˆइव हि पशवो, यज्जागत-ञ्जागताˆ हि पशवो, यद्बार्हतं- बार्हताˆ हि पशवो, यत्पाङ्क्तं- पाङ्क्ताˆ हि पशवो, यद्वामँ- वामं हि पशवो, यद्धविष्म- द्धवि.र्हि पशवो, यद्वपुष्म- द्वपुर्हि पशवो, यच्छाक्वरँ यत्पाङ्क्तँ यत्कुर्व.-द्यद्द्वितीयस्याह्नो रूप- मेतानि वै पञ्चमस्याह्नो रूपा,णी-म मूषु वो अतिथि.मुषर्बुध. मिति पञ्चमस्याह्नˆ आज्यं भवति, जागत. मध्यासव.त्पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूप,मा नो यज्ञ. न्दिविस्पृश- मा नो वायो महे तने - रथेन पृथुपाजसा– बहव. स्सूरचक्षस– इमाˆ उ वा.न्दिविष्टय- पिबा सुतस्य रसिनो - देवन्देवँ वोवसे देवन्देवं - बृहदु गायिषे वचˆ इति बार्हतं प्रउगं पञ्चमेहनि- पञ्चमस्याह्नो रूपँ, यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिप- त्पाञ्चजन्ययेति पञ्चमेहनि- पञ्चमस्याह्नो रूप,मिन्द्रˆ इत्सोमपाˆएक- इन्द्र नेदीयˆ एदि- ह्युत्तिष्ठ ब्रह्मणस्पते- ग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्व.न्त्यपो- बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समानˆ आतानपञ्चमेहनि- पञ्चमस्याह्नो रूप,मवितासि सुन्वतो वृक्तबर्हिषˆ इति सूक्तं- मद्व.त्पाङ्क्तं पञ्चपदं पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मित्था हि सोमˆ इन्मद इति सूक्तं- मद्वत्पाङ्क्तं पञ्चपदं पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मिन्द्र पिब तुभ्यं सुतो मदायेति सूक्तं- मद्व.त्त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन. न्दाधारा-यतना.देवैतेन न प्र च्यवते, मरुत्वा इन्द्र मीढ्वˆ इति पर्यासो- नेति न प्रेति पञ्चमेहनि- पञ्चमस्याह्नो रूप, न्ताˆ उ गायत्र्यो- गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते, तस्मा.द्गायत्रीषु निविद. न्दधाति।। 5.2.6।।
ॐमहानाम्नी.ष्वत्र स्तुवते- शाक्वरेण साम्ना- राथन्तरेहनि पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मिन्द्रो वा एताभि.र्महा.नात्मान. न्निरमिमीत- तस्मा न्महानाम्न्यो,थो~ इमे वै लोकाˆ महानाम्न्य- इमे महान्तˆ- इमान् वै लोका.न्प्रजापति स्सृष्ट्वेदं सर्व.मशक्नो- द्यदिद.ङ्किञ्च,यदिमा.न्लोका.न्प्रजापति स्सृष्ट्वेदं सर्वमशक्नो- द्यदिदङ्किञ्च, तच्छक्वर्योभवं- स्तच्छक्वरीणां शक्वरीत्व, न्ताˆ ऊर्ध्वा स्सीम्नोभ्यसृजत, यदूर्ध्वा.स्सीम्नोभ्यसृजत- तत्सिमाˆ अभवं-स्तत्सिमानां सिमात्वं, स्वादो.रित्था विषूवतˆ- उप नो हरिभि.स्सुत- मिन्द्रँ विश्वाˆ अवीवृध.न्नित्यनुरूपो वृषण्वा. न्पृश्निमा. न्मद्वा. न्वृधन्वा. न्पञ्चमेहनि- पञ्चमस्याह्नो रूपँ, यद्वावानेति धाय्याच्युता,भि त्वा शूर नोनुमˆ इति रथन्तरस्य योनिमनु निवर्तयन्ति- राथन्तरं ह्येतदह. रायतनेन, मो षु त्वा वाघत.श्चनेति सामप्रगाथोध्यासवा.न्पशुरूपं पञ्चमेहनि-पञ्चमस्याह्नो रूप, न्त्यमू षु वाजिन. न्देवजूत मिति तार्क्ष्योच्युतः।। 5.2.7।।
ॐप्रेदं ब्रह्म वृत्रतूर्ये.ष्वाविथेति सूक्तं- पाङ्क्तं पञ्चपदं पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मिन्द्रो मदाय वावृध इति सूक्तं- मद्वत्पाङ्क्तं पञ्चपदं पञ्चमेहनि- पञ्चमस्याह्नो रूपं, सत्रा मदास.स्तव विश्वजन्याˆ इति सूक्तं- मद्व.त्त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन. न्दाधारा-यतना.देवैतेन न प्र च्यवते, तमिन्द्रँ वाजयामसीति पर्यास- स्सˆ वृषा वृषभो भुवदिति पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूप,न्ताˆ उ गायत्र्यो- गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.द्गायत्रीषु निविद.न्दधाति, तत्सवितु.र्वृणीमहे-द्या नो देव सवित.रिति वैश्वदेवस्य प्रतिप.दनुचरौ राथन्तरेहनि पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मुदु ष्य देव.स्सविता दमूनाˆ इति सावित्र,मा दाशुषे सुवति भूरि वाममिति वामं पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूपं, मही द्यावापृथिवी~ इह ज्येष्ठे~ इति द्यावापृथिवीयं, रुवद्धोक्षेति पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूप,-मृभु.र्विभ्वा वाजˆ इन्द्रो नो अच्छे- त्यार्भवँ- वाजो वै पशव पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूपं, स्तुषे जनं सुव्रत.न्नव्यसीभि.रिति वैश्वदेव- मध्यास.व त्पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूपं, हविष्पान्त.मजरं स्व.र्विदी- त्याग्निमारुतस्य प्रतिप-द्धविष्म.त्पञ्चमेहनि- पञ्चमस्याह्नो रूपँ, वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतँ- वपुष्म.त्पञ्चमेहनि- पञ्चमस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता,ग्नि.र्होता गृहपति.स्स राजेति जातवेदस्य.मध्यासव. त्पशुरूपं पञ्चमेहनि- पञ्चमस्याह्नो रूपम्।। 5.2.8।।
ॐदेवक्षेत्रँ वा एत-द्यत्षष्ठमह,र्देवक्षेत्रँ वा एत आगच्छन्ति- ये षष्ठमह.रागच्छन्ति, न वै देवा अन्योन्यस्य गृहे वसन्ति, नर्तु.र्ऋतो.र्गृहे वसतीत्याहु,स्तद्यथायथ.मृत्विजˆ ऋतुयाजान्यज-न्त्यसंप्रदाय,न्तद्यथर्त्वृतू न्कल्पयन्ति यथायथ.ञ्जनता,स्तदाहु- र्नर्तुप्रैषै प्रेषितव्य- न्नर्तुप्रैषै. र्वषट्कृत्यँ, वाग्वा ऋतुप्रैषाˆ- आप्यते वै वाक् षष्ठेहनीति, यदृतुप्रैषै प्रेष्येयु- र्यदृतुप्रैषै.र्वषट्कुर्यु- र्वाचमेव तदाप्तां श्रान्ता मृक्णवहीँ वहराविणी. मृच्छेयु, र्यद्वेभि र्न प्रेष्येयु- र्यद्द्वेभि.र्न वषट्कुर्यु- रच्युता.द्यज्ञस्य च्यवेरन्,यज्ञा.त्प्राणा त्प्रजापते पशुभ्यो जिह्माˆईयु,स्तस्मा.दृग्मेभ्यˆ एवाधिप्रेषितव्य- मृग्मेभ्योधिवषट्कृत्य,न्तन्न वाच माप्तां श्रान्ता.मृक्णवहीँ वहराविणी. मृच्छन्ति, नाच्युता.द्यज्ञस्य च्यवन्ते, न यज्ञा.त्प्राणा.त्प्रजापते पशुभ्यो जिह्माˆ यन्ति।। 5.2.9।।
ॐपारुच्छेपी.रुपदधति- पूर्वयो. स्सवनयो पुरस्ता. त्प्रस्थितयाज्यानां, रोहितँ वै नामैत.च्छन्दो- यत्पारुच्छेप,मेतेन वा इन्द्र.स्सप्तस्वर्गा.न्लोका.नरोह,द्रोहति सप्त स्वर्गा.न्लोकान्-यˆ एवँ वेद, तदाहु- र्यत्पञ्चपदाˆ एव पञ्चमस्याह्नो रूपं- षट्पदा.ष्षष्ठस्या-थ कस्मा. त्सप्तपदा. ष्षष्ठेह.न्छस्यन्त इति,षड्भि.रेव पदै.ष्षष्ठ.मह. राप्नुव- न्त्यपच्छिद्ये-वैत.दह र्यत्सप्तम- न्तदेव सप्तमेन पदेनाभ्यारभ्य वसन्ति, वाच.मेव तत्पुन रुपयन्ति सन्तत्यै, सन्ततै.स्त्र्यहै. रव्यवच्छिन्नै. र्यन्ति-यएवँ विद्वांसो यन्ति।। 5.2.10।।
ॐदेवासुराˆवा एषु लोकेषु समयतन्त,ते वै देवा. ष्षष्ठेनैवाह्नैभ्यो लोकेभ्योसुरा. न्प्राणुदन्त, तेषाँ या.न्यन्तर्हस्तीनानि वसू.न्यासं-स्तान्यादाय समुद्रं प्रौप्यन्त, त एतेनैव.च्छन्दसानुहायान्तर्हस्तीनानि वसू.न्याददत, तद्यदेत.त्पदं पुनपदं- सˆ एवाङ्कुशˆ आसञ्जनाया-द्विषतो वसुदत्ते, निरेन. मेभ्य. स्सर्वेभ्यो लोकेभ्यो नुदते-यˆ एवँ वेद।। 5.2.11।।
ॐद्यौ.र्वै देवता षष्ठ.मह. र्वहति- त्रयस्त्रिंश.स्स्तोमो- रैवतं सामा-तिच्छन्दा. श्छन्दो, यथादेवत. मेनेन यथास्तोमँ यथासाम यथाछन्दसं राध्नोति-यˆ एवँ वेद, यद्वै समानोदर्क. न्तत्षष्ठस्याह्नो रूपँ, यद्ध्येव तृतीय.मह-स्तदेत. त्पुन.र्यत्षष्ठँ, यदश्वव. द्यदन्तव. द्यत्पुनरावृत्तँ. यत्पुनर्निनृत्तँ. यद्रतव. द्यत्पर्यस्तव. द्यत्त्रिव. द्यदन्तरूपँ यदुत्तमे पदे देवता निरुच्यते, यदसौ लोकोभ्युदितो- यत्पारुच्छेपँ यत्सप्तपदँ यन्नाराशंसँ यन्नाभानेदिष्ठँ यद्रैवतँ यदतिच्छन्दाˆयत्कृतँ यत्तृतीयस्याह्नो रूप- मेतानि वै षष्ठस्याह्नो रूपा,ण्यय.ञ्जायत मनुषो धरीमणी-ति षष्ठस्याह्नˆ आज्यं भवति- पारुच्छेप. मतिच्छन्दा. स्सप्तपदं षष्ठेहनि- षष्ठस्याह्नो रूपं, स्तीर्णं बर्हि.रुप नो याहि वीतय- आ वां रथो नियुत्वा न्वक्षदवसे- सुषुमा यात मद्रिभि- र्युवां स्तोमेभि.र्देवयन्तो अश्विना-व.र्महˆ इन्द्र- वृष.न्निन्द्रा-स्तु श्रौष-ळो षू णो अग्ने शृणुहि त्वमीळितो- ये देवासो दिव्येकादश,स्थेय मददा.द्रभस.मृणच्युत मिति प्रउगं- पारुच्छेप. मतिच्छन्दा. स्सप्तपदं षष्ठेहनि- षष्ठस्याह्नो रूपं, सˆ पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिप-दन्तो वै महदन्त. ष्षष्ठ.मह.ष्षष्ठेहनि- षष्ठस्याह्नो रूप, न्त्रयˆ इन्द्रस्य सोमाˆ- इन्द्र नेदीयˆ एदिहि - प्र नूनं ब्रह्मणस्पति- रग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्व.न्त्यपो- नकि स्सुदासो रथमिति तृतीयेनाह्ना समानˆ आतानˆ ष्षष्ठेहनि- षष्ठस्याह्नो रूपँ, यन्त्वं रथमिन्द्र मेधसातय इति सूक्तं- पारुच्छेप. मतिच्छन्दा. स्सप्तपदं षष्ठेहनि- षष्ठस्याह्नो रूपं, सˆ यो वृषा वृष्ण्येभि. स्समोकाˆ इति सूक्तं- समानोदर्कं षष्ठेहनि- षष्ठस्याह्नो रूप,-मिन्द्र मरुत्वˆ इह पाहि सोममिति सूक्त-न्तेभि. स्साकं पिबतु वृत्रखादˆ इत्यन्तो वै खादोन्त. ष्षष्ठमह. ष्षष्ठेहनि- षष्ठस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा-यतना देवैतेन न प्रच्यवते,यं हये नवा इदमिति पर्यास,स्स्व.र्मरुत्वता जितमि- त्यन्तो वै जित.मन्त ष्षष्ठमह. ष्षष्ठेहनि- षष्ठस्याह्नो रूप, न्ताˆ उ गायत्र्यो- गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.द्गायत्रीषु निविद.न्दधाति, रेवतीर्न.स्सधमादे- रेवा इद्रेवत. स्स्तोतेति रैवतं पृष्ठं भवति- बार्हतेहनि षष्ठेहनि- षष्ठस्याह्नो रूपँ, यद्वावानेति धाय्याच्युता, त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति, बार्हतं ह्येतदह. रायतने,नेन्द्र.मि द्देवतातय इति सामप्रगाथो निनृत्तवा न्त्षष्ठेहनि- षष्ठस्याह्नो रूप,न्त्यमू षु वाजिन. न्देवजूत.मिति तार्क्ष्योच्युतः।। 5.2.12।।
ॐएन्द्र याह्युप न परावतˆ इति सूक्तं- पारुच्छेप मतिच्छन्दा. स्सप्तपदं षष्ठेहनि षष्ठस्याह्नो रूपं, प्र घा न्वस्य महतो महानीति सूक्तं- समानोदर्कं षष्ठेहनि- षष्ठस्याह्नो रूप,-मभू.रेको रयिपते रयीणा.मिति सूक्तं- रथमा तिष्ठ तुविनृम्ण भीम मि-त्यन्तो वै स्थित.मन्त.ष्षष्ठ.मह ष्षष्ठेहनि- षष्ठस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा-यतना देवैतेन न प्र च्यवत,- उप नो हरिभि स्सुत.मिति पर्यास.स्समानोदर्क. ष्षष्ठेहनि- षष्ठस्याह्नो रूप,-न्ताˆ उ गायत्र्यो- गायत्र्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.द्गायत्रीषु निविद. न्दधा,त्यभि त्यन्देवं सवितार मोण्योरिति वैश्वदेवस्य प्रतिप- दतिच्छन्दा.ष्षष्ठेहनि- षष्ठस्याह्नो रूप,-न्तत्सवितु.र्वरेण्य- न्दोषो आगा.दित्यनुचरो,न्तो वै गत.मन्त.ष्षष्ठ.मह.ष्षष्ठेहनि- षष्ठस्याह्नो रूप,-मुदुष्य देव.स्सविता सवायेति सावित्रं, शश्वत्तमं तदपा वह्नि.रस्था-दित्यन्तो वै स्थित.मन्त ष्षष्ठ.मह. ष्षष्ठेहनि- षष्ठस्याह्नो रूप,ङ्कतरा पूर्वा कतरा परायो. रिति द्यावापृथिवीयं- समानोदर्कं षष्ठेहनि- षष्ठस्याह्नो रूप,ङ्किमु श्रेष्ठ किँ यविष्ठो नˆ आजग- न्नुप नो वाजाˆ अध्वर मृभुक्षाˆ इत्यार्भव- न्नाराशंस.न्त्रिव.त्षष्ठेहनि- षष्ठस्याह्नो रूप,-मिद.मित्था रौद्र.ङ्गूर्तवचा- ये यज्ञेन दक्षिणया समक्ताˆ इति वैश्वदेवम्।। 5.2.13।।
ॐनाभानेदिष्ठं शंसति, नाभानेदिष्ठँ वै मानवं ब्रह्मचर्यँ वसन्तं- भ्रातरो निरभज,न्त्सोब्रवी.देत्य- किं मह्य.मभाक्ते-त्येत.मेव निष्ठाव.मववदितार मित्यब्रुवं,-स्तस्मा.द्धाप्येतर्हि पितरं पुत्रानिष्ठावोववदिते.त्येवाचक्षते, सˆ पितर मेत्याब्रवी- त्त्वां ह वाव मह्य.न्तताभाक्षु रिति, तं पिताब्रवी- न्मा पुत्रक तदादृथाˆ, अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते, ते षष्ठं षष्ठ.मेवाह.रागत्य मुह्यन्ति, तानेते सूक्ते षष्ठेहनि शंसय, तेषाँ यत्सहस्रं सत्रपरिवेषण- न्तत्ते स्व.र्यन्तो दास्यन्तीति- तथेति, तानुपै-त्प्रतिगृभ्णीत मानवं सुमेधसˆ इति, तमब्रुव- न्किङ्कामोवदसी-तीदमेव व.ष्षष्ठमह प्रज्ञापयानी.त्यब्रवी,दथ यद्वˆ एत. त्सहस्रं सत्रपरिवेषण- न्तन्मे स्व.र्यन्तो दत्तेति- तथेति, तानेते सूक्ते षष्ठेह.न्यशंसय,त्ततो वै ते प्र यज्ञ मजान- न्प्र स्वर्गँ लोक,न्तद्य.देते सूक्ते षष्ठेहनि शंसति- यज्ञस्य प्रज्ञात्यै- स्वर्गस्य लोकस्यानुख्यात्यै, तं स्व.र्यन्तोब्रुव- न्नेतत्ते ब्राह्मणसहस्र.मिति, तदेनं समाकुर्वाणं- पुरुष कृष्णशवास्युत्तरतˆ उपोत्थायाब्रवी- न्मम वा इदं- मम वै वास्तुह मिति, सोब्रवी.न्मह्यँ वा इद.मदु. रिति, तमब्रवी-त्तद्वै नौतवैव पितरिप्रश्नˆ इति, सˆ पितर.मै-त्तं पिताब्रवी,न्ननु ते पुत्रकादू 3 रि,त्यदु.रेव म इत्यब्रवी,त्तत्तु मे पुरुष कृष्णशवास्युत्तरतˆ उपोदतिष्ठ, न्मम वा इदं- मम वै वास्तुह- मित्यादितेति, तं पिताब्रवी- त्तस्यैव पुत्रक तत्,तत्तु सˆ तुभ्य. न्दास्यतीति, सˆ पुन.रेत्याब्रवी- त्तव हवावकिलभगवˆ इद-मिति मे पिताहेति, सोब्रवी- त्तदह.न्तुभ्य.मेव ददामि- यˆ एव सत्य. मवादी.रिति, तस्मा.देवँ विदुषा सत्य.मेव वदितव्यं, सˆ एषˆ सहस्रसनि.र्मन्त्रो- यन्नाभानेदिष्ठ, उपैनं सहस्र न्नमति- प्र षष्ठेनाह्ना स्वर्गँ लोक.ञ्जानाति-यˆ एवँ वेद।। 5.2.14।।
ॐतान्येतानि सहचराणी-त्याचक्षते, नाभानेदिष्ठँ- वालखिल्या- वृषाकपि- मेवयामरुत,न्तानि सहैव शंसे,-द्यदेषा मन्तरिया.त्तद्यजमानस्यान्तरिया,द्यदि नाभानेदिष्ठं- रेतोस्यान्तरिया,-द्यदि वालखिल्या- प्राणा.नस्यान्तरिया,द्यदि वृषाकपि- मात्मान.मस्यान्तरिया, द्यद्येवयामरुतं- प्रतिष्ठायाˆ एन ञ्च्यावये-द्दैव्यै च मानुष्यै च, नाभानेदिष्ठेनैव रेतोसिञ्च,-त्तद्वालखिल्याभि.र्व्यकरो,त्सुकीर्तिना काक्षीवतेन योनिँ व्यहापय-दुरौ यथा तव शर्म.न्मदेमेति, तस्मा.ज्ज्यायान्त्स.न्गर्भ कनीयांसंसन्तँ योनि.न्न हिनस्ति,ब्रह्मणा हि सˆ कॢप्तˆ, एवयामरुतैतवै करोति- तेनेदं सर्व.मेतवै कृतमेति- यदिद.ङ्किञ्चा,हश्च कृष्ण.मह.रर्जुनञ्चे- त्याग्निमारुतस्य प्रतिप,दह.श्चाह श्चेति पुनरावृत्तं पुनर्निनृत्तं षष्ठेहनि- षष्ठस्याह्नो रूपं, मध्वो वो नाम मारुतँ यजत्राˆ इति मारुतं, बह्वभिव्याहृत्य-मन्तो वै बह्वन्त. ष्षष्ठ.मह. ष्षष्ठेहनि- षष्ठस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता, सˆ प्रत्नथा सहसा जायमानˆ इति जातवेदस्यं समानोदर्कं षष्ठेहनि- षष्ठस्याह्नो रूप,न्धारय.न्धारय.न्निति शंसति, प्रस्रंसा.द्वा अन्तस्य बिभाय, तद्यथा पुन.राग्रन्थं पुनर्निग्रन्थ- न्तं बध्नीया,न्मयूखँ वान्ततो धारणाय निहन्या- त्तादृक्त,द्य.द्धारय.न्धारयन्निति शंसति- सन्तत्यै, सन्ततै.स्त्र्यहै.रव्यवच्छिन्नै. र्यन्ति-यˆ एवँ विद्वांसो यन्ति- यन्ति।। 5.2.15।।
इति द्वितीयोध्यायः।।
पञ्चम पञ्चिकायां तृतीयोध्यायः।।
ॐयद्वा एति च प्रेति च तत्सप्तमस्याह्नो रूपँ, यद्ध्येव प्रथम.मह-स्तदेवैत त्पुन.र्यत्सप्तमँ, यद्युक्तव. द्यद्रथव. द्यदाशुम. द्यत्पिबव. द्यत्प्रथमे पदे देवता निरुच्यते, यदयँ लोकोभ्युदितो यज्जातव. द्यदनिरुक्तँ यत्करिष्य. द्यत्प्रथमस्याह्नो रूप- मेतानि वै सप्तमस्याह्नो रूपाणि, समुद्रा.दूर्मि र्मधुमा उदार.दिति सप्तमस्याह्नˆ आज्यं भव-त्यनिरुक्तं सप्तमेहनि- सप्तमस्याह्नो रूपँ, वाग्वै समुद्रो- न वै वा.क्क्षीयते- न समुद्रः~ क्षीयते,तद्य.देत. त्सप्तमस्याह्नˆ आज्यं भवति- यज्ञा.देव तद्यज्ञ.न्तन्वते- वाचमेव तत्पुन.रुपयन्ति- सन्तत्यै, सन्ततै.स्त्र्यहै.रव्यवच्छिन्नै.र्यन्ति-यएवँ विद्वांसो य,न्त्याप्यन्ते वै स्तोमाˆ- आप्यन्ते छन्दांसि षष्ठेहनि, तद्यथैवादˆ आज्येनावदानानि पुन प्रत्यभिघारय- न्त्ययातयामताया,- एव.मेवैत.त्स्तोमांश्च छन्दांसि च पुन प्रत्युपय.न्त्ययातयामतायै- यदेत.त्सप्तमस्याह्नˆ आज्यं भवति, तदु त्रैष्टुभ-न्त्रिष्टु.प्प्रातस्सवनˆ एषˆ त्र्यहˆ, आ वायो भूष शुचिपाˆ उप न- प्र याभि र्यासि दाश्वांस मच्छा-नो नियुद्भि श्शतिनीभि रध्वरं- प्र सोता जीरो अध्वरे.ष्वस्था- द्ये वायवˆइन्द्र मादनासो- या वां शत न्नियुतो या स्सहस्रं- प्र यद्वां मित्रावरुणा स्पूर्ध-न्ना गोमता नासत्या रथेना-नो देव शवसा याहि शुष्मि- न्प्र वो यज्ञेषु देवयन्तो अर्च- न्प्र क्षोदसा धायसा सस्र एषेति प्रउग,मेति च प्रेति च सप्तमेहनि- सप्तमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्त्रिष्टु.प्प्रातस्सवनˆ एषˆ त्र्यहˆ, आ त्वा रथँ यथोतय- इदं वसो सुतमन्धˆ- इन्द्र नेदीयˆ एदिहि- प्रैतु ब्रह्मणस्पति- रग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्व.न्त्यप- प्र वˆ इन्द्राय बृहत इति प्रथमेनाह्ना समानˆ आतान-स्सप्तमेहनि- सप्तमस्याह्नो रूप,ङ्कया शुभा सवयस.स्सनीळाˆ इति सूक्त- न्न जायमानो न शतेन जातˆ इति जातव.त्सप्तमेहनि- सप्तमस्याह्नो रूप,न्तदु कयाशुभीय- मेतद्वै संज्ञानं सन्तनि सूक्तँ- यत्कयाशुभीय,मेतेन ह वा इन्द्रोगस्त्यो मरुत.स्ते समजानत, तद्य.त्कयाशुभीयं शंसति- सञ्ज्ञात्या एव, तद्वायुष्य,न्तद्योस्य प्रिय.स्स्या-त्कुर्या.देवास्य कयाशुभीय,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा,यतनादेवैतेन न प्र च्यवते, त्यं सु मेषं महया स्वर्विद.मिति सूक्त- मत्यन्न वाजं हवनस्यदं रथ.मिति रथव.त्सप्तमेहनि- सप्तमस्याह्नो रूप,न्तदु जागत- ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि. न्निविद्धीयते,तस्मा.ज्जगतीषु निविद. न्दधाति- मिथुनानि सूक्तानि शस्यन्ते- त्रैष्टुभानि च जागतानि च, मिथुनँ वै पशव- पशव. श्छन्दोमा- पशूना. मवरुद्ध्यै, त्वामिद्धि हवामहे- त्वं ह्येहि चेरवˆ इति बृहत्पृष्ठं भवति सप्तमेहनि, यदेव षष्ठस्याह्न-स्तद्यद्वै रथन्तर-न्तद्वैरूपँ, यद्बृह- त्तद्वैराजँ, यद्रथन्तर- न्तच्छाक्वरँ, यद्बृह- त्तद्रैवत, न्तद्यद्बृह.त्पृष्ठं भवति- बृहतैव तद्बृह त्प्रत्युत्तभ्नुव.न्त्यस्तोमकृन्तत्राय,यद्रथन्तरं स्या-त्कृन्तत्रं स्या,त्तस्मा.द्बृहदेव कर्तव्यँ, यद्वावानेति धाय्याच्युता,भि त्वा शूर नोनुमˆ इति रथन्तरस्य योनि.मनु निवर्तयति, राथन्तरं ह्येतदह.रायतनेन, पिबा सुतस्य रसिनˆ इति सामप्रगाथ पिबवा.न्त्सप्तमेहनि- सप्तमस्याह्नो रूप,न्त्यमू षु वाजिन न्देवजूत.मिति तार्क्ष्योच्युतः।। 5.3.16।।
ॐइन्द्रस्य नु वीर्याणि प्र वोचमिति सूक्तं- प्रेति सप्तमेहनि- सप्तमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा-यतनादेवैतेन न प्रच्यवते,भि त्यं मेषं पुरुहूत. मृग्मिय. मिति सूक्तँ- यद्वाव प्रेति तदभीति सप्तमेहनि- सप्तमस्याह्नो रूप,न्तदु जागत- ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.ज्जगतीषु निविद. न्दधाति, मिथुनानि सूक्तानि शस्यन्ते- त्रैष्टुभानि च जागतानि च, मिथुनँ वै पशव- पशव.श्छन्दोमा-पशूना.मवरुद्ध्यै, तत्सवितु. र्वृणीमहे-द्या नो देवसवित.रिति वैश्वदेवस्य प्रतिप.दनुचरौ- राथन्तरेहनि सप्तमेहनि- सप्तमस्याह्नो रूप,-मभि त्वा देवसवित. रिति सावित्रँ, यद्वाव प्रेति तदभीति सप्तमेहनि- सप्तमस्याह्नो रूपं, प्रेताँ यज्ञस्य शम्भुवेति द्यावापृथिवीयं- प्रेति सप्तमेहनि- सप्तमस्याह्नो रूप,मय न्देवाय जन्मन इत्यार्भव- ञ्जातव. त्सप्तमेहनि- सप्तमस्याह्नो रूप,-मा याहि वनसा सहेति द्विपदा. श्शंसति,द्विपाद्वै पुरुष- श्चतुष्पादा पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै,तद्य.द्द्विपदा.श्शंसति-यजमान. मेव तद्द्विप्रतिष्ठ.ञ्चतुष्पात्सु पशुषु प्रतिष्ठापय,त्यैभि.रग्ने दुवो गिरˆ इति वैश्वदेव- मेति सप्तमेहनि- सप्तमस्याह्नो रूप, न्तान्यु गायत्राणि- गायत्र.तृतीयसवनˆ एषˆ त्र्यहो, वैश्वानरो अजीजन. दित्याग्निमारुतस्य प्रतिप.ज्जातव. त्सप्तमेहनि- सप्तमस्याह्नो रूपं, प्र यद्व.स्त्रिष्टुभ.मिषमिति मारुतं- प्रेति सप्तमेहनि- सप्तमस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता, दूतँ वो विश्ववेदस.मिति जातवेदस्य.मनिरुक्तं सप्तमेहनि- सप्तमस्याह्नो रूप,न्तान्यु गायत्राणि- गायत्र.तृतीयसवनˆ एषˆ त्र्यहः।। 5.3.17।।
ॐयद्वै नेति न प्रेति यत्स्थित- न्तदष्टमस्याह्नो रूपँ, यद्ध्येव द्वितीय.मह- स्तदेवैत.त्पुन र्यदष्टमँ, यदूर्ध्वव. द्यत्प्रतिव. द्यदन्तर्व. द्यद्वृषण्व. द्यद्वृधन्व. द्यन्मध्यमे पदे देवता निरुच्यते, यदन्तरिक्ष. मभ्युदितँ- य द्द्व्यग्नि.यन्महद्व-द्यद्द्विहूतव. द्यत्पुनर्व. द्यत्कुर्व. द्यद्द्वितीयस्याह्नो रूप- मेतानि वा अष्टमस्याह्नो रूपा,-ण्यग्निँ वो देव. मग्निभि स्सजोषाˆ इत्यष्टमस्याह्नˆ आज्यं भवति, द्व्यग्न्यष्टमेह.न्यष्टमस्याह्नो रूप,न्तदु त्रैष्टुभ-न्त्रिष्टुप्प्रातस्सवनˆएषˆ त्र्यह, कुविदङ्ग नमसा ये वृधास- पीवो अन्नाँ रयिवृध.स्सुमेधा- उच्छ.न्नुषस स्सुदिनाˆ अरिप्राˆ- उशन्ताˆदूताˆ न दभाय गोपाˆ- यावत्तर. स्तन्वो याव.दोज- प्रति वां सूर उदिते सूक्तै- र्धेनु प्रत्नस्य काम्य. न्दुहाना- ब्रह्माणˆ इन्द्रोप याहि विद्वा- नूर्ध्वो अग्नि.स्सुमतिँ वस्वो अश्रे- दुत स्या न.स्सरस्वती जुषाणेति- प्रउगं प्रतिव.दन्तर्व.द्द्विहूतव. दूर्ध्वव. दष्टमेह- न्यष्टमस्याह्नो रूप,न्तदु त्रैष्टुभ-न्त्रिष्टु.प्प्रातस्सवनˆ एषˆ त्र्यहो, विश्वानरस्य वस्पति- मिन्द्रˆ इत्सोमपा एकˆ- इन्द्र नेदीयˆ एदि-ह्युत्तिष्ठ ब्रह्मणस्पते-ग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्व.न्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समानˆ आतानोष्टमेह.न्यष्टमस्याह्नो रूपं, शंसा.महा.मिन्द्रं यस्मि.न्विश्वाˆ इति सूक्तं- महद्व. दष्टमेहन्यष्टमस्याह्नो रूपं, महश्चि.त्त्वमिन्द्र यतˆ एतानिति सूक्तं- महद्व. दष्टमेहन्यष्टमस्याह्नो रूपं,पिबा सोम.मभि यमुग्र तर्दˆ इति सूक्त,मूर्व.ङ्गव्यं महि गृणानˆ इन्द्रेति महद्व-दष्टमेह.न्यष्टमस्याह्नो रूपं, महा इन्द्रो नृवदा चर्षणिप्राˆ इति सूक्तं- महद्व. दष्टमेह.न्यष्टमस्याह्नो रूप, न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा,-यतना देवैतेन न प्र च्यवते, त.मस्य द्यावापृथिवी~ सचेतसेति सूक्तँ- यदैत्कृण्वानो महिमान.मिन्द्रिय.मिति महद्व- दष्टमेह.न्यष्टमस्याह्नो रूप,न्तदु जागत-ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति- तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.ज्जगतीषु निविद.न्दधाति, मिथुनानि सूक्तानि शस्यन्ते- त्रैष्टुभानि च जागतानि च- मिथुनँ वै पशव- पशव.श्छन्दोमा- पशूना मवरुद्ध्यै, महद्वन्ति सूक्तानि शस्यन्ते- महद्वा अन्तरिक्षस्याप्त्यै, पञ्चसूक्तानि शस्यन्ते- पञ्चपदा पङ्क्ति- पाङ्क्तो यज्ञ- पाङ्का पशव- पशव.श्छन्दोमा- पशूना. मवरुद्ध्या,-अभि त्वा शूर नोनुमो-भि त्वा पूर्वपीतय इति रथन्तरं पृष्ठं भव-त्यष्टमेहनि,यद्वावानेति धाय्याच्युता- त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति- बार्हतं ह्येतदह रायतने,नोभयं शृणवच्च नˆ इति सामप्रगाथो, यच्चेद.मद्य यदु च ह्यˆ आसीदिति बार्हतेहन्यष्टमेह न्यष्टमस्याह्नो रूप,न्त्यमू षु वाजिन.न्देवजूत मिति तार्क्ष्योच्युतः।। 5.3.18।।
ॐअपूर्व्या पुरुतमा.न्यस्मा इति सूक्तं, महे वीराय तवसे तुरायेति महद्व- दष्टमेह.न्यष्टमस्याह्नो रूप, न्तां सु ते कीर्तिं मघव. न्महित्वेति सूक्तं महद्व- दष्टमेह न्यष्टमस्याह्नो रूप, न्त्वं महा इन्द्र यो ह शुष्मै रिति सूक्तं महद्व-दष्टमेह.न्यष्टमस्याह्नो रूप, न्त्वं महा इन्द्र तुभ्यं ह क्षाˆ इति सूक्तं महद्व- दष्टमेह.न्यष्टमस्याह्नो रूप, न्तदु त्रैष्टुभ-न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा,-यतना.देवैतेन न प्रच्यवते, दिव.श्चिदस्य वरिमा वि पप्रथ इति सूक्त- मिन्द्र.न्न मह्नेति महद्व- दष्टमेह.न्यष्टमस्याह्नो रूप,न्तदु जागत- ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.ज्जगतीषु निविद.न्दधाति, मिथुनानि सूक्तनि शस्यन्ते- त्रैष्टुभानि च जागतानि च, मिथुनँ वै पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै, महद्वन्ति सूक्तानि शस्यन्ते- महद्वा अन्तरिक्ष-मन्तरिक्षस्याप्त्यै, पञ्च पञ्चसूक्तानि शस्यन्ते, पञ्चपदा पङ्क्ति- पाङ्क्तो यज्ञ-पाङ्क्ता पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै, तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दशसंपद्यन्ते- सा दशिनी विरा-ळन्नँ विरा-ळन्नं पशव- पशव.श्छन्दोमा- पशूना मवरुद्ध्यै, विश्वो देवस्य नेतु -स्तत्सवितु.र्वरेण्य- मा विश्वदेवं सत्पति.मिति वैश्वदेवस्य प्रतिप.दनुचरौ- बार्हतेहन्यष्टमेह.न्यष्टमस्याह्नो रूपं, हिरण्यपाणि. मूतय इति सावित्र मूर्ध्वव- दष्टमेह.न्यष्टमस्याह्नो रूपं, मही द्यौ पृथिवी चनˆ इति द्यावापृथिवीयं महद्व-दष्टमेह.न्यष्टमस्याह्नो रूपँ,युवाना पितरा पुन.रित्यार्भवं- पुनर्व.दष्टमेह.न्यष्टमस्याह्नो रूप,-मिमा नु कं भुवना सीषधामेति द्विपदा.श्शंसति, द्विपाद्वै पुरुष- श्चतुष्पादा पशव- पशव.श्छन्दोमा- पशूना मवरुद्ध्यै, तद्य.द्द्विपदा.श्शंसति- यजमान.मेव तद्द्विप्रतिष्ठ.ञ्चतुष्पात्सु पशुषु प्रतिष्ठापयति, देवाना.मिदवो महदिति वैश्वदेवं- महद्व.दष्टमेह. न्यष्टमस्याह्नो रूप,न्तान्यु गायत्राणि- गायत्रतृतीयसवनˆ एषˆ त्र्यहˆ, ऋतावानँ वैश्वानर मित्याग्निमारुतस्य प्रतिप,-दग्नि र्वैश्वानरो महानिति महद्व- दष्टमेह.न्यष्टमस्याह्नो रूप,ङ्क्रीळँ व.श्शर्धो मारुत. मिति मारुत,ञ्जम्भे रसस्य वावृध इति वृधन्व- दष्टमेह.न्यष्टमस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता,-ग्ने मृळ महा असीति जातवेदस्यं महद्व-दष्टमेह.न्यष्टमस्याह्नो रूप,न्तान्यु गायत्राणि- गायत्र.तृतीयसवनˆएषˆत्र्यह- एषˆ त्र्यहः।। 5.3.19।।
इति तृतीयोध्यायः।।
पञ्चम पञ्चिकायां चतुर्थोध्यायः।।
ॐयद्वै समानोदर्क- न्त.न्नवमस्याह्नो रूपँ, यद्ध्येव तृतीयमह- स्तदेवैत.त्पुन.र्यन्नवमँ, यदश्वव.द्यदन्तव.द्यत्पुनरावृत्तँ यत्पुनर्निनृत्तँ यद्रतव. द्यत्पर्यस्तव. द्यत्त्रिव. द्यदन्तरूपँ यदुत्तमे पदे देवता निरुच्यते, यदसौ लोकोभ्युदितो- यच्छुचिव. द्यत्सत्यव. द्यत्क्षेतिव. द्यद्गतव. द्यदोकव. द्यत्कृतँ यत्तृतीयस्याह्नो.रूप- मेतानि वै नवमस्याह्नो रूपा,ण्यगन्म महा नमसा यविष्ठ.मिति नवमस्याह्नˆ आज्यं भवति- गतव.न्नवमेहनि नवमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्त्रिष्टु.प्प्रातस्सवनˆ एषˆ त्र्यह, प्र वीरया शुचयो दद्रिरे (ते) - ते सत्येन मनसा दीध्याना- दिवि क्षयन्ता रजस पृथिव्या-मा विश्ववाराश्विना गतन्नो-यं सोमˆ इन्द्र तुभ्यं सुन्व- आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त- सरस्वती न्देवयन्तो हवन्त- आ नो दिवो बृहत पर्वतादा-सरस्व.त्यभि नो नेषि वस्यˆ इति प्रउगं, शुचिव. त्सत्यव. त्क्षेतिव. द्गतव. दोकव.न्नवमेहनि- नवमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्त्रिष्टु.प्प्रातस्सवनˆ एषˆ त्र्यह,स्तन्त.मि द्राधसे महे- त्रयˆ इन्द्रस्य सोमा- इन्द्र नेदीय एदिहि- प्र नूनं ब्रह्मणस्पति- रग्नि.र्नेता- त्वं सोम क्रतुभि- पिन्व.न्त्यपो- नकि स्सुदासो रथमिति तृतीयेनाह्ना समानˆ आतानो नवमेहनि- नवमस्याह्नो रूप,मिन्द्र स्स्वाहा पिबतु यस्य सोमˆ इति सूक्त-मन्तो वै स्वाहाकारोन्तो नवम.मह.र्नवमेहनि- नवमस्याह्नो रूपं,गाय.त्साम नभन्यँ यथा वे.रिति सूक्त,मर्चामतद्वावृधानं स्वर्व.दित्यन्तो वै स्व.रन्तो नवममह.र्नवमेहनि- नवमस्याह्नो रूप,न्तिष्ठा हरी~ रथ आ युज्यमानेति सूक्त-मन्तो वै स्थित.मन्तो नवम.मह.र्नवमेहनि- नवमस्याह्नो रूप,मिमाˆउ त्वा पुरुतमस्य कारोरिति सूक्त-न्धियो रथेष्ठा.मित्यन्तो वै स्थित.मन्तो नवम.मह.र्नवमेहनि- नवमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन न्दाधारा,यतना.देवैतेन न प्र च्यवते, प्र मन्दिने पितुम दर्चता वचˆ इति सूक्तं समानोदर्क- न्नवमेहनि- नवमस्याह्नो रूप,न्तदु जागत- ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते-तस्मा.ज्जगतीषु निविद.न्दधाति, मिथुनानि सूक्तानि शस्यन्ते- त्रैष्टुभानि च जागतानि च- मिथुनँ वै पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै, पञ्चसूक्तानि शस्यन्ते- पञ्चपदा पङ्क्ति- पाङ्क्तो यज्ञ- पाङ्क्ता पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै, त्वामिद्धि हवामहे - त्वं ह्येहि चेरवˆ इति बृहत्पृष्ठं भवति नवमेहनि, यद्वावानेति धाय्याच्युता,-भि त्वा शूर नोनुमˆ इति रथन्तरस्य योनि.मनु निवर्तयति- राथन्तरं ह्येतदह.रायतने,नेन्द्र त्रिधातु शरणमिति सामप्रगाथ. स्त्रिवा- न्नवमेहनि नवमस्याह्नो रूप,न्त्यमू षु वाजिन न्देवजूत.मिति तार्क्ष्योच्युतः।। 5.4.20।।
ॐसञ्च त्वे जग्मु.र्गिरˆ इन्द्र पूर्वी.रिति सूक्त.ङ्गतव. न्नवमेहनि- नवमस्याह्नो रूप,ङ्कदा भुव.न्रथक्षयाणि ब्रह्मेति सूक्त- ङ्क्षेतिव.दन्तरूप.-ङ्क्षेतीव वा अन्त.ङ्गत्वा नवमेहनि- नवमस्याह्नो रूप,मा सत्यो यातु मघवा ऋजीषीति सूक्तं- सत्यव.न्नवमेहनि नवमस्याह्नो रूप,न्तत्त इन्द्रियं परमं पराचै.रिति सूक्त-मन्तो वै परम.मन्तो नवम.महर्नवमेहनि- नवमस्याह्नो रूप,न्तदु त्रैष्टुभ- न्तेन प्रतिष्ठितपदेन सवन.न्दाधारा-यतना.देवैतेन न प्रच्यवते,हं भुवँ वसुनपूर्व्य.स्पति.रिति सूक्त- मह.न्धनानि सञ्जयामि शश्वतˆ इत्यन्तो वै जित-मन्तो नवम.मह.र्नवमेहनि- नवमस्याह्नोरूप,न्तदु जागत- ञ्जगत्यो वा एतस्य त्र्यहस्य मध्यन्दिनँ वहन्ति, तद्वैतच्छन्दो वहति- यस्मि.न्निविद्धीयते- तस्मा.ज्जगतीषु निविद.न्दधाति, मिथुनानि सूक्तानि शस्यन्ते- त्रैष्टुभानि च जागतानि च, मिथुनँ वै पशव- पशव.श्छन्दोमा- पशूना.मवरुद्ध्यै, पञ्च पञ्चसूक्तानि शस्यन्ते- पञ्चपदा पङ्क्ति- पाङ्क्तो यज्ञ- पाङ्क्ता पशव- पशव. श्छन्दोमा- पशूना.मवरुद्ध्यै,तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश संपद्यन्ते- सा दशिनी विरा-ळन्नँ विरा-ळन्नं पशव- पशव. श्छन्दोमा- पशूना.मवरुद्ध्यै,तत्सवितु.र्वृणीमहे-द्या नो देवसवित.रिति वैश्वदेवस्य प्रतिप.दनुचरौ राथन्तरेहनि नवमेहनि- नवमस्याह्नो रूप,-न्दोषो आगादिति सावित्र.मन्तो वै गत.मन्तो नवम.मह.र्नवमेहनि- नवमस्याह्नो रूपं, प्र वां महि द्यवी अभीति द्यावापृथिवीयं- शुची~ उप प्रशस्तय इति शुचिव.न्नवमेहनि- नवमस्याह्नो रूप,-मिन्द्रˆइषे ददातु न- स्तेनो रत्नानि धत्तने.त्यार्भव-न्त्रिरासाप्तानि सुन्वत इति त्रिव.न्नवमेहनि- नवमस्याह्नो रूपं, बभ्रु.रेको विषुण.स्सूनरो युवेति द्विपदा.श्शंसति, द्विपाद्वै पुरुष- श्चतुष्पादापशव- पशव.श्छन्दोमा- पशूना मवरुद्ध्यै, तद्य.द्द्विपदा.श्शंसति- यजमान.मेव तद्द्विप्रतिष्ठ.ञ्चतुष्पात्सु पशुषु प्रतिष्ठापयति, ये त्रिंशति त्रय.स्परˆ इति वैश्वदेव-न्त्रिव. न्नवमेहनि नवमस्याह्नो रूप,न्तान्यु गायत्राणि- गायत्र.तृतीयसवनˆ एष त्र्यहो, वैश्वानरो नˆ ऊतय इत्याग्निमारुतस्य प्रतिप,दा प्र यातु परावतˆ इत्यन्तो वै परावतोन्तो नवममह. र्नवमेहनि- नवमस्याह्नो रूपं, मरुतो यस्य हि क्षय इति मारुत-ङ्क्षेतिव.दन्तरूप,ङ्क्षेतीव वा अन्त.ङ्गत्वा नवमेहनि नवमस्याह्नो रूप,ञ्जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता, प्राग्नये वाच.मीरयेति जातवेदस्यं समानोदर्क.न्नवमेहनि- नवमस्याह्नो रूपं, सˆ न पर्ष.दति द्विष-स्सˆ न पर्षदति द्विषˆ इति शंसति, बहु वा एतस्मि.न्नवरात्रे किञ्च किञ्च वारण.ङ्क्रियते शान्त्या एव त,द्यत्सˆ न पर्ष.दति द्विष- स्सˆ न पर्ष.दति द्विषˆ इति शंसति- सर्वस्मा. देवैनां-स्तदेनस प्र मुञ्चति, तान्यु गायत्राणि गायत्र.तृतीयसवनˆ एषˆ त्र्यहः।। 5.4.21।।
ॐपृष्ठ्यं षळह.मुपयन्ति, यथा वै मुख-मेवं पृष्ठ्य.ष्षळह, स्तद्यथान्तरं मुखस्य जिह्वा तालुदन्ताˆ- एव.ञ्छन्दोमा,अथ येनैव वाचँ व्याकरोति- येन स्वादु चास्वादु च विजानाति-तद्दशम. मह,र्यथा वै नासिके~- एवं पृष्ठ्य.ष्षळह,स्तद्यथान्तर.न्नासिकयो- रेव.ञ्छन्दोमाˆ,अथ येनैव गन्धा.न्विजानाति- तद्दशम.मह, र्यथा वा अ-क्ष्येवं पृष्ठ्य.ष्षळह,स्तद्यथान्तर.मक्ष्ण कृष्ण- मेव.ञ्छन्दोमा, अथ यैव कनीनिका- येन पश्यति- तद्दशम.मह,र्यथा वै कर्णˆ-एवं पृष्ठ्य.ष्षळह,स्तद्यथान्तर.ङ्कर्ण-स्यैव.ञ्छन्दोमाˆ,अथ येनैव शृणोति–तद्दशम.मह,श्श्रीर्वै दशम.मह- श्श्रियँ वा एत आगच्छन्ति- ये दशम.मह.रागच्छन्ति, तस्मा.द्दशम.मह.रविवाक्यं भवति- मा श्रियोववादिष्मेति- दुरववदं हि श्रेयस,स्ते तत.स्सर्पन्ति- ते मार्जयन्ते- ते पत्नीशालां संप्रपद्यन्ते, तेषाँ यˆ एता माहुतिँ विद्या-त्सˆ ब्रूया- त्समन्वारभध्व.मिति, सˆ जुहुया- दिह रमेहरमध्व,मिह धृति-रिह स्वधृति-रग्ने वा.ट्स्वाहावाळिति, सˆ यदिह रमेत्याहा-स्मि.न्नेवैनां.स्तल्लोके रमय,तीह रमध्व.मिति यदाह- प्रजा.मेवैषु तद्रमय,तीह धृति.रिह स्वधृतिरिति यदाह- प्रजा.ञ्चैव तद्वाचञ्च यजमानेषु दधा,त्यग्नेवाळिति रथन्तरं- स्वाहावाळिति बृह,द्देवानाँ वा एतन्मिथुनँ- यद्बृहद्रथन्तरे~, देवानामेव तन्मिथुनेन मिथुन.मवरुन्धते- देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै, प्रजायते प्रजया पशुभि-र्यˆ एवँ वेद, ते तत.स्सर्पन्ति- ते मार्जयन्ते- त आग्नीध्रं संप्रपद्यन्ते, तेषाँ यˆ एता माहुतिँ विद्या- त्सˆ ब्रूया- त्समन्वारभध्वमिति, स जुहुया-दुपसृज.न्धरुणं मातर.न्धरुणोधयन्न्।रायस्पोष.मिष.मूर्ज.मस्मासु दीधर.त्स्वाहेति,
रायस्पोष मिष मूर्ज मवरुन्ध- आत्मने च यजमानेभ्यश्च- यत्रैवँ विद्वा.नेता.माहुति.ञ्जुहोति।। 5.4.22।।
ॐते तत.स्सर्पन्ति- ते सद स्संप्रपद्यन्ते यथायथ,मन्य ऋत्विजो व्युत्सर्पन्ति-संसर्प.न्त्युद्गातार,स्ते सर्पराज्ञ्याˆ ऋक्षु स्तुवत, इयँ वै सर्परा.ज्ञीयं हि सर्पतो राज्ञीयँ वा अलोमिकेवाग्र आसी- त्सैतं मन्त्र.मपश्य,दायङ्गौ पृश्नि.रक्रमीदिति, तामयं पृश्नि.र्वर्ण आविश.न्नानारूपो, यँय.ङ्काम मकामयत- यदिद.ङ्कि.ञ्चौषधयो वनस्पतय.स्सर्वाणि रूपाणि, पृश्नि.रेनँ वर्ण आविशति नानारूपो- यँय.ङ्काम.ङ्कामयते-यˆ एवँ वेद, मनसा प्रस्तौति- मनसोद्गायति- मनसा प्रतिहरति- वाचा शंसति, वाक्च वै मनश्च देवानां मिथुन,न्देवानामेव तन्मिथुनेन मिथुन.मवरुन्धते- देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै,प्र जायते प्रजया पशुभि-र्यˆ एवँ वेदा,-थ चतुर्होतॄन् होता व्याचष्टे, तदेव तत्स्तुत मनुशंसति, देवानाँ वा एत द्यज्ञिय.ङ्गुह्य न्नाम- यच्चतुर्होतार,स्तद्य.च्चतुर्होतॄन्होता व्याचष्टे- देवानामेव तद्यज्ञिय.ङ्गुह्य.न्नामप्रकाश.ङ्गमयति, तदेनं प्रकाश.ङ्गतं- प्रकाश.ङ्गमयति, गच्छति प्रकाशँ-यˆ एवँ वेद, यं ब्राह्मण.मनूचानँ यशो नर्च्छेदिति हस्माहा-रण्यं परेत्य- दर्भस्तम्बा.नुद्ग्रथ्य-दक्षिणतो ब्रह्माण.मुपवेश्य- चतुर्होतॄ.न्व्याचक्षीत, देवानाँ वा एत.द्यज्ञिय.ङ्गुह्य न्नाम- यच्चतुर्होतार,-स्तद्य.च्चतुर्होतॄ न्व्याचक्षीत- देवाना.मेव तद्यज्ञिय.ङ्गुह्य.न्नाम प्रकाश.ङ्गमयति, तदेनं प्रकाश.ङ्गतं- प्रकाश.ङ्गमयति, गच्छति प्रकाशँ-यˆ एवँ वेद।। 5.4.23।।
ॐअथौदुम्बरीं समन्वारभन्त- इष.मूर्ज मन्वारभ इ,-त्यूर्ग्वा अन्नाद्य.मुदुम्बरो, यद्वै तद्देवाˆ इष मूर्जँ व्यभजन्त- ततˆ उदुम्बर.स्समभव,त्तस्मा.त्सˆत्रि स्सँवत्सरस्य पच्यते, तद्य.दौदुम्बरीं समन्वारभन्त- इषमेव तदूर्ज मन्नाद्यं समन्वारभन्ते, वाचँ यच्छन्ति- वाग्वै यज्ञो- यज्ञ.मेव तद्यच्छ,न्त्यह.र्नियच्छ-न्त्यह.र्वै स्वर्गो लोक- स्स्वर्गमेव तल्लोक न्नियच्छन्ति, नदिवा वाचँ विसृजेरन्,यद्दिवा वाचँ विसृजेर-न्नह.र्भ्रातृव्याय परिशिंष्यु,र्न नक्तँ वाचँ विसृजेरन्, यन्नक्तँ वाचँ विसृजेर-न्रात्रीं भ्रातृव्याय परिशिंष्यु,स्समया.विषित.स्सूर्य. स्स्या-दथ वाचँ विसृजेरं- स्तावन्त.मेव तद्द्विषते लोकं परिशिंष,-न्त्यथो~ खल्वस्त.मित एव वाचँ विसृजेरं-स्तमोभाजमेव तद्द्विषन्तं भ्रातृव्य-ङ्कुर्व,न्त्याहवनीयं परीत्य- वाचँ विसृजेरन्,यज्ञो वा आहवनीय- स्स्वर्गो लोकˆ आहवनीयो- यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गँ लोकँ यन्ति, यदिहोन.मकर्म यदत्यरीरिचाम। प्रजापति न्तत्पितर मप्येत्वि-ति वाचँ विसृजन्ते, प्रजापतिँ वै प्रजाˆ अनुप्रजायन्ते- प्रजापति.रूनातिरिक्तयो प्रतिष्ठा,नैना.नून.न्नातिरिक्तं हिनस्ति, प्रजापति.मेवोनातिरिक्ता.न्यभ्य.त्यर्जन्ति-यएवँ विद्वांसˆ एतेन वाचँ विसृजन्ते, तस्मा.देवँ विद्वांसˆ- एतेनैव वाचँ विसृजेरन्न्।। 5.4.24।।
ॐअध्वर्यो~ इत्याह्वयते-चतुर्होतृषु वदिष्यमाण,स्त.दाहावस्यरूप,मोंहोत- स्तथा होत.रित्यध्वर्यु प्रतिगृणा,त्यवसितेवसिते दशसुपदेषु, तेषा.ञ्चित्ति स्स्रुगासी 3 त्। चित्त.माज्य मासी 3 त्। वाग्वेदि.रासी 3 त्।आधीतं बर्हि.रासी 3 त्।केतो अग्नि.रासी 3 त्। विज्ञात.मग्नी.दासी 3 त्। प्राणो हवि.रासी 3 त्। सामाध्वर्यु.रासी 3 त्।वाचस्पति.र्होतासी 3 त्। मनˆ उपवक्तासी 3 त्। ते वा एत.ङ्ग्रह.मगृह्णत।।वाचस्पते विधेनामन्न्।विधेम ते नाम। विधे.स्त्वमस्माक न्नाम्नाद्या.ङ्गच्छ।या.न्देवा प्रजापतिगृहपतयˆऋद्धि.मराध्नुवं-स्तामृद्धिं रात्स्यामो,थ प्रजापते.स्तनू.रनुद्रवति ब्रह्मोद्य.,ञ्चान्नादा चान्नपत्नी चा,न्नादा तदग्नि- रन्नपत्नी तदादित्यो, भद्रा च कल्याणी च, भद्रा तत्सोम-कल्याणीतत्पशवो,निलया चापभयाचा,निलया तद्वायु-र्न ह्येष कदाचनेलय,त्यपभया तन्मृत्यु स्सर्वं ह्येतस्माद्बीभाया,नाप्ताचानाप्याचा,नाप्ता तत्पृथि-व्यनाप्या तद्द्यौ,- रनाधृष्या चाप्रतिधृष्या चा,नाधृष्या तदग्नि-रप्रतिधृष्या तदादित्यो,पूर्वाचाभ्रातृव्याचा,पूर्वा तन्मनो-भ्रातृव्या तत्सँवत्सरˆ,एता वाव द्वादश प्रजापते.स्तन्व, एषˆ कृत्स्न प्रजापति,स्तत्कृत्स्नँ प्रजापति. माप्नोति दशम.मह,रथ ब्रह्मोद्यँ वद,न्त्यग्नि.र्गृहपति.रिति हैक आहु- स्सोस्य लोकस्य गृहपति,र्वायु.र्गृहपति. रिति हैक आहु-स्सोन्तरिक्षलोकस्य गृहपति,रसौ वै गृहपति- र्योसौ तप-त्येषˆ पति- र्ऋतवो गृहाः। येषाँ वै गृहपति.न्देवँ विद्वा- न्गृहपति.र्भवति, राध्नोति सˆ गृहपती- राध्नुवन्ति ते यजमानाः। येषाँ वा अपहत.पाप्मान.न्देवँ विद्वा-न्गृहपति र्भव,त्यप सˆ गृहपति पाप्मानं हते-प ते यजमाना पाप्मान.ङ्घ्नते-ध्वर्यो~ अरात्स्मारात्स्म।। 5.4.25।।
।। इति चतुर्थोध्यायः।।
पञ्चम पञ्चिकायां पञ्चमोध्यायः।।
ॐउद्धराहवनीय.मित्यपराह्ण आह, यदेवाह्ना साधुकरोति- तदेव तत्प्रा.ङुद्धृत्य तदभये निधत्त,- उद्धराहवनीय.मिति प्रात.राह, यदेवरात्र्या साधुकरोति- तदेव त.त्प्रा.ङुद्धृत्य तदभये निधत्ते, यज्ञो वा आहवनीय- स्स्वर्गो लोकˆ आहवनीयो, यज्ञ एव तत्स्वर्गे लोके स्वर्गँ लोक.न्निधत्ते-यˆ एवँ वेद, यो वा अग्निहोत्रँ वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितँ वेद- वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति, रौद्र.ङ्गवि- स-द्वायव्य.मुपावसृष्ट-माश्विन न्दुह्यमानं- सौम्य.न्दुग्धँ- वारुण. मधिश्रितं- पौष्णं समुदयन्तं- मारुतँ विष्यन्दमानँ- वैश्वदेवं बिन्दुम- न्मैत्रं शरो गृहीत- न्द्यावापृथिवीय.मुद्वासितं- सावित्रं प्रक्रान्तँ- वैष्णवं ह्रियमाणं-बार्हस्पत्य. मुपसन्न- मग्ने पूर्वाहुति- प्रजापते. रुत्त-रैन्द्रं हुत,मेतद्वाअग्निहोत्रँ वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितँ, वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति-यˆ एवँ वेद।। 5.5.26।।
ॐयस्याग्निहो.त्र्युपावसृष्टा दुह्यमानोपविशे,त्का तत्र प्रायश्चित्ति.रिति, ता.मभिमन्त्रयेत-यस्मा.द्भीषा निषीदसि- ततो नो अभय ङ्कृधि। पशून्न स्सर्वा न्गोपाय- नमो रुद्राय मीळ्हुष इति-तामुत्थापये,-दुदस्था द्देव्यदिति-रायु.र्यज्ञपता.वधात्। इन्द्राय कृण्वती भागं मित्राय वरुणाय चे-त्यथास्याˆ उदपात्र.मूधसि च मुखे चोपगृह्णीया,दथैनां ब्राह्मणाय दद्या-त्सा तत्र प्रायश्चित्ति, र्यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत- का तत्र प्रायश्चित्ति. रि,त्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते- तामन्न. मप्यादये-च्छान्त्यै, शान्तिर्वा अन्नं- सूयवसा.द्भगवती हि भूयाˆ इति सा तत्र प्रायश्चित्ति,र्यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत- का तत्र प्रायश्चित्ति.रिति, सा यत्तत्र स्कन्दये- त्तदभिमृश्य जपे-द्यदद्य दुग्धं पृथिवी.मसृप्त- यदोषधी.रत्यसृप.द्यदापः। पयो गृहेषु पयो अघ्न्यायां- पयो वत्सेषु पयो अस्तु तन्मयी-ति तत्र यत्परिशिष्टं स्या.त्तेन जुहुया,-द्यद्यलं होमाय स्या-द्यद्युवै सर्वं सिक्तं स्या-दथान्या माहूय- ता.न्दुग्ध्वा तेन जुहुया-दात्वेव श्रद्धायै होतव्यं- सा तत्र प्रायश्चित्ति,स्सर्वँ वा अस्य बर्हिष्यं- सर्वं परिगृहीतँ- यˆ एवँ विद्वा.नग्निहोत्र.ञ्जुहोति।। 5.5.27।।
ॐअसौ वा अस्यादित्यो यूप- पृथिवी वेदि-रोषधयो बर्हि- र्वनस्पतयˆ इध्माˆ- आप प्रोक्षण्यो- दिश परिधयो, यद्ध वा अस्य किञ्च नश्यति यन्म्रियते यदपाजन्ति- सर्वं हैवैन.न्तदमुष्मि.न्लोके, यथाबर्हिषि दत्त.मागच्छे- देव.मागच्छति-यˆ एवँ विद्वा. नग्निहोत्र.ञ्जुहो,त्युभयान् वा एषˆ देवमनुष्यान्विपर्यास.न्दक्षिणा नयति सर्व.ञ्चेदँ- यदिद.ङ्किञ्च, मनुष्या.न्वा एषˆ साय.माहुत्या देवेभ्यो दक्षिणा नयति- सर्व.ञ्चेदँ यदिद.ङ्किञ्च, त एते प्रलीना.न्योकसइव शेरे- मनुष्याˆ देवेभ्यो दक्षिणानीताˆ, देवा.न्वा एषˆ प्रात.राहुत्या मनुष्येभ्यो दक्षिणा नयति सर्व.ञ्चेदँ यदिद.ङ्किञ्च, त एते विविदानाˆ इवोत्पत-न्त्यदोह.ङ्करिष्ये-दोह.ङ्गमिष्यामीति वदन्तो, यावन्तं ह वै सर्व.मिद.न्दत्त्वा लोक.ञ्जयति- तावन्तं ह लोक.ञ्जयति- यˆ एवँ विद्वा.नग्निहोत्र.ञ्जुहो,त्यग्नये वा एषˆ साय.माहुत्याश्विन मुपाकरोति, तद्वा.क्प्रतिगृणाति- वाग्वागि,त्यग्निना हास्य रात्र्याश्विनं शस्तं भवति- यˆ एवँ विद्वा.नग्निहोत्र.ञ्जुहो,त्यादित्याय वा एषˆ प्रातराहुत्या महाव्रत.मुपाकरोति- तत्प्राण प्रतिगृणा-त्यन्न.मन्न मि,त्यादित्येन हास्याह्ना महाव्रतं शस्तं भवति- यˆ एवँ विद्वा.नग्निहोत्र.ञ्जुहोति, तस्य वा एतस्याग्निहोत्रस्य- सप्त च शतानि विंशतिश्च सँवत्सरे साय.माहुतय- स्सप्तचो~ एव शतानि विंशतिश्च सँवत्सरे प्रात.राहुतय,-स्तावत्योग्ने.र्यजुष्मत्यˆ इष्टका,स्सँवत्सरेण हास्याग्निना चित्येनेष्टं भवति- यˆ एवँ विद्वा.नग्निहोत्र.ञ्जुहोति।। 5.5.28।।
ॐवृषशुष्मो ह वा तावतˆउवाच जातूकर्ण्यो, वक्तास्मो वा इद न्देवेभ्यो- यद्वै तदग्निहोत्र.मुभयेद्यु.रहूयता-न्येद्यु.र्वाव तदेतर्हि हूयत इ,-त्येतदु हैवोवाच कुमारी गन्धर्वगृहीता, वक्तास्मो वा इदं पितृभ्यो- यद्वै तदग्निहोत्र.मुभयेद्यु.रहूयतान्येद्यु.र्वाव तदेतर्हि हूयत इ,त्येतद्वा अग्निहोत्र.मन्येद्यु र्हूयते- यदस्तमिते साय.ञ्जुहो-त्यनुदिते प्रात,रथैत.दग्निहोत्र.मुभयेद्यु र्हूयते- यदस्तमिते साय.ञ्जुहो-त्युदिते प्रात- स्तस्मा.दुदिते होतव्य,ञ्चतुर्विंशे ह वै सँवत्सरेनुदितहोमी गायत्रीलोक.माप्नोति - द्वादश उदितहोमी, सˆ यदा द्वौ सँवत्सरा.वनुदिते जुहो-त्यथ हास्यैको हुतो भव,त्यथ यˆ उदिते जुहोति- सँवत्सरेणैव सँवत्सर माप्नोति- यˆ एवँ विद्वा.नुदिते जुहोति- तस्मा.दुदिते होतव्य,मेषˆ ह वा अहोरात्रयो.स्तेजसि जुहोति- योस्तमिते साय.ञ्जुहो-त्युदिते प्रात,रग्निना वै तेजसा रात्रि.स्तेजस्व-त्यादित्येन तेजसाह.स्तेजस्व,दहोरात्रयो.र्हास्य तेजसि हुतं भवति-यˆ एवँ विद्वा.नुदिते जुहोति- तस्मा.दुदिते होतव्यम्।। 5.5.29।।
ॐएते~ ह वै सँवत्सरस्य चक्रे~- यदहोरात्रे~, ताभ्या.मेव तत्सँवत्सर.मेति- स योनुदिते जुहोति, यथैकत.श्चक्रेण याया-त्तादृक्त,दथ यˆ उदिते जुहोति- यथोभयत.श्चक्रेण या.न्क्षिप्रमध्वानं समश्नुवीत तादृक्त,त्तदेषाभियज्ञगाथा गीयते।
बृहद्रथन्तराभ्या.मिदमेति युक्तँ-यद्भूतं भविष्यच्चापि सर्वम्।
ताभ्यामिया दग्नी.नाधाय धीरो- दिवैवान्य.ज्जुहुया.न्नक्त.मन्य- दिति, राथन्तरी वै रा.त्र्यह.र्बार्हत,मग्निर्वै रथन्तर- मादित्यो बृह,देते~ ह वा एन न्देवते~ ब्रध्नस्य विष्टपं स्वर्गँ लोक.ङ्गमयतो-यˆ एवँ विद्वा. नुदिते जुहोति- तस्मा.दुदिते होतव्य, न्तदेषाभियज्ञगाथा गीयते।
यथा ह वा स्थूरिणैकेन याया-दकृत्वान्य.दुपयोजनाय।
एवँ यन्ति ते बहवो जनास पुरोदया.ज्जुह्वति येग्निहोत्र-मिति, ताँ वा एता.न्देवतां प्रयतीं सर्व.मिद मनुप्रैति यदिद.ङ्कि,ञ्चैतस्यै हीद न्देवता- याˆ अनुचरं सर्वँ यदिद.ङ्किञ्च- सैषानुचरवतीदेवता, विन्दते ह वा अनुचरं- भव.त्यस्यानुचरो-यˆ एवँ वेद, सˆवा एषˆ एकातिथि- स्सˆ एषˆ जुह्वत्सुवसति, तद्य.ददोगाथा भव-
त्यनेन समेनसा सोभिशस्ता-देनस्वतो वापहरादेनः।
एकातिथि मपसायं रुणद्धि बिसानि स्तेनो अपसो जहारे-त्येषˆ ह वै सˆ एकातिथि- स्सˆ एषˆ जुह्वत्सु वस,-त्येताँ वाव सˆ देवता.मपरुणद्धि- योल मग्निहोत्राय स.न्नाग्निहोत्र.ञ्जुहोति, तमेषा देवतापरुद्धापरुण-द्ध्यस्माच्चलोका.दमुष्मा.च्चोभाभ्याँ, योल.मग्निहोत्राय स.न्नाग्निहोत्र.ञ्जुहोति,तस्मा.द्योल.मग्निहोत्राय स्या-ज्जुहुया,त्तस्मा.दाहु-र्न साय.मतिथि.रपरुद्ध्यˆ इ,त्येत.द्धस्म वै तद्विद्वा.न्नगरी जानश्रुतेयˆ उदितहोमिन.मैकादशाक्षं मानुतन्तव्य. मुवाच, प्रजाया.मेनँ विज्ञाता.स्स्मो- यदि विद्वान् वा जुहो-त्यविद्वान् वेति, तस्यो~हैकादशाक्षे राष्ट्र.मिव प्रजा बभूव, राष्ट्रमिव ह वा अस्य प्रजा भवति-यˆ एवँ विद्वा.नुदिते जुहोति, तस्मा.दुदिते होतव्यम्।। 5.5.30।।
ॐउद्य.न्नु खलु वा आदित्यˆ आहवनीयेन रश्मी.न्त्सन्दधाति, सˆ योनुदिते जुहोति- यथा कुमाराय वा वत्साय वा जातायस्तनं प्रतिदध्या- त्तादृक्त,दथ यˆ उदिते जुहोति- यथाकुमारायवा वत्साय वा जातायस्तनं प्रतिदध्या- त्तादृक्त,त्तमस्मैप्रतिधीयमान.मुभयो.र्लोकयो.रन्नाद्य.मनुप्रतिधीयतेस्माच्च लोका.दमुष्मा च्चोभाभ्यां, सˆ योनुदिते जुहोति- यथापुरुषाय वा हस्तिने वा प्रयते हस्त आदध्या- त्तादृक्त,दथ यˆ उदिते जुहोति- यथा पुरुषायवा हस्तिने वा प्रयते हस्त आदध्या- त्तादृक्त,त्तमेषˆ एतेनैव हस्तेनोर्ध्वं हृत्वा स्वर्गे लोक आदधाति-यˆ एवँ विद्वा.नुदिते जुहोति- तस्मा.दुदिते होतव्य,मुद्यन्नु खलु वा आदित्य.स्सर्वाणि भूतानि प्रणयति- तस्मा.देनं प्राणˆ इत्याचक्षते, प्राणे हास्य संप्रतिहुतं भवति-यˆ एवँ विद्वा.नुदिते जुहोति- तस्मा.दुदिते होतव्य,मेषˆ ह वै सत्यँ वद.न्त्सत्ये जुहोति- योस्तमिते साय.ञ्जुहो.त्युदिते प्रात,-
र्भूर्भुव.स्स्वरो 3 मग्नि.र्ज्योति.र्ज्योति.रग्निरिति साय ञ्जुहोति,
भूर्भुव.स्स्वरों 3 सूर्यो ज्योति.र्ज्योति.स्सूर्यˆ इति प्रात, स्सत्यं हास्य वदत- स्सत्ये हुतं भवति-यˆ एवँ विद्वा.नुदितेजुहोति- तस्मा. दुदिते होतव्य,न्तदेषाभियज्ञगाथा गीयते।
प्रातप्रात रनृत.न्ते वदन्ति पुरोदया.ज्जुह्वति येग्निहोत्रम्।
दिवाकीर्त्य.मदिवा कीर्तयन्त-स्सूर्यो ज्योति.र्न तदाज्योति.रेषा. मिति।। 5.5.31।।
ॐप्रजापति रकामयत प्रजायेय-भूया.न्त्स्यामिति, सˆ तपोतप्यत- सˆ तप.स्तप्त्वेमा.न्लोका.नसृजत- पृथिवी. मन्तरिक्ष. न्दिव,न्तान्लोका. नभ्यतप-त्तेभ्योभितप्तेभ्य.स्त्रीणि ज्योतींष्यजायन्ता,ग्नि रेव पृथिव्याˆ अजायत- वायु.रन्तरिक्षा-दादित्यो दिव,स्तानि ज्योतींष्यभ्यतप- त्तेभ्योभितप्तेभ्य. स्त्रयो वेदाˆ अजायन्त, ऋग्वेदˆ एवाग्ने. रजायत- यजुर्वेदो वायो-स्सामवेदˆ आदित्या,त्तान् वेदा.नभ्यतप- त्तेभ्योभितप्तेभ्य. स्त्रीणि शुक्राण्यजायन्त, भूरित्येव ऋग्वेदा. दजायत- भुवˆ इति यजुर्वेदा- त्स्वरिति सामवेदा,त्तानि शुक्रा.ण्यभ्यतप-त्तेभ्योभितप्तेभ्य. स्त्रयो वर्णाˆ अजायन्ताकारˆ उकारो मकारˆ इति, तानेकदा समभर-त्तदेत.दो3 मिति, तस्मा दो.मो-मिति प्रणौ,त्योमिति वै स्वर्गो लोकˆ-ओमित्यसौ- योसौ तपति, सˆप्रजापति.र्यज्ञ.मतनुत- तमाहर- त्तेनायजत, सˆ ऋचैव हौत्र मकरो- द्यजुषाध्वर्यवं- साम्नोद्गीथँ, यदेत.त्त्रय्यै विद्यायै शुक्र-न्तेन ब्रह्मत्व.मकरो,त्सˆ प्रजापति.र्यज्ञ.न्देवेभ्य.स्संप्रायच्छ,त्ते देवाˆ यज्ञ.मतन्वत- तमाहरन्त- तेनायजन्त,तऋचैव हौत्र.मकुर्वन्-यजुषाध्वर्यवं- साम्नोद्गीथँ, यदेवैत.त्त्रय्यै विद्यायै शुक्र- न्तेन ब्रह्मत्व मकुर्वं,स्ते देवाˆ अब्रुव न्प्रजापतिँ- यदि नो यज्ञ ऋक्तˆ आर्ति स्स्या-द्यदि यजुष्टो- यदि सामतो- यद्यविज्ञाता सर्वव्यापद्वा- का प्रायश्चित्तिरिति, सˆ प्रजापति.रब्रवी द्देवान्-यदि वो यज्ञ ऋक्तˆ आर्तिर्भवति- भूरिति गार्हपत्ये जुहवाथ, यदि यजुष्टो-भुवˆ इत्याग्नीध्रीये-न्वाहार्यपचने वा हविर्यज्ञेषु, यदि सामत.स्स्व-रित्याहवनीये, यद्यविज्ञाता सर्वव्यापद्वा- भूर्भुवस्स्व.रिति सर्वा अनुद्रुत्याहवनीय एव जुहवाथे,त्येतानि ह वै वेदाना.मन्तश्श्लेषणानि- यदेताˆ व्याहृतय,स्तद्यथात्मनात्मानं सन्दध्या-द्यथापर्वणा पर्व,यथा श्लेष्मणा चर्मण्यँ वान्यद्वा विश्लिष्टं संश्लेषये-देव.मेवैताभि.र्यज्ञस्य विश्लिष्टं सन्दधाति, सैषा सर्वप्रायश्चित्ति- र्यदेताˆ व्याहृतय- स्तस्मा. देषैव यज्ञे प्रायश्चित्ति कर्तव्या।। 5.5.32।।
ॐतदाहु.र्महावदा 3। यदृचैव हौत्र.ङ्क्रियते- यजुषाध्वर्यवं- साम्नोद्गीथँ- व्यारब्धा त्रयी विद्याभव.-त्यथ केन ब्रह्मत्व.ङ्क्रियत इति- त्रय्या विद्ययेति ब्रूया,दयँ वै यज्ञो योयं पवते, तस्य वाक्च मनश्च वर्तन्यौ, वाचा च हि मनसा च यज्ञो वर्तत,- इयँ वै वा-गदो मन,स्तद्वाचा त्रय्या विद्ययैकं पक्षं संस्कुर्वन्ति, मनसैव ब्रह्मा संस्करोति, तेहैके ब्रह्माणˆ उपाकृते प्रातरनुवाके स्तोमभागा.न्जपित्वा भाषमाणाˆ उपासते, तद्धैत.दुवाच ब्राह्मणˆ- उपाकृते प्रातरनुवाके ब्रह्माणं भाषमाण.न्दृष्ट्वार्ध.मस्य यज्ञस्यान्त.रगुरिति, तद्यथैकपा.त्पुरुषो य.न्नेकतश्चक्रो वा रथो वर्तमानो भ्रेष.न्न्ये-त्येव.मेव सˆ यज्ञो भ्रेषन्न्येति, यज्ञस्य भ्रेषमनु- यजमानो भ्रेष.न्न्येति,तस्मा.द्ब्रह्मोपाकृते प्रातरनुवाके वाचँयम.स्स्या,-दोपांश्वन्तर्यामयो.र्होमा,दुपाकृतेषु पवमानेष्वोदृचो,थ यानि स्तोत्राणि सशस्त्रा-ण्या तेषाँ वषट्कारा द्वाचँयमˆ एव स्या,त्तद्यथोभयतपा.त्पुरुषोय.न्नुभयतश्चक्रो वा रथो वर्तमानो नरिष्य-त्येव.मेव सˆ यज्ञो नरिष्यति, यज्ञस्यारिष्टि मनु-यजमानो नरिष्यति।। 5.5.33।।
ॐतदाहु- र्यद्ग्रहा.न्मेग्रही- त्प्राचारी.न्म- आहुतीर्मेहौषी-दित्यध्वर्यवे दक्षिणाˆ नीयन्त,-उदगासीन्म इत्युद्गात्रे-न्ववोच न्मेशंसीन्मे याक्षीन्म- इति होत्रे, किंस्विदेव चक्रुषे ब्रह्मणे दक्षिणाˆनीयन्ते-कृत्वाहोस्वि.देव हरता इति, यज्ञस्य हैष भिष-ग्य.द्ब्रह्मा, यज्ञायैव तद्भेषज.ङ्कृत्वा हर,त्यथो~ यद्भूयिष्ठेनैव ब्रह्मणा छन्दसां रसेनार्त्विज्य.ङ्करोति- यद्ब्रह्मा, तस्मा. द्ब्रह्मार्धभाग्घवा एषˆ, इतरेषा.मृत्विजा मग्र आस- यद्ब्रह्मा,र्धमेव ब्रह्मणˆ आसार्ध.मितरेषा मृत्विजा,न्तस्मा.द्यदि यज्ञऋक्तˆ आर्ति स्स्या-द्यदि यजुष्टो- यदि सामतो- यद्यविज्ञाता सर्वव्यापद्वा- ब्रह्मण एव निवेदयन्ते, तस्मा.द्यदि यज्ञऋक्तˆ आर्ति.र्भवति- भूरिति ब्रह्मा गार्हपत्ये जुहुया,-द्यदि यजुष्टो- भुवˆ इत्याग्नीध्रीयेन्वाहार्यपचने वा हविर्यज्ञेषु, यदि सामत.स्स्व-रित्याहवनीये, यद्यविज्ञाता सर्वव्यापद्वा- भूर्भुव.स्स्वरिति सर्वाˆ अनुद्रुत्याहवनीय एव जुहुया,त्सˆ प्रस्तोतोपाकृते स्तोत्र आह- ब्रह्म.न्त्स्तोष्याम प्रशास्त.रिति, सˆ भूरिति ब्रह्मा प्रातस्सवने ब्रूया-दिन्द्रवन्त. स्स्तुध्वमिति, भुवˆ इति माध्यन्दिने सवने ब्रूया-दिन्द्रवन्त. स्स्तुध्वमिति, स्वरिति तृतीयसवने ब्रूया-दिन्द्रवन्त. स्स्तुध्वमिति, भूर्भुवस्स्व-रित्युक्थ्ये वातिरात्रे वा ब्रूया- दिन्द्रवन्त. स्स्तुध्वमिति, सˆ यदाहेन्द्रवन्त. स्स्तुध्वमि- त्यैन्द्रो वै यज्ञ- इन्द्रो यज्ञस्य देवता-सेन्द्रमेव त.दुद्गीथ.ङ्करोतीन्द्रा.न्मागा दिन्द्रवन्त.स्स्तुध्व. मित्येवैनां.स्तदाह तदाह।। 5.5.34।।
।। इति पञ्चमोध्यायः।।इति पञ्चमपञ्चिका।।
॥ अथ पञ्चमाद्याये षष्ठ खण्डः॥षष्ठ पञ्चिकायां प्रथमोध्यायः।।
देवा ह वै सर्वचरौ सत्र न्निषेदुस्ते ह पाप्मान न्नापजघ्निरे तान् होवाचार्बुद काद्रवेय स्सर्प ऋषि र्मन्त्रकृदेकावैवो होत्राकृता ताँ वोहंकरवाण्यथ पाप्मान मपहनिष्यध्व इति ते ह तथेत्यूचुस्तेषां हस्म स मध्यन्दिनेमध्यन्दिन एवोपोदासर्पद्ग्राव्णोभिष्टौति तस्मान्मध्यन्दिनेमध्यन्दिन एव ग्राव्णोभिष्टुवन्ति तदनुकृति सह स्म येनोपोदासर्पत्तद्धाप्येतर्ह्यर्बुदोदासर्पणी नामप्रपदस्तितान् ह राजा मदयाञ्चकार ते होचु राशीविषो वैनो राजान मवेक्षते हन्तास्योष्णीषेणाक्ष्यावपि नह्यामेति तथेति तस्य होष्णीषेणाक्ष्यावपि नह्युस्तस्मादुष्णीष मेव पर्यस्य ग्राव्णोभिष्टुवन्ति तदनुकृति तान् ह राजा मदयामेव चकार ते होचु स्स्वेन वै नो मन्त्रेण ग्राव्णोभिष्टौति हन्तास्यान्याभिर्ऋग्भि र्मन्त्रमापृण चामेति तथेति तस्य हान्याभि र्ऋग्भि र्मन्त्र मापपृचु स्ततो हैनान्न मदयाञ्चकार तद्यदस्यान्याभिर्ऋग्भि र्मन्त्र मापृञ्चन्तिशान्त्या एव ते ह पाप्मान मपजघ्निरे तेषा मन्वपहतिं सर्पा पाप्मान मपजघ्निरे त एतेपहतपाप्मानो हित्वा पूर्वाञ्जीर्णान्त्वच न्नवयैव प्रयन्त्यपपाप्मानं हतेय एवँ वेद।। 6.1.1।।
तदाहु कियतीभि रभिष्टुयादिति शतेनेत्याहुश्शतायुर्वै पुरुष श्शतवीर्य श्शतेन्द्रिय आयुष्येवैन न्तद्वीर्य इन्द्रिये दधाति त्रयस्त्रिंशत्यावेत्याहुस्त्रयस्त्रिंशतो वै स देवानां पाप्मनोपाहंस्त्रयस्त्रिंशद्वै तस्य देवा इत्यपरिमिताभि रभिष्टुया दपरिमितो वै प्रजापति प्रजापते र्वा एषा होत्रायद्ग्रावस्तोत्रीया तस्यां सर्वेकामा अवरुध्यन्तेस यदपरिमिताभि रभिष्टौति सर्वेषाङ्कामाना मवरुद्ध्यै सर्वा न्कामा नवरुन्धेय एवँ वेद तस्मा दपरिमिताभि रेवाभिष्टुयात्तदाहु कथ मभिष्टुया दित्यक्षरशा 3।चतुरक्षरशा 3। पच्छा 3।अर्धर्चशा 3।ऋक्शा 3 इति। तद्यदृक्शो न तदवकल्पतेथयत्पच्छो नो एव तदव कल्पतेथ यदक्षरश श्चतुरक्षरशो वि तथा छन्दांसि लुप्येर न्बहूनि तथाक्षराणि हीयेरन्नर्धर्चश एवाभिष्टुया त्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुष श्चतुष्पादा पशवो यजमान मेव तद्द्विप्रतिष्ठञ्चतुष्पात्सु पशुषु प्रतिष्ठापयतितस्मा दर्धर्चश एवाभिष्टुयात्तदाहुर्यन्मध्यन्दिनेमध्यन्दिन एव ग्राव्णोभिष्टौति कथमस्येतरयो स्सवनयो रभिष्टुतं भवतीति यदेव गायत्रीभि रभिष्टौति गायत्रँ वै प्रातस्सवन न्तेन प्रातस्सवनेथ यज्जगतीभि रभिष्टौति जागतँ वै तृतीयसवन न्तेन तृतीयसवन एवमु हास्य मध्यन्दिनेमध्यन्दिन एव ग्राव्णोभिष्टुवत स्सर्वेषु सवनेष्वभिष्टुतं भवतिय एवँ वेद तदाहु र्यदध्वर्यु रेवान्या नृत्विज स्संप्रेष्यत्यथ कस्मादेष एता मसंप्रेषित प्रतिपद्यत इति मनो वै ग्रावस्तोत्रीयासंप्रेषितँ वा इदं मनस्तस्मा देष एता मसंप्रेषित प्रतिपद्यते।। 6.1.2।।
वाग्वै सुब्रह्मण्या तस्यै सोमो राजा वत्सस्सोमे राजनि क्रीते सुब्रह्मण्या माह्वयन्ति यथाधेनुमुपह्वयेत्तेन वत्सेन यजमानाय सर्वा न्कामा न्दुहे सर्वान् हास्मै कामान्वाग्दुहेय एवँ वेद तदाहु किं सुब्रह्मण्यायै सुब्रह्मण्यात्व मिति वागेवेति ब्रूयाद्वाग्वै ब्रह्म च सुब्रह्म चेति तदाहु रथ कस्मादेनं पुमांसं सन्तं स्त्रीमिवाचक्षत इति वाग्घि सुब्रह्मण्येति ब्रूयात्तेनेति तदाहु र्यदन्तर्वेदीतर ऋत्विज आर्त्विज्यङ्कुर्वन्ति बहिर्वेदि सुब्रह्मण्या कथमस्यान्तर्वेद्यार्त्विज्यङ्कृतं भवतीति वेदेर्वा उत्कर मुत्किरन्ति यदेवोत्करे तिष्ठन्नाह्वयतीति ब्रूयात्तेनेति तदाहुरथ कस्मादुत्करे तिष्ठन्त्सुब्रह्मण्या माह्वयतीत्यृषयो वै सत्रमासत तेषाँ यो वर्षिष्ठ आसी त्तमब्रुवन्त्सुब्रह्मण्या माह्वयत्वन्नो नेदिष्ठाद्देवा न्ह्वयिष्यसीति वर्षिष्ठमेवैन न्तत्कुर्वन्त्यथो वेदिमेव तत्सर्वां प्रीणाति तदाहु कस्मा दस्मा ऋषभ न्दक्षिणा मभ्याजन्तीति वृषा वा ऋषभो योषा सुब्रह्मण्या तन्मिथुनन्तस्य मिथुनस्य प्रजात्या इत्युपांशु पात्नीवतस्याग्नीध्रो यजति रेतो वै पात्नीवत उपांश्विव वै रेतस स्सिक्ति र्नानुवषट्करोति संस्था वा एषा यदनुवषट्कारो नेद्रेत स्संस्थापयानीत्यसंस्थितँ वै रेतस स्समृद्धन्तस्मा न्नानुवषट्करोति नेष्टु रुपस्थ आसीनो भक्षयति पत्नीभाजनँ वै नेष्टाग्नि पत्नीषु रेतो दधाति प्रजात्या अग्निनैव तत्पत्नीषु रेतो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवँ वेद दक्षिणा अनुसुब्रह्मण्या सन्तिष्ठते वाग्वै सुब्रह्मण्यान्न न्दक्षिणान्नाद्य एव तद्वाचि यज्ञमन्तत प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति।। 6.1.30।।।
इति प्रथमोध्यायः।।
षष्ठ पञ्चिकायां द्वितीयोध्यायः।।
देवा वै यज्ञ मतन्वत तांस्तन्वाना नसुरा अभ्यायन्यज्ञवेशसमेषाङ्करिष्याम इति तान्दक्षिणत उपायन् यत एषाँ यज्ञस्य तनिष्ठ ममन्यन्त ते देवा प्रतिबुध्य मित्रावरुणौ दक्षिणत पर्यौहंस्ते मित्रावरुणाभ्या मेव दक्षिणत प्रातस्सवनेसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना मित्रावरुणाभ्या मेव दक्षिणत प्रातस्सवनेसुररक्षांस्यपघ्नते तस्मान्मैत्रावरुणं मैत्रावरुण प्रातस्सवने शंसति मित्रावरुणाभ्यां हि देवा दक्षिणत प्रातस्सवनेसुररक्षांस्यपाघ्नत ते वै दक्षिणतोपहता असुरा मध्यतो यज्ञं प्राविशंस्ते देवा प्रतिबुध्येन्द्रं मध्यतोदधुस्त इन्द्रेणैव मध्यत प्रातस्सवनेसुररक्षांस्यपाघ्नत तथैवैत द्यजमाना इन्द्रेणैव मध्यतप्रातस्सवनेसुररक्षांस्यपघ्नते तस्मा दैन्द्रंब्राह्मणाच्छंसी प्रातस्सवने शंसतीन्द्रेण हि देवा मध्यत प्रातस्सवनेसुररक्षांस्यपाघ्नतते वै मध्यतोपहता असुरा उत्तरतो यज्ञं प्राविशंस्ते देवा प्रतिबुध्येन्द्राग्नी उत्तरत पर्यौहंस्त इन्द्राग्निभ्या मेवोत्तरतप्रातस्सवनेसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्राग्निभ्या मेवोत्तरत प्रातस्सवनेसुररक्षांस्यपघ्नते तस्मा दैन्द्राग्न मच्छावाक प्रातस्सवने शंसतीन्द्राग्निभ्यां हि देवा उत्तरत प्रातस्सवनेसुररक्षांस्यपाघ्नत ते वा उत्तरतोपहताअसुरा पुरस्ता त्पर्यद्रव न्त्समनीकतस्ते देवा प्रतिबुध्याग्निं पुरस्तात्प्रातस्सवने पर्यौहंस्तेग्निनैव पुरस्ता त्प्रातस्सवनेसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातस्सवनेसुररक्षांस्यपघ्नते तस्मा दाग्नेयं प्रातस्सवनमप पाप्मानं हतेय एवँ वेद ते वै पुरस्ता दपहता असुरा पश्चात्परीत्य प्राविशंस्ते देवा प्रतिबुध्य विश्वा न्देवा नात्मानं पश्चा त्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवै रात्मभि पश्चात्तृतीयसवनेसुररक्षांस्यपाघ्नत तथैवैत द्यजमाना विश्वैरेव देवै रात्मभि पश्चा त्तृतीयसवनेसुररक्षांस्यपघ्नते तस्माद्वैश्वदेव न्तृतीयसवनमप पाप्मानं हतेय एवँ वेद ते वै देवा असुरानेव मपाघ्नत सर्वस्मादेव यज्ञात्ततो वै देवा अभव न्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवतिय एवँ वेद ते देवा एवङ्कॢप्तेन यज्ञेनापासुरा न्पाप्मान मघ्नताजय न्त्स्वर्गँ लोकमप ह वै द्विषन्तं पाप्मानं भ्रातृव्यं हते जयति स्वर्गँ लोकँय एवँ वेद यश्चैवँ विद्वा न्त्सवनानि कल्पयति।। 6.2.4।।
स्तोत्रियं स्तोत्रियस्यानुरूपङ्कुर्वन्ति प्रातस्सवनेहरेव तदह्नोनुरूपङ्कुर्वन्त्यवरेणैव तदह्ना परमहरभ्यारभन्तेथ तथा न मध्यन्दिने श्रीर्वै पृष्ठानि तानि तस्मै न तत्स्थानानि यत्स्तोत्रियं स्तोत्रियस्यानुरूपङ्कुर्यु स्तयैव विभक्त्या तृतीयसवनेन स्तोत्रियं स्तोत्रियस्यानुरूपङ्कुर्वन्ति।। 6.2.5।।
अथात आरम्भणीया एव ऋजुनीती नो वरुण इति मैत्रावरुणस्य मित्रो नयतु विद्वानिति प्रणेता वा एष होत्रकाणाँ यन्मैत्रावरुण स्तस्मादेषा प्रणेतृमती भवतीन्द्रँ वो विश्वतस्परीति ब्राह्मणाच्छंसिनो हवामहे जनेभ्य इतीन्द्रमेवैतयाहरह र्निह्वयन्ते न हैषाँ विहवेन्य इन्द्रँ वृङ्क्ते यत्रैवँ विद्वा न्ब्राह्मणाच्छंस्येता महरह श्शंसति यत्सोम आ सुते नर इत्यच्छावाकस्येन्द्राग्नी अजोहवु रितीन्द्राग्नी एवैतयाहरह र्निह्वयन्ते न हैषाँ विहवेन्य इन्द्राग्नी वृङ्क्ते यत्रैवँ विद्वा नच्छावाक एता महरह श्शंसति ता वा एता स्स्वर्गस्य लोकस्य नाव स्संपारिण्य स्स्वर्ग मेवैताभिर्लोक मभिसन्तरन्ति।। 6.2.6।।
अथात परिधानीयाएव ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीत्ययँ वै लोक इषमित्यसौ लोक स्स्वरित्युभावेवैतया लोकावारभन्ते व्यन्तरिक्ष मतिर दिति ब्राह्मणाच्छंसिनो विवत्तृचं स्वर्ग मेवैभ्य एतया लोकँ विवृणोति मदे सोमस्य रोचना। इन्द्रो यदभिन द्वलमिति सिषासवो वा एते यद्दीक्षितास्तस्मा देषा वलवती भवत्युद्गा आजदङ्गिरोभ्य आविष्कृण्व न्गुहा सतीः। अर्वाञ्च न्नुनुदे वलमिति सनिमेवैभ्य एतयावरुन्ध इन्द्रेण रोचना दिव इति स्वर्गो वै लोक इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च। स्थिराणि न पराणुद इति स्वर्ग एवैतया लोकेहरह प्रतितिष्ठन्तो यन्त्याहं सरस्वतीवतो रित्यच्छावाकस्य वाग्वै सरस्वती वाग्वतोरिति हैतदाहेन्द्राग्न्यो रवो वृण इत्येतद्ध वा इन्द्राग्न्यो प्रियन्धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति प्रियेण धाम्ना समृद्ध्यतेय एवँ वेद।। 6.2.7।।
उभय्य परिधानीया भवन्ति होत्रकाणां प्रातस्सवने च माध्यन्दिने चाहीना श्चैकाहिकाश्च तत ऐकाहिकाभि रेव मैत्रावरुण परिदधाति तेनास्मा ल्लोकान्न प्र च्यवतेहीनाभि रच्छावाक स्स्वर्गस्य लोकस्याप्त्या उभयीभि र्ब्राह्मणाच्छंसीतेनो स उभौ व्यन्वारभमाण एतीमञ्चामुञ्च लोकमथो मैत्रावरुणञ्चाच्छावाकञ्चाथो अहीनञ्चैकाह ञ्चाथो सँवत्सर ञ्चाग्निष्टोमञ्चैवमु स उभौ व्यन्वारभमाण एत्यथ तत ऐकाहिका एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति प्रतिष्ठा वा एकाह प्रतिष्ठायामेव तद्यज्ञमन्ततप्रतिष्ठापयन्त्यनवानं प्रातस्सवने यजेदेका न्द्वे न स्तोममतिशंसेत्तद्यथाभिहेषतेपिपासते क्षिप्रं प्रयच्छे त्तादृक्तदथो क्षिप्र न्देवेभ्योन्नाद्यं सोमपीथं प्रयच्छानीति क्षिप्रं हास्मिन्लोके प्रतितिष्ठत्यपरिमिताभि रुत्तरयो स्सवनयो रपरिमितो वै स्वर्गो लोक स्स्वर्गस्य लोकस्याप्त्यै काम न्तद्धोता शंसेद्यद्धोत्रका पूर्वेद्यु श्शंसेयु र्यद्वा होता तद्धोत्रका प्राणो वै होताङ्गानि होत्रका स्समानो वा अयं प्राणोङ्गान्यनुसञ्चरति तस्मात्तत्कामं होता शंसेद्यद्धोत्रका पूर्वेद्यु श्शंसेयु र्यद्वा होता तद्धोत्रकास्सूक्तान्तै र्होता परिदध देत्यथ समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्त्यात्मा वै होताङ्गानि होत्रकास्समाना वा इमेङ्गानामन्ता स्तस्मात्समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति भवन्ति।। 6.2.8।।इति द्वितीयोध्यायः।।
षष्ठ पञ्चिकायां तृतीयोध्यायः।।
आ त्वा वहन्तु हरय इति प्रातस्सवन उन्नीयमानेभ्योन्वाह वृषण्वती पीतवती स्सुतवती र्मद्वती रूपसमृद्धा ऐन्द्री रन्वाहैन्द्रो वै यज्ञो गायत्री रन्वाह गायत्रँ वै प्रातस्सवनन्नवन्यूना प्रातस्सवनेन्वाह न्यूने वै रेत स्सिच्यते दशमध्यन्दिनेन्वाह न्यूने वै रेत स्सिक्तं मध्यं स्त्रियै प्राप्य स्थविष्ठं भवति नवन्यूना स्तृतीयसवनेन्वाह न्यूनाद्वै प्रजा प्रजायन्ते तद्यदेतानि केवलसूक्तान्यन्वाह यजमानमेव तद्गर्भं भूतं प्रजनयति यज्ञा द्देवयोन्यै ते हैके सप्तसप्तान्वाहु स्सप्त प्रातस्सवने सप्तमाध्यन्दिने सप्ततृतीयसवने यावत्यो वै पुरोनुवाक्या स्तावत्यो याज्यास्सप्त वै प्राञ्चो यजन्ति सप्त वषट्कुर्वन्ति तासामेता पुरोनुवाक्या इति वदन्त स्तत्तथा न कुर्याद्यजमानस्य हते रेतो विलुम्पन्त्यथो यजमानमेव यजमानो हि सूक्तन्नवभिर्वा एतं मैत्रावरुणोस्मा ल्लोका दन्तरिक्षलोक मभिप्रवहति दशभि रन्तरिक्षलोका दमुँ लोकमभ्यन्तरिक्षलोको हि ज्येष्ठो नवभि रमुष्मा ल्लोका त्स्वर्गँ लोकमभिन ह वै ते यजमानं स्वर्गँ लोक मभिवोळ्हु मर्हन्ति ये सप्तसप्तान्वाहुस्तस्मा त्केवलश एव सूक्ता न्यनुब्रूयात्।। 6.3.9।।
अथाह यदैन्द्रो वै यज्ञोथ कस्माद्द्वावेव प्रातस्सवने प्रस्थितानां प्रत्यक्षा दैन्द्रीभ्याँ यजतो होता चैव ब्राह्मणाच्छंसी चेदन्ते सोम्यं मध्विति होता यजतीन्द्र त्वा वृषभँ वयमिति ब्राह्मणाच्छंसी नानादेवत्याभि रितरेकथन्तेषा मैन्द्र्यो भवन्तीति मित्रँ वयं हवामह इति मैत्रावरुणो यजति वरुणं सोमपीतय इति यद्वै किञ्च पीतवत्पद न्तदैन्द्रं रूपन्तेनेन्द्रं प्रीणातिमरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपा स्तदैन्द्रं रूप न्तेनेन्द्रं प्रीणात्यग्ने पत्नी रिहावहेति नेष्टा यजति त्वष्टारं सोमपीतय इतीन्द्रो वै त्वष्टा तदैन्द्रं रूप न्तेनेन्द्रं प्रीणात्युक्षान्नाय वशान्नायेत्याग्नीध्रो यजति सोमपृष्ठाय वेधस इतीन्द्रो वै वेधा स्तदैन्द्रं रूप न्तेनेन्द्रं प्रीणाति प्रातर्यावभि रागत न्देवेभि र्जेन्यावसू।इन्द्राग्नी सोमपीतय इति स्वयं समृद्धाच्छावाकस्यैवमु हैता ऐन्द्र्यो भवन्तियन्नानादेवत्या स्तेनान्या देवता प्रीणाति यदु गायत्र्य स्तेनाग्नेय्य एतदु हैताभि स्त्रय मुपाप्नोति।। 6.3.10।।
असावि देवङ्गोऋजीक मन्ध इति मध्यन्दिन उन्नीयमानेभ्योन्वाह वृषण्वती पीतवती स्सुतवती र्मद्वती रूपसमृद्धा ऐन्द्रीरन्वाहैन्द्रो वै यज्ञस्त्रिष्टुभोन्वाह त्रैष्टुभँ वै माध्यन्दिनं सवनन्तदाहु र्यत्तृतीयसवनस्यैव रूपं मद्वदथ कस्मा न्मध्यन्दिने मद्वती रनु चाह यजन्ति चाभिरिति माद्यन्तीव वै मध्यन्दिने देवता स्समेव तृतीयसवने मादयन्ते तस्मा न्मध्यन्दिने मद्वती रनुचाह यजन्तिचाभिस्ते वै खलु सर्व एव माध्यन्दिने प्रस्थितानां प्रत्यक्षादैन्द्रीभि र्यजन्त्यभितृण्णवतीभिरेके पिबा सोम मभि यमुग्र तर्द इति होता यजति स ईं पाहि य ऋजीषी तरुत्र इति मैत्रावरुणो यजत्येवा पाहि प्रत्नथा मन्दतु त्वेति ब्राह्मणाच्छंसी यजत्यर्वाङेहि सोमकामन्त्वाहुरिति पोता यजति तवायं सोम स्त्वमेह्यर्वाङिति नेष्टा यजतीन्द्राय सोमा प्रदिवो विदाना इत्यच्छावाको यजत्या पूर्णो अस्य कलश स्स्वाहेत्याग्नीध्रो यजति तासामेता अभितृण्णवत्यो भवन्तीन्द्रो वै प्रातस्सवनेन व्यजयत स एताभि रेव माध्यन्दिनं सवनमभ्यतृणद्यदभ्यतृण त्तस्मादेता अभितृण्णवत्यो भवन्ति।। 6.3.11।।
इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्योन्वाह वृषण्वती पीतवती स्सुतवती र्मद्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति तदाहु र्यन्नार्भवीषु स्तुवतेथ कस्मा दार्भव पवमान इत्याचक्षत इति प्रजापतिर्वै पित ऋभून्मर्त्या न्त्सतोमर्त्यान्कृत्वा तृतीयसवन आभजत् तस्मा न्नार्भवीषु स्तुवतेथार्भव पवमान इत्याचक्षतेथाह यद्यथाछन्दसं पूर्वयो स्सवनयो रन्वाह गायत्री प्रातस्सवने त्रिष्टुभो माध्यन्दिनेथ कस्मा ज्जागतेसति तृतीयसवने त्रिष्टुभोन्वाहेति धीतरसँ वै तृतीयसवन मथैतदधीतरसं शुक्रियञ्छन्दो यत्त्रिष्टुप्सवनस्य सरसताया इति ब्रूयादथो इन्द्रमेवैत त्सवनेन्वाभजतीत्यथाह यदैन्द्रार्भवँ वै तृतीयसवन मथ कस्मादेष एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्यायजतीन्द्र ऋभुभि र्वाजवद्भि स्समुक्षित मिति होतैव नानादेवत्याभि रितरे कथ न्तेषा मैन्द्रार्भव्यो भवन्तीतीन्द्रावरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति युवो रथो अध्वर न्देववीतय इति बहूनि वाह तदृभूणां रूपमिन्द्रश्च सोमं पिबतं बृहस्पत इति ब्राह्मणाच्छंसी यजत्या वाँ विशन्त्विन्दव स्स्वाभुव इति बहूनि वाह तदृभूणां रूपमा वो वहन्तु सप्तयो रघुष्यद इति पोता यजति रघुपत्वान प्रजिगात बाहुभि रिति बहूनि वाह तदृभूणां रूपममेव न स्सुहवा आ हि गन्तनेति नेष्टा यजति गन्तनेति बहूनि वाह तदृभूणां रूपमिन्द्राविष्णू पिबतं मध्वो अस्येत्यच्छावाको यजत्या वा मन्धांसि मदिराण्यग्मन्निति बहूनि वाह तदृभूणां रूपमिमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सं महेमा मनीषयेति बहूनि वाह तदृभूणां रूपमेवमु हैता ऐन्द्रार्भव्यो भवन्ति यन्नानादेवत्या स्तेनान्या देवताप्रीणाति यदु जगत्प्रासाहा जागतँ वै तृतीयसवन न्तृतीयसवनस्यैव समृद्ध्यै।। 6.3.12।।
अथाह यदुक्थिन्योन्या होत्रा अनुक्था अन्या कथमस्यैता उक्थिन्य स्सर्वा स्समास्समृद्धा भवन्तीति यदेवैना स्सम्प्रगीर्य होत्रा इत्याचक्षते तेन समा यदुक्थिन्योन्या होत्रा अनुक्था अन्या स्तेनो विषमा एवमुहास्यैता उक्थिन्य स्सर्वास्समा स्समृद्धा भवन्त्यथाह शंसन्ति प्रातस्सवने शंसन्ति माध्यन्दिने होत्रका कथमेषा न्तृतीयसवने शस्तं भवतीति यदेव माध्यन्दिने द्वेद्वे सूक्ते शंसन्तीति ब्रूयात्तेनेत्यथाह यद्व्युक्थो होताकथं होत्रका द्व्युक्था भवन्तीति यदेव द्विदेवत्याभिर्यजन्तीति ब्रूया त्तेनेति।। 6.3.13।।
अथाह यदेता स्तिस्र उक्थिन्यो होत्रा कथमितरा उक्थिन्यो भवन्तीत्याज्यमेवाग्नीध्रीयाया उक्थं मरुत्वतीयं पोत्रीयायै वैश्वदेव न्नेष्ट्रीयायै तावा एता होत्रा एव न्न्यङ्गा एव भवन्त्यथाह यदेकप्रैषा अन्ये होत्रका अथ कस्माद्द्विप्रैष पोता द्विप्रैषो नेष्टेति यत्रादो गायत्री सुपर्णो भूत्वा सोम माहरत्तदेतासां होत्राणा मिन्द्र उक्थानि परिलुप्य होत्रे प्र ददौ यूयं माभ्यह्वयध्वँ यूयमस्या वेदिष्टेति ते होचु र्देवावाचेमे होत्रे प्रभावयामेति तस्मात्ते द्विप्रैषे भवत ऋचाग्नीध्रीयां प्रभावयाञ्चक्रुस्तस्मात्तस्यैकयर्चा भूयस्यो याज्याभवन्त्यथाह यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मा दहोतृभ्य स्सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति प्राणो वै होता प्राण स्सर्व ऋत्विज प्राणो यक्षत्प्राणो यक्षदित्येव तदाहाथाहास्त्युद्गातॄणां प्रैषा 3। नाँ3इति। अस्तीति ब्रूयाद्यदेवैत त्प्रशास्ता जपञ्जपित्वा स्तुध्व मित्याहस एषां प्रैषोथाहास्त्यच्छावाकस्य प्रवरा3।। नाँ3इति। अस्तीति ब्रूयाद्यदेवैन मध्वर्युराहाच्छावाक वदस्वयत्ते वाद्यमित्येषोस्य प्रवरोथाह यदैन्द्रावरुणं मैत्रावरुण स्तृतीयसवने शंसत्यथ कस्मा दस्याग्नेयौ स्तोत्रियानुरूपौ भवत इत्यग्निना वै मुखेन देवा असुरानुक्थेभ्यो निर्जघ्नु स्तस्मादस्याग्नेयौ स्तोत्रियानुरूपौ भवतोथाहयदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसत्यैन्द्रावैष्णव मच्छावाक कथमेनयोरैन्द्रा स्स्तोत्रियानुरूपा भवन्तीतीन्द्रो हस्म वा असुरानुक्थेभ्य प्रजिगाय सोब्रवी त्कश्चाहञ्चेत्यहञ्चाहञ्चेति हस्म देवता अन्ववयन्ति स यदिन्द्र पूर्व प्रजिगाय तस्मा देनयो रैन्द्रा स्स्तोत्रियानुरूपा भवन्ति यद्वहञ्चाहञ्चेति हस्म देवता अन्ववयु स्तस्मा न्नानादेवत्यानि शंसतः।। 6.3.14।।
अथाह यद्वैश्वदेवँ वै तृतीयसवनमथ कस्मा देतान्यैन्द्राणि जागतानि सूक्तानि तृतीयसवन आरम्भणीयानि शस्यन्त इतीन्द्रमेवैतै रारभ्य यन्तीति ब्रूयादथो यज्जागतँ वै तृतीयसवन न्तज्जगत्काम्यैव तद्यत्किञ्चात ऊर्ध्वञ्छन्द श्शस्यते तद्ध सर्वञ्जागतं भवत्येतानि चेदैन्द्राणि जागतानि सूक्तानि तृतीयसवन आरम्भणीयानि शस्यन्तेथैत त्त्रैष्टुभ मच्छावाकोन्तत श्शंसति सँ वाङ्कर्मणेति यदेव पनाय्यङ्कर्म तदेतदभिवदति समिषेत्यन्नँ वा इषोन्नाद्यस्यावरुद्ध्या अरिष्टैर्न पथिभि पारयन्तेति स्वस्तिताया एवैत दहरह श्शंसत्यथाह यज्जागतँ वै तृतीयसवन मथ कस्मा देषान्त्रिष्टुभ परिधानीया भवन्तीति वीर्यँ वै त्रिष्टुब्वीर्य एव तदन्तत प्रतितिष्ठन्तो यन्तीय मिन्द्रँ वरुण मष्ट मेगीरिति मैत्रावरुणस्य बृहस्पतिर्न परि पातु पश्चादिति ब्राह्मणाच्छंसिन उभा जिग्यथु रित्यच्छावाकस्योभौ हितौ जिग्यतु र्न परा जयेथे न परा जिग्य इति न हितयो कतरश्चन परा जिग्य इन्द्रश्च विष्णो यदपस्पृधेथान्त्रेधा सहस्रँ वि तदैरयेथा मितीन्द्रश्च ह वै विष्णुश्चासुरै र्युयुधाते तान् हस्म जित्वोचतु कल्पामहा इति ते ह तथेत्यसुरा ऊचु स्सोब्रवी दिन्द्रो यावदेवायँ विष्णुस्त्रिर्विक्रमते ताव दस्माकमथ युष्माक मितरदिति स इमान्लोकान्विचक्रमेथो वेदा नथोवाच न्तदाहु किन्तत्सहस्र मितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथामैरयेथा मित्यच्छावाक उक्थ्येभ्यस्यति सहितत्रान्त्यो भवत्यग्निष्टोमे होतातिरात्रे च सहितत्रान्त्यो भवत्यभ्यस्येत्षोळशिनीँ3।नाभ्यस्ये3त् इति। अभ्यस्येदित्याहु कथ मन्येष्वहस्स्वभ्यस्यति कथमत्र नाभ्यस्येदिति तस्मा दभ्यस्येत्।। 6.3.15।।
अथाह यन्नाराशंसँ वै तृतीयसवन मथ कस्मा दच्छावाकोन्तत श्शिल्पेष्वनाराशंसी श्शंसतीति विकृतिर्वै नाराशंसङ्किमिवच वै किमिव च रेतो विक्रियते तत्तदाविकृतं प्रजातं भवत्यथैत न्मृद्विवच्छन्दश्शिथिरँ यन्नाराशंस मथैषोन्त्यो यदच्छावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति तस्मा दच्छावाकोन्तत श्शिल्पेष्वनाराशंसी श्शंसति दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति दृळ्हे प्रतिष्ठास्याम इति।। 6.3.16।।
इति तृतीयोध्यायः।।
षष्ठ पञ्चिकायां चतुर्थोध्यायः।।
यश्श्वस्स्तोत्रिय स्तमनुरूपङ्कुर्वन्ति प्रातस्सवनेहीनसन्तत्यै यथा वा एकाहस्सुत एवमहीनस्तद्यथैकाहस्य सुतस्य सवनानि सन्तिष्ठमानानि यन्त्येवमेवाहीनस्याहानि सन्तिष्ठमानानि यन्ति तद्यच्छ्वस्स्तोत्रिय मनुरूपङ्कुर्वन्ति प्रातस्सवनेहीनसन्तत्या अहीनमेव तत्सन्तन्वन्ति ते वै देवाश्च ऋषयश्चाद्रियन्त समानेन यज्ञं सन्तनवामेति त एतत्समानँ यज्ञस्यापश्य न्त्समाना न्प्रगाथान्त्समानी प्रतिपद स्समानानि सूक्ता न्योकस्सारीवा इन्द्रो यत्र वा इन्द्र पूर्वङ्गच्छत्यैव तत्रापरङ्गच्छति यज्ञस्यैव सेन्द्रतायै।। 6.4.17।।
तान् वा एता न्त्सम्पातान् विश्वामित्र प्रथम मपश्यत्तान् विश्वामित्रेण दृष्टान्वामदेवो सृजतैवा त्वामिन्द्र वज्रिन्नत्र यन्नइन्द्रो जुजुषे यच्च वष्टि कथा महा मवृध त्कस्य होतुरिति तान्क्षिप्रं समपतद्यत्क्षिप्रं समपतत्तत्सम्पातानां सम्पातत्वं स हेक्षाञ्चक्रे विश्वामित्रो यान् वा अहं सम्पाता नपश्यं तान् वामदेवोसृष्टकानि न्वहं सूक्तानि सम्पातां स्तत्प्रतिमान्त्सृजेयेति सएतानि सूक्तानि सम्पातांस्तत्प्रतिमा नसृजत सद्यो ह जातो वृषभ कनीन इन्द्र पूर्भिदातिर द्दासमर्कै रिमामू षु प्रभृतिं सातये धा इच्छन्ति त्वा सोम्यास स्सखाय श्शासद्वह्नि र्दुहितु र्नप्त्यङ्गा दभि तष्टेव दीधया मनीषा मिति य एक इद्धव्य श्चर्षणीना मिति भरद्वाजो यस्तिग्मशृङ्गो वृषभो न भीम उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठोस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातस्सवने षळहस्स्तोत्रियान्छस्त्वा माध्यन्दिनेहीनसूक्तानि शंसन्ति तान्येता न्यहीनसूक्तान्या सत्यो यातु मघवा ऋजीषीति सत्यव न्मैत्रावरुणोस्मा इदु प्र तवसे तुरायेन्द्राय ब्रह्माणि राततमा। इन्द्र ब्रह्माणि गोतमासो अक्रन्निति ब्रह्मण्वद्ब्राह्मणाच्छंसी शासद्वह्नि र्जनयन्त वह्निमिति वह्निव दच्छावाकस्तदाहु कस्मा दच्छावाको वह्निवदेत त्सूक्त मुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु चेति वीर्यवान् वा एष बह्वृचो वह्निव देत त्सूक्तँ वहति ह वै वह्निर्धुरोयासु युज्यते तस्मा दच्छावाको वह्निव देत त्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु च तानि पञ्चस्वहस्सु भवन्ति चतुर्विंशेभिजिति विषुवति विश्वजिति महाव्रतेहीनानि ह वा एतान्यहानि नह्येषु किञ्चन हीयते पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि तस्मा देनान्येतेष्वहस्सु शंसन्ति यदेनानि शंसन्त्यहीना न्त्स्वर्गान्लोका न्त्सर्वरूपा न्त्सर्वसमृद्धानवाप्नवामेति यदेवैनानि शंसन्तीन्द्रमेवैतै र्निह्वयन्ते यथ ऋषभँ वाशितायै यद्वेवैनानि शंसन्त्यहीनस्य सन्तत्या अहीनमेव तत्सन्तन्वन्ति।। 6.4.18।।
ततो वा एतांस्त्री न्त्सम्पाता न्मैत्रावरुणो विपर्यास मेकैक महरह श्शंसत्येवा त्वामिन्द्र वज्रिन्नत्रेति प्रथमेहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृध त्कस्य होतुरिति तृतीये त्रीनेव सम्पाता न्ब्राह्मणाच्छंसी विपर्यास मेकैक महरह श्शंसतीन्द्र पूर्भिदातिर द्दासमर्कै रिति प्रथमेहनि य एक इद्धव्य श्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये त्रीनेव सम्पाता नच्छावाको विपर्यास मेकैक महरह श्शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमेहनीच्छन्ति त्वा सोम्यास स्सखाय इति द्वितीये शासद्वह्नि र्दुहितु र्नप्त्यङ्गादिति तृतीये तानि वा एतानि नव त्रीणि चाहरहश्शस्यानि तानि द्वादशसंपद्यन्ते द्वादश वै मासा स्सँवत्सर स्सँवत्सर प्रजापति प्रजापति र्यज्ञस्तत्सँवत्सरं प्रजापतिँ यज्ञ माप्नुवन्ति तत्सँवत्सरे प्रजापतौ यज्ञेहरह प्रतितिष्ठन्तो यन्ति तान्यन्तरेणावापमावपेरन्नन्यू ङ्ख्या विराजो वैमदीश्च चतुर्थेहनि पङ्क्ती पञ्चमे पारुच्छेपी ष्षष्ठेथ यान्यहानि महास्तोमानि स्यु को अद्य नर्यो देवकाम इति मैत्रावरुण आ वपेत वने न वायो न्यधायि चाकन्निति ब्राह्मणाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यच्छावाक एतानि वा आवपनान्येतैर्वा आवपनै र्देवा स्स्वर्गँ लोक मजय न्नेतै र्ऋषयस्तथैवैत द्यजमाना एतै रावपनै स्स्वर्गँ लोकञ्जयन्ति।। 6.4.19।।
सद्यो ह जातो वृषभ कनीन इति मैत्रावरुण पुरस्तात्सूक्ताना महरहश्शंसति तदेत त्सूक्तं स्वर्ग्यमेतेन वै सूक्तेन देवा स्स्वर्गँ लोक मजय न्नेतेन ऋषयस्तथैवैत द्यजमाना एतेन सूक्तेन स्वर्गँ लोकञ्जयन्ति तदु वैश्वामित्रँ विश्वस्य ह वै मित्रँ विश्वामित्र आस विश्वं हास्मै मित्रं भवतिय एवँ वेद येषाञ्चैवँ विद्वानेतन्मैत्रावरुण पुरस्तात्सूक्ताना महरह श्शंसति तदृषभवत्पशुमद्भवति पशूना मवरुद्ध्यै तत्पञ्चर्चं भवति पञ्चपदा पङ्क्ति पङ्क्तिर्वा अन्न मन्नाद्यस्यावरुद्ध्या उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरह श्शंसति तदेत त्सूक्तं स्वर्ग्यमेतेन वै सूक्तेन देवा स्स्वर्गँ लोक मजय न्नेतेन ऋषयस्तथैवैत द्यजमाना एतेन सूक्तेन स्वर्गँ लोकञ्जयन्ति तदु वासिष्ठ मेतेन वै वसिष्ठ इन्द्रस्य प्रियन्धामोपागच्छत्स परमँ लोक मजयदुपेन्द्रस्य प्रिय न्धाम गच्छति जयति परमँ लोकँय एवँ वेद तद्वै षळृचं षड्वा ऋतव ऋतूना माप्त्यै तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गँ लोकँ यजमाना अस्मिन्लोके प्रतितिष्ठन्त्यभि तष्टेव दीधया मनीषामित्यच्छावाकोहरहश्शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणा परो वा अस्माल्लोका त्स्वर्गो लोक स्तमेव तदभिवदति कवी रिच्छामि सन्दृशे सुमेधा इति ये वै तेन ऋषय पूर्वे प्रेतास्ते वै कवय स्तानेव तदभ्यतिवदति तदु वैश्वामित्रँ विश्वस्य ह वै मित्रँ विश्वामित्र आस विश्वं हास्मै मित्रं भवतिय एवँ वेद तदनिरुक्तं प्राजापत्यं शंसत्यनिरुक्तो वै प्रजापति प्रजापतेराप्त्यै सकृदिन्द्र न्निराह तेनैन्द्राद्रूपान्न प्र च्यवते तद्वै दशर्च न्दशाक्षरा विराळन्नँ विराळन्नाद्यस्यावरुद्ध्यै यदेव दशर्चा3म्। दश वै प्राणा प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते तदुपरिष्टा त्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गँ लोकँ यजमाना अस्मिन्लोके प्रतितिष्ठन्ति।। 6.4.20।।
कस्तमिन्द्र त्वावसुङ्कन्नव्यो अतसीनाम्। कदू न्वस्याकृत मिति कद्वन्त प्रगाथा आरम्भणीया अहरह श्शस्यन्ते को वै प्रजापति प्रजापते राप्त्यै यदेव कद्वन्ता3। अन्नँ वै कमन्नाद्यस्यावरुद्ध्यै यद्वेव कद्वन्ता3।अहरहर्वा एते शान्तान्यहीनसूक्तान्युप युञ्जाना यन्ति तानि कद्वद्भि प्रगाथै श्शमयन्ति तान्येभ्य श्शान्तानि कं भवन्ति तान्येतान्छान्तानि स्वर्गँ लोक मभिवहन्तित्रिष्टुभ स्सूक्तप्रतिपद श्शंसेयुस्ता हैके पुरस्ता त्प्रगाथानां शंसन्ति धाय्या इति वदन्तस्तत्तथा न कुर्यात्क्षत्रँ वै होता विशो होत्राशंसिनःक्षत्रायैव तद्विशं प्रत्युद्यामिनीङ्कुर्यु पापवस्यसन्त्रिष्टुभो म इमा स्सूक्तप्रतिपद इत्येव विद्यात्तद्यथा समुद्रं प्रप्लवेर न्नेवं हैव ते प्रप्लवन्ते ये सँवत्सरँ वा द्वादशाहँ वासते तद्यथा सैरावतीन्नावं पारकामा स्समारोहेयु रेव मेवैता स्त्रिष्टुभ स्समारोहन्ति न ह वा एतच्छन्दो गमयित्वा स्वर्गँ लोक मुपावर्तते वीर्यवत्तमं हिताभ्यो न व्याह्वयीत समानं हिच्छन्दोथो नेद्धाय्या करवाणीतियदेनाश्शंसन्ति प्रज्ञाताभि स्सूक्तप्रतिपद्भि स्सूक्तानि समारोहामेति यदेवैना श्शंसन्तीन्द्रमेवैताभि र्निह्वयन्ते यथ ऋषभँ वाशितायै यद्वेवैना श्शंसन्त्यहीनस्य सन्तत्या अहीनमेव तत्सन्तन्वन्ति।। 6.4.21।।
अप प्राच इन्द्र विश्वा अमित्रानिति मैत्रावरुणपुरस्ता त्सूक्ताना महरह श्शंसत्यपापाचो अभिभूते नुदस्व। अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूप मभयमिव हि यन्निच्छति ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणाच्छंस्यहरह श्शंसति युनज्मीति युक्तवती युक्तइव ह्यहीनोहीनस्य रूपमुरुन्नो लोकमनु नेषि विद्वा नित्यच्छावाकोहरह श्शंसत्यनुनेषीत्येतीव ह्यहीनोहीनस्य रूप न्नेषीति सत्रायणरूपन्ता वा एता अहरह श्शस्यन्ते समानीभि परिदध्यु रोकस्सारीहैषा मिन्द्रो यज्ञं भवतीँ3।यथ ऋषभो वाशिताँ यथावागौ प्रज्ञातङ्गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गच्छति न शुनंहुवीययाहीनस्य परिदध्यात्क्षत्रियोह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति।। 6.4.22।।
अथातोहीनस्य युक्तिश्च विमुक्तिश्च व्यन्तरिक्ष मतिरदित्यहीनँ युङ्क्त एवेदिन्द्रमिति विमुञ्चत्याहं सरस्वतीवतो र्नूनं सा त इत्यहीनँ युङ्क्ते ते स्याम देव वरुण नू ष्टुत इति विमुञ्चत्येष ह वा अहीनन्तन्तु मर्हति य एनँ योक्तुञ्च विमोक्तुञ्च वेद तद्यच्चतुर्विंशेहन्युज्यन्ते सा युक्तिरथ यत्पुरस्ता दुदयनीयस्यातिरात्रस्य विमुच्यन्ते सा विमुक्तिस्तद्यच्चतुर्विंशेहन्नैकाहिकाभि परिदध्यु रत्राहैव यज्ञं संस्थापयेयु र्नाहीनकर्म कुर्युरथ यदहीनपरिधानीयाभि परिदध्युर्यथाश्रान्तो विमुच्यमान उत्कृत्येतैवँ यजमाना उत्कृत्येरन्नुभयीभि परिदध्युस्तद्यथा दीर्घाध्व उपविमोकँ याया त्तादृक्तत्सन्ततो हैषाँ यज्ञो भवतीँ3।व्यूमुञ्चन्त एकान्द्वे न द्वयो स्सवनयो स्स्तोम मतिशंसेद्दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभि स्स्तोमोतिशस्यतेपरिमिताभि स्तृतीयसवनेपरिमितो वै स्वर्गो लोक स्स्वर्गस्य लोकस्याप्त्यै सन्ततो हास्याभ्यारब्धो विस्रस्तोहीनो भवति य एवँ विद्वा नहीनन्तनुते।। 6.4.23।।
देवा वै वलेगा पर्यपश्यंस्ता यज्ञेनैवेप्संस्ता ष्षष्ठेनाह्नाप्नुवंस्ते प्रातस्सवने नभाकेन वलमनभयंस्तँ यदनभया3न्। अश्रथयन्नेवैनन्तत्त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाच कूटेनैकपदया वलँ विरुज्य गा उदाजं स्तथैवैतद्यजमाना प्रातस्सवने नभाकेन वलन्नभयन्ति तँ यन्नभयन्तीँ3। श्रथयन्त्येवैनन्तत्तस्मा द्धोत्रका प्रातस्सवने नाभाकांस्तृचान्छंसन्ति य ककुभो निधारय इति मैत्रावरुण पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यं भराणा मित्यच्छावाकस्त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाच कूटेनैकपदया वलँ विरुज्य गा आप्नुवन्ति पच्छ प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय मृक्श स्तृतीयं स पच्छो विहरन्प्रगाथे प्रगाथ एवैकपदान्दध्यात्स वाच कूटस्ता एता पञ्चैकपदा श्चतस्रो दशमादह्न एका महाव्रतादथाष्टाक्षराणि माहानामनानि पदानि तेषाँ यावद्भि स्सम्पद्येत तावन्ति शंसेन्नेतराण्याद्रियेताथार्धर्चशो विहरंस्ताश्चैवैकपदा श्शंसे त्तानि चैवाष्टाक्षराणि माहानामनानि पदान्यथ ऋक्शो विहरंस्ताश्चैवैकपदा श्शंसे त्तानि चैवाष्टाक्षराणि माहानामनानि पदानि स यत्प्रथमं षड्वालखिल्यानां सूक्तानि विहरति प्राणञ्च तद्वाचञ्च विहरति यद्द्वितीयञ्चक्षुश्च तन्मनश्च विहरति यत्तृतीयं श्रोत्रञ्च तदात्मानञ्च विहरति तदुपाप्तो विहारे काम उपाप्तो वज्रे वालखिल्यासूपाप्तो वाच कूट एकपदायामुपाप्त प्राणकॢप्त्यामविहृतानेव चतुर्थं प्रगाथान्छंसति पशवो वै प्रगाथा पशूनामवरुद्ध्यै नात्रैकपदाँ व्यवदध्याद्यदत्रैकपदाँ व्यवदध्या द्वाच कूटेन यजमानात्पशू न्निर्हण्याद्य एन न्तत्र ब्रूया द्वाच कूटेन यजमानात्पशू न्निरवधी रपशुमेन मकरिति शश्वत्तथास्यात्तस्मा त्तत्रैकपदान्न व्यवदध्याद्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयोर्विहारस्तदेत त्सौबलाय सर्पिर्वात्सि श्शशंस सहोवाच भूयिष्ठानहँ यजमाने पशून्पर्यग्रहैष मकनिष्ठा उमामागमिष्यन्तीतितस्मै ह यथामहद्भ्य ऋत्विग्भ्य एवन्निनाय तदेतत्पशव्यञ्च स्वर्ग्यञ्च शस्त्र न्तस्मा देत च्छंसति।। 6.4.24।।
दूरोहणं रोहति तस्योक्तं ब्राह्मण मैन्द्रे पशुकामस्य रोहे दैन्द्रा वै पशवस्तज्जागतं स्याज्जागता वै पशव स्तन्महासूक्तं स्याद्भूयिष्ठेष्वेव तत्पशुषु यजमानं प्रतिष्ठापयति बरौ रोहेत्तन्महासूक्तञ्च जागतञ्चैन्द्रावरुणे प्रतिष्ठाकामस्य रोहेदेतद्देवता वा एषा होत्रैतत्प्रतिष्ठा यदैन्द्रावरुणा तदेनत्स्वायामेव प्रतिष्ठायामन्तत प्रतिष्ठापयति यदेवैन्द्रावरुणा3इ।एषा ह वा अत्र निविन्निविदा वै कामाआप्यन्ते स यद्यैन्द्रावरुणे रोहे त्सौपर्णे रोहेत्तदुपाप्त ऐन्द्रावरुणे काम उपाप्तस्सौपर्णे।। 6.4.25।।
तदाहु स्संशंसेत् षष्ठेहा 3 न्। न संशंसे 3 त् इति। संशंसेदित्याहु कथ मन्येष्वहस्सु संशंसति कथमत्र न संशंसेदित्यथो खल्वाहु र्नैव संशंसे त्स्वर्गो वै लोकष्षष्ठमह रसमायी वै स्वर्गो लोक कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसे त्समान न्तत्कुर्यादथ यन्न संशंसतीँ3। तत्स्वर्गस्य लोकस्य रूप न्तस्मान्न संशसेद्यदेव न संशंसतीँ3। आत्मा वै स्तोत्रिय प्राणा वालखिल्या स्स यत्संशंसे देताभ्यान्देवताभ्याँ यजमानस्य प्राणान्वीयाद्य एनन्तत्र ब्रूया देताभ्या न्देवताभ्याँ यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथास्यात्तस्मान्न संशंसेत् स यदीक्षेताशंसिषँ वालखिल्या हन्त पुरस्ताद्दूरोहणस्य संशंसानीति नो एव तस्याशामियात्तँ यदि दर्प एव विन्दे दुपरिष्टाद्दूरोहणस्यापि बहूनि शतानि शंसेद्यस्यो तत्कामाय तथा कुर्यादत्रैव तदुपाप्तमैन्द्र्यो वालखिल्या स्तासा न्द्वादशाक्षराणि पदानि तत्र सकाम उपाप्तो य ऐन्द्रे जागतेथेद मैन्द्रावरुणं सूक्त मैन्द्रावरुणी परिधानीया तस्मान्न संशंसेत्तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रँविहृता वालखिल्याश्शस्यन्ते विहृतां स्तोत्रा 3म्।अविहृताँ3 इति। विहृतमिति ब्रूया दष्टाक्षरेण द्वादशाक्षरमिति तदाहु र्यथा वाव शस्त्रमेवँ याज्या तिस्रो देवता श्शस्यन्तेग्निरिन्द्रो वरुण इत्यथैन्द्रावरुण्या यजति कथ मग्निरनन्तरित इति यो वा अग्नि स्स वरुणस्तदप्येतदृषिणोक्त न्त्वमग्ने वरुणो जायसे यदिति तद्यदेवैन्द्रावरुण्या यजति तेनाग्नि रनन्तरितोनन्तरितः।। 6.4.26।।
इति चतुर्थोध्यायः।।
षष्ठ पञ्चिकायांपञ्चमोध्यायः।।
शिल्पानि शंसति देवशिल्पान्येतेषाँ वै शिल्पाना मनुकृतीह शिल्पमधिगम्यते हस्तीकंसो वासो हिरण्यमश्वतरी रथ श्शिल्पं शिल्पं हास्मिन्नधिगम्यतेय एवँ वेद यदेव शिल्पानीँ3।आत्मसंस्कृति र्वाव शिल्पानिच्छन्दोमयँ वा एतै र्यजमान आत्मानं संस्कुरुते नाभानेदिष्ठं शंसति रेतो वै नाभानेदिष्ठो रेत स्तत्सिञ्चति तमनिरुक्तं शंस त्यनिरुक्तँ वै रेतो गुहा योन्यां सिच्यते स रेतो मिश्रो भवति क्ष्मया रेत स्सञ्जग्मानो निषिञ्चदिति रेतस्समृद्ध्या एव तं स नाराशंसं शंसति प्रजा वै नरो वाक्शंसप्रजास्वेव तद्वाच न्दधाति तस्मा दिमा प्रजा वदत्यो जायन्ते तं हैके पुरस्ताच्छंसन्ति पुरस्तादायतनावागिति वदन्त उपरिष्टा देक उपरिष्टादायतना वागिति वदन्तो मध्य एव शंसेन्मध्यायतनावा इयँ वागुपरिष्टा न्नेदीयसी वोपरिष्टा न्नेदीयसीव वा इयँ वाक्तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणा न्कल्पयेति।। 6.5.27।।
वालखिल्या श्शँसति प्राणा वै वालखिल्या प्राणानेवास्य तत्कल्पयति ताविहृता श्शंसति विहृता वा इमे प्राणा प्राणेनापानोपानेन व्यानस्स पच्छ प्रथमे सूक्ते विहर त्यर्धर्चशो द्वितीये ऋक्श स्तृतीये स यत्प्रथमे सूक्ते विहरति प्राणञ्च तद्वाचञ्च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यत्तृतीये श्रोत्रञ्च तदात्मानञ्च विहरति तेहैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति तदुपाप्तो विहारे कामो नेत्तु प्रगाथा कल्पन्तेतिमर्शमेव विहरे त्तथा वै प्रगाथा कल्पन्ते प्रगाथा वै वालखिल्या स्तस्मा दतिमर्शमेव विहरेद्यदेवातिमर्शा3म्। आत्मा वै बृहती प्राणा स्सतोबृहती स बृहती मशंसीत्स आत्माथ सतोबृहतीं ते प्राणा अथ बृहती मथ सतोबृहती न्तदात्मानं प्राणै परिबृहन्नेति तस्मा दतिमर्शमेव विहरेद्यद्वेवातिमर्शा3म्। आत्मा वै बृहती पशव स्सतोबृहती स बृहती मशंसीत्स आत्माथ सतोबृहतीन्ते पशवोथ बृहती मथ सतोबृहती न्तदात्मानं पशुभि परिबृहन्नेति तस्मा दतिमर्शमेव विहरेद्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयो र्विहारस्तस्य मैत्रावरुण प्राणा न्कल्पयित्वाब्राह्मणाच्छंसिने संप्रयच्छत्येतन्त्वं प्रजनयेति।। 6.5.28।।
सुकीर्तिं शंसति देवयोनिर्वै सुकीर्ति स्तद्यज्ञा द्देवयोन्यै यजमानं प्रजनयति वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मान मेवास्य तत्कल्पयति तन्न्यूङ्खय त्यन्नँ वै न्यूङ्ख स्तदस्मै जातायान्नाद्यं प्रतिदधाति यथाकुमाराय स्तनं स पाङ्क्तो भवति पाङ्क्तोयं पुरुष पञ्चधा विहितो लोमानि त्वङ्मांस मस्थिमज्जा स यावानेव पुरुष स्तावन्तँ यजमानं संस्करोति तं ब्राह्मणाच्छंसी जनयित्वाच्छावाकाय संप्रयच्छत्येतस्य त्वं प्रतिष्ठा ङ्कल्पयेति।। 6.5.29।।
एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत्प्रतिष्ठा मेवास्य तत्कल्पयति तन्न्यूङ्खयत्यन्नँ वै न्यूङ्खोन्नाद्यमेवास्मिंस्तद्दधाति स जागतो वातिजागतो वा सर्वँ वा इदञ्जागतँ वातिजागतँ वा स उ मारुत आपो वै मरुत आपोन्न मभि पूर्वमेवास्मिंस्तदन्नाद्य न्दधाति तान्येतानि सहचराणीत्याचक्षते नाभानेदिष्ठँ वालखिल्या वृषाकपि मेवयामरुतन्तानि सहवा शंसेत्सहवानशंसेद्यदेनानि नाना शंसेद्यथापुरुषँ वारेतो वाविच्छिन्द्या त्तादृक्तत्तस्मादेनानि सहवा शंसेत्सहवा नशंसेत्सहबुलिल आश्वतर आश्वि र्वैश्वजितो होता सन्नीक्षाञ्चक्रएषाँ वा एषां शिल्पानाँ विश्वजिति साँवत्सरिकेद्वे मध्यन्दिनमभिप्रत्येतो र्हन्ताहमित्थमेवयामरुतं शंसयानीति तद्ध तथा शंसयाञ्चकार तद्ध तथा शस्यमाने गौश्ल आजगाम सहोवाच होत कथा ते शस्त्रँ विचक्रं प्लवत इति किं ह्यभूदित्येवयामरुदय मुत्तरत श्शस्यत इति स होवाचैन्द्रो वै मध्यन्दिन कथेन्द्रं मध्यन्दिना न्निनीषसीति नेन्द्रं मध्यन्दिनान्निनीषामीति होवाचच्छन्दस्त्विदममध्यन्दिनसाच्ययञ्जागतो वातिजागतो वा सर्वँ वा इदञ्जागतँ वातिजागतँ वा स उ मारुतो मैव शंसिष्टेति सहोवाचारमाच्छावाकेत्यथ हास्मिन्ननुशासन मीषे सहोवाचैन्द्रमेष विष्णुन्यङ्गं शंसत्वथ त्वमेतं होतरुपरिष्टा द्रौद्र्यै धाय्यायै पुरस्ता न्मारुतस्याप्यस्याथा इति तद्ध तथा शंसयाञ्चकार तदिद मप्येतर्हि तथैव शस्यते।। 6.5.30।।
तदाहु र्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठेहनि कल्पते यज्ञ कल्पते यजमानस्य प्रजाति कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावरुणो वालखिल्याश्शंसति ते प्राणा रेतो वा अग्रेथ प्राणा एवं ब्राह्मणाच्छंस्यशस्त एवनाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा रेतो वा अग्रेथात्मा कथमत्र यजमानस्य प्रजाति कथं प्राणा अविकॢप्ता भवन्तीति यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथागर्भो योन्यामन्त रेवं सम्भवन्छेते न वै सकृदेवाग्रे सर्वस्संभवत्येकैकँ वा अङ्गं सम्भवत स्सम्भवतीति सर्वाणि चेत्समानेह न्क्रियेर न्कल्पत एव यज्ञ कल्पते यजमानस्य प्रजातिरथैतं होतैवयामरुत न्तृतीयसवने शंसतितद्यास्य प्रतिष्ठा तस्यामेवैन न्तदन्तत प्रतिष्ठापयति।। 6.5.31।।
छन्दसाँ वै षष्ठेनाह्नाप्तानां रसोत्यनेदत्स प्रजापति रबिभे त्पराङयञ्छन्दसां रसो लोका नत्येष्यतीति तं परस्ता च्छन्दोभि पर्यगृह्णान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभ पारिक्षित्या जगत्या कारव्ययानुष्टुभ स्तत्पुनश्छन्दस्सुरस मदधात्सरसै र्हास्य च्छन्दोभि रिष्टं भवति सरसै श्छन्दोभि र्यज्ञ न्तनुतेय एवँ वेद नाराशंसी श्शंसति प्रजा वै नरो वाक्शंस प्रजास्वेव तद्वाच न्दधाति तस्मा दिमा प्रजावदत्यो जायन्तेय एवँ वेद यदेव नाराशंसी3। शंसन्तो वै देवाश्च ऋषयश्च स्वर्गँ लोकमायंस्तथैवैत द्यजमाना श्शंसन्त एव स्वर्गँ लोकँ यन्ति ता प्रग्राहं शंसति यथा वृषाकपिँ वार्षाकपं हि वृषाकपे स्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवीव नर्देत्सहितासान्न्यूङ्खो रैभी श्शंसति रेभन्तो वै देवाश्च ऋषयश्च स्वर्गँ लोकमायंस्तथैवैत द्यजमाना रेभन्त एव स्वर्गँ लोकँ यन्तिता प्रग्राहं शंसति यथावृषाकपिँ वार्षाकपं हि वृषाकपे स्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवीवनर्दे त्सहितासा न्न्यूङ्ख पारिक्षिती श्शंसत्यग्नि र्वै परिक्षि दग्निर्हीमाप्रजा परिक्षेत्यग्निं हीमा प्रजा परिक्षियन्त्यग्नेरेव सायुज्यं सरूपतां सलोकता मश्नुतेय एवँ वेदयदेव पारिक्षिती3। सँवत्सरो वै परिक्षि त्सँवत्सरो हीमा प्रजा परिक्षेति सँवत्सरं हीमा प्रजा परिक्षियन्ति सँवत्सरस्यैव सायुज्यं सरूपतां सलोकता मश्नुतेय एवँ वेद ता प्रग्राहं शंसति यथावृषाकपिँ वार्षाकपं हि वृषाकपे स्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवीवनर्दे त्सहितासान्न्यूङ्खकारव्या श्शंसति देवा वै यत्किञ्च कल्याणङ्कर्माकुर्वंस्तत्कारव्याभि रवाप्नुवं स्तथैवैत द्यजमाना यत्किञ्च कल्याणङ्कर्म कुर्वन्ति तत्कारव्याभिराप्नुवन्ति ता प्रग्राहं शंसति यथावृषाकपिँ वार्षाकपं हि वृषाकपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवीवनर्दे त्सहितासा न्न्यूङ्खो दिशाङ्कॢप्ती श्शंसति दिश एव तत्कल्पयति ता पञ्च शंसति पञ्च वा इमा दिश श्चतस्र स्तिरश्च्य एकोर्ध्वा तासु न न्यूङ्खयेन्नैवैव च निनर्देन्नेदिमा दिशो न्यूङ्खयानीति ता अर्धर्चश श्शंसति प्रतिष्ठाया एव जनकल्पा श्शंसति प्रजा वै जनकल्पा दिश एव तत्कल्पयित्वा तासु प्रजा प्रतिष्ठापयति तासु न न्यूङ्खये न्नैवैव च निनर्दे न्नेदिमा प्रजा न्यूङ्खयानीति ता अर्धर्चश श्शंसति प्रतिष्ठाया एवेन्द्रगाथा श्शंसतीन्द्रगाथाभिर्वै देवा असुरा नभिगायाथैनानत्यायंस्तथैवैतद्यजमाना इन्द्रगाथाभि रेवाप्रियं भ्रातृव्य मभिगायाथैन मति यन्ति ता अर्धर्चश श्शंसति प्रतिष्ठाया एव।। 6.5.32।।
ऐतशप्रलापं शंसत्यैतशो ह वै मुनिरग्ने रायुर्ददर्श यज्ञस्यायातयाम मिति हैक आहुस्सोब्रवी त्पुत्रान्पुत्रका अग्ने रायु रदर्श न्तदभिलपिष्यामि यत्किञ्च वदामि तन्मे मा परिगातेति स प्रत्यपद्यतैता अश्वा आप्लवन्ते प्रतीपं प्रातिसत्वनमिति तस्याभ्यग्नि रैतशायन एत्याकालेभिहाय मुखमप्यगृह्णाददृपन्नपितेति तं होवाचापेह्यलसोभूर्यो मे वाचमवधी श्शतायुङ्गा मकरिष्यं सहस्रायुं पुरुषं पापिष्ठान्ते प्रजाङ्करोमि यो मेत्थ मसक्था इति तस्मा दाहु रभ्यग्नयऐतशायना और्वाणां पापिष्ठा इति तं हैके भूयांसं शंसन्ति स न निषेधेद्यावत्कामं शंसेत्येव ब्रूयादायुर्वा ऐतशप्रलाप आयुरेव तद्यजमानस्य प्रतारयतिय एवँ वेद यदेवैतशप्रलापा3। छन्दसां हैष रसो यदैतशप्रलाप श्छन्दस्स्वेव तद्रसन्दधाति सरसैर्हास्य च्छन्दोभि रिष्टं भवति सरसैश्छन्दोभिर्यज्ञ न्तनुतेय एवँ वेद यद्वेवैतशप्रलापा3। अयातयामावा अक्षितिरैतशप्रलापोयातयामा मे यज्ञेसदक्षितिर्मे यज्ञेसदिति तँ वा एतमैतशप्रलापं शंसति पदावग्राहँ यथानिविदन्तस्योत्तमेन पदेन प्रणौति यथानिविद प्रवह्लिका श्शंसतिप्रवह्लिकाभि र्वै देवा असुरान्प्रवह्ल्याथैना नत्यायंस्तथैवैत द्यजमाना प्रवह्लिकाभि रेवाप्रियं भ्रातृव्यं प्रवह्ल्याथैन मतियन्ति ता अर्धर्चश श्शंसति प्रतिष्ठाया एवाजिज्ञासेन्या श्शंसत्याजिज्ञासेन्याभि र्वै देवा असुरानाज्ञायाथैनानत्यायंस्तथैवैत द्यजमाना आजिज्ञासेन्याभि रेवाप्रियं भ्रातृव्य माज्ञायाथैन मतियन्ति ता अर्धर्चश श्शंसतिप्रतिष्ठाया एव प्रतिराधं शंसति प्रतिराधेन वै देवा असुरा न्प्रतिराध्याथैनानत्यायंस्तथैवैत द्यजमाना प्रतिराधेनैवाप्रियं भ्रातृव्यं प्रतिराध्याथैन मतियन्त्यतिवादं शंसत्यतिवादेन वै देवा असुरा नत्युद्याथैनानत्यायंस्तथैवैत द्यजमाना अतिवादेनैवाप्रियं भ्रातृव्य मत्युद्याथैन मतियन्ति तमर्धर्चश श्शंसति प्रतिष्ठाया एव।। 6.5.33।।
देवनीथं शंसत्यादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेस्पर्धन्त वयं पूर्व एष्यामो वयमिति ते हाङ्गिरसपूर्वे श्वस्सुत्यां स्वर्गस्य लोकस्य ददृशुस्तेग्निं प्रजिघ्युरङ्गिरसाँ वा एकोग्नि परेह्यादित्येभ्य श्श्वस्सुत्यां स्वर्गस्य लोकस्य प्रब्रूहीतिते हादित्या अग्निमेव दृष्ट्वा सद्यस्सुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवी च्छ्वस्सुत्याँ वस्स्वर्गस्य लोकस्य प्रबूम इति ते होचुरथ वयन्तुभ्यं सद्यस्सुत्यां स्वर्गस्य लोकस्य प्रबूम स्त्वयैव वयं होत्रा स्स्वर्गँ लोक मेष्याम इति स तथेत्युक्त्वा प्रत्युक्त पुन राजगाम ते होचु प्रावोचा3 इति। प्रावोचमिति होवाचाथो मे प्रतिप्रावोचन्निति नोहिन प्रत्यज्ञास्था3 इति। प्रति वा अज्ञासमिति होवाच यशसा वा एषोभ्यैति य आर्त्विज्येन तँय प्रतिरुन्धेद्यश स्स प्रतिरुन्धेत्तस्मान्न प्रत्यरौत्सीति यदि त्वस्मादपोज्जिगांसे द्यज्ञेनास्मा दपोदियात्।यदि त्वयाज्य स्स्वयमपोदित न्तस्मात्।। 6.5.34।।
ते हादित्यानङ्गिरसो याजयंस्तेभ्यो याजयद्भ्य इमां पृथिवीं पूर्णा न्दक्षिणाना मददुस्तानियं प्रतिगृहीतातपत्तान्न्यवृञ्जन्त्सा सिंही भूत्वा विजृभन्ती जनानचरत्तस्या श्शोचत्या इमे प्रदरा प्रादीर्यन्त येस्या इमे प्रदरा स्समेव हैव तत पुरा तस्मा दाहुर्न निवृत्तदक्षिणां प्रतिगृह्णीया न्नेन्माशुचा विद्धाशुचा विद्ध्यादिति यदि त्वेनां प्रतिगृह्णीया दप्रियायैनां भ्रातृव्यायदद्या त्पराहैव भवत्यथ योसौ तपतीँ3। एषोश्व श्श्वेतोरूपङ्कृत्वाश्वाभिधान्यपिहितेनात्मना प्रतिचक्रम इमँ वो नयाम इति स एष देवनीथोनूच्यत आदित्याह जरितरङ्गिरोभ्यो दक्षिणा मनयन्न्। तां ह जरित र्न प्रत्यायन्निति न हि त इमां प्रत्यायंस्तामु ह जरित प्रत्यायन्निति प्रतिहितेमु मायंस्तां ह जरितर्न प्रत्यगृभ्णन्निति न हि त इमां प्रत्यगृभ्णंस्तामु ह जरित प्रत्यगृभ्णन्निति प्रतिहितेमु मगृभ्ण न्नहानेत सन्नविचेतनानीत्येष ह वा अह्नाँ विचेतयिता जज्ञानेत सन्नपुरोगवास इति दक्षिणा वै यज्ञानां पुरोगवी यथा ह वा इदमनो पुरोगवं रिष्यत्येवं हैव यज्ञोदक्षिणो रिष्यति तस्मा दाहु र्दातव्यैव यज्ञे दक्षिणा भवत्यप्यल्पिकाप्युत श्वेत आशुपत्वा।उतो पद्याभि र्जविष्ठः।उतेमाशु मानं पिपर्ति। आदित्या रुद्रा वसवस्त्वेळते। इदं राध प्रतिगृभ्णीह्यङ्गिर इति प्रतिग्रहमेव तद्राधस ऐच्छ
न्निदं राधो बृहत्पृथु। देवा ददत्वावरम्। तद्वो अस्तु सुचेतनम्। युष्मे अस्तु दिवेदिवे।प्रत्येव गृभायतेति प्रत्येवैनमेतदजग्रभैषन्तँ वा एत न्देवनीथँ शंसति पदावग्राहँ यथानिविद न्तस्योत्तमेन पदेन प्रणौति यथानिविदः।। 6.5.35।।
भूतेच्छद श्शंसति भूतेच्छद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया तेषाँ वै देवा असुराणां भूतेच्छद्भि रेव भूतञ्छादयित्वाथैना नत्यायंस्तथैवैत द्यजमाना भूतेच्छद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतञ्छादयित्वाथैनमतियन्ति ता अर्धर्चश श्शंसति प्रतिष्ठाया एवाहनस्या श्शंसत्याहनस्याद्वै रेत स्सिच्यते रेतस प्रजा प्रजायन्ते प्रजाति मेव तद्दधाति तादश शंसति दशाक्षरा विराळन्नं विराळन्नाद्रेतस्सिच्यते रेतस प्रजा प्रजायन्ते प्रजाति मेव तद्दधाति तान्यूङ्खयत्यन्नँ वै न्यूङ्खोन्नाद्रेत स्सिच्यते रेतस प्रजा प्रजायन्ते प्रजातिमेव तद्दधाति दधिक्राव्णो अकारिष मिति दाधिक्रीं शंसति देवपवित्रँ वै दधिक्रा इदँ वा इदँ व्याहनस्याँ वाच मवादीत्तद्देवपवित्रेण वाचं पुनीते सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन च्छन्दसा वाचं पुनीते सुतासो मधुमत्तमान इति पावमानी श्शंसति देवपवित्रँ वै पावमान्य इदँ वा इदँ व्याहनस्याँ वाच मवादीत्तद्देवपवित्रेणैव वाचं पुनीते ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव च्छन्दसा वाचं पुनीतेव द्रप्सो अंशुमती मतिष्ठ दित्यैन्द्राबार्हस्पत्य न्तृचं शंसति विशो अदेवी रभ्याचरन्ती र्बृहस्पतिना युजेन्द्र स्ससाह इत्यसुरविशं ह वै देवा नभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यँ वर्ण मभिदासन्त मपाहंस्तथैवैत द्यजमाना इन्द्राबृहस्पतिभ्या मेव युजासुर्यँ वर्ण मभिदासन्तमपघ्नते तदाहु स्संशंसेत् षष्ठेहा 3 न्। न संशंसे 3त् इति। संशंसे दित्याहु कथ मन्येष्वहस्सु संशंसति कथमत्र न संशंसेदित्यथो खल्वाहु र्नैव संशंसेत्स्वर्गो वै लोक ष्षष्ठमहरसमायी वै स्वर्गो लोक कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसे त्समान न्तत्कुर्या दथ यन्न संशंसतीँ 3। तत्स्वर्गस्य लोकस्य रूप न्तस्मान्न संशंसेद्यदेव न संशंसतीँ 3।एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपि रेवयामरुत्स यत्संशंसेदपैव स एतेषु कामं राध्नुयादैन्द्रो वृषाकपि स्सर्वाणि च्छन्दांस्यैतशप्रलापस्तत्र सकाम उपाप्तो य ऐन्द्रे जागतेथेदमैन्द्राबार्हस्पत्यं सूक्त मैन्द्राबार्हस्पत्या परिधानीया तस्मान्न संशंसेन्न संशंसेत्।। 6.5.36।।
इति पञ्चमोध्यायः।। इति षष्ठपञ्चिका समाप्ता।।
॥ अथ पञ्चमाद्याये सप्तम खण्डः॥ सप्तमपञ्चिकायां प्रथमोध्यायः।।
अथात पशो र्विभक्ति स्तस्य विभागँ वक्ष्यामो हनू सजिह्वे प्रस्तोतु श्श्येनँ वक्ष उद्गातु कण्ठकाकुद्र प्रतिहर्तुर्दक्षिणा श्रोणिर्होतु स्सव्या ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यं ब्राह्मणाच्छंसिनो दक्षिणँ पार्श्वं सांस मध्वर्यो स्सव्य मुपगातॄणां सव्योंस प्रतिप्रस्थातुर्दक्षिण न्दो र्नेष्टु स्सव्यं पोतु र्दक्षिण ऊरु रच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहु रात्रेयस्य सव्य स्सदस्यस्यसद ञ्चानूकञ्च गृहपतेर्दक्षिणौ पादौ गृहपते र्व्रतप्रदस्य सव्यौ पादौ गृहपते र्भार्यायै व्रतप्रदस्यौष्ठ एनयो स्साधारणो भवति तङ्गृहपति रेव प्रशिंष्याज्जाघनीं पत्नीभ्यो हरन्ति तां ब्राह्मणायदद्यु स्स्कन्ध्याश्च मणिका स्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्धञ्च वैकर्तस्योन्नेतुरर्धञ्चैव वैकर्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्य द्यब्राह्मण स्स्याच्छिर स्सुब्रह्मण्यायै यश्श्वस्सुत्यां प्राह तस्याजिनमिळा सर्वेषां होतु र्वा ता वा एता ष्षट्त्रिंशत मेकपदा यज्ञँ वहन्ति षट्त्रिंश दक्षरा वै बृहती बार्हता स्स्वर्गा लोका प्राणांश्चैव तत्स्वर्गांश्च लोका नाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति स एष स्स्वर्ग्य पशुर्य एन मेवँ विभजन्त्यथ येतोन्यथा तद्यथासेलगा वा पापकृतो वा पशुँ विमथ्नीरंस्तादृक्तत्ताँवा एतां पशो र्विभक्तिं श्रौतऋषि र्देवभागो विदाञ्चकार तामु हाप्रोच्यैवास्मा ल्लोका दुच्चक्रामत्तामु ह गिरिजाय बाभ्रव्यायामनुष्य प्रोवाच ततो हैना मेत दर्वा ङ्मनुष्या अधीयतेधीयते।। 7.1.01।।
।। इति प्रथमोध्यायः।।
सप्तम पञ्चिकायां द्वितीयोध्यायः।।
तदाहु र्य आहिताग्नि रुपवसथे म्रियेत कथ मस्य यज्ञ स्स्यादिति नैनँ याजये दित्याहुरनभिप्राप्तो हि यज्ञं भवतीति तदाहुर्य आहिताग्नि रधिश्रितेग्निहोत्रे सान्नाय्ये वा हविष्षु वा म्रियेत का तत्र प्रायश्चित्ति रित्यत्रैवैना न्यनुपर्यादध्या द्यथासर्वाणि सन्दह्येर न्त्सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि रासन्नेषु हविष्षु म्रियेत का तत्र प्रायश्चित्ति रिति याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्य स्स्वाहेत्येवैना न्याहवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहुर्यआहिताग्नि प्रवस न्म्रियेत कथ मस्याग्निहोत्रं स्यादित्यभिवान्य वत्साया पयसा जुहुयादन्य दिवैत त्पयो यदभिवान्य वत्साया अन्य दिवैत दग्निहोत्रँ यत्प्रेतस्यापि वा यत एव कुतश्च पयसा जुहुयु रथाप्याहुरेव मेवैना नजस्रा नजुह्वत इन्धीर न्नाशरीराणा माहर्तो रिति यदि शरीराणि न विद्येर न्पर्णशर ष्षष्टि स्त्रीणि च शता न्याहृत्य तेषां पुरुषरूपक मिव कृत्वा तस्मिं स्तामावृत ङ्कुर्युरथैना न्छरीरै राहृतै स्संस्प र्श्योद्वासयेयुरध्यर्ध शत ङ्काये सक्थिनी द्विपञ्चाशे च विंशे चोरू द्विपञ्चविंशे शेषन्तु शिरस्युपरिदध्यात्सा तत्र प्रायश्चित्तिः।। 7.2. 03।।
तदाहु र्यस्याग्निहो त्र्युपावसृष्टा दुह्यमानोपविशे त्का तत्र प्रायश्चित्ति रिति ता मभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभय ङ्कृधि। पशू न्न स्सर्वा न्गोपाय नमो रुद्राय मीळ्हुष इति तामुत्थापयेदुदस्था द्देव्यदिति रायु र्यज्ञपता वधात्। इन्द्राय कृण्वती भागं मित्राय वरुणाय चेत्यथास्या उदपात्र मूधसि च मुखे चोपगृह्णीया दथैनां ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहो त्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्ति रित्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते ता मन्न मप्यादये च्छान्त्यै शान्ति र्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्ति रिति साय त्तत्र स्कन्दयेत्तदभिमृश्य जपेद् यदद्य दुग्धं पृथिवी मसृप्त यदोषधी रत्यसृप द्यदापः।पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यद्यलं होमाय स्याद्यद्युवै सर्वं सिक्तं स्यादथान्या माहूयता न्दुग्ध्वा तेन जुहुयादात्वेव श्रद्धायै होतव्यं सा तत्र प्रायश्चित्तिः।। 7.2.3।।
तदाहुर्यस्य साय न्दुग्धं सान्नाय्य न्दुष्येद्वापहरे द्वा का तत्र प्रायश्चित्ति रिति प्रातर्दुग्ध न्द्वैध ङ्कृत्वा तस्यान्यतरां भक्ति मातच्य तेन यजेत सातत्र प्रायश्चित्तिस्तदाहुर्यस्य प्रात र्दुग्धं सान्नाय्य न्दुष्येद्वापहरे द्वा का तत्र प्रायश्चित्ति रित्यैन्द्रँ वा माहेन्द्रँ वा पुरोळाश न्तस्य स्थाने निरुप्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्व मेव सान्नाय्य न्दुष्येद्वापहरे द्वा का तत्र प्रायश्चित्ति रित्यैन्द्रँ वा माहेन्द्रँ वेति समानं सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयु र्वापहरेयु र्वा का तत्र प्रायश्चित्ति रित्याज्यस्यैनानि यथादेवतं परिकल्प्य तयाज्यहविषेष्ट्या यजेतातोन्या मिष्टि मनुल्बणा न्तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः।। 7.2.4।।
तदाहु र्यस्याग्निहोत्र मधिश्रित ममेध्य मापद्येत का तत्र प्रायश्चित्ति रिति सर्वमेवैन त्स्रुच्यभि पर्यासिच्य प्राङुदेत्याहवनीये हैतां समिध मभ्यादधात्यथोत्तरत आहवनीयस्योष्णँ भस्म निरूह्य जुहुया न्मनसा वा प्राजापत्ययावर्चा तद्धुत ञ्चाहुतञ्च स यद्येकस्मि न्नुन्नीते यदि द्वयो रेष एव कल्पस्तच्चे द्व्यपनयितुं शक्नुयान्निष्षि च्यैतद्दुष्ट मदुष्ट मभिपर्यासिच्यतस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्निहोत्र मधिश्रितं स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्तिरिति तदद्भि रुपनिनये च्छान्त्यै शान्तिर्वा आपोथैन द्दक्षिणेन पाणिनाभिमृश्य जपति दिव न्तृतीय न्देवान्यज्ञोगा त्ततो मा द्रविण माष्टान्तरिक्षं तृतीयं पितॄन् यज्ञोगात्ततो मा द्रविण माष्ट पृथिवीन्तृतीयं मनुष्यान् यज्ञोगा त्ततो मा द्रविणमाष्ट ययो रोजसा स्कभिता रजांसीति वैष्णु वारुणी मृच ञ्जपति विष्णुर्वै यज्ञस्य दुरिष्टं पाति वरुण स्स्विष्ट न्तयो रुभयो रेव शान्त्यै सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्निहोत्र मधिश्रितं प्राङुदाय न्त्स्खलते वापि वा भ्रंशते का तत्र प्रायश्चित्तिरिति स यद्युप निवर्तयेत्स्वर्गा ल्लोका द्यजमान मावर्तयेदत्रैवास्मा उपविष्टायैत मग्निहोत्रपरीशेष माहरेयु स्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्ति रित्यन्यां स्रुच माहृत्य जुहुया दथैतां स्रुचं भिन्ना माहवनीयेभ्यादध्या त्प्राग्दण्डां प्रत्यक्पुष्करां सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याहवनीये हाग्नि र्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र प्रायश्चित्ति रिति स यदि प्राञ्च मुद्धरे त्प्रायतना च्च्यवेतयत्प्रत्यञ्च मसुरव द्यज्ञ न्तन्वीत यन्मन्थेद्भ्रातृव्यँ यजमानस्य जनयेद्यदनुगमये त्प्राणो यजमान ञ्जह्यात्सर्व मेवैनं सह भस्मानं समोप्यगार्हपत्यायतने निधायाथ प्राञ्च माहवनीय मुद्धरेत्सा तत्र प्रायश्चित्तिः।। 7.2.5।।
तदाहु र्यस्याग्ना वग्नि मुद्धरेयु का तत्र प्रायश्चित्तिरिति स यद्यनुपश्ये दुदूह्य पूर्व मपर न्निदध्याद्यद्य नानुपश्ये त्सोग्नयेग्निवतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अग्निनाग्नि स्समिध्यते त्वं ह्यग्ने अग्निनेत्याहुतिँ वाहवनीये जुहुया दग्नयेग्निवते स्वाहेतिसा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयौ मिथ स्संसृज्येयाताङ्का तत्र प्रायश्चित्तिरिति सोग्नये वीतयेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अग्न आ याहि वीतये यो अग्नि न्देववीतय इत्याहुतिँ वाहवनीये जुहुया दग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्य सर्व एवाग्नयो मिथ स्संसृज्येर न्का तत्र प्रायश्चित्ति रिति सोग्नये विविचयेष्टाकपालं पुरोळाश न्निर्वपेत्तस्य याज्यानुवाक्ये स्वर्णवस्तो रुषसा मरोचि त्वामग्ने मानुषी रीळते विश इत्याहुतिँ वाहवनीये जुहुया दग्नये विविचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्नयोन्यै रग्निभि स्संसृज्येर न्का तत्र प्रायश्चित्तिरिति सोग्नये क्षामवतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अक्रन्द दग्नि स्स्तनय न्निव द्यौ रधा यथा न पितर परास इत्याहुतिँ वाहवनीये जुहुया दग्नये क्षामवते स्वाहेति सा तत्र प्रायश्चित्तिः।। 7.2.6।।
तदाहु र्यस्याग्नयो ग्राम्येणाग्निना सन्दह्येर न्का तत्र प्रायश्चित्ति रिति सोग्नये सँवर्गायाष्टाकपालं पुरोळाश न्निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्टये मा नो अस्मि न्महाधन इत्याहुतिँ वाहवनीये जुहुया दग्नये सँवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्नयो दिव्येनाग्निना संसृज्येर न्का तत्र प्रायश्चित्तिरिति सोग्नयेप्सुमतेष्टाकपालं पुरोळाश न्निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वग्ने सधिष्टव मयो दधे मेधिर पूतदक्ष इत्याहुतिँ वाहवनीये जुहुया दग्नयेप्सुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्नय श्शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्ति रिति सोग्नये शुचयेष्टाकपालंपुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अग्नि श्शुचिव्रततम उदग्ने शुचय स्तवेत्याहुतिँ वाहवनीये जुहुया दग्नये शुचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु र्यस्याग्नय आरण्येनाग्निना सन्दह्येर न्का तत्र प्रायश्चित्ति रिति समेवारोपये दरणीवोल्मुकँ वामोक्षयेद्यद्याहवनीया द्यदि गार्हपत्या द्यदि न शक्नुया त्सोग्नये सँवर्गायाष्टाकपालं पुरोळाश न्निर्वपेत्तस्योक्ते याज्यानुवाक्ये आहुतिँ वाहवनीये जुहुया दग्नये सँवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः।। 7.2.7।।
तदाहुर्य आहिताग्नि रुपवसथेश्रुकुर्वीत का तत्र प्रायश्चित्ति रिति सोग्नये व्रतभृतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये त्व मग्ने व्रतभृच्छुचि र्व्रतानि बिभ्र द्व्रतपा अदब्ध इत्याहुतिँ वाहवनीये जुहुया दग्नये व्रतभृते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि रुपवसथे व्रत्य मापद्येत का तत्र प्रायश्चित्ति रिति सोग्नये व्रतपतयेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीत्याहुतिँ वाहवनीये जुहुयादग्नये व्रतपतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि रमावास्यां पौर्णमासीँ वातीया त्का तत्र प्रायश्चित्ति रिति सोग्नये पथिकृतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये वेत्था हि वेधो अध्वन आ देवाना मपि पन्था मगन्मेत्याहुतिँ वाहवनीये जुहुया दग्नये पथिकृते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वएवाग्नय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति सोग्नये तपस्वते जनद्वते पावकवतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये आ याहि तपसा जनेष्वानो याहि तपसा जनेष्वित्याहुतिँ वाहवनीये जुहुया दग्नये तपस्वते जनद्वते पावकवते स्वाहेति सा तत्र प्रायश्चित्तिः।। 7.2.8।।
तदाहुर्य आहिताग्नि राग्रयणेनानिष्ट्वा नवान्नं प्राश्नीया त्का तत्र प्रायश्चित्तिरिति सोग्नये वैश्वानराय द्वादशकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्टो दिवि पृष्टो अग्नि पृथिव्या मित्याहुतिँ वाहवनीये जुहुया दग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यदि कपाल न्नश्ये त्का तत्र प्रायश्चित्तिरिति सोश्विभ्या न्द्विकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अश्विना वर्तिरस्मदा गोमता नासत्या रथेनेत्याहुतिँ वाहवनीये जुहुया दश्विभ्यां स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यदि पवित्र न्नश्ये त्का तत्र प्रायश्चित्ति रिति सोग्नये पवित्रवतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्येपवित्रन्ते विततं ब्रह्मणस्पतेतपो ष्पवित्रँ वितत न्दिवस्पद इत्याहुतिँ वाहवनीये जुहुया दग्नये पवित्रवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यदि हिरण्य न्नश्ये त्का तत्र प्रायश्चित्ति रिति सोग्नये हिरण्यवतेष्टाकपालं पुरोळाश न्निर्वपेत्तस्य याज्यानुवाक्येहिरण्यकेशो रजसो विसारआ ते सुपर्णा अमिनन्तँ एवै रित्याहुतिँ वाहवनीये जुहुया दग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यदि प्रात रस्नातोग्निहोत्र ञ्जुहुया त्का तत्र प्रायश्चित्ति रिति सोग्नये वरुणायाष्टाकपालं पुरोळाश निर्वपे त्तस्य याज्यानुवाक्ये त्वन्नो अग्ने वरुणस्य विद्वान्त्सत्व न्नो अग्नेवमो भवोतीत्याहुतिँ वाहवनीये जुहुया दग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यदि सूतकान्नं प्राश्नीया त्का तत्र प्रायश्चित्ति रिति सोग्नये तन्तुमतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्येतन्तु न्तन्व न्रजसो भानु मन्वि ह्यक्षानहो नह्यत नोत सोम्याइत्याहुतिँ वाहवनीये जुहुया दग्नये तन्तुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्जीवेमृतशब्दं श्रुत्वा का तत्र प्रायश्चित्ति रिति सोग्नये सुरभिमतेष्टाकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये अग्नि र्होता न्यसीद द्यजीयान्त्साध्वी मक र्देववीति न्नो अद्येत्याहुतिँ वाहवनीये जुहुया दग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्नि र्यस्य भार्या गौर्वायमौ जनये त्का तत्र प्रायश्चित्ति रिति सोग्नये मरुत्वतेत्रयोदशकपालं पुरोळाश न्निर्वपे त्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेरा इवे दचरमा अहेवेत्याहुतिँ वाहवनीये जुहुया दग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहु रपत्नीकोप्यग्निहोत्र माहरे3त्। नाहरे 3 त् इति। आहरे दित्याहुर्यदि नाहरेदनद्धा पुरुष कोनद्धा पुरुष इति न देवा न्न पितॄ न्न मनुष्या निति तस्मा दपत्नीकोप्यग्निहोत्र माहरेत्तदेषाभियज्ञगाथा गीयते। यजे त्सौत्रामण्या मपत्नीको प्यसोमपः। मातापितृभ्या मनृणार्था द्यजेति वचना च्छ्रुतिरिति तस्मा त्सौम्यँ याजयेत्।। 7.2.9।।
तदाहु र्वाचापत्नीकोग्निहोत्र ङ्कथमेव जुहोति निविष्टेमृतापत्नी नष्टावाग्निहोत्र ङ्कथ मग्निहोत्र ञ्जुहोति पुत्रा न्पौत्रा न्नप्तॄ नित्याहु रस्मिंश्च लोकेमुष्मिंश्चास्मि न्लोकेयं स्वर्गोस्वर्गेण स्वर्गँ लोक मारुरोहेत्यमुष्यैव लोकस्य सन्तति न्धारयति यस्यैषां पत्नी न्नैच्छेत्तस्मा दपत्नीकस्याधान ङ्कुर्व न्त्यपत्नीकोग्निहोत्र ङ्कथ मग्निहोत्र ञ्जुहोति श्रद्धा पत्नी सत्यँ यजमानश्श्रद्धा सत्य न्तदि त्युत्तमं मिथुनंश्रद्धया सत्येन मिथुनेन स्वर्गा न्लोका न्जयतीति।। 7.2.10।।
तदाहु र्यद्दर्शपूर्णमासयो रुपवसति न ह वाअव्रतस्य देवा हवि रश्नन्ति तस्मा दुपवस त्युत मे देवा हवि रश्नीयुरिति पूर्वां पौर्णमासी मुपवसे दिति पैङ्ग्य मुत्तरा मिति कौषीतकँ या पूर्वा पौर्णमासी सानुमति र्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूर्यां पर्यस्त मिया दभ्युदिया दिति सातिथि पूर्वां पौर्णमासी मुपवसे दनिर्ज्ञाय पुरस्ता दमावास्याया ञ्चन्द्रमसँयदुपैति यद्यजते तेन सोम ङ्क्रीणन्ति तेनोत्तरा मुत्तरा मुपवसे दुत्तराणि ह वै सोमो यजते सोम मनुदैवतमेतद्वै देवसोमँ यच्चन्द्रमास्तस्मा दुत्तरा मुपवसेत्।। 7.2.11।।
तदाहु र्यस्याग्नि मनुद्धृत मादित्योभ्युदियाद्वाभ्यस्त मिया द्वा प्रणीतो वा प्राग्घोमा दुपशाम्येत्का तत्र प्रायश्चित्ति रिति हिरण्यं पुरस्कृत्य साय मुद्धरे ज्ज्योतिर्वै शुक्रं हिरण्यञ्ज्योति श्शुक्र मसौ तदेव त ज्ज्योति श्शुक्रं पश्य न्नुद्धरति रजत मन्तर्धाय प्रात रुद्धरेदेत द्रात्रिरूपं पुरासम्भेदा च्छायाना माहवनीय मुद्धरेन्मृत्युर्वै तम श्छाया तेनैव तज्ज्योतिषा मृत्यु न्तम श्छायान्तरति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीया वन्तरेणानोवारथो वाश्वावा प्रतिपद्येत का तत्र प्रायश्चित्ति रिति नैन न्मनसि कुर्या दित्याहु रात्म न्यस्य हिता भवन्तीति तच्चे न्मनसि कुर्वीत गार्हपत्या दविच्छिन्ना मुदकधारां हरेत्तन्तु न्तन्व न्रजसो भानु मन्विही त्याहवनीया त्सा तत्र प्रायश्चित्तिस्तदाहु कथ मग्नी नन्वादधानो न्वाहार्यपचन माहारये 3 त्। नाहारये 3 त् इति।आहारये दित्याहु प्राणान् वा एषोभ्यात्म न्धत्ते योग्नीनाधत्ते तेषामेषोन्नादतमो भवति यदन्वाहार्यपचनस्तस्मि न्नेता माहुति ञ्जुहोत्यग्नयेन्नादायान्नपतये स्वाहेत्यन्नादो हान्नपति र्भवत्यश्नुते प्रजयान्नाद्यँय एवँ वेदान्तरेण गार्हपत्याहवनीयौ होष्य न्त्सञ्चरे तैतेन ह वा एनं सञ्चरमाण मग्नयो विदुरय मस्मासु होष्यतीत्येतेन ह वा अस्य सञ्चरमाणस्य गार्हपत्याहवनीयौ पाप्मान मपहत स्सोपहतपाप्मोर्ध्व स्स्वर्गँ लोक मेतीति वै ब्राह्मण मुदाहरन्ति तदाहु कथ मग्नी न्प्रवत्स्य न्नुपतिष्ठेत प्रोष्यवा प्रत्येत्याहरह र्वेति तूष्णी मित्याहुस्तूष्णीँ वै श्रेयसआकाङ्क्षन्तेथाप्याहुरहरहर्वाएते यजमानस्याश्रद्धयोद्वासना त्प्रप्लावना द्बिभ्यति तानुपतिष्ठेतैवाभयँ वोभयं मेस्त्वि त्यभयं हैवास्मै भवत्यभयं हैवास्मै भवति।। 7.2.12।।
इति द्वितीयोध्यायः।।
सप्तमपञ्चिकायां तृतीयोध्यायः।।
ॐ हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आसतस्य ह शत ञ्जाया बभूवु स्तासुपुत्र न्न लेभेतस्य ह पर्वतनारदौ गृह ऊषतु स्सहनारदं पप्रच्छ यन्न्विमं पुत्र मिच्छन्ति ये विजानन्ति ये चन।
किं स्वित्पुत्रेण विन्दते तन्मआ चक्ष्व नारदेति स एकया पृष्टो दशभि प्रत्युवाच।।
ऋण मस्मि न्त्सन्नय त्यमृतत्वञ्च गच्छति।
पिता पुत्रस्य जातस्य पश्येच्चे ज्जीवतो मुखम्।।
यावन्त पृथिव्यां भोगा यावन्तो जातवेदसि।
यावन्तो अप्सु प्राणिनां भूया न्पुत्रे पितु स्ततः।।
शश्वत्पुत्रेण पितरोत्याय न्बहुल न्तमः।
आत्मा हि जज्ञ आत्मन स्स इरावत्यतितारिणी।।
किन्नु मल ङ्किमजिनङ्किमु श्मश्रूणि किन्तपः।
पुत्रँ ब्रह्माण इच्छध्वं स वै लोको वदावदः।।
अन्नं ह प्राण श्शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः।
सखा ह जाया कृपणं ह दुहिता ज्योति र्ह पुत्र परमे व्योमन्न्।।
पति र्जायां प्रविशति गर्भो भूत्वा स मातरम्।
तस्यां पुन र्नवो भूत्वा दशमे मासि जायते।।
तज्जाया जाया भवति यदस्या ञ्जायते पुनः।
आभूति रेषाभूतिर्बीज मेत न्निधीयते।।
देवा श्चैता मृषयश्च तेज स्समभर न्महत्।
देवा मनुष्या नब्रुव न्नेषा वो जननी पुनः।।
नापुत्रस्य लोकोस्तीति तत्सर्वे पशवो विदुः।
तस्मा त्तु पुत्रो मातरं स्वसार ञ्चाधिरोहति।।
एष पन्था उरुगाय स्सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः।
तंपश्यन्ति पशवो वयांसि च तस्मा त्ते मात्रापि मिथुनीभवन्तीति हास्माआख्याय।।7.3.13।।
अथैन मुवाच वरुणं राजान मुपधाव पुत्रो मे जायता न्तेन त्वायजा इति तथेति स वरुणं राजान मुपससार पुत्रो मे जायता न्तेन त्वायजा इति तथेति तस्य ह पुत्रो जज्ञे रोहितो नाम तंहोवाचाजनि वै ते पुत्रो यजस्व मानेनेति सहोवाच यदा वै पशु र्निर्दशो भवत्यथ स मेध्यो भवति निर्दशोन्वस्त्वथ त्वायजा इति तथेति स ह निर्दश आस तं होवाचनिर्दशोन्वभूद्यजस्व मानेनेति सहोवाच यदा वै पशो र्दन्ता जायन्तेथ स मेध्यो भवति दन्ता न्वस्यजायन्ता मथ त्वायजा इति तथेति तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व मानेनेति सहोवाच यदा वै पशो र्दन्ता पद्यन्तेथ स मेध्यो भवति दन्ता न्वस्य पद्यन्ता मथ त्वायजा इति तथेति तस्य ह दन्ता पेदिरे तंहोवाचापत्सतवा अस्य दन्ता यजस्व मानेनेति सहोवाच यदा वै पशोर्दन्ता पुन र्जायन्तेथ स मेध्यो भवति दन्ता न्वस्य पुन र्जायन्ता मथ त्वायजा इति तथेति तस्य ह दन्ता पुन र्जज्ञिरे तं होवाचाज्ञतवा अस्य पुन र्दन्ता यजस्व मानेनेति सहोवाच यदा वै क्षत्रिय स्सान्नाहुको भवत्यथ स मेध्यो भवति सन्नाह न्नु प्राप्नोत्वथ त्वायजा इति तथेति सह सन्नाहं प्रापत्तं होवाच सन्नाह न्नु प्राप्नोद्यजस्वमानेनेति स तथेत्युक्त्वा पुत्र मामन्त्रयामास ततायँ वै मह्य न्त्वा मददा द्धन्त त्वयाहमिमँ यजा इति स हनेत्युक्त्वा धनु रादायारण्य मपातस्थौ स सँवत्सर मरण्ये चचार।। 7.3.14।।
अथ हैक्ष्वाकँ वरुणो जग्राह तस्य होदर ञ्जज्ञे तदुह रोहित श्शुश्रावसोरण्या द्ग्राम मेयायतमिन्द्र पुरुषरूपेण पर्येत्योवाच।।
नानाश्रान्ताय श्री रस्तीति रोहितशुश्रुम।पापो नृषद्वरोजन इन्द्र इच्चरत स्सखाचरैवेति
चरैवेति वै मा ब्राह्मणोवोचदिति ह। द्वितीयं सँवत्सर मरण्ये चचार सोरण्या द्ग्राम मेयाय तमिन्द्र पुरुषरूपेण पर्येत्योवाच।।
पुष्पिण्यौ चरतो जङ्घे भूष्णु रात्मा फलग्रहिः। शेरेस्य सर्वे पाप्मान श्श्रमेण प्रपथे हताश्चरैवेति
चरैवेति वै मा ब्राह्मणोवोच दिति ह।तृतीयं सँवत्सर मरण्ये चचार सोरण्या द्ग्राम मेयायतमिन्द्र पुरुषरूपेण पर्येत्योवाच।।
आस्ते भग आसीनस्योर्ध्व स्तिष्ठति तिष्ठतः।शेते निपद्यमानस्य चराति चरतो भगश्चरैवेति
चरैवेति वै मा ब्राह्मणो वोच दिति ह। चतुर्थं सँवत्सर मरण्ये चचारसोरण्या द्ग्राम मेयायतमिन्द्र पुरुषरूपेण पर्येत्योवाच।।
कलि श्शयानो भवति– सञ्जिहान स्तु द्वापरः। उत्तिष्ठंस्त्रेता भवति कृतं संपद्यते चरंश्चरैवेति
चरैवेति वै मा ब्राह्मणो वोच दिति ह।पञ्चमं सँवत्सर मरण्ये चचार सोरण्या द्ग्राम मेयायतमिन्द्र पुरुषरूपेण पर्येत्योवाच।।
चरन्वै मधु विन्दति चरन्त्स्वादु मुदुम्बरम्। सूर्यस्य पश्य श्रेमाणँ यो न तन्द्रयते चरंश्चरैवेति
चरैवेति वै मा ब्राह्मणोवोच दिति ह।षष्ठं सँवत्सर मरण्ये चचार सोजीगर्तं सौयवसि मृषि मशनया परीत मरण्य उपेयायतस्य हत्रय पुत्रा आसु श्शुनपुच्छ श्शुन श्शेप श्शुनो लाङ्गूल इति तं होवाच ऋषेह न्ते शत न्ददा म्यहमेषा मेकेनात्मान न्निष्क्रीणा इतिस ज्येष्ठं पुत्र न्निगृह्णान उवाच नन्विम मिति नो एवेम मिति कनिष्ठं माता तौ ह मध्यमे संपादयाञ्चक्रतु श्शुनश्शेपे तस्य ह शत न्दत्त्वा स त मादाय सोरण्या द्ग्राम मेयाय स पितर मेत्योवाच ततहन्ताह मनेनात्मान न्निष्क्रीणा इति स वरुणं राजान मुपससारानेन त्वायजा इति तथेति भूयान् वै ब्राह्मणः क्षत्रिया दिति वरुण उवाच तस्मा एतं राजसूयँ यज्ञक्रतुं प्रोवाच तमेत मभिषेचनीये पुरुषं पशु मालेभे।। 7.3.15।।
तस्य ह विश्वामित्रो होतासी ज्जमदग्नि रध्वर्यु र्वसिष्ठो ब्रह्मायास्य उद्गातातस्मा उपाकृताय नियोक्तार न्न विविदुस्सहोवाचाजीगर्त स्सौयवसि र्मह्य मपरं शत न्दत्ताहमेन न्नियोक्ष्यामीति तस्मा अपरं शत न्ददुस्तं स1निनियोज तस्मा उपाकृताय नियुक्तायाप्रीताय पर्यग्निकृताय विशसितार न्न विविदु स्सहोवाचाजीगर्त स्सौयवसि र्मह्य मपरं शत न्दत्ताह मेनँ विशसिष्यामीति तस्मा अपरं शत न्ददु स्सोसि न्निश्शान एयायाथ ह शुनश्शेप ईक्षाञ्चक्रेमानुषमिव वै मा विशसिष्यन्ति हन्ताह न्देवता उपधावामीतिस प्रजापति मेव प्रथम न्देवताना मुपससार कस्य नूनङ्कतमस्यामृताना मित्येतयर्चा तं प्रजापतिरुवाचाग्निर्वै देवाना न्नेदिष्ठ स्तमेवोपधावेति सोग्नि मुपससाराग्नेर्वयं प्रथमस्यामृताना मित्येतयर्चा तमग्नि रुवाच सविता वै प्रसवाना मीशे तमेवोपधावेति स सवितार मुपससाराभि त्वा देव सवित रित्येतेन तृचेन तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोसि तमेवोपधावेति स वरुणं राजान मुपससारात उत्तराभि रेकत्रिंशता तँ वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतम स्त न्नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोग्नि न्तुष्टावात उत्तराभि र्द्वाविंशत्या तमग्नि रुवाच विश्वा न्नु देवा न्त्स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वा न्देवां स्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा तँ विश्वेदेवा ऊचु रिन्द्रो वै देवाना मोजिष्ठो बलिष्ठ स्सहिष्ठ स्सत्तम पारयिष्णुतमस्तन्नु स्तु ह्यथ त्वोत्स्रक्ष्याम इति स इन्द्र न्तुष्टाव यच्चिद्धि सत्यसोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिस्तस्मा इन्द्र स्स्तूयमान प्रीतो मनसा हिरण्यरथ न्ददौ तमेतया प्रतीयाय शश्व दिन्द्र इति तमिन्द्र उवाचाश्विनौ नु स्तु ह्यथ त्वोत्स्रक्ष्याम इति सोश्विनौ तुष्टावात उत्तरेण तृचेन तमश्विना ऊचतु रुषस न्नु स्तु ह्यथ त्वोत्स्रक्ष्याम इति सउषस न्तुष्टावात उत्तरेण तृचेन तस्य हस्मर्च्यृच्युक्तायाँ विपाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्या मेवर्च्युक्तायाँ विपाशो मुमुचेगद ऐक्ष्वाक आस।। 7.3.16।।
तमृत्विज ऊचु स्त्वमेव नोस्याह्न स्संस्था मधिगच्छेत्यथ हैतं शुनश्शेपोञ्जस्सव न्ददर्श तमेताभि श्चतसृभि रभिसुषाव यच्चिद्धि त्व ङ्गृहेगृह इत्यथैन न्द्रोणकलश मभ्यवनिनायोच्छिष्ट ञ्चम्वो र्भरेत्येतयर्चाथ हास्मि न्नन्वारब्धेपूर्वाभि श्चतसृभि स्सस्वाहाकाराभि र्जुहवाञ्चकाराथैन मवभृथ मभ्यवनिनाय त्वन्नो अग्ने वरुणस्य विद्वा नित्येताभ्यामथैन मतऊर्ध्व मग्नि माहवनीय मुपस्थापयाञ्चकार शुन श्चिच्छेप न्निदितं सहस्रा दित्यथ ह शुनश्शेपो विश्वामित्रस्याङ्क माससाद सहोवाचाजीगर्त स्सौयवसि र्ऋषे पुन र्मे पुत्र न्देहीति नेति होवाच विश्वामित्रो देवा वा इमं मह्य मरासतेति सहदेवरातो वैश्वामित्र आसतस्यैते कापिलेयबाभ्रवास्स होवाचाजीगर्त स्सौयवसि स्त्वँ वेहि विह्वयावहा इति सहोवाचाजीगर्त स्सौयवसि
राङ्गिरसो जन्मना स्याजीगर्ति श्श्रुत कविः।ऋषे पैतामहा त्तन्तो र्मापगा पुन रेहि मामिति सहोवाच शुनश्शेपो
दर्शु स्त्वाशासहस्त न्नयच्छूद्रे ष्वलप्सत।गवा न्त्रीणि शतानि त्व मवृणीथा मदङ्गिर इति सहोवाचाजीगर्त स्सौयवसि
स्तद्वै माताततपति पाप ङ्कर्ममयाकृतम्। तदह न्निह्नवे तुभ्यं प्रतियन्तु शता गवामिति सहोवाच शुनश्शेपो
यस्सकृ त्पापक ङ्कुर्यात्कुर्या देन त्ततोपरम्।नापागा श्शौद्रा न्न्यायादसन्धेय न्त्वयाकृत मित्यसन्धेयमिति ह विश्वामित्र उप पपाद सहोवाच विश्वामित्रो
भीम एव सौयवसि श्शासेन विशिशासिषुः।
अस्था न्मैतस्य पुत्रो भू र्ममैवोपेहि पुत्रतामिति सहोवाच शुनश्शेप
स्स वै यथानो ज्ञपया राजपुत्र तथावद।
यथैवाङ्गिरस स्सन्नुपेया न्तव पुत्रता मिति सहोवाच विश्वामित्रो
ज्येष्ठो मे त्वं पुत्राणां स्या स्तव श्रेष्ठा प्रजा स्यात्।
उपेयादैवं मे दाय न्तेन वै त्वोपमन्त्रय इति सहोवाच शुनश्शेप
स्संज्ञानानेषु वै ब्रूयात्सौहार्द्याय मे श्रियै।
यथाहं भरतऋषभोपेया न्तव पुत्रता मित्यथ ह विश्वामित्र पुत्रा नामन्त्रयामास
मधुच्छन्दा श्शृणोतन ऋषभो रेणु रष्टकः।
ये के च भ्रातरस्थनास्मै ज्यैष्ठ्याय कल्पध्वमिति।।7.3.17।।
तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसु पञ्चाश देव ज्यायांसो मधुच्छन्दस पञ्चाश त्कनीयांसस्तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननुव्याजहारान्तान् व प्रजाभक्षीष्टेति त एतेन्ध्रा पुण्ड्रा श्शबरा पुलिन्दा मूतिबा इत्युदन्त्याबहवो भवन्ति वैश्वामित्रा दस्यूनां भूयिष्ठास्सहोवाच मधुच्छन्दा
पञ्चाशतासार्धँ यन्न पिता सञ्जानीते तस्मिंस्तिष्ठामहे वयम्।
पुरस्त्वा सर्वे कुर्महे त्वा मन्वञ्चो वयं स्मसीत्यथ ह विश्वामित्रप्रतीतपुत्रां स्तुष्टाव
ते वै पुत्रा पशुमन्तो वीरवन्तो भविष्यथ।
ये मानं मेनुगृह्णन्तो वीरवन्त मकर्तमा।।
पुरएत्रा वीरवन्तो देवरातेन गाथिनाः।
सर्वेराध्या स्स्थ पुत्रा एष व स्सद्विवाचनम्।।
एष व कुशिका वीरो देवरात स्तमन्वित।
युष्मांश्च दायं म उपेता विद्याँ यामु च विद्मसि।।
ते सम्यञ्चो वैश्वामित्रा स्सर्वे साकं सरातयः।
देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः।।
अधीयत देवरातो रिक्थयो रुभयो र्ऋषिः।
जह्नूना ञ्चाधिपत्ये दैवे वेदे च गाथिनाम्।।
तदेत त्परऋक्शतगाथं शौनश्शेप माख्यान न्तद्धोता राज्ञेभिषिक्तायाचष्टे हिरण्यकशिपा वासीन आ चष्टेहिरण्यकशिपा वासीन प्रतिगृणाति यशो वै हिरण्यँ यशसैवैन न्तत्समर्धय त्योमि त्यृच प्रतिगर एव न्तथेति गाथाया ओमिति वै दैव न्तथेति मानुषन्दैवेन चैवैन न्तन्मानुषेण च पापा देनस प्रमुञ्चति तस्मा द्यो राजा विजिती स्या दप्ययजमान आख्यापयेतैवैत च्छौनश्शेप माख्यानन्न हास्मि न्नल्प ञ्चनैन परिशिष्यते सहस्र माख्यात्रे दद्या च्छतं प्रतिगरित्र एतेचैवासने श्वेतश्चाश्वतरीरथो होतु पुत्रकामा हाप्याख्यापयेर न्लभन्ते ह पुत्रा न्लभन्ते ह पुत्रान्।। 7.3.18।।
इति तृतीयोध्यायः।।
सप्तम पञ्चिकायां चतुर्थोध्यायः।।
ॐ प्रजापति र्यज्ञ मसृजत यज्ञं सृष्ट मनु ब्रह्म क्षत्रे असृज्येतां ब्रह्मक्षत्रे अनु द्वय्य प्रजा असृज्यन्त हुताद श्चाहुतादश्च ब्रह्मैवानुहुतादः क्षत्र मन्वहुताद एता वै प्रजा हुतादोयद्ब्राह्मणा अथैता अहुतादो यद्राजन्यो वैश्य श्शूद्रस्ताभ्यो यज्ञ उदक्रामत्तं ब्रह्मक्षत्रे अन्वैताँ यान्येव ब्रह्मण आयुधानि तै र्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथ कवच इषुधन्व तङ्क्षत्र मनन्वाप्य न्यवर्ततायुधेभ्यो हस्मास्य विजमान पराङेवैत्यथैनं ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्ता न्निरुद्ध्यातिष्ठत्स आप्त परस्ता न्निरुद्ध स्तिष्ठन्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्मा द्धाप्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितोथैन त्क्षत्र मन्वागच्छ त्तदब्रवीदुपमास्मिन् यज्ञे ह्वयस्वेति तत्तथे त्यब्रवीत्तद्वै निधाय स्वा न्यायुधानि ब्रह्मण एवायुधै र्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञ मुपावर्तस्वेति तथेति तत्क्षत्र न्निधाय स्वान्यायुधानि ब्रह्मण एवायुधै र्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञ मुपावर्तत तस्मा द्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वा न्यायुधानिब्रह्मण एवायुधै र्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञ मुपावर्तते।। 7.4. 19।।
अथातो देवयजनस्यैव याच्ञस्तदाहु र्यद्ब्राह्मणो राजन्यो वैश्यो दीक्षिष्यमाणः क्षत्रिय न्देवयजनँ याचति क ङ्क्षत्रियो याचे दिति दैव ङ्क्षत्रँ याचे दित्याहुरादित्यो वै दैव ङ्क्षत्र मादित्य एषां भूताना मधिपतिस्स यदह र्दीक्षिष्यमाणो भवति तदह पूर्वाह्ण एवोद्यन्त मादित्य मुपतिष्ठेतेदं श्रेष्ठ ञ्ज्योतिषा ञ्ज्योति रुत्तमम्। देवसवित र्देवयजनं मे देहि देवयज्याया इति देवयजनँ याचति स यत्तत्र याचित उत्तरां सर्पत्योन्तथा ददामीति हैव तदाह तस्य हन काचन रिष्टि र्भवति देवेन सवित्रा प्रसूत स्योत्तरोत्तरिणीं ह श्रियमश्नुतेश्नुते ह प्रजाना मैश्वर्य माधिपत्यँ य एव मुपस्थाय याचित्वा देवयजन मध्यवसाय दीक्षते क्षत्रिय स्सन्न्।।7.4. 20।।
अथात इष्टापूर्तस्यापरिज्यानिःक्षत्रियस्य यजमानस्य स पुरस्ता द्दीक्षाया आहुति ञ्जुहुया च्चतुर्गृहीत माज्य माहवनीय इष्टापूर्तस्यापरिज्यान्यै
पुनर्न इन्द्रो मघवा ददातु। ब्रह्म पुन रिष्टं पूर्तन्दात्स्वाहे त्यथानूबन्ध्यायै समिष्टयजुषा मुपरिष्टात्
पुनर्नो अग्नि र्जातवेदा ददातु। क्षत्रं पुनरिष्टं पूर्त न्दात्स्वाहेति सैषेष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य यदेते आहुती तस्मा देते होतव्ये।। 7.4.21।।
तदु हस्माह सौजात आराळ्हि रजीतपुनर्वण्यँ वा एतद्यदेतेआहुती इति यथा ह कामयेत तथैते कुर्याद्य इतोनुशासन ङ्कुर्यादितीमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्ममा क्षत्रा द्गोपायतु ब्रह्मणे स्वाहेति तत्तदितीँ3। ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुन र्जायते यो दीक्षते तं ब्रह्म प्रपन्न ङ्क्षत्र न्न परिजिनाति ब्रह्ममा क्षत्राद्गोपाय त्वित्याह यथैनं ब्रह्म क्षत्रा द्गोपायेद्ब्रह्मणे स्वाहेति तदेन त्प्रीणाति तदेन त्प्रीत ङ्क्षत्रा द्गोपायत्यथानूबन्ध्यायै समिष्टयजुषा मुपरिष्टात्
क्षत्रं प्रपद्ये क्षत्रं मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदितीँ ‘3’।क्षत्रँ वा एष प्रपद्यते यो राष्ट्रं प्रपद्यते क्षत्रं हि राष्ट्र न्तङ्क्षत्रं प्रपन्नं ब्रह्म न परिजिनाति क्षत्रं मा ब्रह्मणो गोपाय त्वित्याहयथैन ङ्क्षत्रं ब्रह्मणो गोपायेत्क्षत्राय स्वाहेति तदेन त्प्रीणाति तदेन त्प्रीतं ब्रह्मणो गोपायति सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्रियस्य यजमानस्य यदेते आहुती तस्मादेते एव होतव्ये।। 7.4.22।।
अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभ श्छन्दसा पञ्चदश स्स्तोमेन सोमो राज्येन राजन्यो बन्धुना सह दीक्षमाण एव ब्राह्मणता मभ्युपैति यत्कृष्णाजिन मध्यूहति यद्दीक्षितव्रत ञ्चरति यदेनं ब्राह्मणा अभि सङ्गच्छन्तेतस्य ह दीक्षमाणस्येन्द्र एवेन्द्रिय मादत्ते त्रिष्टुब्वीर्यं पञ्चदश स्स्तोम आयु स्सोमो राज्यं पितरो यश स्कीर्तिमन्यो वा अय मस्म द्भवति ब्रह्म वा अयं भवति ब्रह्म वा अय मुपावर्तत इति वदन्तस्स पुरस्ता द्दीक्षाया आहुतिं हुत्वाहवनीय मुपतिष्ठेतनेन्द्रा द्देवताया एमि न त्रिष्टुभ श्छन्दसो न पञ्चदशा त्स्तोमान्न सोमा द्राज्ञो न पित्र्या द्बन्धोर्मा म इन्द्र इन्द्रिय मादित मा त्रिष्टुब्वीर्यं मा पञ्चदश स्स्तोम आयु र्मा सोमो राज्यं मा पितरो यश स्कीर्तिं सहेन्द्रियेण वीर्येणायुषा राज्येन यशसा बन्धुनाग्नि न्देवता मुपैमि गायत्री ञ्छन्द स्त्रिवृतं स्तोमं सोमं राजानं ब्रह्म प्रपद्ये ब्राह्मणो भवामीति
तस्य हनेन्द्र इन्द्रिय मादत्ते न त्रिष्टु ब्वीर्यन्न पञ्चदश स्स्तोम आयुर्न सोमो राज्यन्न पितरो यश स्कीर्तिँ य एव मेता माहुतिं हुत्वाहवनीय मुपस्थाय दीक्षते क्षत्रिय स्सन्न्।। 7.4.23।।
अथाग्नेयो वै देवतया क्षत्रियो दीक्षितो भवति गायत्र श्छन्दसा त्रिवृ त्स्तोमेन ब्राह्मणो बन्धुना सहोदवस्य न्नेव क्षत्रियता मभ्युपैति तस्य होदवस्यतोग्निरेव तेज आदत्ते गायत्री वीर्य न्त्रिवृत्स्तोम आयु र्ब्राह्मणा ब्रह्म यशस्कीर्तिमन्यो वा अय मस्म द्भवति क्षत्रँ वा अयं भवति क्षत्रँ वा अय मुपावर्तत इति वदन्तस्सोनूबन्ध्यायै समिष्टयजुषा मुपरिष्टा द्धुत्वाहुति माहवनीय मुपतिष्ठेतनाग्ने र्देवताया एमि न गायत्र्या श्छन्दसो न त्रिवृत स्स्तोमान्न ब्रह्मणो बन्धोर्मा मेग्निस्तेज आदितमा गायत्री वीर्यं मा त्रिवृ त्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्तिं सहतेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्र न्देवता मुपैमि त्रिष्टुभ ञ्छन्द पञ्चदशं स्तोमं सोमं राजानङ्क्षत्रं प्रपद्ये क्षत्रियो भवामि।।
देवा पितर पितरो देवा योस्मि स सन् यजे। स्वं म इद मिष्टं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम्।।
तस्य मेय मग्नि रुपद्रष्टायँ वायु रुपश्रोतासा वादित्योनुख्या तेद महँ य एवास्मि सोस्मीतितस्य ह नाग्नि स्तेज आदत्ते न गायत्री वीर्यन्न त्रिवृ त्स्तोम आयुर्न ब्राह्मणा ब्रह्म यश स्कीर्तिँ य एव मेता माहुतिं हुत्वाहवनीय मुपस्था योदवस्यति क्षत्रिय स्सन्न्।। 7.4.24।।
अथातो दीक्षाया आवेदनस्यैव तदाहु र्यद्ब्राह्मणस्य दीक्षितस्य ब्राह्मणोदीक्षिष्टेति दीक्षा मावेदयन्ति कथ ङ्क्षत्रियस्यावेदये दिति यथैवैत द्ब्राह्मणस्य दीक्षितस्य ब्राह्मणोदीक्षिष्टेति दीक्षा मावेदयन्त्येव मेवैत त्क्षत्रियस्यावेदयेत्पुरोहितस्यार्षेयेणेति तत्तदितीँ3।निधाय वा एष स्वा न्यायुधानि ब्रह्मण एवायुधै र्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञ मुपावर्तत तस्मा त्तस्य पुरोहितस्यार्षेयेण दीक्षा मावेदयेयुपुरोहितस्यार्षेयेण प्रवरं प्रवृणीरन्न्।। 7.4.25।।
अथातो यजमानभागस्यैव तदाहु प्राश्नीया त्क्षत्रियो यजमानभागा3म्। न प्राश्नीया3त् इति। यत्प्राश्नीया दहुता द्धुतं प्राश्य पापीया न्त्स्याद्यन्न प्राश्नीयाद्यज्ञा दात्मान मन्तरियाद्यज्ञो वै यजमानभाग स्स ब्रह्मणे परिहृत्य पुरोहितायतनँ वा एत त्क्षत्रियस्य यद्ब्रह्मार्धात्मो ह वा एष क्षत्रियस्य यत्पुरोहितउपाह परोक्षेणैव प्राशितरूप माप्नोति नास्य प्रत्यक्षं भक्षितो भवति यज्ञ उ ह वा एष प्रत्यक्षँ यद्ब्रह्मा ब्रह्मणि हि सर्वो यज्ञ प्रतिष्ठितो यज्ञे यजमानो यज्ञ एव तद्यज्ञ मप्यत्यर्जन्ति यथाप्स्वापो यथाग्ना वग्निन्तद्वै नातिरिच्यते तदेन न्न हिनस्ति तस्मात्स ब्रह्मणे परिहृत्योग्नौ हैके जुह्वति प्रजापते र्विभा न्नाम लोक स्तस्मिं स्त्वा दधामि सह यजमानेन स्वाहेति तत्तथा न कुर्याद्यजमानो वै यजमानभागो यजमानं ह सोग्नौ प्रवृणक्ति य एनन्तत्र ब्रूया द्यजमान मग्नौ प्रावार्क्षी प्रास्याग्नि प्राणा न्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथास्यात्तस्मा त्तस्याशा न्नेया दाशा न्नेयात्।। 7.4.26।।इति चतुर्थोध्यायः।।
सप्तम पञ्चिकायां पञ्चमोध्यायः।।
ॐ विश्वन्तरो ह सौषद्मन श्श्यापर्णा न्परिचक्षाणो विश्यापर्णँ यज्ञ माजह्रे तद्धानुबुध्य श्यापर्णा स्तँ यज्ञ माजग्मुस्ते ह तदन्तर्वे द्यासाञ्चक्रिरे तान् ह दृष्ट्वोवाच पापस्य वा इमे कर्मण कर्तार आसतेपूतायै वाचो वदितारो यच्छ्यापर्णा इमा नुत्थापय तेमे मेन्तर्वेदि मासिषतेति तथेति तानुत्थापयाञ्चक्रुस्ते होत्थाप्यमानारुरुविरेये तेभ्यो भूतवीरेभ्यो सितमृगा कश्यपानां सोमपीथ मभिजिग्यु पारिक्षितस्य जनमेजयस्य विकश्यपे यज्ञे तैस्ते तत्र वीरवन्त आसु कस्स्वि त्सोस्माकास्ति वीरोय इमं सोमपीथ मभिजेष्यतीत्यय मह मस्मि वो वीर इति होवाच रामो मार्गवेयो रामो हास मार्गवेयोनूचान श्श्यापर्णीयस्तेषां होत्तिष्ठता मुवाचापिनु राज न्नित्थँविदँ वेदे रुत्थापयन्तीति यस्त्व ङ्कथँ वेत्थ ब्रह्मबन्ध विति।। 7.5.27।।
यत्रेन्द्र न्देवता पर्यवृञ्जन् विश्वरूप न्त्वाष्ट्र मभ्यमंस्त वृत्र मस्तृतयती न्त्सालावृकेभ्य प्रादादरु र्मघा नवधीद्बृहस्पते प्रत्यवधीदिति तत्रेन्द्र स्सोमपीथेन व्यार्ध्यतेन्द्रस्यानुव्यृद्धि ङ्क्षत्रं सोमपीथेन व्यार्ध्यतापीन्द्र स्सोमपीथेभव त्त्वष्टु रामुष्य सोमन्तद्व्यृद्ध मेवाद्यापि क्षत्रं सोमपीथेन स य स्तं भक्षँ विद्याद्यः क्षत्रस्य सोमपीथेन व्यृद्धस्य येन क्षत्रं समृध्यते कथ न्तँ वेदे रुत्थापयन्तीति वेत्थ ब्राह्मणत्व न्तं भक्षा3म्।वेद हीति तँ वै नो ब्राह्मणब्रूहीति तस्मै वै ते राज न्निति होवाच।। 7.5.28।।
त्रयाणां भक्षाणा मेक माहरिष्यन्ति सोमँ वा दधिवापो वासयदि सोमंब्राह्मणानां स भक्षो ब्राह्मणां स्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्प स्ते प्रजाया माजनिष्यत आदाय्यापाय्यावसायीयथाकाम प्रयाप्यो यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोस्य प्रजाया माजायत ईश्वरो हास्मा द्द्वितीयो वा तृतीयो वा ब्राह्मणता मभ्युपैतो स्स ब्रह्मबन्धवेन जिज्यूषितोथ यदिदधि वैश्यानां सभक्षोवैश्याँ स्तेन भक्षेण जिन्विष्यसि वैश्यकल्प स्ते प्रजाया माजनिष्यतेन्यस्य बलिकृदन्यस्याद्योयथाकामज्येयो यदा वै क्षत्रियाय पापं भवति वैश्यकल्पोस्य प्रजाया माजायत ईश्वरो हास्मा द्द्वितीयो वा तृतीयो वा वैश्यता मभ्युपैतोस्स वैश्यतया जिज्यूषितोथ यद्यप श्शूद्राणां स भक्षश्शूद्रां स्तेन भक्षेण जिन्विष्यसि शूद्रकल्प स्ते प्रजाया माजनिष्यतेन्यस्य प्रेष्य कामोत्थाप्यो यथाकाम वध्यो यदा वै क्षत्रियाय पापं भवति शूद्रकल्पोस्य प्रजाया माजायत ईश्वरो हास्मा द्द्वितीयो वा तृतीयो वा शूद्रता मभ्युपैतो स्स शूद्रतया जिज्यूषितः।। 7.5.29।।
एते वै ते त्रयो भक्षा राज न्निति होवाच येषा माशा न्नेया त्क्षत्रियो यजमानोथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बरा ण्याश्वत्थानि प्लाक्षा ण्यभिषुणुयात्तानि भक्षये त्सोस्य स्वो भक्षो यतो वा अधिदेवा यज्ञेनेष्ट्वा स्वर्गँ लोक मायंस्तत्रैतां श्चमसा न्न्युब्जंस्ते न्यग्रोधा अभवन्न्युब्जा इति हाप्येना नेतर्ह्या चक्षते कुरुक्षेत्रे ते ह प्रथमजा न्न्यग्रोधानान्तेभ्यो हान्येधिजातास्तेयन्न्यञ्चोरोहंस्तस्मा न्न्यङ्रोहति न्यग्रोहो न्यग्रोहो वै नाम तन्न्यग्रोहं सन्त न्न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः।। 7.5.30।।
तेषाँ य श्चमसानां रसोवाङैत्तेवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलान्येष ह वाव क्षत्रिय स्स्वा द्भक्ष न्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह परोक्षेणैव सोमपीथ माप्नोति नास्य प्रत्यक्षं भक्षितो भवतिपरोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोध परोक्ष मिवैष ब्रह्मणो रूप मुप निगच्छति यत्क्षत्रिय पुरोधयैव दीक्षयैव प्रवरेणैव क्षत्रँ वा एत द्वनस्पतीनाँ यन्न्यग्रोधःक्षत्रं राजन्यो निततइव हीह क्षत्रियो राष्ट्रे वस न्भवति प्रतिष्ठितइव निततइव न्यग्रोधोवरोधै र्भूम्यां प्रतिष्ठितइव तद्यत्क्षत्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षय त्यात्म न्येव तत्क्षत्रँ वनस्पतीनां प्रतिष्ठापयति क्षत्र आत्मानङ्क्षत्रे ह वै स आत्मनि क्षत्रँ वनस्पतीनां प्रतिष्ठापयति न्यग्रोधइवावरोधै र्भूम्यां प्रतिराष्ट्रे तिष्ठत्युग्रं हास्य राष्ट्र मव्यथ्यं भवति य एव मेतं भक्षं भक्षयति क्षत्रियो यजमानः।। 7.5.31।।
अथ यदौदुम्बराण्यूर्जो वा एषोन्नाद्या द्वनस्पति रजायत यदुदुम्बरो भौज्यँ वा एत द्वनस्पतीना मूर्ज मेवास्मिं स्तदन्नाद्यं भौज्यञ्च वनस्पतीना ङ्क्षत्रे दधात्यथ यदाश्वत्थानि तेजसो वा एष वनस्पति रजायत यदश्वत्थस्साम्राज्यँ वा एत द्वनस्पतीनान्तेज एवास्मिं स्तत्साम्राज्यञ्च वनस्पतीना ङ्क्षत्रे दधात्यथ यत्प्लाक्षाणि यशसो वा एष वनस्पति रजायत यत्प्लक्षस्स्वाराज्यञ्च ह वा एत द्वैराज्यञ्च वनस्पतीनाँ यश एवास्मिं स्तत्स्वाराज्यवैराज्येच वनस्पतीना ङ्क्षत्रे दधात्येता न्यस्य पुरस्ता दुपकॢप्तानि भवन्त्यथ सोमं राजान ङ्क्रीणन्ति ते राज्ञ एवावृतोपवसथा त्प्रतिवेशै श्चरन्त्यथौपवसथ्य महरेता न्यध्वर्यु पुरस्ता दुपकल्पयेताधिषवण ञ्चर्माधिषवणे फलके द्रोणकलश न्दशापवित्र मद्रीन्पूतभृतञ्चाधवनीयञ्च स्थाली मुदञ्चनञ्चमसञ्च तद्य देत द्राजानं प्रात रभिषुण्वन्ति तदेनानि द्वेधा विगृह्णीया दभ्यन्यानि सुनुया न्माध्यन्दिनायान्यानि परिशिंष्यात्।। 7.5.32।।
तद्यत्रैतां श्चमसा नुन्नयेयु स्तदेतँ यजमानचमस मुन्नयेत्तस्मि न्द्वे दर्भतरुणकेप्रास्ते स्यातान्तयो र्वषट्कृतेन्तपरिधिपूर्वं प्रास्येद्दधिक्राव्णो अकारिष मित्येतयर्चा सस्वाहाकारयानुवषट्कृतेपर मादधिक्रा श्शवसा पञ्च कृष्टी रिति तद्यत्रैतां श्चमसा नाहरेयुस्तदेतँ यजमानचमस माहरेत्तान् यत्रोद्गृह्णीयु स्तदेन मुपोद्गृह्णीयात्तद्य देळां होतोपह्वयेत यदा चमसं भक्षयेदथैन मेतया भक्षयेद्यदत्र शिष्टं रसिन स्सुतस्य यदिन्द्रो अपिब च्छचीभिः। इद न्तदस्य मनसा शिवेन सोमं राजान मिह भक्षयामीति शिवो ह वा अस्मा एष वानस्पत्यश्शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्र मव्यथ्यं भवति य एव मेतं भक्षं भक्षयति क्षत्रियो यजमानश्श न्न एधि हृदे पीत प्र ण आयु र्जीवसे सोम तारी रित्यात्मन प्रत्यभिमर्श ईश्वरो ह वा एषोप्रत्यभिमृष्टो मनुष्यस्यायु प्रत्यवहर्तोरनर्ह न्मा भक्षयतीति तद्यदेतेनात्मान मभिमृशत्यायु रेव तत्प्रतिरत आ प्यायस्व समेतु ते सन्ते पयांसि समु यन्तु वाजा इति चमस माप्यायय त्यभिरूपाभ्याँ यद्यज्ञेभिरूप न्तत्समृद्धम्।। 7.5.33।।
तद्यत्रैतां श्चमसा न्त्सादयेयु स्तदेतँ यजमानचमसं सादयेत्तान्यत्र प्रकम्पयेयु स्तदेन मनु प्रकम्पयेदथैन माहृतं भक्षयेन्नराशंसपीतस्य देवसोम ते मतिविद ऊमै पितृभि र्भक्षितस्य भक्षयामीति प्रातस्सवने नाराशंसो भक्ष ऊर्वै रिति माध्यन्दिने काव्यै रिति तृतीयसवन ऊमा वै पितर प्रातस्सवन ऊर्वा माध्यन्दिने काव्या स्तृतीयसवने तदेत त्पितॄ नेवामृता न्त्सवनभाज करोति सर्वो हैव सोमृत इति हस्माह प्रियव्रत स्सोमापो य कश्च सवनभागित्यमृता ह वा अस्य पितर स्सवनभाजो भवन्त्युग्रं हास्य राष्ट्र मव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानस्समान आत्मन प्रत्यभिमर्शस्समान माप्यायन ञ्चमसस्य प्रातस्सवनस्यैवावृता प्रातस्सवने चरेयु र्माध्यन्दिनस्य माध्यन्दिने तृतीयसवनस्य तृतीयसवने तमेव मेतं भक्षं प्रोवाच रामो मार्गवेयो विश्वन्तराय सौषद्मनाय तस्मिन् होवाच प्रोक्ते सहस्र मु ह ब्राह्मणतुभ्य न्दद्मस्सश्यापर्ण उमे यज्ञ इत्येतमु हैव प्रोवाच तुर कावषेयो जनमेजयाय पारिक्षितायैतमु हैव प्रोचतु पर्वत नारदौ सोमकाय साहदेव्याय सहदेवाय सार्ञ्जयाय बभ्रवे दैवावृधाय भीमाय वैदर्भाय नग्नजिते गान्धारायैतमु हैव प्रोवाचाग्नि स्सनश्रुतायारिन्दमाय क्रतुविदे जानकय एतमु हैव प्रोवाच वसिष्ठ स्सुदासे पैजवनाय ते हते सर्वएवमह ज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियां प्रतिष्ठिता स्तपन्ति सर्वाभ्यो दिग्भ्यो बलि मावहन्त आदित्यइव ह वै श्रियां प्रतिष्ठित स्तपति सर्वाभ्यो दिग्भ्यो बलि मावहत्युग्रं हास्य राष्ट्र मव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानो यजमानः।। 7.5.34।।
इति पञ्चमोध्यायः।।इति सप्तमपञ्चिका।।
॥ अथ पञ्चमाद्याये अष्टम खण्डः॥ अष्टमपञ्चिकायां प्रथमोध्यायः।।
ॐ अथातस्स्तुतशस्त्रयोरेवैकाहिकं प्रातस्सवन मैकाहिक न्तृतीयसवनमेते वै शान्ते कॢप्ते प्रतिष्ठिते सवने यदैकाहिके शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्याउक्तो माध्यन्दिन पवमानो य उभयसाम्नो बृहत्पृष्ठस्योभे हि सामनी क्रियेते आ त्वा रथँ यथोतय इदँ वसो सुतमन्ध इति राथन्तरी प्रतिपद्राथन्तरोनुचर पवमानोक्थँ वा एतद्यन्मरुत्वतीयं पवमाने वा अत्र रथन्तरङ्कुर्वन्ति बृहत्पृष्ठं सवीवधतायै तदिदं रथन्तरं स्तुतमाभ्यां प्रतिपदनुचराभ्या मनुशंसत्यथो ब्रह्म वै रथन्तरङ्क्षत्रं बृहद्ब्रह्म खलु वै क्षत्रा त्पूर्वं ब्रह्म पुरस्तान्म उग्रं राष्ट्र मव्यथ्य मसदित्यथान्नँ वै रथन्तरमन्नमेवास्मै तत्पुरस्तात्कल्पयत्यथेयँ वै पृथिवी रथन्तर मियङ्खलु वै प्रतिष्ठा प्रतिष्ठा मेवास्मै तत्पुरस्ता त्कल्पयति समान इन्द्र निहवोविभक्त स्सोह्नामुद्वा न्ब्राह्मणस्पत्य उभयसाम्नो रूपमुभे हि सामनी क्रियेते समान्यो धाय्या अविभक्तास्ता अह्ना मैकाहिको मरुत्वतीय प्रगाथः।। 8.1.1।।
जनिष्ठा उग्र स्सहसे तुरायेति सूक्त मुग्रवत्सहस्वत्तत्क्षत्रस्य रूपं मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्रस्य रूपं बहुलाभिमानइत्यभिव दभिभूत्यै रूप न्तदेकादशर्चं भव त्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वै राजन्य ओजो वा इन्द्रियँ वीर्य न्त्रिष्टुबोजः क्षत्रँ वीर्यं राजन्य स्तदेन मोजसा क्षत्रेण वीर्येण समर्धयति तद्गौरिवीतं भवत्येतद्वै मरुत्वतीयं समृद्धँ यद्गौरिवीतंतस्योक्तं ब्राह्मण न्त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति क्षत्रँ वै बृहत्क्षत्रेणैव तत्क्षत्रं समर्धयत्यथो क्षत्रँ वै बृहदात्मा यजमानस्य निष्केवल्यन्तद्यद्बृहत्पृष्ठं भवति क्षत्रँ वै बृहत्क्षत्रेणैवैन न्तत्समर्धयत्यथो ज्यैष्ठ्यँ वै बृहज्ज्यैष्ठ्येनैवैन न्तत्समर्धयत्यथो श्रैष्ठ्यँ वै बृहच्छ्रैष्ठ्येनैवैन न्तत्समर्धयत्यभि त्वा शूर नोनुमइति रथन्तर मनुरूपङ्कुर्वन्त्ययँ वै लोको रथन्तर मसौ लोको बृहदस्य वै लोकस्यासौ लोकोनुरूपोमुष्य लोकस्यायँ लोकोनुरूपस्तद्यद्रथन्तर मनुरूपङ्कुर्वन्त्युभावेव तल्लोकौ यजमानाय सम्भोगिनौ कुर्वन्त्यथो ब्रह्म वै रथन्तरङ्क्षत्रं बृहद्ब्रह्मणि खलु वै क्षत्रं प्रतिष्ठितङ्क्षत्रे ब्रह्माथो साम्न एव सयोनितायै यद्वावानेति धाय्या तस्या उक्तं ब्राह्मण मुभयं शृणवच्च न इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते।। 8.1.2।।
तमु ष्टुहि यो अभिभूत्योजा इति सूक्त मभिव दभिभूत्यै रूपमषाळ्ह मुग्रं सहमान माभि रित्युग्रवत्सहमानवत्तत्क्षत्रस्य रूपन्तत्पञ्चदशर्चं भवत्योजो वा इन्द्रियँ वीर्यं पञ्चदश ओजः क्षत्रँ वीर्यं राजन्यस्तदेन मोजसा क्षत्रेण वीर्येण समर्धयति तद्भारद्वाजं भवति भारद्वाजँ वै बृह दार्षेयेण सलोमैष ह वाव क्षत्रिययज्ञ स्समृद्धो यो बृहत्पृष्ठस्तस्मा द्यत्र क्वच क्षत्रियो यजेत बृहदेव तत्र पृष्ठं स्यात्तत्समृद्धम्।। 8.1.3।।
ऐकाहिका होत्रा एता वै शान्ता कॢप्ता प्रतिष्ठिता होत्रा यदैकाहिकाश्शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्यैता स्सर्वरूपा भवन्ति सर्वसमृद्धा स्सर्वरूपतायै सर्वसमृद्ध्यै सर्वरूपाभि र्होत्राभि स्सर्वसमृद्धाभि स्सर्वा न्कामा नवाप्नवामेति तस्मा द्यत्र क्वचैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्रास्स्यु स्तत्समृद्धमुक्थ्य एवायं पञ्चदश स्स्यादित्याहुरोजो वा इन्द्रियँ वीर्यं पञ्चदश ओजः क्षत्रँ वीर्यं राजन्य स्तदेन मोजसा क्षत्रेण वीर्येण समर्धयति तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशदक्षरा वै विराड्विराळन्नाद्यँ विराज्येवैन न्तदन्नाद्ये प्रतिष्ठापयति तस्मा त्तदुक्थ्य पञ्चदश स्स्यादित्याहुर्ज्योतिष्ष्टोमएवाग्निष्टोम स्स्याद्ब्रह्म वै स्तोमाना न्त्रिवृत्क्षत्रं पञ्चदशो ब्रह्म खलु वै क्षत्रा त्पूर्वं ब्रह्म पुरस्तान्म उग्रं राष्ट्र मव्यथ्य मसदिति विश स्सप्तदश श्शौद्रो वर्ण एकविंशो विशञ्चैवास्मै तच्छौद्रञ्च वर्ण मनुवर्त्मानौ कुर्वन्त्यथो तेजो वै स्तोमाना न्त्रिवृ द्वीर्यं पञ्चदश प्रजातिस्सप्तदश प्रतिष्ठैकविंशस्तदेन न्तेजसा वीर्येण प्रजात्या प्रतिष्ठयान्तत स्समर्धयति तस्माज्ज्योतिष्ष्टोमस्स्यात्तस्य चतुर्विंशति स्स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासो वै सँवत्सर स्सँवत्सरे कृत्स्न मन्नाद्यङ्कृत्स्न एवैन न्तदन्नाद्ये प्रतिष्ठापयतितस्मा ज्ज्योतिष्ष्टोमएवाग्निष्टोम स्स्यादग्निष्टोम स्स्यात्।। 8.1.4।।
इति प्रथमोध्यायः।।
अष्टम पञ्चिकायां द्वितीयोध्यायः।।
ॐ अथात पुनरभिषेकस्यैव सूयते ह वा अस्य क्षत्रँ यो दीक्षते क्षत्रियस्सन्त्स यदावभृथा दुदेत्यानूबन्ध्ययेष्ट्वोदवस्यत्यथैन मुदवसानीयायां संस्थितायां पुनरभिषिञ्चन्ति तस्यैते पुरस्तादेव सम्भारा उपकॢप्ता भवन्त्यौदुम्बर्यासन्दीतस्यै प्रादेशमात्रा पादा स्स्यु ररत्निमात्राणि शीर्षण्यानूच्यानि मौञ्जँ विवयनँ व्याघ्रचर्मा स्तरणमौदुम्बर श्चमसउदुम्बरशाखा तस्मिन्नेतस्मिंश्चमसेष्टातयानिनिषुतानि भवन्ति दधि मधु सर्पि रातपवर्ष्या आप श्शष्पाणि च तोक्मानि च सुरा दूर्वा तद्यैषा दक्षिणा स्फ्यवर्तनि र्वेदे र्भवति तत्रैतां प्राचीमासन्दीं प्रतिष्ठापयति तस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वावियँ वै श्रीस्तस्या एत त्परिमितं रूपँ यदन्तर्वेद्यथैष भूमापरिमितो यो बहिर्वेदि तद्यदस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वाउभयो कामयो रुपाप्त्यै यश्चान्तर्वेदि यश्च बहिर्वेदि।। 8.2.5।।
व्याघ्रचर्मणास्तृणा त्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रँ वा एत दारण्यानां पशूनाँ यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत्क्षत्रं समर्धयति तां पश्चात्प्राङुपविश्याच्य जानु दक्षिण मभिमन्त्रयत उभाभ्यां पाणिभ्या मालभ्याग्निष्ट्वा गायत्र्या सयुक्छन्दसा रोहतु सवितोष्णिहा सोमोनुष्टुभा बृहस्पति र्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्र स्त्रिष्टुभा विश्वेदेवा जगत्या तानहमनुराज्याय साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वावश्याया तिष्ठायारोहामीत्येता मासन्दी मारोहेद्दक्षिणेनाग्रे जानुनाथ सव्येन तत्तदितीँ ‘3’। चतुरुत्तरैर्वै देवा श्छन्दोभि स्सयुग्भूत्वैतां श्रिय मारोहन् यस्या मेत एतर्हि प्रतिष्ठिता अग्निर्गायत्र्या सवितोष्णिहा सोमोनुष्टुभा बृहस्पति र्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्र स्त्रिष्टुभा विश्वेदेवा जगत्या ते एते अभ्यनूच्येते अग्ने र्गायत्र्यभवत्सयुग्वेति कल्पते हवा अस्मै योगक्षेम उत्तरोत्तरिणीं ह श्रिय मश्नुतेश्नुते ह प्रजाना मैश्वर्य माधिपत्यँ यएवमेता अनु देवता एता मासन्दी मारोहति क्षत्रिय स्सन्नथैन मभिषेक्ष्यन्नपां शान्तिँ वाचयति शिवेन मा चक्षुषा पश्यताप श्शिवया तन्वोप स्पृशत त्वचं मे। सर्वा अग्नी रप्सुषदो हुवेवो मयि वर्चो बलमोजो नि धत्तेति नैतस्याभिषिषिचानस्याशान्ता आपो वीर्य न्निर्हणन्निति।। 8.2.6।।
अथैन मुदुम्बरशाखा मन्तर्धायाभिषिञ्चतीमा आप श्शिवतमा इमा स्सर्वस्य भेषजीः। इमा राष्ट्रस्य वर्धनी रिमा राष्ट्रभृतोमृताः।।
याभि रिन्द्र मभ्यषिञ्च त्प्रजापति स्सोमं राजानँ वरुणँ यमं मनुम्।ताभि रद्भि रभिषिञ्चामि त्वामहं राज्ञा न्त्वमधिराजो भवेह।
महान्तन्त्वा महीनां सम्राज ञ्चर्षणीना न्देवी जनित्र्यजीजन द्भद्रा जनित्र्यजीजनद्देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या मग्ने स्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामिबलाय श्रियै यशसेन्नाद्याय भूरिति य इच्छे दिममेव प्रत्यन्न मद्यादित्यथ य इच्छेद्द्विपुरुषं भूर्भुव इत्यथ य इच्छेत्त्रिपुरुषँ वाप्रतिमँ वा भूर्भुव स्स्वरिति तद्धैक आहु स्सर्वाप्तिर्वा एषा यदेता व्याहृतयोतिसर्वेण हास्य परस्मै कृतं भवतीति तमेतेनाभिषिञ्चेद्देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या मग्ने स्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामिबलाय श्रियै यशसेन्नाद्यायेति तदु पुन परिचक्षते यदसर्वेण वाचोभिषिक्तो भवतीश्वरोहतु पुरायुष प्रैतोरिति हस्माह सत्यकामो जाबालो यमेताभिर्व्याहृतिभि र्नाभिषिञ्चन्तीतीश्वरो ह सर्व मायु रैतो स्सर्व माप्नो द्विजयेनेत्युह स्माहोद्दालक आरुणिर्यमेताभि र्व्याहृतिभि रभिषिञ्चन्तीति तमेतेनैवाभिषिञ्चेद्देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या मग्ने स्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसेन्नाद्याय भूर्भुवस्स्वरित्यथैतानि ह वै क्षत्रिया दीजानाद्व्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्रेऊर्गन्नाद्य मपा मोषधीनां रसो ब्रह्मवर्चस मिरापुष्टि प्रजातिःक्षत्ररूप न्तदथो अन्नस्य रसओषधीनाङ्क्षत्रं प्रतिष्ठातद्यदेवामू पुरस्ता दाहुती जुहोति तदस्मि न्ब्रह्मक्षत्रे दधाति।। 8.2.7।।
अथ यदौदुम्बर्यासन्दी भव त्यौदुम्बर श्चमस उदुम्बरशाखोर्ग्वा अन्नाद्य मुदुम्बर ऊर्ज मेवास्मिंस्तदन्नाद्य न्दधात्यथ यद्दधि मधु घृतं भवत्यपां स ओषधीनां रसोपा मेवास्मिंस्तदोषधीनां रस न्दधात्यथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसञ्चातपवर्ष्याआप स्तेज एवास्मिंस्तद्ब्रह्मवर्चसञ्च दधात्यथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूप मथो प्रजात्या इरा मेवास्मिंस्तत्पुष्टि न्दधात्यथो प्रजातिमथ यत्सुरा भवति क्षत्ररूपन्तदथोअन्नस्य रसःक्षत्ररूप मेवास्मिंस्तद्दधात्यथोव अन्नस्य रसमथ यद्दूर्वा भवति क्षत्रँ वा एत दोषधीनाँ यद्दूर्वा क्षत्रं राजन्योनिततइव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठितइव निततेव दूर्वावरोधै र्भूम्यां प्रतिष्ठितेव तद्यद्दूर्वा भव त्योषधीना मेवास्मिंस्तत्क्षत्र न्दधात्यथो प्रतिष्ठामेतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति तैरेवैन न्तत्समर्धयत्यथास्मै सुरा कंसं हस्त आदधातिस्वादिष्ठया मदिष्ठया पवस्व सोम धारया। इन्द्राय पातवे सुत इत्याधाय शान्तिँ वाचयति नानाहिवान्देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि। सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वाँ योनि माविशन्ताविति सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्ति पीत्वा यं रातिं मन्येत तस्मा एनां प्रयच्छेत्तद्धि मित्रस्य रूपं मित्र एवैना न्तदन्तत प्रतिष्ठापयति तथा हि मित्रे प्रतितिष्ठति प्रतितिष्ठतिय एवँ वेद।। 8.2.8।।
अथोदुम्बरशाखा मभि प्रत्यवरोहत्यूर्ग्वा अन्नाद्य मुदुम्बर ऊर्जमेव तदन्नाद्य मभि प्रत्यवरोहत्युपर्येवासीनो भूमौ पादौ प्रतिष्ठाप्य प्रत्यवरोह माह प्रतितिष्ठामि द्यावापृथिव्यो प्रतितिष्ठामि प्राणापानयो प्रतितिष्ठाम्यहोरात्रयो प्रतितिष्ठाम्यन्नपानयो प्रतिब्रह्मन्प्रतिक्षत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामीत्यन्तत स्सर्वेणात्मना प्रतितिष्ठति सर्वस्मिन् हवा एतस्मि न्प्रतितिष्ठत्युत्तरोत्तरिणीं ह श्रियमश्नुतेश्नुते ह प्रजाना मैश्वर्य माधिपत्यँ य एव मेतेन पुनरभिषेकेणाभिषिक्तः क्षत्रिय प्रत्यवरोहत्येतेन प्रत्यवरोहेण प्रत्यवरूह्योपस्थङ्कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य वरन्ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचँ विसृजतेस यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्रँ वशमेति तद्यत्र वै ब्रह्मणः क्षत्रँ वशमेति तद्राष्ट्रं समृद्धन्तद्वीरवदाहास्मिन् वीरो जायतेथ यद्वर न्ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचँ विसृजत एतद्वै वाचो जितँ यद्ददामीत्याह यदेव वाचोजिता ‘3’ म्। तन्म इदमनु कर्म सन्तिष्ठाता इति विसृज्य वाच मुपोत्थायाहवनीये समिध मभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रियेण वीर्येण स्वाहेतीन्द्रियेणैव तद्वीर्येणात्मान मन्तत स्समर्धयत्याधाय समिधन्त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति कॢप्तिरसि दिशां मयि देवेभ्य कल्पत। कल्पतां मे योगक्षेमोभयं मेस्त्वित्यपराजिता न्दिश मुपतिष्ठते जितस्यैवापुन पराजयाय तत्तदितीँ ‘3’।। 8.2.9।।
देवासुराव एषु लोकेषु सँयेतिरे त एतस्यां प्राच्या न्दिशि येतिरे तांस्ततोसुरा अजयंस्ते दक्षिणस्या न्दिशि येतिरे तांस्ततोसुरा अजयंस्ते प्रतीच्या न्दिशि येतिरेतांस्ततोसुरा अजयंस्त उदीच्या न्दिशि येतिरे तांस्ततोसुरा अजयंस्त एतस्मि न्नवान्तरदेशे येतिरे य एष प्राङुद ङ्ते ह ततो जिग्युस्तँ यदि क्षत्रिय उपधावेत्सेनयोस्समायत्यो स्तथा मे कुरु यथाहमिमां सेना ञ्जयानीति स यदि तथेति ब्रूयाद्वनस्पते वीड्वङ्गो हि भूया इत्यस्य रथोपस्थ मभिमृश्याथैनं ब्रूया दातिष्ठस्वैतान्ते दिश मभिमुख स्सन्नद्धो रथोभिप्रवर्ततां स उदङ्क्स प्रत्यङ्क्स दक्षिणा स प्राङ्क्सोभ्यमित्रमित्यभीवर्तेन हविषेत्येवैन मावर्तयेदथैन मन्वीक्षेताप्रतिरथेन शासेन सौपर्णेनेति जयति हतां सेनाँ यद्यु वा एन मुपधावे त्सङ्ग्रामं सँयतिष्यमाण स्तथा मे कुरु यथाह मिमं सङ्ग्रामं सञ्जयानी त्येतस्या मेवैन न्दिशि यातयेज्जयति हतं सङ्ग्रामँ यद्यु वा एन मुपधावे द्राष्ट्रादपरुध्यमान स्तथा मे कुरुयथाह मिदं राष्ट्रं पुन रवगच्छानीत्येता मेवैन न्दिश मुपनिष्क्रमये त्तथा ह राष्ट्रं पुनरवगच्छत्युपस्थायामित्राणाँ व्यपनुत्तिं ब्रुवन्गृहा नभ्येत्यप प्राच इन्द्र विश्वा अमित्रानिति सर्वतो हास्मा अनमित्र मभयं भवत्युत्तरोत्तरिणीं ह श्रिय मश्नुतेश्नुते ह प्रजानामैश्वर्यमाधिपत्यँ य एवमेता ममित्राणाँ व्यपनुत्तिं ब्रुवन्गृहा नभ्येत्येत्यगृहान्पश्चाद्गृह्यस्याग्नेरुपविष्टायान्वारब्धाय ऋत्विगन्तत कंसेन चतुर्गृहीता स्तिस्र आज्याहुती रैन्द्री प्रपद ञ्जुहो त्यनार्त्या अरिष्ट्या अज्यान्या अभयाय।। 8.2.10।।
पर्यूषु प्र धन्व वाजसातये परि वृत्राभूर्ब्रह्म प्राण ममृतं प्रपद्यते यमसौ शर्म वर्माभयं स्वस्तये। सह प्रजया सह पशुभिर्णिसक्षणिर्द्विषस्तरध्या ऋणया न ईयसे स्वाहा।।
अनु हि त्वा सुतं सोम मदामसि महे समभुवो ब्रह्म प्राणममृतं प्रपद्यतेयमसौ शर्म वर्माभयं स्वस्तये। सह प्रजया सह पशुभिर्यराज्ये वाजा अभि पवमान प्र गाहसे स्वाहा।।
अजीजनो हि पवमान सूर्यँ विधारेश स्वर्ब्रह्म प्राण ममृतं प्रपद्यते यमसौ शर्म वर्माभयं स्वस्तये। सह प्रजया सह पशुभिक्मना पयो गोजीरया रंहमाण पुरन्ध्या स्स्वाहे त्यनार्तो ह वा अरिष्टो जीत स्सर्वतो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोनु सञ्चरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋत्वि गन्तत कंसेनचतुर्गृहीता स्तिस्र आज्याहुती रैन्द्री प्रपदञ्जुहोत्यथान्तत प्रजाति माशास्ते गवामश्वानां पुरुषाणामिह गाव प्रजायध्व मिहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणो वीर स्त्राता निषीदत्वितिबहुरहवै प्रजया पशुभि र्भवति य एव मेता मन्तत प्रजाति माशास्ते गवा मश्वानां पुरुषाणामेष ह वाव क्षत्रियो विकृष्टो यमेवँविदो याजयन्त्यथ हतँ व्येव कर्षन्ते यथा ह वा इद न्निषादा वासेलगावापापकृतो वा वित्तवन्तं पुरुष मरण्ये गृहीत्वा कर्त मन्वस्य वित्त मादाय द्रवन्त्येवमेव त ऋत्विजो यजमान ङ्कर्त मन्वस्य वित्त मादाय द्रवन्ति यमनेवँविदो याजयन्त्येतद्धस्म वै तद्विद्वानाह जनमेजय पारिक्षित एवँविदं हि वै मामेवँविदो याजयन्ति तस्मादहञ्जयाम्यभीत्वरीं सेनाञ्जयाम्यभीत्वर्या सेनया नमादिव्या नमानुष्य इषव ऋच्छन्त्येष्यामि सर्वमायु स्सर्वभूमि र्भविष्यामीति न ह वा एन न्दिव्या न मानुष्य इषव ऋच्छन्त्येति सर्वमायु स्सर्वभूमि र्भवतियमेवँविदो याजयन्ति याजयन्ति।। 8.2.11।।इति द्वितीयोध्यायः।।
अष्टम पञ्चिकायां तृतीयोध्यायः।।
ॐ अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन्त्सप्रजापतिका अयँ वै देवाना मोजिष्ठो बलिष्ठ स्सहिष्ठ स्सत्तम पारयिष्णुतम इममेवाभिषिञ्चामहा इति तथेति तद्वै तदिन्द्र मेव तस्मा एता मासन्दीं समभरन्नृचन्नाम तस्यै बृहच्च रथन्तरञ्च पूर्वौ पादावकुर्वन् वैरूपञ्च वैराजञ्चापरौशाक्वररैवते शीर्षण्ये नौधसञ्च कालेयञ्चानूच्ये ऋच प्राचीनातानान्त्सामानि तिरश्चीनवायान् यजूंष्यतीकाशान्यश आस्तरणं श्रिय मुपबर्हणन्तस्यै सविता च बृहस्पतिश्च पूर्वौ पादा वधारयताँ वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विना वनूच्ये स एता मासन्दी मारोहद्
वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्नारोहन्तु तानन्वारोहामि साम्राज्यायरुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना रोहन्तु तानन्वारोहामि भौज्यायादित्यास्त्वा जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोहामि स्वाराज्यायविश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना रोहन्तु तानन्वारोहामि वैराज्याय साध्याश्च त्वाप्त्याश्च देवा पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना रोहन्तु तानन्वारोहामि राज्यायमरुतश्च त्वाङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्ना रोहन्तु तानन्वारोहामि पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठाया रोहामीत्येता मासन्दीमारोहत्तमेतस्या मासन्द्या मासीनँ विश्वेदेवा अब्रुव न्न वा अनभ्युत्क्रुष्ट इन्द्रो वीर्यङ्कर्तु मर्ह त्यभ्येनमुत्क्रोशामेति तथेति तँ विश्वेदेवाअभ्युदक्रोश न्निम न्देवा अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यँ विराजँ वैराज्यं राजानं राजपितरं परमेष्ठिनं पारमेष्ठ्यङ्क्षत्र मजनि क्षत्रियोजनि विश्वस्य भूतस्याधिपति रजनि विशामत्ताजनि पुरांभेत्ताजन्यसुराणां हन्ताजनि ब्रह्मणो गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टं प्रजापति रभिषेक्ष्य न्नेतयर्चाभ्यमन्त्रयत।। 8.3.12।।
नि षसाद धृतव्रतो वरुण पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठाय सुक्रतु रिति तमेतस्या मासन्द्या मासीनं प्रजापति पुरस्ता त्तिष्ठन्प्रत्यङ्मुख औदुम्बर्यार्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभ्यषिञ्च दिमा आप श्शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवस्स्व रित्येताभिश्च व्याहृतिभिः।। 8.3.13।।
अथैनं प्राच्या न्दिशि वसवो देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि स्साम्राज्याय तस्मादेतस्यां प्राच्या न्दिशि ये के च प्राच्यानां राजान स्साम्राज्यायैव तेभिषिच्यन्ते सम्राळित्येना नभिषिक्ता नाचक्षत एतामेव देवानाँ विहिति मन्वथैन न्दक्षिणस्या न्दिशि रुद्रा देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्च न्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि र्भौज्याय तस्मा देतस्या न्दक्षिणस्या न्दिशि ये के च सत्वतां राजानो भौज्यायैव तेभिषिच्यन्ते भोजेत्येना नभिषिक्तानाचक्षत एतामेव देवानाँ विहिति मन्वथैनं प्रतीच्या न्दिश्यादित्या देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि स्स्वाराज्याय तस्मा देतस्यां प्रतीच्या न्दिशि ये के च नीच्यानां राजानो येपाच्यानां स्वाराज्यायैव तेभिषिच्यन्ते स्वराळित्येना नभिषिक्ता नाचक्षत एतामेव देवानाँ विहिति मन्वथैन मुदीच्या न्दिशि विश्वेदेवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि र्वैराज्याय तस्मा देतस्या मुदीच्या न्दिशि ये के च परेण हिमवन्तञ्जनपदा उत्तरकुरव उत्तरमद्राइति वैराज्यायैव तेभिषिच्यन्ते विराळित्येना नभिषिक्ता नाचक्षत एतामेव देवानाँ विहिति मन्वथैन मस्या न्ध्रुवायां मध्यमायां प्रतिष्ठाया न्दिशि साध्याश्चाप्त्याश्च देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मा दस्या न्ध्रुवायां मध्यमायां प्रतिष्ठाया न्दिशि ये के च कुरुपञ्चालानां राजान स्सवशोशीनराणां राज्यायैव तेभिषिच्यन्ते राजेत्येना नभिषिक्ता नाचक्षत एतामेव देवानाँ विहिति मन्वथैन मूर्ध्वाया न्दिशि मरुतश्चाङ्गिरसश्च देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि पारमेष्ठ्याय माहाराज्याया धिपत्याय स्वावश्यायातिष्ठायेति स परमेष्ठी प्राजापत्योभवत्स एतेन महाभिषेकेणाभिषिक्त इन्द्र स्सर्वाजिती रजयत्सर्वान्लोकानविन्दत्सर्वेषा न्देवानां श्रैष्ठ्य मतिष्ठां परमता मगच्छत्साम्राज्यं भौज्यं स्वाराज्यँ वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्य माधिपत्यञ्जित्वास्मिन्लोके स्वयम्भू स्स्वराळमृतोमुष्मि न्त्स्वर्गे लोके सर्वा न्कामा नाप्त्वामृत स्समभवत्समभवत्।। 8.3.14।। इति तृतीयोध्यायः।।
अष्टम पञ्चिकायां चतुर्थोध्यायः।।
ॐ स य इच्छे देवँवित्क्षत्रिय मयं सर्वाजिती र्जयेतायं सर्वान्लोकान् विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्य मतिष्ठां परमताङ्गच्छेत साम्राज्यं भौज्यं स्वाराज्यँ वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्य माधिपत्यमयं समन्तपर्यायीस्यात्सार्वभौम स्सार्वायुष आन्तादापरार्धा त्पृथिव्यै समुद्रपर्यन्ताया एकराळिति तमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिञ्चेद्याञ्च रात्री मजायेथा याञ्च प्रेतासि तदुभय मन्तरेणेष्टापूर्तन्ते लोकं सुकृत मायु प्रजाँ वृञ्जीयँ यदिमे द्रुह्येरिति स य इच्छेदेवँवित्क्षत्रियोहं सर्वा जिती र्जयेय महं सर्वान्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्य मतिष्ठां परमताङ्गच्छेयं साम्राज्यं भौज्यं स्वाराज्यँ वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्य माधिपत्यमहं समन्तपर्यायीस्यां सार्वभौम स्सार्वायुष आन्तादापरार्धा त्पृथिव्यै समुद्रपर्यन्ताया एकराळिति सनविचिकित्सेत्स ब्रूया त्सह श्रद्धयायाञ्च रात्री मजायेहँ याञ्च प्रेतास्मि तदुभय मन्तरेणेष्टापूर्तं मे लोकं सुकृतमायु प्रजाँ वृञ्जीथा यदिते द्रुह्येयमिति।। 8.4.15।।
अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि संभरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति क्षत्रँ वा एत द्वनस्पतीनाँ यन्न्यग्रोधो यन्नैयग्रोधानि सम्भरन्ति क्षत्र मेवास्मिंस्तद्दधातिभौज्यँ वा एत द्वनस्पतीनाँ यदुदुम्बरो यदौदुम्बराणि सम्भरन्ति भौज्य मेवास्मिंस्तद्दधाति साम्राज्यँ वा एत द्वनस्पतीनाँ यदश्वत्थो यदाश्वत्थानि सम्भरन्ति साम्राज्य मेवास्मिंस्तद्दधाति स्वाराज्यञ्च ह वा एत द्वैराज्यञ्च वनस्पतीनाँ यत्प्लक्षो यत्प्लाक्षाणि सम्भरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधात्यथ ततो ब्रूया च्चतुष्टया न्यौषधानि संभरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियङ्गूनाँ यवानामिति क्षत्रँ वा एतदोषधीनाँ यद्व्रीहयोयद्व्रीहीणा न्तोक्म सम्भरन्ति क्षत्र मेवास्मिंस्तद्दधाति साम्राज्यँ वा एतदोषधीनाँ यन्महाव्रीहयो यन्महाव्रीहीणा न्तोक्म सम्भरन्ति साम्राज्य मेवास्मिंस्तद्दधाति भौज्यँ वा एत दोषधीनाँ यत्प्रियङ्गवो यत्प्रियङ्गूना न्तोक्म सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति सैनान्यँ वा एत दोषधीनाँ यद्यवा यद्यवाना न्तोक्म सम्भरन्ति सैनान्य मेवास्मिंस्तद्दधाति।। 8.4.16।।
अथास्मा औदुम्बरी मासन्दीं सम्भरन्ति तस्या उक्तं ब्राह्मण मौदुम्बर श्चमसो वा पात्री वोदुम्बरशाखा तानेता न्त्सम्भारान्त्सम्भृत्यौदुम्बर्यां पात्र्याँ वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधिमधु सर्पि रातपवर्ष्या आपोभ्यानीय प्रतिष्ठाप्यैतामासन्दी मभिमन्त्रयेत बृहच्च ते रथन्तरञ्च पूर्वौ पादौ भवताँ वैरूपञ्च वैराजञ्चापरौ शाक्वररैवते शीर्षण्ये नौधसञ्च कालेयञ्चानूच्ये ऋच प्राचीनाताना स्सामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणंसविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयताँ वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्येव अश्वि नावनूच्येव इत्यथैन मेता मासन्दी मारोहयेद्वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना रोहन्तु तानन्वारोह साम्राज्यायरुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना रोहन्तु तानन्वारोह भौज्यायादित्यास्त्वा जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोह स्वाराज्यायविश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना रोहन्तु तानन्वारोह वैराज्यायमरुतश्च त्वाङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्ना रोहन्तु तानन्वारोह पारमेष्ठ्यायसाध्याश्च त्वाप्त्याश्च देवा पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना रोहन्तु तानन्वारोह राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहेत्येता मासन्दी मारोहयेत्तमेतस्यामासन्द्या मासीनं राजकर्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यङ्कर्तुमर्ह त्यभ्येन मुत्क्रोशामेति तथेति तं राजकर्तारोभ्युत्क्रोशन्तीम ञ्जना अभ्युत्क्रोशतसम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यँ विराजँ वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरङ्क्षत्र मजनि क्षत्रियोजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताजन्यमित्राणां हन्ताजनि ब्राह्मणानाङ्गोप्ताजनि धर्मस्य गोप्ताजनीतितमभ्युत्क्रुष्ट मेवँविदमभिषेक्ष्यन्नेतयर्चा भिमन्त्रयेत।। 8.4.17।।
नि षसाद धृतव्रतो वरुण पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्याया धिपत्याय स्वावश्यायातिष्ठाय सुक्रतुरिति तमेतस्या मासन्द्या मासीन मेवँवित्पुरस्ता त्तिष्ठ न्प्रत्यङ्मुख औदुम्बर्यार्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभिषिञ्चतीमा आप श्शिवतमा इत्येतेन तृचेन देवस्यत्वेति च यजुषा भूर्भुवस्स्वरित्येताभिश्च व्याहृतिभिः।। 8.4.18।।
प्राच्यान्त्वा दिशि वसवो देवाष्षड्भिश्चैव पञ्चविंशै रहोभि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि स्साम्राज्याय दक्षिणस्यान्त्वादिशि रुद्रा देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि र्भौज्याय प्रतीच्यान्त्वादिश्यादित्या देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि स्स्वाराज्यायोदीच्या न्त्वादिशि विश्वेदेवा ष्षड्भिश्चैव पञ्चविंशै रहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि र्वैराज्यायोर्ध्वायान्त्वा दिशि मरुतश्चाङ्गिरसश्च देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि पारमेष्ठ्यायास्यान्त्वा ध्रुवायां मध्यमायां प्रतिष्ठाया न्दिशि साध्याश्चाप्त्याश्च देवा ष्षड्भिश्चैव पञ्चविंशै रहोभि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायेति स परमेष्ठी प्राजापत्यो भवति स एतेनैन्द्रेण महाभिषेकेणाभिषिक्तः क्षत्रियस्सर्वाजिती र्जयति सर्वा न्लोकान्विन्दति सर्वेषां राज्ञां श्रैष्ठ्य मतिष्ठां परमताङ्गच्छति साम्राज्यं भौज्यं स्वाराज्यँ वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्य माधिपत्यञ्जित्वास्मिन्लोके स्वयम्भू स्स्वराळमृतोमुष्मि न्त्स्वर्गे लोके सर्वा न्कामा नाप्त्वामृत स्संभवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिञ्चति।। 8.4.19।।
इन्द्रियँ वा एतदस्मिन्लोके यद्दधि यद्दध्नाभिषिञ्चतीन्द्रिय मेवास्मिंस्तद्दधातिरसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाभिषिञ्चति रस मेवास्मिंस्तद्दधाति तेजो वा एत त्पशूनाँ यद्धृतँ यद्धृतेनाभिषिञ्चतितेजएवास्मिंस्तद्दधात्यमृतँ वा एतदस्मि न्लोके यदापो यदद्भि रभिषिञ्च त्यमृतत्व मेवास्मिंस्तद्दधाति सोभिषिक्तोभिषेक्त्रे ब्राह्मणाय हिरण्यन्दद्यात्सहस्रन्दद्यात्क्षेत्र ञ्चतुष्पा द्दद्यादथाप्याहु रसङ्ख्यातमेवापरिमित न्दद्यादपरिमितो वै क्षत्रियोपरिमितस्यावरुद्ध्या इत्यथास्मै सुराकंसंहस्त आदधाति
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया। इन्द्राय पातवे सुत इति तां पिबेद्यदत्र शिष्टं रसिनस्सुतस्ययदिन्द्रो अपिब च्छचीभिः। इद न्तदस्य मनसा शिवेन सोमं राजान मिह भक्षयामि।
अभि त्वा वृषभा सुते सुतं सृजामि पीतये।तृम्पा व्यश्नुहीमदमिति यो ह वाव सोमपीथ स्सुरायां प्रविष्ट स्सहैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरातां पीत्वाभिमन्त्रयेतापामसोमं शन्नो भवेति तद्यथैवाद प्रिय पुत्र पितरं प्रिया वाजायापतिं सुखं शिव मुपस्पृशत्याविस्रस एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वान्यद्वान्नाद्यं सुखं शिवमुपस्पृशत्याविस्रसः।। 8.4.20।।
एतेन ह वा ऐन्द्रेण महाभिषेकेण तुर कावषेयो जनमेजयं पारिक्षित मभिषिषेच तस्मादु जनमेजय पारिक्षित स्समन्तं सर्वत पृथिवीञ्जयन्परीयायाश्वेन च मेध्येनेजे तदेषाभियज्ञगाथा गीयते।।
आसन्दीवति व धान्यादं रुक्मिणं हरितस्रजम्।
अश्वं बबन्धसारङ्गन्देवेभ्यो जनमेजय इत्येतेन हवा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गव श्शार्यातं मानव मभिषिषेच तस्मादु शार्यातो मानव स्समन्तं सर्वत पृथिवीञ्जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपति रासैतेन हवा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायन श्शतानीकं सात्राजित मभिषिषेच तस्मादु शतानीक स्सात्राजित स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेज एतेन हवा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्य मभिषिषिचतुस्तस्माद्वाम्बाष्ठ्य स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेनच मेध्येनेज एतेन हवा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्य मभिषिषिचतु स्तस्मादु युधांश्रौष्टि रौग्रसैन्य स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेज एतेन हवा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवन मभिषिषेच तस्मादु विश्वकर्मा भौवन स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेजेभूमिर्ह जगावित्युदाहरन्ति
नमामर्त्य कश्चन दातुमर्हति विश्वकर्म न्भौवन मान्दिदासिथ।निमङ्क्ष्येहं सलिलस्य मध्ये मोघस्त एष कश्यपायाससङ्गर इत्येतेन हवा ऐन्द्रेण महाभिषेकेण वसिष्ठ स्सुदासं पैजवन मभिषिषेच तस्मादु सुदा पैजवन स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेज एतेन हवा ऐन्द्रेण महाभिषेकेण सँवर्त आङ्गिरसो मरुत्त माविक्षित मभिषिषेच तस्मादु मरुत्त आविक्षित स्समन्तं सर्वतपृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेजे तदप्येष श्श्लोकोभिगीतो मरुत परिवेष्टारो मरुत्तस्स्यावसन्गृहे। आविक्षितस्य कामप्रे र्विश्वेदेवा स्सभासद इति।। 8.4.21।।
ॐ एतेन हवा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोङ्ग मभिषिषेच तस्मा द्वङ्ग स्समन्तं सर्वत पृथिवीञ्जय न्परीयायाश्वेन च मेध्येनेजे सहोवाचालोपाङ्गो दशनागसहस्राणि दशदासीसहस्राणि ददामि ते ब्राह्मणोपमास्मिन्यज्ञे ह्वयस्वेति तदप्येते श्लोका अभिगीताः।
याभि र्गोभि रुदमयं प्रैय्यमेधा अयाजयन्न्। द्वेद्वे सहस्रे बद्वाना मात्रेयो मध्यतो ददात्।।
अष्टाशीति स्सहस्राणि श्वेतान् वैरोचनो हयान्।प्रष्टी न्निश्चृत्य प्रायच्छ द्यजमाने पुरोहिते।।
देशा द्देशा त्समोळ्हानां सर्वासामाढ्यदुहितृणाम्।दशाददा त्सहस्राण्यात्रेयो निष्ककण्ठ्यः।।
दशनागसहस्राणि दत्त्वात्रेयोवचत्नुके। श्रान्त पारिकुटा न्प्रैप्स द्दानेनाङ्गस्य ब्राह्मणः।।
शतन्तुभ्यं शतन्तुभ्यमिति स्मैव प्रताम्यति।सहस्रन्तुभ्य मित्युक्त्वा प्राणान्त्स्म प्रतिपद्यत इति।। 8.4.22।।
ॐ एतेन हवा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरत न्दौष्षन्ति मभिषिषेच तस्मादु भरतो दौष्षन्ति स्समन्तं सर्वत पृथिवी ञ्जय न्परीयायाश्वै रुचमेध्यैरीजे तदप्येते श्लोका अभिगीताः।।
हिरण्येन परीवृता न्कृष्णाञ्छुक्लदतो मृगान्। मष्णारेभरतो ददा च्छतं बद्वानि सप्त च।।
भरतस्यैष दौष्षन्ते रग्नि स्साचीगुणेचितः। यस्मि न्त्सहस्रं ब्राह्मणा बद्वशोगा विभेजिरे।।
अष्टासप्ततिं भरतो दौष्षन्ति र्यमुना मनु। गङ्गायाँ वृत्रघ्ने बध्ना त्पञ्चपञ्चाशतं हयान्।।
त्रयस्त्रिंशच्छतं राजाश्वा न्बध्वायमेध्यान्।दौष्षन्ति रत्यगा द्राज्ञो मायां मायवत्तरः।।
महाकर्मभरतस्य न पूर्वेनापरे जनाः। दिवं मर्त्यइव हस्ताभ्या न्नोदापु पञ्चमानवा इत्येतं हवा ऐन्द्रं महाभिषेकं बृहदुक्थ ऋषि र्दुर्मुखाय पाञ्चालाय प्रोवाच तस्मादु दुर्मुख पाञ्चालो राजा सन्विद्यया समन्तं सर्वत पृथिवीञ्जय न्परीयायैतं हवा ऐन्द्रं महाभिषेकँ वासिष्ठ स्सात्यहव्यो त्यरातये जानन्तपये प्रोवाच तस्माद्वत्यराति र्जानन्तपि रराजा सन्विद्यया समन्तं सर्वत पृथिवीञ्जयन्परीयाय सहोवाच वासिष्ठ स्सात्यहव्योजैषी र्वै समन्तं सर्वतपृथिवीं महन्मागमयेति स होवाचात्यराति र्जानन्तपि र्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजास्यास्सेनापतिरेव तेहं स्यामिति सहोवाच वासिष्ठ स्सात्यहव्यो देवक्षेत्रँ वै तन्नवैतन्मर्त्यो जेतु मर्हत्यद्रुक्षो वै म आ त इद न्दद इति ततो हात्यरातिञ्जानन्तपि मात्तवीर्य न्निश्शुक्र ममित्रतपन श्शुष्मिण श्शैब्यो राजा जघान तस्मादेवँविदुषे ब्राह्मणायैवञ्चक्रुषे न क्षत्रियो द्रुह्ये न्नेद्राष्ट्रा दवपद्येयन्नेद्वा मा प्राणो जहदिति जहदिति।। 8.4.23।।
इति चतुर्थोध्यायः।।
अष्टम पञ्चिकायां पञ्चमोध्यायः।।
ॐ अथात पुरोधाया एव न हवा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत देवा मेन्न मदन्नित्यग्नीन्वा एष स्स्वर्ग्या न्राजोद्धरते यत्पुरोहितन्तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्य पुत्रोन्वाहार्यपचनस्स यत्पुरोहिताय करो त्याहवनीय एव तज्जुहोत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोभिहुता अभिप्रीता स्स्वर्गँ ल्लोकमभिवहन्ति क्षत्रञ्च बलञ्च राष्ट्रञ्च विशञ्च त एवैन मशान्ततनवोनभिहुता अनभिप्रीतास्स्वर्गाल्लोका न्नुदन्ते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानर पञ्चमेनि र्यत्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभि र्दीप्यमानाभि रुपोदेति राजानं स यदाह क्व भगवो वात्सी स्तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवत्यथ यदस्मा उदक मानयन्ति पाद्यन्तेनास्य तां शमयति यास्य पादयो र्मेनि र्भवत्यथ यदेन मलङ्कुर्वन्ति तेनास्य तां शमयतियास्य त्वचि मेनिर्भवत्यथ यदेन न्तर्पयन्ति तेनास्य तां शमयति यास्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसुवसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति स एनं शान्ततनु रभिहुतो भिप्रीत स्स्वर्गँ लोक मभिवहति क्षत्रञ्च बलञ्च राष्ट्रञ्च विशञ्च स एवैन मशान्ततनु रनभिहुतो नभिप्रीतस्स्वर्गाल्लोका न्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च।। 8.5.24।।
ॐअग्निर्वा एष वैश्वानर पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्रइव भूमिमयुवमार्यस्य राष्ट्रं भवति नैनं पुरायुष प्राणो जहात्याजरस ञ्जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवँविद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितःक्षत्रेण क्षत्रञ्जयति बलेन बलमश्नुते यस्यैवँविद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितस्तस्मै विश स्सञ्जानते संमुखा एकमनसो यस्यैवँ विद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितः।। 8.5.25।।
ॐ तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्याजन्यानि तानेव तच्छुष्मेण वीर्येणाधितिष्ठति बृहस्पतिँ यस्सृभृतं बिभर्तीति बृहस्पतिर्ह वै देवानां पुरोहित स्तमन्वन्ये मनुष्यराज्ञां पुरोहिता बृहस्पतिँ यस्सुभृतं बिभर्तीति यदाह पुरोहितँ यस्सुभृतं बिभर्तीत्येव तदाहवल्गूयति वन्दते पूर्वभाज मित्यपचिति मेवास्मा एतदाह स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओक स्स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानी मित्यन्नँ वा इळान्न मेवास्मा एतदूर्जस्वच्छश्वद्भवति तस्मै विश स्स्वय मेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैन न्तत्स्वय मुपनमन्ति यस्मि न्ब्रह्मा राजनि पूर्व एतीति पुरोहित मेवैतदाहाप्रतीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रति जन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृव्याजन्यानि तानप्रतीतो जयत्यवस्यवेयो वरिव कृणोतीति यदाहावसीयसेयोवसीय करोतीत्येव तदाह ब्रह्मणे राजा तमवन्ति देवा इति पुरोहित मेवैत दभिवदति।। 8.5.26।।
ॐ यो ह वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन् वेद स ब्राह्मण पुरोहित स्स वदेत पुरोधाया अग्निर्वाव पुरोहित पृथिवी पुरोधाता वायुर्वाव पुरोहितोन्तरिक्षं पुरोधातादित्यो वाव पुरोहितो द्यौ पुरोधातैष ह वै पुरोहितोय एवँ वेदाथ स तिरोहितो य एवन्न वेद तस्य राजा मित्रं भवति द्विषन्त मपबाधते यस्यैवँविद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितःक्षत्रेण क्षत्रञ्जयति बलेन बलमश्नुते यस्यैवँविद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितस्तस्मै विश स्सञ्जानते सम्मुखा एकमनसो यस्यैवँविद्वा न्ब्राह्मणो राष्ट्रगोप पुरोहितोभूर्भुव स्स्वरो ममोह मस्मि सत्वं सत्वमस्यमोहन्द्यौ रहं पृथिवी त्वं सामाह मृक्त्व न्तावेह सँवहावहै।पुराण्यस्मा न्महाभयात्। तनूरसि तन्वं मे पाहि।
या ओषधी स्सोमराज्ञीर्बह्वी श्शतविचक्षणाः। तामह्यमस्मिन्नासनेच्छिद्रं शर्म यच्छत।।
या ओषधी स्सोमराज्ञी र्विष्ठिता पृथिवीमनु। ता मह्यमस्मिन्नासनेच्छिद्रं शर्म यच्छत।।
अस्मिन्राष्ट्रे श्रिय मावेशयाम्यतो देवी प्रतिपश्याम्यापः। दक्षिणं पाद मवनेनिजेस्मि न्राष्ट्र इन्द्रिय न्दधामिसव्यं पाद मवनेनिजेस्मि न्राष्ट्र इन्द्रियँ वर्धयामि। पूर्वमन्य मपरमन्यं पादाववनेनिजेदेवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै।।
आप पादावनेजनी र्द्विषन्त न्निर्दहन्तु मे।। 8.5.27।।
ॐ अथातो ब्रह्मण परिमरो यो ह वै ब्रह्मण परिमरँ वेद पर्येनन्द्विषन्तो भ्रातृव्या परिसपत्ना म्रियन्तेयँ वै ब्रह्म योयं पवते तमेता पञ्चदेवता परिम्रियन्ते विद्यु द्वृष्टि श्चन्द्रमा आदित्योग्नि र्विद्युद्वै विद्युत्यवृष्टि मनु प्रविशति सान्तर्धीयते तान्न निर्जानन्ति यदा वै म्रियतेथान्तर्धीयतेथैनन्न निर्जानन्ति सब्रूया द्विद्युतो मरणे द्विषन्मे म्रियतां सोन्तर्धीयता न्तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनन्न निर्जानन्ति वृष्टिर्वै वृष्ट्वा चन्द्रमस मनुप्रविशति सान्त र्धीयते तान्न निर्जानन्ति यदा वै म्रियतेथान्तर्धीयतेथैनन्न निर्जानन्ति स ब्रूया द्वृष्टे र्मरणे द्विषन्मे म्रियतां सोन्तर्धीयता न्तं मा निर्ज्ञासिषु रिति क्षिप्रं हैवैनन्न निर्जानन्ति चन्द्रमा वा अमावास्याया मादित्य मनुप्रविशति सोन्तर्धीयते तन्न निर्जानन्ति यदा वै म्रियतेथा न्तर्धीयतेथैनन्न निर्जानन्ति स ब्रूया च्चन्द्रमसो मरणे द्विषन्मे म्रियतां सोन्तर्धीयता न्तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनन्न निर्जानन्त्यादित्यो वा अस्तँ यन्नग्नि मनुप्रविशति सोन्तर्धीयते तन्न निर्जानन्ति यदा वै म्रियतेथान्तर्धीयतेथैनन्न निर्जानन्ति स ब्रूया दादित्यस्य मरणे द्विषन्मे म्रियतां सोन्तर्धीयतान्तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनन्न निर्जानन्त्यग्नि र्वा उद्वान्वायुमनुप्रविशति सोन्तर्धीयते तन्न निर्जानन्ति यदा वै म्रियतेथान्तर्धीयतेथैनन्न निर्जानन्ति स ब्रूया दग्ने र्मरणे द्विषन्मे म्रियतां सोन्तर्धीयता न्तं मा निर्ज्ञासिषु रिति क्षिप्रं हैवैनन्न निर्जानन्ति तावा एता देवता अत एव पुनर्जायन्ते वायो रग्नि र्जायते प्राणाद्धि बला न्मथ्यमानोधिजायते तन्दृष्ट्वा ब्रूया दग्निर्जायतां मा मे द्विषन्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यत्यग्नेर्वा आदित्यो जायते तन्दृष्ट्वा ब्रूया दादित्यो जायतां मा मे द्विषन्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यत्यादित्याद्वै चन्द्रमा जायते तन्दृष्ट्वा ब्रूया च्चन्द्रमा जायतां मा मे द्विषन्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति चन्द्रमसो वै वृष्टिर्जायते तान्दृष्ट्वा ब्रूया द्वृष्टि र्जायतां मा मे द्विषन्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति वृष्टेर्वै विद्युज्जायते तान्दृष्ट्वा ब्रूया द्वृष्टि र्जायतां मा मे द्विषन्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति स एष ब्रह्मण परिमरस्तमेतं ब्रह्मण परिमरं मैत्रेय कौषारव स्सुत्वनेकैरिशये भार्गायणाय राज्ञे प्रोवाच तं ह पञ्चराजान परिमम्रुस्तत स्सुत्वा महज्जगामतस्य व्रतन्न द्विषत पूर्व उपविशेद्यदि तिष्ठन्तं मन्येत तिष्ठेतैव न द्विषत पूर्व स्सँविशेद्यद्यासीनं मन्येतासीतैव न द्विषत पूर्व प्रस्वप्याद्यदि जाग्रतं मन्येत जाग्रिया देवापि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते।। 8.5.28।।
।इति पञ्चमोध्यायः।। इत्यष्टमपञ्चिका समाप्ता।। इत्यैतरेयब्राह्मणम् समाप्तम्।।
॥ अथैतरेय ब्राह्मणे षष्ठाऽध्याये प्रथमः खण्डः॥
॥ ॐयज्ञेन वै देवाˆ ऊर्ध्वा.स्स्वर्गँ लोक मायं-स्तेऽबिभयु- रिम.न्नो दृष्ट्वा मनुष्याश्च ऋषयश्चानु प्रज्ञास्यन्तीति, तँ वै यूपेनैवायोपयं- स्तँयद्यूपेनैवायोपयं- स्तद्यूपस्य यूपत्व,न्तमवाचीनाग्र न्निमित्योर्ध्वाˆ उदायं-स्ततो वै मनुष्याश्च ऋषयश्च देवानाँ यज्ञवा.स्त्वभ्यायन्,यज्ञस्य किञ्चि.देषिष्याम प्रज्ञात्या इति, ते वै यूप.मेवाविन्द न्नवाचीनाग्र न्निमित,न्ते विदु- रनेन वै दैवा यज्ञ.मयूयुपन्निति, तमुत्खायोर्ध्व न्न्यमिन्वं-स्ततो वै ते प्र यज्ञ मजान- न्प्र स्वर्गँ लोक,न्तद्यद्यूपˆ ऊर्ध्वो निमीयते- यज्ञस्य प्रज्ञात्यै-स्वर्गस्य लोकस्यानुख्यात्यै ॥
राजक्रयब्राह्मणमुक्तमादौ वह्नेः प्रणीति प्रतिपादिकाश्च तथा हविर्धानविवर्तनार्था अग्नेश्च सोमस्य च या ऋचः स्युः। अथ षष्ठाध्यायेऽग्नीषोमीयपशुर्वक्तव्यः। तत्रादौ यूपं वक्तुमाख्यायिकामाहपुरा कदाचिद्देवा ज्योतिष्टोमं यज्ञमनुष्ठाय तत्फलभुतं स्वर्गं प्राप्तास्तत्र चावस्थाय भीतिं प्राप्ताः। केनाभिप्रायेणेति स उच्यते। ये च मनुष्या वर्णाश्रमधर्मप्रवृत्ताः ये च तपसि प्रवृत्तास्ते सर्वेऽप्यस्मदीयमिमं यज्ञं दृष्ट्वा स्वयमप्यनुष्ठाय स्यर्गे समागत्यास्मान्प्रज्ञास्यन्ति ततोऽस्मत्समा भविष्यन्ति। ततस्ते देवा भीता मनुष्याणामृषीणां च व्यामोहाय तमेव स्वकीयं यज्ञं यूपस्तम्बेनैवायोपयन्मिश्रितवन्तः। अन्यथानुष्थानरूपं भ्रममुत्पादितवन्त इत्यर्थः। यस्मात्कारणाद्यूपेनैव तं यज्ञमयोपयनन्यथा कृतवन्तस्तस्माद्योपनसाधनत्वाद्यूपनाम सम्पन्नं। केन क्रमेण व्यामोहितवन्त इति। उच्यते। तं यूपं पूर्वमूर्ध्वाग्रं सन्तमिदानीमवाचीनाग्रमधोमुखं निमित्य निखायोर्ध्वाभिमुखा उद्गतास्तदानीं मनुष्या ऋषयश्च देवानां यज्ञवास्तु यज्ञभूमिमागत्य यञस्य सम्बन्धि चिह्नं यत्किंचिदवगमिष्यामस्तच्च देवानुष्ठितस्य प्रज्ञात्यै सम्पद्यते इत्यभिप्रेत्य यज्ञभूमिं सर्वतः परीक्ष्य यज्ञचिह्नमिदमिति - यूपमेवाविन्दन्नलभन्त॥ कीदृशं यूपमवाचीनाघ्रं निमितमधोमुखत्वेन निखातं ततस्ते मनुष्या ऋषयश्चैवं विदुः। कथमिति तद्युच्यते। अनेनैवाधोमुखेन यूपेन देवा अस्मद्भ्रमायस्वकीयं यज्ञं मिश्रितवन्त इति। ततस्तमधोमुखं निखातं यूपमुखत्पाय पुनरूर्ध्वाभिमुखं न्यमिन्वन्निखातवन्तः। ततो यथाशास्त्रमवस्थितेन यूपेन मनुष्याऋषयश्व देवैरनुष्थितं यज्ञं प्रज्ञाय स्वर्गं लोकं प्रजानन्। तं यज्ञमनुष्थाय स्वर्गं गता इत्यर्थः। सोऽयमर्थः शाखान्तरे संगृहीतः। ‘यज्ञेन वै देवाः सुवर्गं लोकमायंस्तेऽमन्यन्त मनुष्या नोन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायंस्तमृषयो यूपेनैवानु प्राजानंस्तद्यूपस्य यूपत्वं इति इदानीं यूपनिखननं विधत्ते- निमीयते निखातव्य इत्यर्थः॥
॥वज्रो वा एषˆ- यद्यूप,स्सोऽष्टाश्रि कर्तव्यो,ऽष्टाऽश्रि र्वै वज्र-स्तन्तं प्र हरति द्विषते भ्रातृव्याय वधँ योऽस्य स्तृत्य- स्तस्मै स्तर्तवै, वज्रो वै यूप-स्सˆ एषˆ द्विषतो वध उद्यत।स्तिष्ठति, तस्माद्धाप्येतर्हि यो द्वेष्टि- तस्याप्रियं भव-त्यमुष्यायँ यूपोऽमुष्यायँ यूपˆ इति दृष्ट्वा॥
तस्य यूपस्य तक्षणेनाष्टाश्रित्वं विधीयते- यूपस्य वज्रांशत्वेन वज्रत्वम्। तच्च शाखान्तरे श्रूयते- ‘इन्द्रो वृत्राय वज्रं प्राहरत्सत्रेधा व्यभवत्स्थ्यस्तृतीयंरथस्तृतीयं यूपस्तृतीयं’ इति। लोके वज्रान्याष्टकोणत्वात्तद्रूपस्य यूपस्याप्यष्टाश्रित्वं कुर्यात्। द्विषते भ्रातृव्याय वधं द्वेषं कुर्वतः शत्रोर्वधहेतुं तं वज्रं तं यूपं च पुरुषः प्रहरति प्रहारार्धं प्रयुंक्ते। अतो वज्रवत्प्रहरणसामर्थ्याद्यूपस्याष्टाश्रित्वं युक्तम्। यः शत्रुरस्य यजमानस्य स्तृत्यो हिंस्यो भवति तस्मैस्तर्तवै तस्य शत्रोर्हिंसार्थमिदमष्टाश्रित्वम्। अष्टाश्रित्वसिद्धये यूपस्य यद्वज्रत्वमुक्तं तदेव शत्रोरप्रियहेतुत्वेनोपपादयति यो यूपोऽस्ति स एव शत्रोर्वधे निमित्तभुते सति स्वयमुद्यतस्तिष्थत्युद्योगवानवतिष्ठतेऽततो वज्रत्वम्। यस्मादेवं पुरासीत्तस्मादिदानीमपि यः शत्रुर्यजमानं द्वेष्टि तस्य शत्रोर्विरोधियजमानानां यूपस्य दर्शनेन महदप्रियं भवति। अमुश्य विरोधिनो यूप इति निश्चये सत्यप्रियं न तु यूपमात्रदर्शनेन॥
॥खादिरँ यूप.ङ्कुर्वीत स्वर्गकाम- खादिरेण वै यूपेन देवा.स्स्वर्गँ लोक मजयं-स्तथैवैत द्यजमान खादिरेण यूपेन स्वर्गँ लोक.ञ्जयति॥
अथ कामनाविशेषेण यूपस्य प्रकृतिभूता वृक्षविशेषा वक्तव्याः। तत्रादौ खदिरवृक्षं विधत्ते॥
॥ बैल्वँ यूप.ङ्कुर्वीतान्नाद्यकाम पुष्टिकाम- स्समां समाँ वै बिल्वो गृभीत- स्तदन्नाद्यस्य रूप-मामूला.च्छाखाभि.रनुचित.स्तत्पुष्टे, पुष्यति प्रजाञ्च पशूंश्च-यˆ एवँ विद्वा.न्बैल्वँ यूप.ङ्कुरुते॥
फलद्वयार्थं बिल्ववृक्षं विधत्ते- समां समां तस्मिंस्तस्मिन्संवत्सरे बिल्ववृक्षो गृभीतः फलैर्गृहीतः, तच्च फलग्रहणमदनयोग्यस्यान्नास्य रूपम्। बिल्वफलानि भुञ्जानैर्भक्ष्यन्ते। मूलमारभ्य शाखाभिरनुक्रमेणोपचितो बिल्ववृक्षस्तत्रोपचयनं पुष्टेः स्वरूपं तस्मात्फलद्वयं युक्तं। अध्वर्योर्वेदनं प्रशंसति॥
॥यदेव बैल्वाम् 3।। बिल्व.ञ्ज्योतिरिति वा आचक्षते- ज्योति.स्स्वेषु भवति- श्रेष्ठ स्स्वानां भवति-यˆ एवँ वेद,॥
लोकस्य प्रसिद्ध्या बिल्वस्य प्रशस्ततां द्रढयति- अत्र किंपदमध्याहृत्य योजनीयम्। हेऽध्वर्यो किमत्र बैल्वं यूपं क्रुतवानसि तत्सम्यग्भवता कृतम्। बिल्ववृक्षस्वरूपं वृक्षमध्ये श्रीवृक्षनामकत्वेन लक्ष्मीस्वरूपत्वात्पूज्यत्वेन ज्योतिर्भवति। प्लुतिस्तु प्रशंसाद्योतकध्वन्यभिनयार्था। यदेव यस्मादेव कारणाद्ब्रह्मवादिन एवमाचक्षते तस्माद्बैल्वो यूपोऽतिप्रशस्त इत्यर्थः। एतद्वेदनं प्रशंसति- स्वेषु ज्ञातिषु ज्योतिस्तेजस्वी श्रेष्ठः श्रुतवृत्तसम्पन्नः॥
॥, पालाशँ यूप.ङ्कुर्वीत तेजस्कामो ब्रह्मवर्चसकाम- स्तेजो वै ब्रह्मवर्चसँ वनस्पतीनां पलाश-स्तेजस्वी ब्रह्मवर्चसी भवति- यˆ एवँ विद्वा.न्पालाशँ यूप.ङ्कुरुते, यदेव पालाशाम् 3।सर्वेषाँ वा एषˆ वनस्पतीनाँ योनि- र्यत्पलाश,स्तस्मा.त्पलाशस्यैव पलाशेनाचक्षते-ऽमुष्यपलाश- ममुष्यपलाश.मिति, सर्वेषां हास्य वनस्पतीना.ङ्कामˆ उपाप्तो भवति-यˆ एवँ वेद॥
पुनः फलद्वयाय वृक्षान्तरम् विधत्ते- तेजः शरीरकान्तिः। ब्रह्मवर्चसं श्रुताध्ययनसम्पत्तिः। पुश्पाणामतिरिक्तत्वेन पलाशस्य तेजस्त्वं परब्रह्मश्रवणाद्ब्रह्मवर्चसत्वम्। तथा च शाखान्तरे श्रूयते- ‘ देवावै ब्रह्मन्नवंदत तत्पर्ण उपाशृणोत् ’ इति। अध्वर्यो किं पलाशं यूपं कृतवानसि तत्सम्यक्कृतमिति प्रशंसार्था प्लुतिः। किञ्च पलाशः सर्ववनस्पतीनां कारणभूतस्तस्माद्योनित्वात्पलाशाख्यस्य वृक्षस्यैव सम्बन्धिना पलाशशब्देन सर्ववृक्षाणां पत्रमाचक्षते व्यवहरन्ति। अमुष्य न्यग्रोधस्य पलाशं पत्रममुष्य चूतवृक्षस्य पलाशं पत्रमेवं सर्ववृक्षसंग्रहार्था वीप्सा। पलाशशब्दः पुल्लिङ्गोवृक्षविशेषवाची। नपुंसकलिङ्गः। ‘पलाशः किंशुकः पर्णः’ ‘पत्रं पलाशं छदनं दलं पर्णं छदःपुमान्’ इत्यभिधानकारैरुक्तत्वात्। यस्मात्प्लुतिप्रयोगो यस्माच्च सर्ववृक्षयोनित्वं तस्मात्पलाशयूपः प्रशस्त इत्यर्थः। वेदनं प्रशंसति-
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य प्रथमः खण्डः॥
॥ षष्टोध्याये द्वितीयः खण्डः॥
॥ॐ(ऐ)अञ्ज्मो यूप.मनुब्रू 3 ही त्याहाध्वर्यु॥
यूपं विधाय तस्याञ्जनादिमन्त्रान्विधातुं आदौ प्रैषं विधत्ते- यूपमंज्मो यूपस्य घृतेन आञ्जनं कुर्मो हे होतस्तदनुरूपामृचं ब्रूहीत्येवमध्वर्युः प्रैषं ब्रूयात्। स च प्रैषो विकल्पेनापस्तम्बेन दर्शितः- ‘यूपायाज्यमनायानुब्रूहीति सम्प्रेष्यति, आज्यमानायानुब्रूहीति, अंज्मो यूपमनुब्रूहीति वा’ इति। एवमध्वर्युणा प्रेषितो होताञ्जनकाले वक्ष्यमाणा ऋचोऽनुब्रूयात्। अञ्जनं त्वापस्तम्बेन दर्शितम्- ‘अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतः शकलेनानक्त्यैन्द्रमसीति चषालमङ्क्त्व सुपिप्पलाभ्यस्त्वौषधीभ्यः इति प्रतिमुच्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण सन्ततमविच्छन्दन्नग्निष्ठामश्रिमनक्ति’ इति॥
॥अञ्जन्ति त्वा मध्वरे देवयन्तˆ इत्यन्वाहाऽध्वरे ह्येन न्देवयन्तोऽञ्जन्ति, वनस्पते मधुना दैव्येने-त्येतद्वै मधुदैव्यँ- यदाज्यँ, यदूर्ध्व.स्तिष्ठा.द्द्रविणेह धत्ता- द्यद्वा क्षयो मातु रस्याˆ उपस्थ इति- यदि च तिष्ठासि यदि च शयासै- द्रविण मेवास्मासु धत्ता.दित्येव तदाह॥
एतस्मिन्नञ्जनकालेऽनुवचनीयामृचं विधत्ते- हे यूप त्वां देवयन्तो देवान्पूजयितुमिच्छन्त ऋत्विजोंजन्तिघृतेनाक्तं कुर्वन्ति। एतत्पदार्थस्य याज्ञिकप्रसिद्धिं दर्शयति- द्वितीयपादमनूद्य व्याचष्टे- हे वनस्पते यूप मधुरेण देवयोग्येनाऽऽज्येन त्वामञ्जन्तीति पूर्वत्रान्वयः। द्वितीयार्धमनूद्य व्याचष्टे- हे यूप त्वं यदूर्ध्वाग्रः संस्तिष्ठा अवटे स्थितोऽभवः। यद्वा जगन्मातुरस्याः पृथिव्या उपस्थ उपरि क्षयो निवासस्ते शयनं स्यात्सर्वथापीह कर्मणि द्रविणा धनान्यस्मदपेक्षितानि धत्तात्सम्पादयतु। अयमुत्तरार्धस्यार्थो यदिचेत्याना स्पष्टीकृतः॥
॥उच्छ्रयस्व वनस्पतˆ इत्युच्छ्रीयमाणायाऽभिरूपा- यद्यज्ञेऽभिरूप- न्तत्समृद्धँ, वर्ष्म.न्पृथिव्याˆ अधीत्येतद्वै वर्ष्म पृथिव्यै- यत्र यूप मुन्मिन्वन्ति, सुमिती मीयमानो वर्चो धाˆ यज्ञवाहस इत्याशिष माशास्ते॥
द्वितीयामृचं विधत्ते- हे वनस्पते त्वमुच्छ्रयस्व शयनं परित्यज्योच्छ्रितो भव। उच्छ्रयस्वेत्युक्तत्वादुच्छ्रीयमाणाय यूपायेयमृगभिरूपा। तदेतदुच्छ्रयणमापस्तम्बेन दर्शितम्- ‘यूपायोच्छ्रीयमाणायानुब्रूहीति सम्प्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वोद्दिवग्ग् स्तभानान्तरिक्षं पृणेत्युच्छ्रयति’ इति। अस्या ऋचो द्वितीयं पादमनूद्य व्याचष्टे- पृथिव्याः सम्बन्धिनि वर्ष्मन्यरीरवत्प्रधानभूतेऽस्मिन्देशेऽध्युपर्युच्छ्रयस्वेति पूर्वत्रान्वयः। ऋत्विजो यत्र वेदितत्पूर्वदेशयोरन्तराले यूपमुन्मिन्वन्त्यूर्ध्वतया निखनन्ति सोऽयन्देशः पृथिव्या वर्ष्मेति। मन्त्रे तृतीयं पादमनूद्य व्याचष्टे- समिती सुमित्याशोभनेन प्रक्षेपेण स्थापनेन मीयमानः स्याप्यमानो यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चोधा वर्चसां दीप्तानां धाता सम्पादयिता तेन यूपो विशेष्यते। वर्दोधा इत्येतदाशीः प्रार्थना॥
॥समिद्धस्य श्रयमाण पुरस्ता दिति- समिद्धस्य ह्येषˆ एत.त्पुरस्ता च्छ्रयते, ब्रह्म वन्वानो अजरं सुवीर मित्याशिष मेवाशास्त,-आरे अस्मदमतिं बाधमानˆ इत्यशनायाˆ वै पाप्मा मति-स्तामेव त.दारा.न्नुदते यज्ञाच्च यजमाना,च्चोच्छ्रयस्व महते सौभगायेत्याशिष.मेवाशास्त॥
तृतीयामृचं विधत्ते- अन्वाहेत्यनुवर्तते। अयं यूपः समिद्धस्य प्रदीप्तस्याहवनीयस्य पुरस्तात्पूर्वस्यां दिशि श्रयमाण आश्रित्य वर्तमानः। एतत्पदार्थस्य याज्ञिकप्रसिद्धं दर्शयति। अर्धमन्तर्वेद्यर्थं बहिर्वेदियूपश्तापनादाहवनीयपूर्वदिगाश्रहुणम्। द्वितीयपादमनूद्यव्याचष्टे- अमतिर्बुद्धिभ्रंशस्तामस्मद्यजमानर्त्विग्भ्यः आरे दूरे यथा भवति तथा बाधमानो यूपः। एतत्पादगतेनामतिशब्देन क्षुधा वा पापं वाऽभिधीयते। तयोर्बुद्धिभ्रंशहेतुत्वादस्मदित्यनेन यज् ञो यज्ञमानश्च विवक्षितः। ताभ्यां दुर्बुद्धिर्दूरे निरात्रियते। चतुर्थपादमनूद्यव्याचष्टे- हे वनस्पते यजमानस्याधिकसौभाग्यसिद्ध्यर्थमुच्छ्रितो भव। अस्मिन्पाद आशीर्विस्पष्टा॥
॥ऊर्ध्वˆ ऊ षु ण ऊतये तिष्ठा देवो न सवितेति- यद्वै देवाना.न्नेति- तदेषामो 3 मिति, तिष्ठ देवˆइव सवितेत्येव तदा,होर्ध्वो वाजस्य सनितेति वाजसनि मेवैन न्तद्धनसां सनोति, यदञ्जिभि र्वाघद्भि र्विह्वयामह इति- च्छन्दांसि वा अञ्जयो वाघत स्तैरेत.द्देवान्यजमानाˆ वि ह्वयन्ते- मम यज्ञ मागच्छत- मम यज्ञमिति, यदिह वा अपि बहवˆइव यजन्ते-ऽथ हास्य देवाˆ यज्ञमैव गच्छन्ति- यत्रैवँ विद्वा नेता मन्वाह॥
चतुर्थीमृचं विधत्ते- हे यूप नोऽस्माकमूतये रक्षणायोर्ध्व ऊर्ध्वाकार एव सुतिष्थ स्थितिं कुरु। तत्र दृष्टान्तः सविता देवो न सूर्यो देव इव स यथाऽस्मद्रक्षणायोर्ध्वस्तिष्ठति तद्वत्त्वमपीत्यर्थः। एतत्पूर्वार्धगतस्य नशब्दस्य निषेधार्थत्वं परित्यज्याङ्गीकारवाचित्वात्तेनाश्रोपमार्थो विवक्षित इत्येतद्दर्शयति- देवानां देवप्रतिपादकमन्त्राणां वर्णव्यत्ययेन व वेदानां सम्बन्धि नेति यत्पदमस्ति तदेषां वेदानां सम्बन्धिनि प्रयोग ओमित्येतस्मिन्नर्थे वर्तते। तथा सत्यङ्गीकार्यस्यार्थस्य विवक्षितत्वादत्रोपमार्थे विवक्षिते सति तिष्ठ देव इवेत्यादिवाक्यार्थो लभ्यते- तृतीयपादमनूद्य व्याचष्टे यद्यस्मात्कारनादञ्जिभिः क्रत्वभिव्यक्तिकारिभिर्वाग्भिर्वाघद्दिः क्रत्वनुष्ठानभारं वहद्भिरृत्विग्भिः सहिता यजमाना वयं विह्वयामहे विशेषेण देवानाह्वयामस्तस्माद्यूप त्वमूर्ध्वस्तिष्ठेति योज्यम्। अत्राञ्जेवाघच्छब्दाभ्यामृत्विग्रूपमापन्नाश्छन्दोभिमानिनो देवा उच्यन्ते। एतत्पादपाठे छन्दोभिर्नानामन्त्रैऋत्विग्भिः पठ्यमानैस्तैस्तैर्यजमाना देवान्विशेषेण ह्वयन्ति। भो देवा ममैव यज्ञमागच्छतेत्येक एवमन्येऽपि। सर्वसङ्ग्रहार्थेयं वीप्सा। होतुरेतद्वेदनं प्रशंसति- यद्येकस्मिन्काले बहवो यजनाना यजन्त एव यागं कुर्वन्त्येव तथाप्यस्यैव विदुषोऽन्नयुक्तस्यैव यजमानस्य यज्ञं प्रति देवा आगच्छन्ति॥
॥होर्ध्वो न पाह्यंहसो नि केतुना विश्वं समत्रिण न्दहेति- रक्षांसि वै पाप्माऽत्त्रिणो- रक्षांसि पाप्मान न्दहे.त्येव तदाह, कृधी नˆ ऊर्ध्वा.ञ्चरथाय जीवस इति यदाह- कृधी नˆ ऊर्ध्वा.ञ्चरणाय जीवस इत्येव तदाह, यदि ह वा अपिनीतˆइव यजमानो भवति- परि हैवैन न्तत्सँवत्सराय ददाति, विदा देवेषु नो दुवˆ इत्याशिष मेवाशास्ते॥
पञ्चमीमृचं विधत्ते- हे यूप त्वमूर्ध्वस्स्न्केतुना प्रज्ञयानोऽस्मानंहंसः पापान्निपाहि नितरां पालयात्रिणं भक्षणशीलं राक्षसादि विश्वमपि सन्दह समूहीकृत्य भस्मीकुरु। तस्य पूर्वार्धस्य तात्पर्यं दर्शयति- यानि रक्षांसि सन्ति यश्च पाप्मा विद्यते तत्सर्वमत्रिञ्शिब्देन विवक्षितम्। अत उभयदहनं मन्त्रं प्रार्थितम् भवति। तृतीयपादमनूद्य व्याचष्टे च शब्दः पूर्ववाक्येन समुच्चयार्थः अपि च हे यूप रथाय जीवसे रथारोहणपूर्वकाय जीवनाय। यद्वा चरथायेत्येकमेव पदम्। चरथं चरणमाचारस्तस्मै जीवनाय च नोऽस्मानूर्ध्वानुच्छ्रितान्कृधि कुरु, इत्यनेन पादेन मन्त्रो यदाह तत्र चरणस्य विवक्षितत्वादस्मदुक्तमेवार्थं मन्त्र आह- चरथायेति शब्दमाश्रित्य तात्पर्यमभिधाय जीवस इति शब्दमाश्रित्य तद्दर्शयति। यद्यपि यजमानो मृत्युना नीत एव भवति तथाऽपि तत्पादपाठेन मृत्युं परिहृत्यैनं संवत्सरायुष्प्रदाय कालात्मने ददाति। चतुर्थपादमनूद्य व्याचष्टे- नोऽस्मदीयं दुवः परिचरणं देवेषु विदा वेदय कथयेत्यर्थः। अनेन स्वकर्मणां सफलत्वं प्रार्थयते-
॥जातो जायते सुदिनत्वे अह्ना मिति- जातो ह्येषˆ एत.ज्जायते, समर्यˆ आ विदथे वर्धमानˆ इति वर्धय.न्त्येवैनन्त,त्पुनन्ति धीराˆ अपसो मनीषेति पुनन्त्येवैन न्त,द्देवया विप्रˆ उदियर्ति वाचमिति देवेभ्यˆ एवैन न्तन्निवेदयति॥
षष्ठीमृचं विधत्ते- अयं यूपो जातो नित्यप्रादुर्भूतोऽप्यह्नां दिवसानां मध्ये सुदिनत्वे याजयुक्तस्याह्नः सुदिनत्वाय जायते। एतमेवार्थं दर्शयति- एतदेतेन पादपाठेन। द्वितीयपानमनूद्य व्याचष्टे- समर्ये मनुष्यैर्यजमानादिभिर्युक्ते विधथे यज्ञदेश असमन्ताद्वर्धमानो यूप आस्ते तत्पादपाठेन यूपं वर्धयन्त्येव तृतीयपादमनूद्य व्याचष्टे - धीरा धीमन्तो यजमानादयोऽपसः कर्मणो निमित्तभूतान्मनीषा स्वकीयया मनीषया बुद्ध्यापुनन्ति तमिमं यूपं शोधयन्ति। तत्तेन तृतीयपादपाठेन। चतुर्थपादमनूद्य व्याचष्टे- विप्रो ब्राह्मण ऋत्विक्सङ्घो देवया देवगामिनीं वाचं यूपस्तुतिमुदियर्ति, उद्गमयत्युच्चारयतीत्यर्थः। तत्त्तेन चतुर्थपादपाठेनैनं यूयं देवेभ्यः कथयति॥
॥युवा सुवासा परिवीतˆ आऽगा.दित्युत्तमया परिदधाति- प्राणो वै युवा सुवासा- स्सोऽयं शरीरै परिवृत,स्सˆ उ श्रेया न्भवति जायमानˆ इति श्रेयान्छ्रेया न्ह्येषˆ एतद्भवति जायमान,स्तन्धीरास कवयˆ उन्नयन्ति- स्वाध्यो मनसा देवयन्तˆ इति- ये वा अनूचाना- स्ते कवय- स्त एवैन न्तदुन्नयन्ति॥
सप्तम्या समापनं विधत्ते- उक्तास्वृक्षु येयमन्तिमा तयानुवचनं समापयेद्यथा लोके सुवासाः शोभनवस्त्रोपेतो युवा यौवनयुक्तः पुरुषोऽग्रत आगच्छति, एवमयं यूपः पर्तो रशनया वेष्टित आगादिह कर्मण्यायातः। यद्वा युवशब्देन यूपस्य प्रानरूपत्वं विवक्ष्यते तामेतां विवक्षां दर्शयति। कचाचिदपि जरारहित त्वात्प्रानस्य युवत्वं प्राणवेष्टनरूपत्वाच्छरीरावयवानां वस्त्ररूपत्वमीदृशप्राणरूपत्वेन यूपः प्रशस्यते। द्वितीयपादमनूद्य व्याचष्टे- ततः स उ स एव यूवोजायमानः कर्मणि निष्पाद्यमानः श्रेयान्दिनेदिने प्रशस्यतरो भवति। प्रथमतश्छेदनेन प्रशस्तत्वं ततस्तक्षणेन प्रशस्तत्वमञ्जनेन ततोऽपीत्येवं विधविवक्षया श्रेयान्श्रेयानिति वीप्सा प्रयुक्ता। उत्तरार्धमनूद्य व्याचष्टे। तं यूपं धीराःकवयो बुद्धिमन्तोऽनूचानादय उन्नयन्ति स्तूयमानैर्गुणैरुच्छ्रितं कुर्वन्ति। कीदृशाः कवयः स्वाध्याः सुष्ठ्वासमन्ताद्ध्यायतीति स्वाधीस्तस्य बहुवचनं सुधिय इत्यर्थः। मनसा स्वकीयेन देवयन्तो देवानाप्तुमिच्छन्तः। उक्त एवार्थो ये वाऽनूचाना इत्यादिना स्पष्टीकृतः। अत्र प्रथममञ्ज्मो यूपमनुब्रूहीति प्रेषितो यथाञ्जन्ति त्वामिति प्रथमा मन्वाह तथा यूपायोच्छ्रीयमाणायानुब्रूहीति प्रेषित उच्छ्रयस्वेत्याद्या ऋचः पञ्चानुब्रूयात्। तथायूपाय परिवीयमाणायानुब्रूहीति प्रेषितो युवासुवासा इत्येतामनूब्रूयात्॥
॥ताˆ एता.स्सप्तान्वाह रूपसमृद्धाˆ- एतद्वै यज्ञस्य समृद्धँ- यद्रूपसमृद्धँ- यत्कर्मक्रियमाण मृगभिवदति- तासान्त्रि प्रथमा मन्वाह- त्रिरुत्तमा- न्ताˆ एकादशसम्पद्यन्त- एकादशाक्षरा वै त्रिष्टु-प्त्रिष्टु.बिन्द्रस्य वज्रˆ- इन्द्रायतनाभि रेवाभी राध्नोति-यˆ एवँ वेद, त्रि प्रथमा.न्त्रिरुत्तमा मन्वाह- यज्ञस्यैव तद्बर्सौनह्यति-स्थेम्ने बलायाविस्रंसाय॥
उक्तमन्त्रसङ्ख्यादिकं दर्शयति-त्रिष्टुभ इन्द्रस्य वज्रत्वमर्थवादांतरे द्रष्टव्यम्। अथ मीमांसा- द्वादशाध्यायस्य तृतीयपादे चिन्तितम्। उद्दिवेत्युच्छ्रयस्वेति विकल्पो वा समुच्चयः। विकल्पः स्मारकत्वैक्यात्प्रकारान्यत्वतोऽन्तिमः"॥यूपस्योच्छ्रयणे करण एव मन्त्रोऽध्वर्युणा पठ्यते। ‘उद्धिवग्ग् स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृग्ं ह’ इति। उच्छ्रीयमाणाय यूपाय प्रेषितेन होत्राऽयं मन्त्रः पट्यये। ‘उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि’ (ऋ. सं. ३-८-३) इति। मैवं। करण मन्त्र उच्छ्रयणं करोमीत्येवं स्मारयति हौत्रस्तु क्रियमाणमुच्छ्रयणमनुवदन्नध्वर्यो यूपोच्छ्रयणं कर्तव्यमित्येवंविधां स्मृतिं जनयति। तत्र स्वार्थस्योच्छ्रयस्यैकत्वेपि कर्तव्यमित्यस्य च स्मृतिप्रकारस्यान्यत्वानन्नकार्यैक्यं तेन समुच्चयः। तत्रैवान्यच्चिन्तितम्। "उच्छ्रयस्व समिद्धस्येत्यादीनां किं विकल्पना। समुच्चयो वा कर्यैक्यादाद्योऽनुस्मृतयेऽन्तिमः"। उच्छ्रयस्वेत्येका समिद्धस्य श्रयमाण इति द्वितीया, उर्ध्व ऊषुण इति तृतीया, ऊर्ध्वो नः पाहीति चतुर्थी ता एताः क्रियमाणमनुवदन्त्यो होत्रा पठ्यन्ते तासां यूपोच्छ्रयणकर्तव्यतास्मरणस्य कार्यस्यैकत्वाद्विकल्प इति चेन्मैवम्। प्रथममन्त्रेणोत्पन्नायाः स्मृतेरुत्तरोत्तरमनुस्मृतेः पृथक्प्रयोजनत्वात्तस्मात्समुच्चयः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य द्वितीयः खण्डः॥
॥ षष्ठाध्याये तृतीयः खण्डः॥
॥ॐ तिष्ठेद्यूपा 3। अनुप्रहरे 3त्। इत्याहु स्तिष्ठे त्पशुकामस्य॥
यूपाञ्जनादि सम्बद्धा ऋचो विधाय यूपविषयं किञ्चिद्विचारमवतारयति- कर्मणि समाप्ते सति पश्चादयं यूपः किं स्वस्थाने तिष्ठेत्किं वा तं यूपं वह्नौ प्रहरेदित्येवं विचारं ब्रह्मवादिन आहुः। विचारार्थं प्लुतिद्वयम्। तत्र कामनाविशेषेण स्थितिपक्षं स्वीकरोति-
॥देवेभ्यो वै पशवोऽन्नाद्यायालम्भाय नातिष्ठन्त,तेऽपक्रम्य प्रति वावदतोऽतिष्ठ- न्नास्मा नालप्स्यध्वे नास्मानिति,ततो वै देवा एतँ यूपँ वज्र.मपश्यं-स्तमेभ्य उदश्रयं-स्तस्मा.द्बिभ्यतˆ उपावर्तन्त,तमेवाद्याप्युपावृत्ता,स्ततो वै देवेभ्य पशवोऽन्नाद्याया लम्भायातिष्ठन्त,तिष्ठन्तेऽस्मै पशवोऽन्नाद्याया लम्भाय- यˆ एवँ वेद- यस्य चैवँ विदुषो यूप स्तिष्ठति॥
तदेतदुपपादायितुमाख्यायिकामाह- पुरा कदाचिद्देवेभ्यो देवानामन्नाद्याय पयोदध्याद्यन्नभक्षणायाऽऽलम्भायाग्नीषोमीयवायव्यादिपश्वालम्भनकर्मणे च पशवो नातिष्ठन्त नाङ्गीकृतवन्तोऽनङ्गीकृत्य ते पशवो देवेभ्योऽपक्रम्य प्रतिवावदतः प्रत्युत्तरं पुनः पुनः वदन्तो दूरेऽतिष्ठन्। किं तदुत्तरमिति तदुच्यते। हे देवा यूयं कदाचिदपि नास्मानालप्स्यध्वेऽस्मान्पशूनालब्धुं कर्मणि विशसितुं समर्था न भविष्यथ। पुनरपि नास्मानिति वाक्यावृत्तिरादरार्था। सर्वथैवास्मदालम्भो न घटिष्यते। तत्प्रत्युत्तरं श्रुत्वा देवाः पशुभीतिहेतुमेतं यूपं वज्ररूपमपश्यन्। यूपस्य वज्रत्वश्रुतिः पूर्वमेवोदाहृता। तं यूपमेभ्यः पश्वर्थमुदश्रयन्, ऊर्ध्वमवस्थापयन्। तस्मादुच्छ्रिताद्यूपाद्बिभ्यतः पशवो देवानुपावर्तन्त। यस्मादेवं पूर्वं वृत्तं तस्मादिदानीमपि यागेषु तमेव यूपमुद्दिश्य पशव उपावृत्ता दृश्यन्ते। ततो देवानां दध्याद्यन्नाय कर्मस्वालम्भाय च पशवोङ्गीकृतमतः। एतद्वेदनं यूपावस्थानं च प्रशंसति- यस्य यजमानस्येत्यर्थः॥
॥त्यनुप्रहरे.त्स्वर्गकामस्य,तमु ह स्मैतं पूर्वेऽन्वेव प्रहरन्ति,यजमानो वै यूपो- यजमान प्रस्तरो-ऽग्निर्वै देवयोनि- स्सोऽग्ने र्देवयोन्याˆ आहुतिभ्य स्सम्भूय हिरण्यशरीरˆ ऊर्ध्व स्स्वर्गँ लोक मेष्यतीति॥
अथ फलविशेषाय प्रहरणपक्षमुपादत्ते- कर्मसमाप्तिमनु तं यूपमग्नौ प्रक्षिपेत्। तदेतदुपपादयति- पूर्वे यजमानाः स्वर्गकामाः कर्मसमाप्तिमनु तमेतंयूपं प्रहरन्त्येव। तत्रैव युक्त्यंतरमाह- योऽयं यूपोऽस्ति यस्तु प्रस्तराख्यो दर्भमुष्टिः तयोर्यजमानवत्कर्मणि मुख्यत्वाद्यजमानत्वोपचारः। अग्निश्च देवानां योनिः कारणमग्निसाध्यकर्मणो देवजन्महेतुत्वात्। एवं सति यजमानो देवयोन्या अग्नेस्तस्मिन् हुताद्यूपादहुतिभिश्च सम्भूय देवजन्म प्राप्य सुवर्णमय शरीर ऊर्ध्वाभिमुखः स्वर्गं लोकं प्राप्स्यति। तस्मात्स्वर्गकामस्य यूपग्रहणं युक्तम्॥
॥अथ ये तेभ्योऽवर आसं-स्त एतं स्वरु मपश्यन् यूपशकलं- तन्तस्मि.न्कालेऽनुप्रहरेत्- तत्र सकामˆ उपाप्तो- योऽनुप्रहरणे- तत्र सकामˆ उपाप्तो य.स्स्थाने॥
नन्विदानीन्तनैः स्वर्गकामैः क्रतोर्यूपो न प्रह्रियत इत्याशङ्क्य तेषां प्रतिनिधिं दर्शयति- पूर्वसिद्धेभ्योऽनुष्ठातृभ्य ऋषिभ्योऽवरे ये केचिदर्वाचीना इदानीन्तना यजमाना आसंस्ते सर्वे यूपस्य प्रतिनिधित्वेन यूपशकलमेतं स्वरुनामकं स्वल्पं काष्ठखण्डमपश्यन्। तस्मादिदानीन्तनो यजमानस्तस्मिन्यूपप्रहरनकाले तं स्वरुमनुप्रहरेत्। एतच्च शाखान्तरे श्रूयते- ‘देवा वै संस्थिते सोमे प्रस्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरस्रुचां निष्क्रयणमपश्यन्। स्वरुं यूपस्य संस्थिते सोमे प्रस्तरं प्रहरति स्वरुमयज्ञवेशसाय’ इति। तथासति यूपप्रहरणे यः काम उक्तः सोऽपि तत्र प्रक्षेपणपक्षे प्राप्तोभवति यूपस्य स्वरूपेणावस्थितत्वात्। तदेतत्स्वरुप्रहरणमापस्तम्बेन दर्शितम्- ‘जुह्वां स्वरुमवदायानु याजान्ते जुहोति द्यां ते धूमो गच्छतु’ इति॥
॥सर्वाभ्यो वा एष देवताभ्यˆ आत्मान मालभते- यो दीक्षते,ऽग्नि स्सर्वाˆ देवता- स्सोम स्सर्वाˆ देवता- स्सˆ यदग्नीषोमीयं पशुमालभते- सर्वाभ्यˆ एव तद्देवताभ्यो यजमानˆ आत्मान न्निष्क्रीणीत॥
अथाग्नीषोमीयपश्वालम्भं विधत्ते- यो यजमानो दीक्षते सोमयागे दीक्षां प्राप्नोति स यजमानः सर्वदेवार्थमात्मानमेव पशुत्वेनालब्धुमुपक्रमते। अत्र च योऽग्निर्यश्च सोमस्तावुभौ सर्वदेवतात्मकावग्नेराहुत्यधिकरणत्वेन सोमस्य च होमद्रव्यत्वेन च सर्वोपकारित्वात्। तथा सत्यग्नीषोमीयपश्वालम्भनेन सर्वदेवतानां सकाशाद्यजमानः स्वात्मानं निष्क्रीणीतवान्भवति। तस्मादग्नीषोमीयपशुरालब्धव्यः। सोऽयमर्थः श्रुत्यन्तरे सङ्गृहीतः। ‘पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षते यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयणमेवास्य’ इति।
॥तदाहु र्द्विरूपो ऽग्नीषोमीय कर्तव्यो द्विदेवत्यो हीति- तत्तन्नादृत्यं,पीवˆ इव कर्तव्य- पीवोरूपाˆ वै पशव- कृशितˆ इव खलु वै यजमानो भवति- तद्यत्पीवा पशु र्भवति- यजमान मेव तत्स्वेन मेधेन समर्धयति॥
अथ पूर्वोत्तरपक्षाभ्यां पशुशरीरस्य रूपविशेषं निश्चिनोति। तत्तत्राग्नीषोमीयपशौ ब्रह्मवादिनः पूर्वपक्षमाहुः। यस्मादस्य पशोरग्निश्च सोमश्च्येते द्वे देवते तस्मात्तदनुसारेण यः पशुर्द्विरूपः शुक्लकृष्णादि वर्णद्वयोपेतः स कर्तव्य इति तदेतद्ब्रह्मवादिमतमनादरणीयम्। किन्तु पीव इव शरीर पुष्ट्या स्थूलएव पशुः कर्तव्यः। लोके हि पशवः पीवोरूपा वै मेदोवृद्ध्या वै प्रायेण स्थूलरूपा एव भवन्ति। यजमानस्तु पश्वनुष्ठानदिने कृशित इवोपसद्दिनेषु स्वल्पक्षीराहारेण तदानीं कृश एव भवति। तत्तथासति यद्ययं पशुः स्थूलो भवेत्तत्तेन पशुस्थाल्येन कृशशरीरं यजमानमेव स्वेन मेधेन स्वकीययज्ञसाधनरूपेण समृद्धं करोति॥
॥तदाहु र्नाग्नीषोमीयस्य पशो.रश्नीयात्,पुरुषस्य वा एषोऽश्नाति- योऽग्नीषोमीयस्य पशो.रश्नाति- यजमानो ह्येतेनात्मान न्निष्क्रीणीत इति तत्तन्नादृत्यँ,वार्त्रघ्नँ वा एत.द्धवि- र्यदग्नीषोमीयो,ऽग्नीषोमाभ्याँ वा इन्द्रो वृत्र.महं-स्तावेन मब्रूता- मावाभ्याँ वै वृत्र मवधी- र्वर.न्ते वृणावहा इति- वृणाथामिति,तावेत.मेव वर.मवृणातां- श्वस्सुत्यायां पशुं, स एनयो रेषोऽच्युतो- वरवृतो ह्येनयो,स्तस्मा.त्तस्याशितव्यञ्चैव लीप्सितव्यञ्च॥
पुनरपि पूर्वोत्तरपक्षाभ्यां पशुलक्षणस्य हविषः शेष भक्षणमुपपादयितुं पूर्वपक्षमाह- तत्तत्र पशौ पूर्वपक्षिण आहुरग्नीषोमीयस्य पशोर्मांस नाश्नीयाद्यस्तद्भक्षयत्यसौ पुरुषस्य मांसमेव भक्षयति। यस्माद्यजमान एतेन पशुना स्वात्मानं निष्क्रीणीते तस्मातत्स्वरूपोऽयं पशुः। इति शब्दः पूर्वपक्षसमाप्त्यर्थः। तं निराकृत्य सिद्धान्तमाह- तत्पूर्वपक्षिभिरुक्तमनादरणीयं योऽग्नीषोमीयः पशुरस्ति एतद्वार्त्रघ्नं वृत्रहत्यानिमित्तं हविः। कथमेतदिति तदुच्यते- अग्नीषोमाभ्यां निमित्तभूताभ्यां इन्द्रो वृत्रं हतवान्। अस्यार्थस्य श्रुत्यन्तरद्योतनार्थो वै शब्दः। सोऽयमर्थः श्रुत्यन्तरे त्वष्टा हतपुत्र इत्यनुवाके प्रपञ्चितः। वृत्रे हते सतीन्द्रं प्रत्यग्नीषोमावेवमब्रूतां हे इन्द्र वां निमित्तं वृत्रं हतवानसि। अतो वृत्रवधस्य निमित्तभूतावावां तव सकाशाद्वरं प्रार्थयावहै। इत्युक्त्वा वरं प्रार्थिवन्तौ श्वः सुत्यायां परेद्युः सोमाभिषवे प्रसक्तेसति पूर्वदिने पशुरूपं वरं वृतवन्तौ। स एष पशुरेनयोरग्नीषोमयोरच्युतोऽवश्यं कर्तव्यः। वरेण वृत्तत्वात्। तस्मादेवं प्रशस्तत्वात्तस्य पशोर्मांसमशितव्यं चैव सर्वदा ब्य्हक्षितव्यमेव। न केवलं भक्षणं किन्तु लीप्सितव्यं च भक्षणात्पूर्वमादरेण महता लुब्धुमेष्टव्यमपि। तावेतौ पूर्वोत्तरपक्षौ शाखान्तरे सङ्गृहीतौ। ‘तस्मान्नाऽऽवश्यं पुरुषनिष्क्रयणमथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाऽऽश्यं" इति॥ अत्र मीमांसा- प्रथमाध्याये चतुर्थपादे चिन्तितम्- "यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः। सामानाधिकरण्येन स्यादेकस्यान्यनामता॥गुणोवा यजमानोऽस्तु कार्ये प्रस्तरवर्ति (लक्षि)ते। अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः। सर्व(अर्थ) भेदादनामत्वं गुणशेत्प्रह्रियेत सः"॥यागसाधनताद्वारा प्रधान (विधेय) प्रस्तरस्तुतिः। इदमाम्नायते। ‘यजमानः प्रस्तरः’ इति। तत्र यजमानस्य प्रस्तरशब्दो नामधेयं यागेनेत्यादाविव सामानाधिकरण्यादित्येकः पक्षाः। गुणविधिरित्यपरस्तत्रापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभातात्। प्रस्तरकार्येस्रुग्धारनादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते। एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकश्वेपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भविष्यति। न चात्र पूर्वन्यायेन स्तुतिः सम्भवति। अष्टाकपालद्वादशकपालयोरिवांशान्तित्वाभावात्। वायुर्वै क्षेपिष्ठा देवता, ऊर्जोऽवरुध्या इतिवत्स्तुतिरिति चेत्। न, प्रस्तारादिधर्मवत्कस्यचिदुत्कर्षस्य अप्रतीतेः। तस्मान्नामगुणोयोदन्यतरत्वमितिप्राप्ते ब्रूमः। गोमहिषयोरिवाऽर्थभेदस्यात्यन्तप्रसिद्धत्वान्न नामधेयत्वं युक्तम्। गुणपक्षेऽग्नौ प्रहरणस्य प्रस्तरविषयत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात्। तस्मात्प्रस्तरशब्दो यजमानशब्देन स्तूयते। यथा सिंहो देवदत्त इत्यत्र सिंहगुणेन सौर्यादिनोपेतो देवदत्तः सिंह इत्याख्यायते तथा यजमानगुणेन यागसाधनत्वेन युक्ताः प्रस्तरो यजमानशब्देन स्तूयते। एवं यजमानो यूपो यजमानः प्रस्तर इत्यादिषु द्रष्टव्यम्॥ चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम्-"स्वयम् कुरुत इत्यत्र स्वरुर्यूपात्पृथक्क्रियां। प्रयोजयेन्न वाद्योऽस्तु विशिष्टस्य विधानतः॥ आद्यस्य यूपखण्डस्य स्वरौ तस्य विशेषणे। विहिते लाघवं तस्मादनुनिष्पन्न एव सः"। अग्नीषोमीयपशौ श्रूयते- ‘यूपस्य स्वरुं करोति’ इति तत्र यूपो यथा छेदनस्य प्रयोजकस्तथा स्वरुश्छेदनं प्रयोजयति। कुतः करोतीत्यनेन विशिष्टविधि प्रतीतेः। करोतिधातोर्भावना मुख्योऽर्थः। तत्र यूपशब्दोपलक्षितः खदिरादिवृक्षः करणं छेदनादिरितिकर्तव्यता छिन्नेन वृक्षेण स्वरुरुत्पादनीयैति विशिष्टविधिः। उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- ‘स्वरुणा पशुमनक्ति’ इति। तस्मात्स्वरुश्छेदनस्य प्रयोजक इति प्राप्ते ब्रूमः। वक्ष्यमाण (छिद्यमान) स्य यूपस्य यः प्रथमः पतितः शकलः स स्वरुरिति स्वरुत्वनाममात्रविधेर्लाघवात्स्वरुर्न च्छेदनस्य प्रयोजकः किन्तु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य तृतीयः खण्डः॥
॥ षष्ठाध्याये चतुर्थः खण्डः॥
॥ॐआप्रीभि राप्रीणाति, तेजो वै ब्रह्मवर्चस माप्रिय-स्तेजसैवैन न्तद्ब्रह्मवर्चसेन समर्धयति॥
अग्नीषोमीयं पशुं विधाय तत्रैकादश प्रयाजान्विधत्ते- तेषांप्रयाजादीनां याज्याः प्रीतिहेतुत्वादाप्रीशब्देनोच्यन्ते। एतच्च शाखान्तरे श्रुतम्- ‘आप्रीभिराप्नुर्व, तदाप्रीणामाप्रित्वम्’ इति। ताभिराप्रीसंज्ञकाभिः प्रयाजादिभिराप्रीणाति देवताः सर्वत्र प्रीणयेत्तत्प्रीत्यर्थं याज्याः पठेदित्यर्थः। ताः प्रशंसति- आज्यद्रव्यकत्वात्तेजस्त्वं शास्त्रीय संस्कारसाधनत्वाद्ब्रह्मवर्चसत्वं तेन याज्या पाठेन यजमानस्य तदुभयं समृद्धं भवति॥
॥समिधो यजति- प्राणाˆ वै समिध- प्राणाˆ हीदं सर्वं समिन्धते- यदिद.ङ्किञ्च, प्राणानेव तत्प्रीणाति- प्राणान्यजमाने दधाति॥
प्रथमं प्रयाजं विधत्ते- समिन्नामकदेवतात्वाद्यागोऽपि समिध इत्यनेन शब्देनोच्यते। समिन्नामक यागं कुर्यादित्यर्थः। यद्वा हौत्रप्रकरणत्वात्समिद्देवताविषयां याज्यां पठेदित्यर्थः। तत्प्रकारं बौधायन आह ‘यदा जानाति समिद्भ्यः प्रेषेति तन्मैत्रावरुणः प्रेष्यति होता यक्षदग्निं समिधा सुषमिधा समिद्धमित्यथ होता यजति समिद्धो अद्य मनुषो दुरोणे तावेवमेव व्यतिषङ्गमुत्तरेण मैत्रावरुणः प्रेष्यति, उत्तरेणोत्तरेण होता यजति’ इति। अस्यायमर्थः। समिद्भ्यः प्रेष्येति मन्त्रेणाध्वर्युर्मैत्रावरुणं प्रेष्यति तदानीमयं मैत्रावरुणः प्रैषसूक्तेन होता यक्षदग्निं समिधेत्यनेन प्रथममन्त्रेण होतारं प्रेष्यति होताऽप्यप्रीसूक्ते समिद्धो अद्येत्येतां प्रथमयाज्यां पठति एवमुत्तरत्राध्वर्युर्मैत्रावरुणहोतारौ परस्परसन्निधौ स्वस्वमन्त्रयागं कुर्यातमिति तत्र प्रथमा याज्येति। अथ समिद्देवतां प्रशंसति- समिधः समिन्धनस्य सम्यक्प्रकाशहेतवः प्रथमप्रयाजदेवताः। प्राणस्वरूपदेवताया एकत्वेऽक्पि समिध इति बहुवचनं पूजार्थं। जगति यत्किञ्चिदिदं शरीरजातमस्ति तत्सर्वं प्राणाः समिन्धते प्रकाशयंत्य्वतस्तेषां समिद्रूपत्वं तत्तेन याज्यापठेन प्राणानेव तोषयति तद्यजमानेऽपि प्राणान्सम्पादयति। अत्र प्रज्याजानां क्रमेण समिधस्तनूनपान्नराशंस इळो बर्हिर्दुर उषासानक्ता दैव्याहोतारा तिस्रो देव्यस्त्वष्टा वनस्पतिः स्वाहाकृतय इत्येता देवताः। वसिष्ठ शुनकात्रिवध्र्यश्वराजन्यानां नराशंसो द्वितीयः। अन्येषां तनूनपाद्द्वितीया(यः)॥
॥तनूनपातँ यजति- प्राणो वै तनूनपात्- स हि तन्व पाति- प्राणमेव तत्प्रीणाति- प्राणँ यजमाने दधाति॥
तद्देवताविषयां द्वितीयां याज्यां विधत्ते- अत्राध्वर्युप्रैषप्रकारमापस्तम्ब आह- ‘समिद्भ्यः प्रेष्येति प्रथमं सम्प्रेष्यति प्रेष्य प्रेष्येतीतरान्’ इति। अतोऽस्माद्वितीयपर्याये प्रेष्येति मन्त्रेणाध्वर्युर्मैत्रावरुणं प्रेष्यति। स च मैत्रावरुणः प्रैषसूक्तगतेन होता यक्षत्तनूनपातमित्यनेन द्वितीयमन्त्रेण होतारं प्रेष्यति। स तु होताऽऽप्रीसूक्तगतां तनूनपादित्येतां द्वितीयां याज्यां पठेत्। तनूं शरीरं न पातयतीति तनूनपात् शरीरे वसति प्राणे न पतति किन्तु प्राणः शरीरानि चालयत्यतस्तनूनपाद्देवस्य प्राणरूपत्वम्॥
॥नराशंसँ यजति- प्रजा वै नरो- वाक्शंस- प्रजाञ्चैव तद्वाचञ्च प्रीणाति- प्रजाञ्च वाचञ्च यजमाने दधाति॥
द्वितीय प्रयाजयाज्यान्तरं विधत्ते- अध्वर्युप्रेषितो मैत्रावरुणो होता यक्षन्नराशंसमिति मन्त्रेणहोतारं प्रेष्यति होता नाराशंसस्येति याज्यां पठेत्। नरान्मनुष्यान् शंसति वाचा स्तौतीति नाराशंसः। तथासति प्रजाया नरशब्द वाच्यत्वाद्वाचश्च शंसनहेतुत्वादुभयप्रीतिर्यजमानेऽपि तदुभयसम्पत्तिः। अनयोरुभयोर्मन्त्रयोरधिकारिभेदेन व्यवस्थामापस्तम्ब आह - ‘ नाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम्’ इति॥
॥तीळो यज-त्यन्नँ वा इळोऽन्नमेव तत्प्रीणा-त्यन्नँ यजमाने दधाति॥
तृतीयां प्रयाजयाज्यां विधत्त्ते- होता यक्षत् (१.१३९.१०) अग्निमीळ (१.१.१.) ईळत इति प्रेषितो होताऽऽजुह्वान इत्येतां याज्यां पठेत्। इष्यत इति व्युत्पत्याऽन्नमिट्शब्दवाच्यम्॥
॥बर्हि र्यजति- पशवो वै बर्हि- पशूनेव तत्प्रीणाति- पशून् यजमाने दधाति॥
चतुर्थीं विधत्ते- होता यक्षद्बर्हिः सुष्टरीमिति मन्त्रेण प्रेषितो होता प्राचीनं बर्हिरित्येतां याज्यां पठेत्। बृंहणस्य पोषणस्य हेतुर्बर्हिः पशवश्च क्षीरादिदानेन तादृशत्वाद्बर्हिः स्वरूपाः॥
॥ दुरो यजति- वृष्टिर्वै दुरो- वृष्टिमेव तत्प्रीणाति- वृष्टिमन्नाद्यँ यजमाने दधाति॥
अथ पञ्चमीं विधत्ते- होता यक्षद्दुर ऋष्वा इत्यादिना मन्त्रेण प्रेषितो व्यचस्वतीरुर्वियेत्येतां याज्यां पठेत्। दुरो द्वारदेवतां वृष्टिश्च जीवनद्वारा॥
॥उषासानक्ता यज-त्यहोरात्रे~ वा उषासानक्ता-ऽहोरात्रे~ एव तत्प्रीणा- त्यहोरात्रयो र्यजमान न्दधाति॥
षष्ठीं विधत्ते - होता यक्षदुषासानक्तेति मन्त्रेण प्रेषित आ सुष्वयन्तीत्यादिकां याज्यां पठेत्। उषः शब्दस्य नक्तशब्दस्य चाहोरात्रविषयत्वं लोकप्रसिद्धम्॥
॥दैव्या होतारा यजति- प्राणापानौ वै दैव्या होतारा- प्राणपाना.वेव तत्प्रीणाति- प्राणापानौ यजमाने दधाति॥
सप्तमीं विधत्ते- होता यक्षद्दैव्या होतारेति मन्त्रेण प्रेषितो दैव्या होतारा प्रथमेति याज्यां पठेत्॥
॥तिस्रो देवी र्यजति- प्राणो वा अपानो- व्यान स्तिस्रो देव्य-स्ताˆ एव तत्प्रीणाति- ताˆ यजमाने दधाति॥
अष्टमीं विधत्ते- होता यक्षत्तिस्र इत्यादिमन्त्रेण प्रेषित आ नो यज्ञमिति याज्यां पठेत्। इळा सरस्वती भारतीति शब्दैरभिधेया देव्यो यथा तिस्र एवं प्राणापानव्याना अपि सङ्ख्यासाम्यात्तिस्रो देव्यः॥
॥ त्वष्टारँ यजति-वाग्वै त्वष्टा- वाग्घीदं सर्व न्ताष्टीव वाचमेव तत्प्रीणाति- वाचँ यजमाने दधाति॥
नवमीं विधत्ते- होता यक्षत्त्वष्टारमिति मन्त्रेण प्रेषितो होता य इमे द्यावापृथिवी इति याज्यां पठेत्। तक्षू त्वक्षू तनूकरण इत्यत्र त्वक्षीत्यादिधातोरुत्पन्नः शब्दस्त्वष्टारं देवतामाचष्टे। वाचश्च तक्षणहेतुत्त्वात्त्वष्टृत्वं तदेव वाग्घीत्यनेन स्पष्टीक्रियते- यस्मादिदं सर्वं जगद्वाक्ताष्टीव तक्षतीव यथा तक्षणेन काष्ठं प्रौढमपि सूक्ष्मं भवति। एवं मनान्तोपि पर्वतादयोऽल्पेनैव गृह्यन्ते। तदेतज्जगत्तष्टमिव भवति॥
॥वनस्पतिँ यजति- प्राणो वै वनस्पति- प्राणमेव तत्प्रीणाति- प्राणँ यजमाने दधाति॥
दशमीं विधत्ते- होता यक्षद्वनस्पतिमित्यादि मन्त्रेण प्रेषित उपावसृजदिति याज्यां पठेत्। वनस्पतिजन्यफलानां प्राणावस्थितिहेतुत्वाद्वनस्पतेः प्राणत्वम्॥
॥स्वाहाकृती.र्यजति- प्रतिष्ठा वै स्वाहाकृतय- प्रतिष्ठायामेव तद्यज्ञ.मन्तत प्रतिष्ठापयति॥
एकादशीं विधत्ते- होता यक्षदग्निं स्वाहेति मन्त्रेण प्रेषितः सद्यो जात इति याज्यां पठेत्। स्वाहाकृतीनामाहुतिसमाप्तिहेतुत्वात्प्रतिष्ठात्वं तन्मन्त्रपाठेनैनं यज्ञमन्ततः समाप्त्यवसरे प्रतिष्ठायामेव वैकल्यराहित्यरूपायां प्रतिष्ठापयति॥
॥ताभिर्यथ-ऋष्याप्रीणीयाद्,यद्यथ ऋष्याप्रीणाति- यजमान मेव तद्बन्धुतायानोत्सृजति॥
दशतो बहुविधानामाप्रीसूक्तानामाम्नातत्वाद्विकल्पः स्यादित्याशंक्याधिकारिभेदेन व्यवस्थां विधत्ते- नोत्सृजति न निःसारयति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य चतुर्थः खण्डः॥
॥ षष्ठाध्याये पञ्चमः खण्डः॥
॥ॐपर्यग्नये क्रियमाणायानुब्रू3 हीत्याहाध्वर्यु॥
अप्रियो विधाय पर्यग्निकरणा ऋचो विधातुमादौ प्रैषमन्त्रं विधत्ते- पर्यग्निकरणस्य स्वरूपमापस्तम्बो दर्शयति- ‘आहवनीयदुल्मुकमादायाऽऽग्नीध्रः परि वाजपतिः’ (४.१५.३.) इति त्रिः प्रदक्षिणं पर्यग्निकरोति पशुं इति। एवं परितः क्रियमाणायाग्नये योग्या ऋचो हे मैत्रावरुण त्वमनुब्रूहि। अनेनैव मन्त्रेणाध्वर्युः प्रेषयेत्॥
॥रग्निर्होता नो अध्वर इति तृच माग्नेय.ङ्गायत्र मन्वाह पर्यग्नि.क्रियमाणे, स्वयैवैन न्तद्देवतया स्वेन च्छन्दसा समर्धयति॥
मैत्रावरुणेनानुवक्तव्यास्तिस्र ऋचो विधत्ते- पशोः परितोऽग्निरित्यस्मिन्नर्थे पर्यग्नीत्युच्यते। तस्मिन्क्रियमाणे तृचं मैत्रावरुणोऽनुब्रूयात्। तदाहाऽऽश्वलायनः- ‘प्रेषितो मैत्रावरुणोऽग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह’ इति। तृचस्याऽऽदावग्निरित्युक्तत्वादाग्नेयत्वं छन्दश्च तृचस्य गायत्रं परितः क्रियमाणोऽग्निरेव मन्त्रप्रतिपाद्योऽपि। स एवातः स्वयैव देवतयेत्युच्यते। अग्निगायत्र्योर्मुखजत्वसाम्याच्छन्दसः स्वत्वम्॥ नोऽस्माकमध्वरे यज्ञेऽयमग्निर्होता यज्ञनिष्पादक इति तस्य पादस्यार्थः॥
॥वाजी सन्परिणीयत इति वाजिन.मिव ह्येनं सन्तं परिणयन्ति॥
द्वितीयं पादमनूद्य व्याचष्टे- अयमग्निर्वाज्यन्नप्रदानेनान्नवान्गतिमान्वा तादृशः सन्नृत्विग्भिः पशोः परितो नीयते तत्पादपाठेनैनमग्निं वाजिनमेव सन्तमृत्विजः परितो नयन्ति॥
॥परि त्रिविष्ट्यध्वरँ - यात्यग्नी रथीरिवे-त्येषˆ हि रथीरिवाध्वरं परि याति॥
द्वितीयस्या ऋचः पूर्वार्धमनूद्य तात्पर्यं दर्शयति॥
॥ परि वाजपति कविरि-त्येषˆ हि वाजानां पतिरतिः॥
तृतीयस्या ऋचः प्रथमपादमनूद्य व्याचष्टे- कविरनूजानः। ‘ये वा अनूचानास्ते कवयः’ इति श्रुतेः। तादृशोऽग्निर्वाजपतिरन्नस्वामी। एष हीत्यादिना तदर्थप्रसिद्धिरित्युच्यते। अन्नभक्षकत्वाद्वाजपतिः॥
॥उपप्रेष्य होत र्हव्या देवेभ्यˆ इत्याहाध्वर्यु॥
अथ होतारं प्रति मैत्रावरुण प्रैषार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रं विधत्ते- अतः पर्यग्निकरणानुवचनादूर्ध्वमध्वर्युरुपप्रेष्येत्यादिकं प्रैषमन्त्रं पठेत्। होतर्देवेभ्यो हवींष्युपप्रेष्यप्रेरयेति तस्यार्थः। अत्र मैत्रावरुणस्य होतृसमीपे वरणीयत्वाद्धोतृशब्द उपलक्षकः। तथा सति मैत्रावरुणं प्रत्यध्वर्योर्मन्त्रो भविष्यति॥
॥अजै.दग्नि रसन द्वाजमिति मैत्रावरुणˆ उपप्रैषं प्रतिपद्यते॥
अथ मैत्रावरुणेन पठनीयं मन्त्रं विधत्ते- अत्र शामित्रदेशं प्रतिनीयमानस्य पशोः पुरतो य उल्मुकाकारोऽग्निर्गच्छति सोऽग्निरजैज्जयतु। पशोः पुरस्तादग्नेर्गमनं शाखान्तरे श्रूयते- "अग्निना पुरस्तादेति रक्षासामपहत्यै’ इति। तस्याग्नेर्जयो नाम हविःसम्पादनसामर्थ्यं सोऽग्निर्वाजमन्नं हविर्लक्षणमसनत्। अस्य मन्त्रस्यान्तरुपप्रेष्य होतर्हव्या देवेभ्य इति श्रूयते। यतो होतारं प्रति मैत्रावरुणो मुख्यस्याध्वर्युप्रैष्यस्य समीपवर्तित्वादयमुपप्रेष्यः॥
॥ तदाहु- र्यदध्वर्यु र्होतार मुप प्रेष्य-त्यथ कस्मा न्मैत्रावरुणˆ उपप्रैषं प्रतिपद्यत इति, मनो वै यज्ञस्य मैत्रावरुणो- वाग्यज्ञस्य होता- मनसा वा इषिता वाग्वदति, यां ह्यन्यमनाˆ वाचँ वद-त्यसुर्या वै सा वा.गदेवजुष्टा,तद्यन्मैत्रावरुणˆ उपप्रैषं प्रतिपद्यते- मनसैव तद्वाच मीरयति, तन्मनसेरितया वाचा देवेभ्यो हव्यं सम्पादयति॥
अत्र ब्रह्मवादिनां चोद्यं वैयधिकरण्यरूपमुद्भावयति- अध्वर्युप्रयुक्ते मन्त्रे होतुः सम्बोधितत्वान्मैत्रावरुणस्य मन्त्रपाठेवैयधिकरण्यम्। तस्य चोद्यस्य परिहारं दर्शयति। यज्ञपुरुषस्य मैत्रावरुणो मनःस्थानीयो होता तु वाक्स्थानीयः। लोके हि मनसैव प्रेरिता वाक्शब्दमुच्चारयति। यदा त्वन्यमनस्कः पुरुषो वाचं ब्रूते सा वागसुर्याऽसुराणां प्रिया न तु देवजुष्टा देवानां न प्रिया। तथा सति यदि मैत्रावरुणः प्रथममुपप्रैषं ब्रूते। मनसैव वाक्प्रेरिता भवति। ततो मनसा प्रेरितया वाचा देवेभ्यो हव्यं सम्पादितं भवति। अन्यथा तद्धविरसुरेभ्यः सम्पादितं स्यात्। तस्मादध्वर्युणा होतरित्येवं सम्बोधितेऽपि मैत्रावरुणोक्तप्रैषपूर्वकमेव होतृवचनं युक्तम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य पञ्चमः खण्डः॥
॥ षष्ठाध्याये षष्ठः खण्डः॥
॥ॐदैव्या.श्शमितारˆ आरभध्व मुत मनुष्याˆ इत्याह, ये चैव देवानां शमितारो- ये च मनुष्याणा- न्तानेव तत्संशाति॥
मैत्रावरुणोपप्रैषादूर्ध्वं होतुरध्रिगुप्रैषो बोधायनेन दर्शितः- ‘यदा जानात्युपप्रेष्य होतर्हव्या देवेभ्य इति तं मैत्रावरुणः प्रेष्यत्यजैदग्निरित्यथ होताऽध्रिगुमन्वाह दैव्याः शमितारः’ इति। अध्रिगुः कश्चिद्देवः पशुविशसनस्य कर्ता तं प्रति होता दैव्याः शामितार इत्यादिकं प्रैषमन्त्रमनुब्रूयादिति तस्य सूत्रवाक्यस्यार्थः। तमिमं सूत्रोक्तमर्थं विधत्ते- हे दैव्या देवसम्बन्धिनः शमितारः पशुविशनकारिणः आरभध्वं दिशसनस्योपक्रमं कुरुतोत मनुष्या अपि मनुष्यरूपा अपि शमितार आरभध्वमित्यादिकमध्रिगुप्रैषमन्त्रं होता पठेत्। यथोक्तमन्त्रस्य प्रथमपादं व्याचष्टे- तत्तेन प्रथमपादभागेन द्विविधजातीयान् शमितॄन्प्रेरयति॥
॥स्त्युपनयत मेध्यादुरˆ आशासानाˆ मेधपतिभ्यां मेधमिति- पशुर्वै मेधो- यजमानो मेधपति- र्यजमान.मेव तत्स्वेन मेधेन समर्धय,त्यथो~ खल्वाहु र्यस्यैवाव कस्यै च देवतायै पशु रालभ्यते- सैव मेधपति.रिति, सˆ यद्येकदेवत्य पशु स्स्या-न्मेधपतय इति ब्रूया,द्यदि द्विदेवत्यो- मेधपतिभ्या मिति, यदि बहुदेवत्यो मेधपतिभ्यˆ इत्येतदेव स्थितं॥
मन्त्रस्य द्वितीयभागमनुवदति- प्रारम्भे किं कर्तव्यमिति चेत्। तदुच्यते। मेध्या मेधार्हा दुरो द्वारो हविर्मार्गान्विशसनहेतीर्वोपसनयत सन्निधापयत मेधपतिभ्यां यज्ञस्वामिपत्नीयजमानार्थमग्नीषोमदेवतार्थं वा मेधं यज्ञमाशासानाः प्रार्थयमाना हे शमितारो यूयमुपनयत। अत्र मेधशब्दं मेधपतिशब्दं च व्याचष्टे- मतान्तरानुसारेण मेधपतिशब्दस्यार्थं दर्शयति- अस्तु मेधपतिशब्दो देवतापरस्तावता च को लाभ इत्याशङ्क्याह-
॥प्रास्मा अग्निं भरतेति॥
तृतीयभागमनुवदति। अस्मै पश्वर्थं हे शमितारोऽग्निं प्रभरत प्रथमं नयत॥
॥ पशुर्वै नीयमान-स्सˆ मृत्युं प्रापश्यत्-सˆ देवा.न्नान्वकामयतैतुं,तन्देवाˆ अब्रुव- न्नेहि स्वर्गँ वै त्वा लोक.ङ्गमयिष्यामˆ इति- सˆ तथेत्यब्रवीत्, तस्य वै मे युष्माक मेक पुरस्ता दैत्विति- तथेति, तस्याग्नि पुरस्ता.दैत्-सोऽग्नि.मनु प्राच्यवत, तस्मादाहु-राग्नेयो वाव सर्व पशु- रग्निं हि सोऽनु प्राच्यवतेति, तस्मा.द्वस्याग्निं पुरस्ता.द्धरन्ति॥
अग्नेः प्रथमतो नयनमुपपादयितुमाख्यायिकामाह- शामित्रदेशस्ं प्रतिनीयमानः पशुः प्रत्यक्षेण मृत्युं दृष्टवान्। ततः स पशुर्देवानन्वेतुं नान्वकामयताऽऽगन्तुं नैच्छत्। ततो देवाः पशुं प्रत्येवमब्रुवन्हे पशो त्वमागच्छ त्वया सह वयं सर्वे स्वर्गं गच्छम इति। पशुश्च तदङ्गीकृत्य देवान्प्रत्येवमब्रवीत्। युष्माकं मध्ये कश्चिद्देवोममपुरस्ताग्गच्छत्विति। तद्वचनमङ्गीकृत्याग्निर्देवस्तस्य पशोः पुरस्तादगच्छात्। ततः स पशुस्त्तमग्निमनु स्वयमपि तुष्टः सन्प्रकर्षेणागच्छत्। तस्मादग्निं प्रभरतेत्येतद्युक्तं। उक्तमर्थं लोकप्रसिध्या द्रढयति- यस्मादग्निमनु पशुः प्रागच्छत् तस्मादाग्नेयः सर्वः पशुरित्येवं याज्ञिकलोकप्रसिद्धिः। अत एव सर्वं पशुमग्नौ जुह्वति। यस्मादेवं प्रसिद्धिस्तस्मादेवकारणात्पशोः पुरस्तादग्निं नयेयुरित्येतमर्थं प्रसङ्गाद्विधत्ते- तस्मादुतस्मादेव-
॥स्तृणीतबर्हि रि-त्योषध्यात्मा वै पशु पशुमेव तत्सर्वात्मान.ङ्करोति॥
चतुर्थभागमनूद्य व्याचष्टे- संज्ञपनस्थानं नीतस्य पशोरधस्तादुपाकरणसाधनयोर्बर्हिषोरन्यतरद्बर्हिर्हे शमितार उपक्शिपत। पशुभक्षितानामोषधीनां पश्ववयवत्वेन परिणतत्वात्पशोरोषध्यात्मत्तमतस्तद्भागपाठेन पशुं सर्वौषध्यात्मानं करोति॥
॥त्यन्वेनं माता मन्यता-मनुपिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यˆ इति-जनित्रै रेवैन न्तत्समनुमत मालभन्त॥
पञ्चमभागमनूद्य व्याचष्टे- संज्ञप्यमानमेनं पशुं मात्रादयोङ्गी कुर्वतां। समाने गर्भे भवः सगर्भ्य एकोदरो भ्रातृविशेषणमेतत्, समाने यूथे भवः सयूथ्यः पशुसमूहाद्व्यावर्तकविशेषणमेतत्। तद्भागपाठेनैवं पशुं जनित्रैस्तज्जन्मसम्बन्धिभिः पश्वन्तरैरनुज्ञातं कृत्वा पश्चादालभन्ते॥
॥उदीचीना अस्य पदो निधत्तात् - सूर्य.ञ्चक्षु र्गमयता-द्वातं प्राण मन्वव सृजता-दन्तरिक्ष मसु-न्दिश श्श्रोत्रं- पृथिवीं शरीर मि,त्येष्वेवैन न्तल्लोके.ष्वादधाति॥
षष्ठं भागमनूद्य व्याचष्टे- संज्ञप्यमानस्य पशोः पदः पादानुदीचीनानुत्तरदिग्गतान्निधत्तात् स्थापयत। चक्षुरिन्द्रियं सूर्यदेवतां प्रापयत। प्राणं वायुदेवतां प्रत्यन्ववसृजतात्प्रापयत। असुं जीवमन्तरिक्षं प्रापयत। श्रोत्रं दिग्देवतां प्रापयत। शरीरं पृथिवीं प्राषयत। तद्भागपाठेनैनं पशुमेष्वेव यथोक्तदेवतासम्बन्धिषु लोकेषु स्थापयति॥
॥एकधाऽस्य त्वच माच्छ्यतात्-पुरानाभ्याˆ अपिशसो वपा मुत्खिदता-दन्तरे वोष्माणँ वारयध्वादिति- पशुष्वेव तत्प्राणा न्दधाति॥
सप्तमभागमनूद्य व्याचष्टे- एकधैक विधया विच्छेदराहित्येनास्य त्वचमाच्छ्यतात् समन्ताच्छिन्नां कुरुत। नाभ्या अपि शसश्छेदात्पूर्वमेव वपामुत्खिदतात् उद्धरत। ऊष्माणमुच्छ्वासमन्तरेव वारयध्वान्निवारयत पिहितास्यं संज्ञपयतेत्यर्थः। तद्भागपाठेन पशुष्वेव प्राणान्सम्पादयति॥
॥श्येन मस्य वक्ष कृणुतात्-प्रशसा बाहू- शलादोषणी- कश्यपे वांसाऽच्छिद्रे~ श्रोणी~- कवषोरू स्रेकपर्णाऽष्ठीवन्ता- षड्विंशतिरस्य वङ्क्रय- स्ता अनुष्ठ्योच्यावयताद्-गात्र.ङ्गात्र.मस्यानून.ङ्कृणुता-दित्यङ्गा.न्येवास्य तद्गात्राणि प्रीणाति॥
अष्टमभागमनूद्य व्याचष्टे- श्येनं श्येनाकृतिकमस्य पशोर्वक्षः कुरुत। बाहू प्रशसा प्रकृष्टच्छेदनौ कुरुत। दोषणी प्रकोष्ठौ शलाकृणुताच्छलाकाकारौ कुरुत। उभावप्यंसौ कश्यपाकारौ कुरुत। श्रॊणी उभे अव्यच्छिद्रे अनूने कुरुत। अवषोरू कवषाकारावूरू स्रेकपर्णा करवीरपत्राकारावष्ठीवन्तावूरू मूलयुक्तौ कुरुत। अस्य पशोर्वंक्रयो वक्राणी पार्श्वास्थीनि षड्विंशतिर्भवन्ति। ताः सर्वा अनुष्ठ्यानुक्रमेण स्वस्थानगतान्युच्चावयतोद्धरत। गात्रं गात्रं सर्वमप्यदनीयमङ्गमनूनं कृणुतादविकलं कुरुत। तद्भागपाठे तस्य पशोरङ्गान्येवावयवरूपाण्येव गात्राणि प्रीणाति। गात्रशब्दः शरीरे तदवयवे च वर्तते। अतोऽत्रावयव विवक्षांद्योतयितुमङ्गानीति निर्देशः॥
॥त्यूवध्यगोहं पार्थिव.ङ्खनता- दित्याहौषधँ वा ऊवध्य-मियँ वा ओषधीनां प्रतिष्ठा- तदेन.त्स्वायामेव प्रतिष्ठाया.मन्तत प्रतिष्ठापयति॥
नवमभागमनूद्य व्याचष्टे- ऊवध्यगोहं पुरीषगूहनस्थान पार्थिवं खनतात् पृथिवीसम्बन्धमेव खनत। अत्रोवध्यशब्देनौषधमेवोच्यते पुरीषस्य पशुभक्षितस्यौषधिविकारत्वात्। ओषधीनां चेयमेव भूमिः प्रतिष्ठाऽऽश्रयः। तत्तथा सत्येनमूवध्यं स्वकीयायामेव प्रतिष्ठायां भूमिरूपायामन्ततः पशुविशसनान्ते प्रतिष्ठापयति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य षष्ठमः खण्डः॥
॥ षष्ठाध्याये सप्तमः खण्डः॥
॥ॐअस्ना रक्ष स्संसृजता.दित्याह,तुषैर्वै फलीकरणै र्देवाˆ हविर्यज्ञेभ्यो रक्षांसि निरभज-न्नस्ना महायज्ञा,त्सˆ यदस्ना रक्ष स्संसृजता.दित्याह- रक्षांस्येव तत्स्वेन भागधेयेन यज्ञा.न्निरवदयते॥
यद्यप्यध्रिगुप्रैषमन्त्रो न समाप्तस्तथाऽप्यनन्तरभागे बहुवक्तव्य सद्भावात् खण्डान्तरं कृतम्। दशमं भाबमनुद्य व्याचष्टे- अस्नाऽसृजारुधिरेण रक्षः संसृजतान्मांसाभिलाषव्यावृत्यर्थं राक्षसान्रक्तेनैव संयोजयत। एनं मन्त्रभागं होता ब्रूयात्। किमर्थमेतदिति तदुच्यते। पुरा देवास्तुषैर्वीहिगतैर्हेयांशैः फलीकरणैस्तण्डुललेशैश्च दर्शपूर्णमासादिहविर्यज्ञेषु समागतानि रक्षांसि तोषयित्वा तेभ्यो यज्ञेभ्यो निरभजन्हविर्भागरहितान्यकुर्वन्। महायज्ञे ज्योतिष्टोमादिके समागतानि रक्षांसि पशुरक्तेन तोषयित्वा तस्माद्यज्ञान्निरभजन्निःसारितवन्तः। हविर्यज्ञेभ्यो निःसारनं शाखान्तरे दर्शपुर्णमासप्रकरणे मन्त्रव्याख्याने समाम्नातम्- ‘रक्षसां भागोऽसीत्याह तुषैरेव रक्षांसि निरवदयते’ इति। तदेतदापस्तम्बेनोक्तम्- ‘मध्यमे पुरोडाशकपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तात्कृष्णाजिनस्योपवसति’ इति महायज्ञान्निःसरणमग्नीषोमीयपशुप्रकरणे तैत्तिरीयैराम्नातम्- ‘रक्षसां भगोऽसीति स्थविमतो बर्हिरङ्क्त्वाऽक्पास्यत्यस्यैव रक्षांसि निरवदयतः’ इति। स्थविमतः स्थौल्ययुक्ते मर्हिर्मूलभाग इत्यर्थः। एतदपि सूत्रकारेण स्पष्टीकृतम्- ‘बर्हिषोऽग्रं सव्येन पाणिनाऽऽदत्ते’ तं मध्यं यत अर्च्छति तदुभयतो लोहितेनाङ्क्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्य’ इति। एवं सति यद्यस्ना रक्ष इति भागं पठेत्तदानीं रक्षांसि स्वकीयभागेन युक्तानि कृत्वा महायज्ञान्निरवदयते निःसारयति॥
॥तदाहु-र्न यज्ञे रक्षसा.ङ्कीर्तये-त्कानिरक्षांस्यृते- रक्षा वै यज्ञ इति॥
अथास्नेत्येतस्य मन्त्रभागस्य पाठं पुर्वपक्शत्वेनाऽऽक्शिपति- तत्तत्र मन्त्रभागे चोद्यवादिन आहुः। कथमिति, उच्यते। यज्ञे प्रवर्तमाने सति कानिचिदपि रक्षांसि न कीर्तयेत्। जातिविषेषानपेक्ष्य बहुवचननिर्देशः। राक्षसावान्तरजातीनां मध्ये राक्षसमसुरं पिशाचं वा न कञ्चदपि कीर्तयेत्। जातिविशेषाः श्रुत्यन्तरे सैन्यद्वयोपन्यासे श्रूयने- ‘देवा मनुष्याः पितरस्तेऽन्यत आसन्नसुरा रक्षांसि पिशाचास्तेऽन्यतः’ इति। अकीर्तने हेतुमृते रक्षा इति पदेनोपन्यस्यति। तदेतत्समस्तमेकमेवं पदम्। ऋत शब्दो वर्जनवाची। वर्जितं रक्षो यस्मिन्यज्ञे सोऽयमृतेरक्षाः। यज्ञो(ज्ञे) हि हविर्भागत्वाद्देवता एव नामग्रहणमर्हन्ति न तु रक्षः प्रभृतयः। तस्मादेतं मन्त्रभागं न कीर्तयेदित्याक्षेपवादिनामभिप्रायः॥
॥तदु वा आहु- कीर्तयेदेव- यो वै भागिनं भागा.न्नुदते- चयते वैनं, स यदि वैन.न्न चयते-ऽथ पुत्र.मथ पौत्र-ञ्चयते त्वेवैन मिति॥
समाधत्ते- तदु वै तस्मिन्नेवास्ना रक्ष इति मन्त्रभागे सम्प्रदायविदः समाधानमाहुः। यद्यपि तत्र रक्षोनामास्ति तथापि तं भागं कीर्तयेदेव। तत्रोपपत्तिमा हयः पुमान्भगिनं भागार्हं सन्तमन्यं पुरुषं तदीयाद्भागान्नुदते नाशयत्येनं विनाशयितारं सनष्टभागः संश्चयते वैनं च्यावयत्येव। यदि वा यदा कदाचिद्विनाशयितुः प्राबल्ये सति तदानीमेनं न चयते न च्यावयति। अथापि कालान्तरे तदीयंपुत्रं पितृद्वॆषेण विनाशयति तदाप्यशक्तौ पौत्रं वा विनाशयति। किं बहूना भागभ्रष्टो मनसि द्वेषं ग्रुहीत्वा स्व विरोधिनमेनं भ्रंशयितारं यदा कदाचित्केनापि द्वारेण च यते त्वेव विनाशयत्येवेत्यनेनाभिप्रायेण मन्त्रभागं कीर्तयेदेवेत्यभिज्ञैरुक्तम्। यद्यपि रक्षसां हविर्भागो नास्ति तथापि यज्ञे तुषकणादि देवानर्हभागोऽस्त्येव तस्मात्कीर्तनपक्ष एव युक्तः॥
॥स यदि कीर्तये- दुपांशु कीर्तयेत्,तिरˆइव वा एतद्वाचो- यदुपांशु, तिरˆइवैत-द्यद्रक्षांसि॥
तत्रैतस्य मन्त्रभागस्य कीर्तने कञ्चिद्विशेषं विधत्ते- स याज्ञिको यज्ञे रक्षसां नामधेयं द्वेषपरिहाराय यदि कीर्तयेत्तदाऽप्युपांशु परैर्यथा न श्रूयेत तथा कीर्तयेत्। वाचः सम्बन्धि यदुपांशु कीर्तनमेतत्तिर इव तिरोहितमिव भवति। यथा कुड्यादिव्यवहितं स्तम्भादिकं चक्षुषा न दृश्यते तथैवोपांशुकथितं न श्रूयते। रक्षांसीति यदस्त्येतदपि तिर इव चोरवद्यज्ञे रक्षसां गूढचारित्वात्। तस्मात्तदीयकीर्तनस्योपांशुत्वं युक्तम्॥
॥स्यथ यदुच्चै कीर्तये- दीश्वरो हास्य वाचो रक्षो भाषो जनितो॥
विपक्षे बाधं दर्शयति- अथोपांशुवैलक्षण्येन यद्युच्चैः कीर्तयेदस्य कीर्तयितुः सम्बन्धिनीर्वाचो रक्षोभाषो जनितोर्जनयितुमयमीश्वरो भवति। रक्षोभिर्भाष्यत इति रक्शोभाष्, इत्यस्य स्त्रीलिङ्गस्य द्वितीयाबहुवचनं रक्षोभाष इति। तदेतद्वाच इत्यस्य विशेषणम्। अस्योच्चैः कीर्तयितुर्या वाचः सन्ति ताः सर्वादक्षः प्रोक्तवाग्रूपेणोत्पादयितुमयं सङ्कीर्तयिता समर्थो भवतीति॥
॥र्योऽयं राक्षसीँ वाचँ वदति सः॥
कोयं समर्थ इत्याशङ्क्य तं विशेषाकारेण दर्शयति- लोके यः पुमान् रक्षसां वाचं परभर्त्सनरूपामुच्चध्वनित्वेन भीतिकरीं वचम् ब्रूते स पुमांस्तामुप्युच्चैः कीर्तयन्रक्शसां वागुत्पादको भवति॥
॥स याँ वै दृप्तो वदति-यामुन्मत्त- स्सा वै राक्षसी वाङ्॥
काऽसौ राक्षसी वागित्याऽऽशङ्क्याह- धनविद्यादिना दृप्तो दर्पं प्राप्तः परतिरस्कारहेतुं यां वाचं वदत्युन्मत्तश्च बुद्धिराहित्यात्पूर्वापरसम्बन्धरहितां यां वाचं वदति सेयमुभयविधाऽपि राक्षसीवाक्।
॥नात्मना दृप्यति- नास्य प्रजाया.न्दृप्तˆ आजायते-यˆ एवँ वेद॥
तद्वेदनं प्रशंसति- वेतिता स्वयमपि दर्पं न प्राप्नोति तदा स्वीयायां प्रजायां कश्चिदपि दृप्तो नोत्पद्यते॥
॥वनिष्ठुमस्य मा राविष्टोरूकं मन्यमानाˆ- नेद्वस्तोके तनये- रविता रवच्छमितारˆ इति, ये चैव देवानां शमितारो- ये च मनुष्याणा- न्तेभ्यˆ एवैन.न्तत्परिददाति॥
एकादशं भागमनूद्य व्याचष्टे- हे शमितारो दैव्या मानुष्याश्च वनिष्ठुं वपायाः समीपवर्तिनं मांसखण्डमस्य पशोः सम्बन्धिनमूरूकमुलूकाख्यं पक्षिसदृशं मन्यमाना विशेषाकारेण विजानन्तो मा राविष्टमैव लवनं कुरुत। उलूकसदृशो वनिष्ठुर्यथा वर्तते तथैवोद्धरत न तु मध्यतश्छिन्नं कुरुतेत्यर्थः। एवं कुर्वतां वो युष्माकं सम्बन्धिनि तोके पुत्रे तनये तदीयापत्ये च रविता शब्दयिता नेन्नैव रवद्भ्रूयात्। यथा शास्त्रं छेदने क्रियमाणे भवतां गृहे पुत्रपौत्रादिकं निमित्तीकृत्य रोदिता न भविष्यतीत्यर्थः। तद्भागपाठेन देवानां मध्ये ये शमितारः सन्ति मनुष्याणां च मध्ये ये सन्ति तेभ्य एव सर्वेभ्य एनं वनिष्ठुं परिददात्यवैकल्याय समर्पयति॥
॥अध्रिगो शमीध्वं- सुशमि शमीध्वं- शमीध्वमध्रिगा 3 उ इति त्रि र्ब्रूया.दपापेतिचा,ऽध्रिगु र्वै देवानां शमिता- पापो निग्रभीता, शमितृभ्य.श्चैवैन न्तन्निग्रभीतृभ्यश्च संप्रयच्छति॥
द्वादशम् भागमनूद्य व्याचष्टे- हेऽध्रिगो, एतन्नामदेवेषु शमितृषु मुख्यदेवा यूयं सर्वे शमीध्वं विशसनादिना पशु संस्कुरुध्वम्। पुनरपि विशेषाकारेण्योच्यते सुशमि सुष्ठु शमनं शास्त्रीयं विशसनं यथा भवति तथा शमीध्वं शमयत संज्ञपयत। अध्रिगादौप्लुतिर्दूरादाह्वानार्था। ओकारस्य प्लुतिवेलायामाकार उकारश्चेति वर्णद्वयं सम्पद्यते। तथाविधा यूयमितरैः सह यूयं सुशमीध्वं सर्वथा शमयत न तूप चरितं शमनं कुरुत। क्रूरकर्मेति कृत्वा तदुपेक्षणं माभूदिति पुनः पुनर्वचनम्। अध्रिगो शमीध्वमित्यादिकं वाक्यत्रयसमुदायं त्रिवारमावर्तयेत्। अपापेत्यपि तत्संबन्धिनं त्रिवारमावर्तयेत्। तदेतदाश्वलायन आह- ‘अध्रिग्वादि त्रिरुक्त्वा’ इति। अध्रिगो(?) अपापदेवः। सोऽयमपापवाची शाखान्तरे पठ्यते- ‘अध्रिगुश्चापपश्चोभौ देवानां शमितारौ’ इति। आत्र तु तदवान्तरविशेषोऽभिधीयते। देवानां मध्ये यः शमिता हन्ता सोऽध्रिगुर्यश्च ध्यानादिना निग्रभीता निग्रहस्य कर्ता सोऽयमपापस्तद्भागपाठेनाध्रिगुप्रभृतिभ्यः शमितृभ्यश्चापपप्रभृतिभ्यो निग्रहीतृभ्यश्चैनं पशुं संज्ञपनाय प्रयच्छति॥
॥शमितारो यदत्र सुकृत.ङ्कृणवथाऽस्मासु त-द्य.द्दुष्कृत मन्यत्र तदित्या-हाऽग्निर्वै देवानां होतासी-त्सˆ एनँ वाचाव्यशा,द्वाचा वा एनं होता विशास्ति, तद्य.दर्वा.ग्यत्पर कृन्तन्ति- यदुल्बणँ यद्विथुर.ङ्क्रियते- शमितृभ्य.श्चैवैन त्तन्निग्रभीतृभ्यश्च समनुदिशति, स्वस्त्येव होतोन्मुच्यते- सर्वायु स्सर्वायुत्वाय, सर्वमायु.रेति-यˆ एवँ वेद ॥
अध्रिगुमन्त्रपाठानन्तरं जपं विधत्त्ते। हे शमितारो यदत्र पशुविसनकर्मणि यत्सुकृतं कृणवथास्मासु तत्। तत्र यद्दुष्कृतमन्यत्र तदिति जपित्वा दक्षिणावृधावर्तत इति। एतन्मन्त्रार्थमग्निर्वेत्यादिनोच्यते। यदा देवा यज्ञं कुर्वन्ति तदानीं तेषां मध्येऽग्निरेव होताऽभूत्। स एनं पशुं वाचाऽध्रिगुप्रैशरूपया व्यशाद्विशसनं कृतवान्। अघ्रिगुप्रैष अरभध्वं शमीध्वमित्यादि प्रेरणवाचकानां पदानां बहूनां विद्यमानत्वादस्त्यएव होतुर्वाचिकं विशसनं। तथा सति पशोरर्वाग्भगे यत्कृतन्तन्ति यच्च परः परभाग उत्तमाङ्गे कृन्तन्ति तस्मिन्नुभयस्मिन्नपि च्छेदने यदुल्बणं शास्त्रार्थादतिरिक्तं क्रियते यच्च विथुरं न्यूनं क्रियते तत्सर्वमेनत्पशुशमितृभ्यो निग्रभीतृभिश्च समनुदिशति तेन मन्त्रजपेन सम्यक्कथयतीतिवाचा होता स्वस्त्येव क्षेमेणैव पापान्मुच्यते सर्वायुर्मृत्युरहितश्च भवति यजमानस्याप्यपमृत्युराहित्याय। एतद्वेदनं प्रशंसति। अत्र मीमांसा। नवमाध्यायस्य तृतीयपादे चिन्तितम्।‘पक्षी वपा वाऽथोरूलो रलयोरविशेषतः। पक्षी वपा सन्निधानाद्भ्रान्तिच्छेदनिषेधतः॥’अध्रिगुप्रैषवचन आम्नायते- ‘वनिष्ठुमस्य मा राविष्टोरूकं मन्यमानाः" इति। वनिष्ठुर्वपासमीवपर्ती कश्चित्पश्वङ्गविशेषः। तं मा राविष्टतस्य लवनं मा कुरुतेति व्यत्ययेन लकारस्य रेफः। किं कुर्वन्त उलूकं मन्यमानाः। वनिष्ठावरूकशब्दः सादृश्यलक्षकः। विशेषेण मन्यमाना मा लाविष्टेति वाक्यार्थः। तस्मादुरूकशब्दः पक्षीति प्राप्ते ब्रूमह्। उरूक शब्देनात्र वपा लक्ष्यते वनिष्ठुसन्निधानात्। साहित्यसन्निधानादुरूकत्वभ्रान्तिर्वनिष्ठौ सम्भवति। भ्रान्तिप्राप्तं लवनमत्र निषिध्यते। उरूकं मन्यमाना वनिष्ठुं मा राविष्टेत्युक्तत्वात्। वनलवनकाले भ्रान्त्या वनिष्ठौ यल्लवनं तस्य निषेधे सति दृष्टार्थो लभ्यते भ्रान्ति निवारनस्य दृष्टत्वात्। त्वत्पक्षे वनिष्ठोर्लवनमेव नास्ति तच्चायुक्तं हृदयाद्यङ्गवद्वनिष्ठोर्लवितव्यत्वात्। वनिष्ठुमग्निध्रे षडवत्त सम्पादयतीत्याद्यनुष्ठानात्। ततो लवननिषेधस्यासमवेतार्थत्वेनादृश्ःटार्थो मन्त्रपाठः। तस्माद्वपावचन उरूकशब्दः। यद्यपि वपायामप्रसिद्धस्तथाऽप्युरु विस्तीर्णमुको मेदो यत्रेत्यवयवार्थ द्वारा मेदस्विन्यां वपायां युक्त उरूकशब्दः। एवं सत्यनेकवपासु विकृतिष्वेकवचनान्त उरूकशब्द ऊहनीयः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य सप्तमः खण्डः॥
॥ षष्ठाध्याये अष्टमः खण्डः॥
॥ॐपुरुषँ वै देवा पशु माऽलभन्त- तस्मा.दालब्धा न्मेध उदक्राम,त्सोऽश्वं प्राविश-त्तस्मा.दश्वो मेध्योऽभव-दथैन मुत्क्रान्तमेध मत्यार्जन्त- सˆ किंपुरुषोऽभवत्॥
अधिगुप्रैषं समाप्य पुरॊडाशं विधातुं बहुभिः पर्यायैरुपेता काचिदाख्यायिकोच्यते। तत्र प्रथमं पर्यायं दर्शयति। पुरा कदाचिद्देवाः स्वकीये यज्ञे पुरुषं मनुश्यं पशुमालभन्त पशुं कृत्वा तेन पशुना यष्टुमुद्युक्ताः। तस्मादालब्धाद्यष्टुमुद्युक्तान्मनुष्यपशोर्मेधो मेध्यो यज्ञयोग्यो हविर्भाग उदक्रामन्मनुष्यं परित्यज्यान्यत्रागच्छत्। गत्वा च स भागोऽश्वं प्राविशत्। यस्मादेवं तस्मादश्वो यज्ञयोग्योऽभवत्। अथ तदानीमुत्क्रान्तमेधं परित्यक्तहविर्भागमेनं मनुष्यं देवा अत्यार्जन्तातिशयेन वर्जितवन्तस्तस्मिन्पशुत्वमपि नाकुर्वन्। देवैः स्वीकृत्य परित्यक्तः स मनुष्यः किं पुरुषः किं नरावान्तरजातीयः॥
॥त्तेऽश्व.माऽलभन्त- सोऽश्वा दालब्धा दुदक्राम,त्सˆगां प्राविश-त्तस्माद्गौ र्मेध्योऽभव-दथैन मुत्क्रान्तमेधमत्यार्जन्त, सˆ गौर.मृगोऽभवत्॥
द्वितीयं पर्यायं दर्शयति- आलब्धादश्वानेधो यज्ञयोग्यभाग्ग उत्क्रम्य गां प्राविशत्स गौर्यज्ञयोग्य आसीत्। तदानीमयोग्यत्वेन त्यक्तः सोऽश्वोः गौरमृगोऽभवद्यस्य शृङ्गावपि लोमशौ भवतः॥
॥-त्ते गा माऽलभन्त-सˆ गो.रालब्धा दुदक्राम-त्सोऽविंप्राविश-त्तस्मा दविर्मेध्योऽभव-दथैन मुत्क्रान्तमेधमत्यार्जन्त, सˆ गवयोऽभव,त्तेऽवि माऽलभन्त- सोऽवे.रालब्धा दुदक्राम,त्सोऽजं प्राविश-त्तस्मा.दजो मेध्योऽभव-दथैन मुत्क्रान्तमेधमत्यार्जन्त, सˆ उष्ट्रोऽभवत्॥
तृतीयपर्यायं दर्शयति- अजादयः प्रसिद्धाः। उष्ट्रो दीर्घग्रीवः।
॥त्सोऽजे ज्योक्तमा.मिवारमत- तस्मादेषˆ एतेषां पशूनां प्रयुक्ततमो-यदज॥
अजं पुनरपि प्रशंसति- स मेधाख्यो यज्ञयोग्यभागस्तस्मिन्नजे ज्योक्तमामिवातिशयेन चिरकालमेवारमत क्रीडितवांस्तस्माच्चिरकालमेव सद्भावाद्योऽयमजोऽस्ति स एष एतेषां पूर्वोक्तानां पशूनां मध्ये प्रयुक्ततमः शिष्टैरतिशयेन प्रयुक्तः॥
॥स्तेऽज.माऽलभन्त,सोऽजा दालब्धा दुदक्रामत्, सˆ इमां प्राविश- त्तस्मा दियं मेध्याऽभव,दथैन मुत्क्रान्तमेधमत्यार्जन्त, स शरभोऽभवत्॥
पञ्चमं पर्यायं दर्शयति। इमां पृथिवीं। शरभोऽष्टभिः पादैरुपेतः सिंहघाती मृगविशेषः॥
॥त एत उत्क्रान्तमेधाˆ अमेध्या पशव,स्तस्मा देतेषा न्नाश्नीयात्॥
अत्र प्रसङ्गात्कञ्चिद्धर्मविशेषं दर्शयति- मनुष्याश्वगोव्यजेभ्यो मेधस्योत्क्रमणक्रमेण निष्पन्नास्त एते किंपुरुषादयो मेधराहित्याद्यज्ञयोग्याः पशवो नाऽऽसन्। अत एतेषां पशूनां सम्बन्धि मांसं नाश्नीयात्॥
॥त्त.मस्या मन्वगच्छ-न्त्सोऽनुगतो व्रीहि रभव,त्तद्यत्पशौ पुरोळाश मनु निर्वपन्ति- समेधेन न पशुनेष्ट मस-त्केवलेन न पशुनेष्ट मसदिति॥
अत्र पुरोडाशं विधत्ते- तं मेधाख्यं हविर्भागमस्यां पृथिव्यां प्रविष्टम् ग्रहीतुं देवा अन्वगच्छन्। स च मेधो देवैरनुगत उत्क्रान्तुमशक्तः सन्सहसा व्रीहिरभवत्। तथा सति यदि पशौ पुरोडाशमनुनिर्वपन्ति पश्वालम्भानन्तरमेव निर्वपेयुस्तदानीं नोऽस्माकं समेधेन यज्ञ योग्य हविर्भागयुक्तेन पशुनेष्टमसदिष्टं भवति। पुरोडाशनिर्वापकर्तॄणां कोऽभिप्राय इति सोऽभिधीयते। नोऽस्माकं केवलेन साधनान्तरनिरपेक्षेण मेध पूर्णेन पशुनेष्टमस्त्विति तदभिप्रायः॥
॥समेधेन हास्य पशुनेष्टं भवति- केवलेन हास्य पशुनेष्टं भवति-यˆ एवँ वेद॥ वेदनं प्रशंसति- समेधेनेत्यस्यैव वाक्यस्य व्याख्यानं केवलेनेत्यादि। तदेतत्सर्वं श्रुत्यन्तरसङ्ग्हीतम्। ‘पशुमालभ्य पुरॊडाशं निर्वपति समेधमेवैनमालभते’ इति॥
अत्र मीमांसा॥ "उपकारी संस्कृतिर्वा पुरॊदाशः पशूदितः। तद्धितोक्त्या द्वयोर्देवभेदादुपकृतिर्मता॥ संदंशान्निश्चितेऽङ्गत्वे दृष्टोऽर्थः स्मृतिसंस्कृतिः। देवान्तरं चेद्विकृतम(ताव)गिईषोमनिर्वर्तनम्"॥ज्योतिष्टोमाङ्गभूताग्नीषोमीय पशौ श्रूयते- ‘अग्नीषोमीयस्य वपां प्रचर्याग्नीषोमीयमेकादशकपालं निर्वपति’ इति। तत्र पशावुक्तः पुरोडाशः स किं पशोरारादुपकारक उत पशुदेवतासंस्कारक इति सन्देहः। तत्राग्नीषोमीयं पशुमालभेतेति पशुविधौ तद्धितोक्त्याऽग्नीषोमदेवता यथा गुणत्वेन पशौ विधीयते तथा पशुपुरोडाशेऽपि। तथा सति विधिभेदेन विधेयदेवताभेदात्संस्कारो न युक्तः। गुणत्वं च संस्कार्यविरोधीति पूर्वोक्तं तस्मात्पशोरारादुपकारक इति प्राप्तेब्रूमः। देवताभेदवादिना तावदिदं वक्तव्यं पशुं पुरोडाशश्चेत्युभौ किं स्वतन्त्रौ यागौ किं वाऽङ्गाङ्गिरूपौ तत्रापि किमङ्गं किंवाऽङ्गीति। तत्र पशुधर्मैरुभयतः सन्दष्टस्य पुरोडाशस्य स्वतन्त्राङ्गित्वे तयोः पशुप्रकरणपाठबाध्यत्वादभिमतमुपकारकत्वं न सिध्येत्। अङ्गत्वेऽपि दृष्टसम्भवाददृष्टकल्पनमन्याय्यम्। भवति चात्र दृष्टं पुरॊडाशवाक्येन तद्धितान्तपदेन पशुवाक्यगताय देवताया अनुवादे सति तदीयस्मरणपूर्वकनिर्वापे पशुदेवतायाः संस्कियमाणत्वात्। एवं च सति पशुवाक्ये गुणत्वेन प्रतीतायाः पुरोडाशवाक्ये प्राधान्यावगमात्संस्कार्यत्वमविरुद्धम्। तस्मात्पशुदेवतासंस्कारः पुरोडाशः। एवं च सत्यग्नीषोमीयपशुविकृतौ वायव्यपशावग्नीषोमदेवतायां निवृत्तायां तदीयपुरॊडाशेऽपि सा निवर्तत इति बाधः फलिष्यति॥ द्वादशाध्यायस्य प्रथम पादे चिन्तितम्-"पश्वार्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया। अस्ति वा विध्यभावान्नो ह्यर्थतस्वस्तु लोकवत्"॥ अग्नीषोमीये पशौ यानि चोदकप्राप्तानि प्रयाजादीन्यङ्गान्यनुष्ठितानि तैः पशुपुरोडाश उपकारो नास्ति। कुतः, तदुपकारबोधकस्य विधेरभावात्। चोदकस्तु दर्शपूर्णमासवत्पशुरनुष्ठेय इत्येवंरूपत्वात्पतावेवोपकारं बोधयति। ननु पुरोडाशस्यापीष्टि विकृतित्वात्तत्रापि चोदकोऽस्तीति चेत्। बाढम्। अत एव भिन्नचोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानीति प्राप्ते ब्रूमः। यद्यपि पश्वर्थैः पुरोडाशस्योपकार इत्येतादृशं शास्त्रं नास्ति तथाऽप्ययमुपकारोऽर्थप्राप्तो न निवारयितुं शक्यते। यथा प्रदीपस्य वेदिकार्ये निर्मितस्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्यं तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य पश्वर्थैरङ्गैरुपकारः केन वार्येत। तस्मादन्यार्थैरप्यस्तूपकारः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य अष्टमः खण्डः॥
॥ षष्ठाध्याये नवमः खण्डः॥
॥ॐस वा एष पशु रेवालभ्यते- यत्पुरोळाश,स्तस्य यानि किंशारूणि- तानि रोमाणि, ये तुषा-स्सात्व,ग्ये फलीकरणा- स्तदसृ,ग्यत्पिष्टं किक्नसा- स्तन्मांसँ, यत्किञ्चि.त्कंसार- न्तदस्थि॥
विहितं पशुपुरोडाधं प्रशस्य पश्चाद्वपादियाज्या विवक्षुरादौ तं प्रशंसति- पशुशरीर सादृश्यादयंपुरोडाशोऽनुष्ठितः पश्वालम्भ एव भवति। तदेतत्सादृश्यं विशदयति तस्य व्रीहिबीजस्य सम्बन्धीनि यानि किन्तारूणि बुसपलालादीनि तानि पशुरोमस्थानीयानि ये तुषास्तण्डुलवेष्टनरूपाः प्रथमावघातेन परित्याज्याः सा तुषसमष्टिः। पशुत्वक्स्थानीया ये फलीकरणास्तण्डुलश्वैत्यार्थेनावघातेन हेया अंशास्तत्सर्वमसृक्पशुरक्तश्तानीयं। यत्पिष्टं तण्डुलपेषणेन निष्पन्नं पिण्डयोग्यं रूपं ये च किक्नसाः सूक्ष्माःपिष्टावयवास्तत्सर्वं पशुमांसस्थानीयम्। यत्किञ्चित्कं सारं स्वार्थे क्प्प्रत्ययः किञ्चिदन्यद्व्रीहिसम्बन्धिकाठिन्यरूपं सारं तदस्थि तत्पशोरस्थिस्थानीयम्। एवं पशुसाम्यात्पुरॊडाशस्य पशुत्वम्॥
॥ सर्वेषाँ वा एषˆ पशूनां मेधेन यजते- य पुरोळाशेन यजते, तस्मा.दाहु- पुरोळाशसत्रँ लोक्यमिति॥
एवं सति यत्फलितं तद्दर्शयति। पुरोडाशयाग एव सर्वपशुसम्बन्धि यज्ञयोग्यहविर्यागः। सर्वपशुसम्बन्धश्च पुरुषं वै देवा इत्यादिना प्रपञ्चितः। लौकिकोक्त्या प्राशस्त्यं द्रढयति- यस्मात्पुरोळाशयागः सर्वपशुसारभूतस्तस्मात्पुरॊडाशानुष्ठानं लोक्यं प्रेकाहणीयमिति याज्ञिका आहुः। अत एव प्रैषमन्त्रे पुरोडाशा अलङ्कुर्वित्येवमाम्नातम्॥
॥युव.मेतानि दिवि रोचना.न्यग्निश्च सोम सक्रतू~ अधत्तम्। युवं सिन्धू रभिशस्ते रमुञ्चा दग्नीषोमा वमुञ्चत.ङ्गृभीतानिति वपायै यजति॥
अथ वपादीनां क्रमेण याज्या विवक्षुरादौ वपायाज्याः विधत्ते- हे सोम त्वं चाग्निश्च युवमेतावुभौ युवामेतानि सर्वैर्दृश्यमानानि रोचनानि प्रकाशरूपाणि नक्षत्रादीनि दिवि द्युलोकेऽधत्तम्। कीदृशौ युवां सक्रतू समानकर्माणौ हेऽग्नीषोमौ युवां स्वकीयत्वेन स्वीकृतान्सिन्धून्समुद्रवत्प्रौढान्राजामात्यादीन्पुरुषान्यजमानादीन्वाऽभिशस्तेः सङ्ग्रामादिषु ब्राह्मणवधादिरूपादपवादादवद्यात्तन्निमित्त दुरिताच्चामुञ्चतं मुक्तानकुरुतम्। एतत्पश्वादिकर्मानुष्ठानेन जनापवादो दुरितं च नश्यतीत्यर्थः। वपायै यजतीति वपाहोमार्थमृचं याज्यात्वेन पटेदित्यर्थः॥
॥सर्वाभिर्वा एष देवताभि रालब्धो भवति- यो दीक्षितो भवति, तस्मादाहु-र्न दीक्षितस्याश्नीयादिति, सˆ यदग्नीषोमा.वमुञ्चतं गृभीतानिति वपायै यजति-सर्वाभ्यˆ एव तद्देवताभ्यो यजमानं प्रमुञ्चति,तस्मादाहु- रशितव्यँ वपायां हुतायाँ, यजमानो हि स तर्हि भवती॥
पूर्वोत्तरपक्षाभ्यामेतां याज्यांप्रशंसति- यः पुमान्यज्ञार्थोदीक्षितो भवत्येव सर्वाभिरपि देवताभिः स्वकीयहविर्दानार्थमारब्धः स्वीकृतो भवति। तस्मादेतदीयस्य द्रव्यस्य देवताभिरवरुद्धत्वाद्दीक्षितस्य गृहे नाश्नियादित्येवं पूर्वपक्षिण आहुः। तत्र होता यद्यग्नीषोमावमुञ्चतं गृभीतानित्येतं याज्यायाश्चतुर्थपादं पठेत्तदा तेन पाठेन सर्वाभ्यो देवताभ्यो यजमानं होता मोचयति। तस्मात्कारणद्वपाहोमे निष्पन्ने सति तद्गृहे भोक्तव्यम्। तर्हि तस्मिन्वपाहोमोत्तरकाले स दीक्षितो यजमानो भवति। पूर्वं तु दीक्शित एव न तु यजमानः। इदानीं यागस्य निष्पन्नत्वादयं यजमानः। तथासति देवतावरोधान्मुक्तस्य गृहे भोक्तुं शक्यमिति सिद्धान्तिन आहुः॥
॥त्याऽन्य.न्दिवो मातरिश्वा जभारेति पुरोळाशस्य यज- त्यमथ्ना.दन्यं परि श्येनो अद्रे रितीतˆइव च ह्येषˆ इतˆइव च मेध स्समाहृतो भवति॥
अथ पूरोडाशस्य याज्यां विधत्ते- द्वितीय पादमनूद्य पादद्वयस्य सहैव तात्पर्यं दर्शयति- मातरिश्वा वायुरन्यमग्नीषोमयोरन्यतरं सोमाख्यदेवं दिवो द्युलोकादाजभाराऽऽहृतवान्। गायत्रीरूपं कृत्वा वायुः सोममानीतवान्। इति प्रथमपादस्यार्थः। श्येनो बलवत्पक्षी तादृशोऽध्वर्युरन्यमुभयोर्देवयोरन्यतरमग्निमद्रेः पर्वतजन्यात्काष्ठादरणिरूपात्पर्यमथ्नात्परितो मथनं कृतवानिति द्वितीयपादर्थः। एष मेधो यज्ञयोग्यः पुरोडाशोऽपीत ए(इ)व चेत इव चास्मान्मनुष्यादस्मादश्वाद्गोरवेरजाच्च भूम्याः समाहृतः। एवं सतीतस्ततः आनयनसाम्यात्पुरोडाशस्येयमग्नीषोमप्रतिपादिक याज्या योग्येत्यर्थः॥
॥ स्वदस्व हव्या समिषो दिदीहीति पुरोळाश स्स्विष्टकृतो यजति, हवि.रेवास्मा एत.त्स्वदयतीष मूर्ज मात्म.न्धत्त॥
पुरोडाशसम्बन्धिस्विष्टकृतो याज्यां विधत्ते- हे स्विष्टकृदग्ने हव्याहवींषि स्वदस्व स्वादूनि कुर्विषोऽन्नानि सन्दिदीहि सम्यक्प्रयच्छेति(त्ये)तस्य पादस्यार्थः। तामेतां याज्यां प्रशंसति- एतेन याज्यापाठेनास्मै कर्मसिद्ध्यर्थं यजमानार्थं वा हविरेव स्वादू करोति य इषमोदनमूर्जं क्षीरादिरसं चाऽऽत्मन्धत्ते होता स्वात्मनि सम्पादयति॥
॥ इळा मुपह्वयते- पशवो वा इळा- पशूनेव तदुपह्वयते- पशून् यजमाने दधाति॥
पुरोडाशीय स्वष्टिकृद्यागादूर्ध्वं पशुपुरोडाशसम्बन्धीळोपाह्वानं विधत्ते- इळोपहूता सह दिवेत्यादिना सूत्रगतेन, उपहूतं रथन्तरं सह पृथिव्येत्यादिना शाखान्तरम्नातेन मन्त्रेण वेळाख्यां देवतामुपह्वयते। गौर्वा अस्यै शरीरमिति श्रुत्यन्तरादिष्टदेवतायाः पशुरूपत्वम्। तत्तेनोपह्वानेन पशूनेवाऽऽह्वयति। यजामाने च पशून्सम्पादयति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य नवमः खण्डः॥
॥ षष्ठाध्याये दशमः खण्डः॥
॥ॐमनोतायै हविषोऽवदीयमानस्यानुब्रू3 ही त्याहाध्वर्यु ॥
अथ हृदयाद्यङ्गरूपस्य प्रधानहविषोऽवदानकाले किञ्चित्सूक्तं विधातुं प्रैषमन्त्रं विधत्ते-
देवानां मनांस्योतानि दृषं प्रविष्टानि यस्यांदेवतायां सा मनोता तदर्थं हृदयाद्येकादशाङ्गरूपं हविरवदीयते तस्य हविषोऽनुकूला ऋचोऽनुब्रूहीत्यध्वर्युः प्रैषमन्त्रं पठेत्॥
॥स्त्वं ह्यग्ने प्रथमो मनोतेति सूक्त मन्वाह, तदाहु- र्यदन्यदेवत्य उत पशुर्भव-त्यथ कस्मा.दाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहेति, तिस्रो वै देवानां मनोता- स्तासु हि तेषां मनांस्योतानि, वाग्वै देवानां मनोता- तस्यां हि तेषां मनांस्योतानि, गौर्वै देवानां मनोता- तस्यां हि तेषां मनांस्योता,न्यग्नि र्वै देवानां मनोता- तस्मिन्हि तेषां मनांस्योता,न्यग्नि.स्सर्वा मनोता- अग्नौ मनोता.स्सङ्गच्छन्ते, तस्मा.दाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्याऽन्वाहा॥
सूक्तं विधत्ते- त्वं ह्यग्न इत्यादिकं त्रयोदशर्चं सूक्तं तन्मैत्रावरुणो ब्रूयात्। तदा ह बौधायनः- ‘यदा जानाति मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति तदा मैत्रावरुणो मनोतामन्वाहत्वं ह्यग्ने प्रथम इति। अत्र वैयधिकरण्यलक्षणं चोद्यमवतारयति। अत्र हविरग्नीषोमदेवत्यं सूक्तगता ऋचः केवलाग्निदेवताकास्तत्र यस्मात्कारणात्पशुरन्यदेवत्य उत देवतान्तरयुक्तः खलु भवति। तस्मात्कारणाद्वैयधिकरण्यमिदं तच्चायुक्तमिति ब्रह्मवादिनश्चोद्यमाहुः। तस्य समाधानं दर्शयति- वाग्गौरग्निरित्येतासु देवतासु देवमनः समासक्तत्वात्तिस्रोऽपि देवता मनोतेत्युच्यन्ते। ताश्च तिस्रः सर्वा मनोता अग्निस्वरूपा एवाग्नौ तासां सङ्गतत्वात्। सङ्गतिश्च तदीयहविषोऽग्न्याधारकत्वात्। तस्मदग्नेर्मुख्यत्वादग्निदेवताका ऋचोऽनुब्रूयात्॥
॥ऽग्नीषोमा हविष प्रस्थितस्येति हविषो यजति, हविषˆ इति रूपसमृद्धा- प्रस्थितस्येति रूपसमृद्धा, सर्वाभि र्हास्य समृद्धिभि-स्समृद्धं हव्य न्देवानप्येति-यˆ एवँ वेद॥
अथ हृदयाद्यङ्गरूपस्य प्रधानहविषो याज्यां विधत्ते- अग्नीषोमेत्यादिकां याज्यां पठेदित्यर्थः। अस्या याज्याया हविरानुकूल्यं दर्शयति- इदं हृदयादिकं हविः प्रस्थितं वेद्यामासादितं याज्यायां हविषह् प्रस्थितस्येति पदद्वयं श्रुतं तस्मादियमनुकूला। वेदनं प्रशंसति- हविषो यथा शास्त्रमवदानपाकविषेषः परस्परंहृदयादीनामसङ्कीर्णत्वमित्यादयो याः समृद्धयोऽपेक्षितास्ताभिः सम्पूर्णं भूत्वा तद्धविर्देवान्प्राप्नोति-
॥ वनस्पतिँ यजति- प्राणो वै वनस्पति- र्जीवं हास्य हव्य.न्देवा नप्येति- यत्रैवँ विद्वान्वनस्पतिँ यजति॥
अथ वनस्पतियागं विधत्ते- वनस्पतिर्वृक्षः तथाविधशरीरयुक्तां देवतां यजेत्। तत्प्रकार आपस्तम्बेन दर्शितः। ‘जुह्वामुपस्तीर्य सकृत्पृषदाज्यस्योपहृत्य द्विरभिघार्य वनस्पतयेऽनुब्रूहि वनस्पतये प्रेष्येति सम्प्रेक्षौ वषट्कृते जुह्वति’ इति। अत्र वनस्पतेर्वृक्षशरीरस्य जीवाविष्टत्वात्प्राणरूपत्वम्। यष्टुर्वेदनं प्रशंसति। विदुषो यष्टुर्हविरेवं प्राणोपेतं चेतनं भूत्वा तद्धर्विर्देवानाप्नोति॥
॥स्विष्टकृतँ यजति- प्रतिष्ठा वै स्विष्टकृ-त्प्रतिष्ठायामेव तद्यज्ञ मन्तत प्रतिष्ठापय॥
अथ स्विष्टकृद्यागं विधत्ते- वैकल्यपरिहारेण स्विष्टकृत्वापादानात्स्विष्टकृतः प्रतिष्ठात्वम्। तद्यागानुष्ठाने नेमं यज्ञमन्ततः समाप्तवसरे प्रतिष्ठायां स्थापयति॥
॥इळा मुपह्वयते- पशवो वा इळा- पशूनेव तदुपह्वयते, पशून्यजमाने दधाति दधाति॥
इळोपह्वानं विधत्ते- पूर्ववद्व्याख्येयम्। पुरोडाशेडा पूर्वखण्डेऽभिहितेह तु पश्विडेति विशेषः। अत्र सर्वत्र यद्यच्चोदकतः प्राप्तं तस्य सर्वस्य विधिमनूद्य प्रशंसा कृतेति द्रष्टव्यम्। दधतीति पदाभ्यासोऽध्याय समाप्त्यर्थः॥
॥अत्र मीमांसा। दशमाध्यायस्य तृतीयपादे चिन्तितम्।"मनोतामन्त्र ऊहोऽस्ति वायव्ये नास्ति वाऽस्त्यसौ। आग्नेय्येवेति वचनं प्रकृतौ सार्थकं यतः॥ अग्नीषोमावग्निनैव लक्ष्येतां वचनं विना। अनर्थकत्तत्र वाक्याद्विकृतावूहवारणम्"॥
त्वं ह्यग्ने प्रथमो मनोता (६.१.१) इत्ययं मनोतामन्त्रोऽग्नीषोमीयपशौ पथितः। वायव्यपशावयं चोदकप्राप्तः। तत्र त्वंहि वायो प्रथम इत्येवमूहोऽस्ति यत्तु वचनं यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्येति तत्प्रकृतौ पठितं तत्रैव वचनं सार्थकम्। द्विदेवत्यपशावेकवचनमन्त्रस्य प्रकरनपठितस्याप्ययोग्यत्वशङ्कया पुनर्विधानार्थत्वात्। मैवं। छत्रिणो गच्छन्तीत्यादि वन्मन्त्रगतस्याग्निशब्दस्याग्नीशोमलक्शकत्वेनायोग्यत्वशङ्काया अनुदयात्॥ अतः प्रकृतावनर्थकं तद्वाक्यं विकृतावूह निवारणेन चरितार्थं भवति। तस्मादूहो नास्ति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य षष्ठाध्यायस्य दशमः खण्डः॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तक वीरबुक्कणसाम्राज्य धुरन्धर सायणाचार्यकृतावैतरेय ब्राह्मनभाष्ये षष्ठोऽध्यायः समाप्तः॥
अथैतरेय ब्राह्मणे सप्तमाध्याये प्रथमः खण्डः
॥यूपोऽथ यूपाञ्जनमाप्रियश्च पर्यग्न्युपप्रैषमथाध्रिगुश्च। पशौ पुरोडाशविधिर्मनोता वनस्पतिस्विष्टकृदिडास्तुतिश्च॥
अथ सप्तमाध्याये पशुप्रैषप्रातरनुवाकौ वक्तव्यौ तत्र पर्यग्नि करनस्तुत्यर्थामाख्यायिकामाह-
॥ ॐदेवाˆ वै यज्ञमतन्वत, तां.स्तन्वाना.नसुराˆ अभ्यायन्-यज्ञवेशस.मेषा.ङ्करिष्यामˆ इति, तानाप्रीते पशौ पुरˆइव पर्यग्ने-र्यूपं प्रति पुरस्ता दुपायं,-स्ते देवा प्रतिबुध्याग्निमयी पुर.स्त्रिपुरं पर्यास्यन्त- यज्ञस्य चात्मनश्च गुप्त्यै, ताˆ एषा.मिमाˆ अग्निमय्य पुरो दीप्यमानाˆ भ्राजमानाˆ अतिष्ठं,स्ताˆ असुराˆ अनपधृष्यैवापाद्रवं-स्तेऽग्निनैव पुरस्ता.दसुररक्षां.स्यपाघ्नताऽग्निना पश्चात् ॥
पुरा कदाच्चिद्देवा यज्ञमतन्वत विस्तारितवन्तः। यद्यपि पूर्वमीमांसाकर्तृभिर्नवमाध्याये देवानामशरीरत्वात्कर्माधिकारो नास्तित्युक्तं तथापि प्रशंसार्थत्वेन स्वार्थतात्पर्याभावादविरोधः। यद्वोत्तरमीमांसाकर्तृभिः शरीरमङ्गीकृत्य विद्याधिकारोपपादनादितरेषां शरीरराहित्यमृत्विगादिवत्कर्मकाले प्रत्यक्षशरीरं नास्तीति तदभिप्रायम्। कर्माधिकारनिराकरनस्य कर्मसाध्यस्य स्वर्गस्य प्राप्तत्वात्तत्प्रयोजनाभावाभिप्रायम्। जगदनुग्रहार्थं तु तेषां शरीरिणामस्त्येवाधिकार इत्यभिप्रेत्ययज्ञमतन्वतेत्यत्रोच्यते। तान्देवान्यज्ञविस्तारिणोऽभिलक्ष्यासुरा आगच्छन्। केनाभिप्रायेणेति तद्य्च्यते। एषां देवानां यज्ञवेशसं यज्ञविघातं करिष्याम इति तदभिप्रायः। कदा कुत्र समागता इति तद्य्च्यते। पशवाप्रीते प्रयाजैस्तर्पिते सति पर्यग्नेः पुर इव पर्यग्निकरणात्पूर्वस्मिन्काले यूपं प्रति पुरस्तात्पुर्वदेशे तान्देवानसुरा उपागच्छन्। ते देवास्तदागमनं निश्चित्याग्निमयीः पुरोऽग्निप्राकारास्त्रिपुरं वेष्टनत्रयं यथा भवति तथा पर्यास्यन्त पशोः पुरतः प्रक्षिप्तवन्तः। तच्च प्रक्षेपणं यज्ञस्य देवानां स्वरूपस्य च रक्षणाय भवति। एषां देवानां सम्बन्धिन्यस्ताः पुरः पशोः परितो ज्वलन्त्योऽन्धकारं निवर्त्य तं देशं प्रकाशयन्त्योऽतिष्ठन्। ता अग्निमयीः पुरोऽनपधृष्यैव तिरस्कारमकृत्वैवापाद्रवन्नपगताः। तत्र देवास्तेन च प्राकाररूपेणाग्निना पूर्वस्यां दिश्यनुरान्रक्षांसि च हतवन्तः पश्चादप्यग्निनैव हतवन्तः॥
॥,त्तथैवैत.द्यजमानाˆ यत्पर्यग्नि कुर्व-न्त्यग्निमयी.रेव तत्पुर स्त्रिपुरं पर्यस्यन्ते- यज्ञस्य चात्मनश्च गुप्त्यै, तस्मा.त्पर्यग्निकुर्वन्ति- तस्मा त्पर्यग्नयेऽन्वाह, तँ वा एतं पशुमाप्रीतं सन्तं पर्यग्निकृत मुदञ्च.न्नयन्ति, तस्योल्मुकं पुरस्ता.द्धरन्ति, यजमानो वा एषˆ निदानेन यत्पशु,रनेन ज्योतिषा यजमान पुरोज्योति स्स्वर्गँ लोक मेष्यतीति, तेन ज्योतिषा यजमान पुरोज्योति स्स्वर्गँ लोकमेति॥
अथ पर्यग्निकरणं विधत्ते। यथा देवैरग्निप्राकाराः कृतास्तयैवैतद्यजमानानां पर्यग्निकरणं। अतो यद्येतत्कुर्युस्तदानीमग्निप्राकारवेष्टनं पतोः परितः प्रक्षिपन्ति। तच्च यज्ञस्य चात्मनश्च रक्षणाय भवति। तस्मादवश्यं पर्यग्निकरणमपेक्षितं तदर्थमनुवचनं चापेक्षितम्। तत्र पर्यग्निकरणमापस्तम्बो विस्पष्टयति- आवहनीयादुलुम्कमादायाग्नीध्रः परिवाजपतिः कविः (ऋ. सं.४-१५-३) इति त्रिः प्रदक्षिणं पर्यग्निकरोति पशुमिति। अनुवचनं पूर्वमेवग्निर्होता (ऋ. सं. ४-१५-१) इत्यादिना दर्शितम्। पर्यग्निकरणादूर्ध्वं पशोः शामित्रदेशं प्रत्यानयनं विधत्ते प्रयाजैस्तोषितं पर्यग्निकरनेन रक्षितं पशुमुदङ्मुखं क्रुत्वा नयेयुः। नीयमानस्य पशोः पुरतो नेतव्यं विधत्ते। तदेतदुभयमापस्तम्बेन स्पष्टीकृतं आहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते शमिता पशुं नयति उरोरन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति इति। पशोः पुरतो वह्निनयनं प्रह्संसति। यः पशुरस्त्येष निदानेन सूक्ष्मदृष्टिनिरूपणेन यजमान एव भवति। पशुना स्वात्मनो निश्क्रीतत्वात्पशोर्यजमानत्वम्। [निष्क्रयणं च पूर्वमेवात्मनिष्क्रयणमेवास्य स दृढयति। श्रुत्यन्तरोदाहरणेन दर्शितम्] पशोः पुरतो नीयमानज्योतिषा यजमानः पुरोवर्तिदीपयुक्तो भुत्वा स्वर्गं लोकं प्रयास्यति यथा राजामात्यादिः पर्यटने रात्रौ पुरोवर्तिदीपयुक्तो गच्छति तद्वदित्यभिप्रेत्योल्मुकं पुरस्तान्नयन्ति। तदभिप्रायानुसारेणैव यजमानोऽपि तथा स्वर्गं लोकं प्राप्नोति। तदेतदग्नेः पुरतो नयनं शाखान्तरेऽप्याम्नातम्- यर्हि पशुमाप्रीतमुदञ्चं पशुं नयन्ति तर्हि तस्य पशुश्रपणमाहरेत्तेनैवैनं भागिनं करोति इति॥
॥ तँ यत्र निहनिष्यन्तो भवन्ति- तदध्वर्यु र्बर्हि रधस्ता दुपास्यति, यदेवैन मदˆ आप्रीतं सन्तं पर्यग्निकृतं बहिर्वेदि नयन्ति, बर्हिषद मेवैन न्तत्कुर्वन्ति॥
शामित्रदेशं नीतस्य पशोर्हननस्थले बर्हिप्रक्षेपं विधत्ते। तं पशुं यस्मिन्देशे हनिष्याम इत्येवं मन्यन्ते तस्मिन्देशेऽध्वर्युर्भूमौ बर्हिः प्रक्षिपेत्। तदेतच्छाखान्तरे समन्त्रकमाम्नातम्। पृथिव्याः सम्पृचः पाहीति बर्हिरुपास्ययस्कन्दायास्कन्नं हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति । इति। तदेतदापस्तम्बेन स्पष्टीकृतं- अथ पर्यग्निकृत उल्मुकं निदधाति स शामित्रस्तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः सम्पृचः पाहीति तस्याधस्ताद्बर्हिरुपास्यत्युपाकरणयोरन्यतरत्तस्मिन् संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनपादमिति। पशोरधो बर्हिष्प्रक्षेपं प्रतंसति। प्रयाजैस्तोषितं पर्यग्निकरणेन रक्षितं पशुं स्ॐइकवेदेर्बहिर्भागे संज्ञपनाय नयन्तीत्यदो यदस्ति तदानीमेनं पशुं बर्हिषदमेव दर्भेऽवस्थितमेव कुर्वन्ति। यद्वा बर्हिषदं यज्ञेऽवस्थितं वेद्यामवस्थितं कुर्वन्ति बाह्यदेशे नयनदोषं परिहरतीत्यर्थः॥
॥तस्योवध्यगोह.ङ्खन-न्त्यौषधँ वा ऊवध्य- मियँ वा ओषधीनां प्रतिष्ठा- तदेन.त्स्वायामेव प्रतिष्ठायामन्तत प्रतिष्ठापयन्ति॥
पशो पुरीषस्थानार्थमवटखननं विधत्ते। ऊवध्यं पुरीषं तस्य गोहं गोपनस्थानं तत्कुर्युः। अस्य खननस्य काल आपस्तम्बेन दर्शितः- ऊवध्यगोहं पार्थिवं खनतादित्यभिज्ञायोवध्यगोहं खनन्तीति। होता त्वध्रिगुप्रैषमन्त्रे यदोवध्यगोहमिति वाक्यं पठति तदा खनेदित्यर्थः। तदेतदूवध्यगोहखननं प्रशंसति। तदेतदर्थवादवाक्यं पुर्वाध्याय मन्त्रप्रसङ्गे व्याख्यातम्॥
॥तदाहु- र्यदेषˆ हविरेव यत्पशु-रथास्य बह्वपैति, लोमानि त्व.गसृ.क्कुष्ठिका.श्शफाˆविषाणे- स्कन्दति पिशित-ङ्केनास्य तदापूर्यत इति॥
अथ पशुपुरोडाशां प्रशंसितुं प्रश्नमुत्थापयति- तत्तत्र पशौ चोद्यवादिन आहुः। यद्यदा यः पशुरस्त्येष सर्वोऽपि हैव्रेव कृत्स्नस्य पशोरुपाकृतत्वात्। अथ तदानीं कस्याप्यवयवस्यापनयो न युक्तः। इह तु बह्ववयवजातमपैति। तद्यथा लोमानि रोमाणि त्वक्चर्मासृग्रक्तं कुष्थिका उदरवर्तिनो भक्षितास्तृणादयः शफाः खुरा विषाणे शृङ्गद्वयमेतत्सर्वमपपैत्यग्नौ होमाभावात्। किञ्च सति केन प्रकारेणास्य पशोः सम्बन्धि तत्सर्वमवयवजातं समन्तात्पूर्यत इति प्रश्नः॥
॥यदेवैत त्पशौ पुरोळाश मनुनिर्वपन्ति- तेनैवास्य तदापूर्यते॥
तस्योत्तरमाह। पश्वालम्भनमनुसृत्य पुरोशाशं निर्वपन्तीति यदिदमस्ति तेनैवास्य पशोः सम्बन्धि तत्सर्वमवयवजातं पूरितं भवति॥
॥पशुभ्यो वै मेधाˆ उदक्रामं-स्तौ व्रीहिश्चैव यवश्च भूता.वजायेता,न्तद्य.त्पशौ पुरोळाश मनुनिर्वपन्ति- समेधेन न पशुनेष्ट.मस-त्केवलेन न पशुनेष्ट मसदिति॥
तदेतदुपपादयति- मनुष्याश्वादिभ्यः सकाशान्मेधा यज्ञयोग्या भागा उदक्रमन्। तदेतत्पुरुषं वै देवा इत्यस्मिन्खण्डे प्रपञ्चितम्। उत्क्रान्तमेधा भूमौ प्रविश्य व्रीहिर्यवशेति यौ धान्यविशेषौ विद्येते तावुभौ भूमौ तद्रूअतां प्राप्तावजायेतां भूमेः सकाशादुत्पन्नौ। तद्यत्पशावित्यादिकं तस्मिन्नेव खण्डे व्याख्यातम्॥
॥ समेधेन हास्य पशुनेष्टं भवति- केवलेन हास्य पशुनेष्टं भवति-यˆ एवँ वेद ॥
तदेतद्वेदनं प्रशंसति। एतदपि तत्रैव व्याख्यातम्। पुनरप्यत्रोक्तिर्यवप्रशंसार्था। पूर्वत्र व्रीहिमात्रे प्राशस्त्यं इह तु व्रीहियवावुभावपि प्रशस्येते इत्य(ति) विशेषः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य प्रथमः खण्डः॥
॥ सप्तमाऽध्याये द्वितीयः खण्डः॥
॥ॐतस्य वपा.मुत्खिद्याहरन्ति, तामध्वर्यु स्स्रुवेणाभिघारय.न्नाह- स्तोकेभ्योऽनुब्रूहीति, तद्य.त्स्तोका श्चोतन्ति- सर्वदेवत्याˆ वै स्तोका,नेन्म इमेऽनभिप्रीताˆ देवा.न्गच्छानिति॥
अथ स्तोकानुवचनीया विधातुमादौ प्रैषमन्त्रं विधत्ते। तस्य पशोर्वपामुदरगतां वस्त्रसदृशीमुत्खिद्योद्धृत्य होमार्थमाहरन्ति। तां च वपामध्वर्युरभिघारयन्प्रैषमन्त्रं ब्रूयात्। तदेतदापस्तम्बो विशदयति- त्वामु ते दधिरे हव्यवाहमिति स्रुवेण वपामभिजुहोति प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति सम्प्रेष्यति इति। तस्य प्रैषिकस्य तात्पर्यं दर्शयति। तत्तस्यां वपायां तदानीमेव क्लिन्नायामार्द्रायां श्रप्यमाणायां यदा स्तोकानीरबिन्दवः श्चोतन्ति निर्गत्याधः पतन्ति तदानीं सर्वदेवतानां प्रियत्वादिमे स्तोकाः स्वयमनभिप्रीता अस्मासु प्रीतिरहिता देवान्गच्छान्गमिष्यन्ति। तथा सति महदेतदस्माकं भयकारणं तन्मा भूदित्यभिप्रेत्य सोत्कप्रीणनार्थमिदं प्रैषानुवचनम्। अत्र नेदित्ययं शब्दः परिभयार्थः॥
॥ जुषस्व सप्रथस्तम मित्यन्वाह, वचो देवप्सरस्तमम्। हव्या जुह्वानˆ आसनी.त्यग्ने.रेवैनां-स्तदास्ये जुहोति॥
अथानुवचनं विधत्ते। तस्यानुवचनस्य काल आश्वलायनेन दर्शितः- वपायां श्रप्यमाणायां प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व इति। अत्रानुवचनवक्ता मैत्रावरुणः। तदाह बोधायनः- यदा जानाति सोत्केभ्योऽनुब्रूहीति तदा मैत्रावरुणः स्तोकीया अन्वाह जुषस्व सप्रथस्तममिति। तस्या ऋचो द्वितीयतृतीयपादमनुदति। सर्वस्या ऋचोऽयमर्थः। हे अग्ने हव्या हवींष्यस्मदीयानि आसन्यास्ये मुखे जुह्वानः प्रक्षिपन्वचोऽस्मदीयं स्तोत्रं जुषस्व सेवस्व। कीदृशं वचः सप्रथस्तममतिशयेन प्रथसाविस्तरेण सहितं देवप्सरस्तमं देवानामतिशयेन प्रीणयितृ। अत्राऽऽसनीति पदस्याभिप्रायं दर्शयति। तत्तेन मन्त्रपाठेन स्तोकानग्नेरेव मुखे जुहोति॥
॥तीम.न्नो यज्ञ.ममृतेषु धेहीति सूक्त मन्वा,हेमा हव्या जातवेदो जुषस्वेति हव्यजुष्टि माशास्ते, स्तोकाना.मग्ने मेदसो घृतस्येति- मेदसश्च हि घृतस्य च भवन्ति, होत प्राशान प्रथमो निषद्ये,त्यग्निर्वै देवानां होताऽग्ने प्राशान प्रथमो निषद्येत्येव तदाह॥
अनुवचनीयामेकामृचं विधाय पुनरप्यनुवचनीयं पञ्चर्चं सूक्तं विधत्ते। जातवेद इति सम्बोधनं वक्ष्यते। नोऽस्मदीयमिमं यज्ञममृतेषु देवेषु धेहि स्थापय। द्वितीयपादमनूद्य व्याचष्टे। जुषस्वेत्यभिधानाद्धविः सेवायाः प्रार्थनम्। तृतीयपादमनूद्य व्याचष्टे। हे अग्ने मेदसो वपाया हूयमानस्य च घृतस्य ये स्तोका बिन्दवः सन्ति तेषां मध्ये स्वादून्बिन्दूनित्यध्याहरः। प्राशानेति वक्ष्यमाणेनान्वयः। अत्र ये स्तोकः पतन्ति यस्मान्मेदसश्च घृतस्य च सम्बन्धिनो भवन्ति तस्माद्युक्तोऽयं वादः। चतुर्थं पादमनूद्य व्याचष्टे। हे होतर्होमनिष्पादकाग्ने त्वं प्रथमो मुख्यः सन्निषद्योपविश्य स्तोकान्प्राशान भक्षय। यद्यपि होतृशब्दोऽत्र प्रयुक्तस्तथाप्यग्नेरेव देवहोतृत्वादग्निमेव सम्बोध्य चतुर्थपादो ब्रूते॥
॥घृतवन्त पावक ते स्तोका.श्श्चोतन्ति मेदसˆ इति, मेदसश्च ह्येव हि घृतस्य च भवन्ति, स्वधर्म.न्देववीतये श्रेष्ठ.न्नो धेहि वार्य मित्याशिष माशास्ते॥
अस्मिन्सूक्ते द्वितीयस्याऋचः पूर्वार्धमनूद्य व्याचष्टे। हे पावकशोधकाग्ने ते त्वदर्थं मेदसो वपायाः सम्बन्धिनो घृतवन्तो घृतसहिताः स्तोका बिन्दवः श्चोतन्तो। अत्र मेदः सम्बन्धे घृतसम्बन्धे च पृथक्प्रसिद्धिं वक्तुं म्दसश्च ह्येव हि घृतस्य चेति हि शब्दद्वयम्। उत्तरार्धमनूद्य व्याचष्टे। देववीतये देवानां भक्षणाय नोऽस्माकं स्वधर्मं कुलोचितयागादावनुष्ठानरूपं धर्मं देहि सम्पादय। कीदृशं धर्मं श्रेष्ठमतिप्रशस्तम्। अत एव वार्यं सर्वैर्वरणीयं। अत्र स्वधर्मं धेहीत्यनेनाऽऽसीः प्रतीयते॥
॥ तुभ्यं स्तोकाˆ घृतश्चुतोऽग्ने विप्राय सन्त्येति, घृतश्चुतो हि भव,न्त्यृषिश्श्रेष्ठ स्समिध्यसे यज्ञस्य प्राविता भवेति- यज्ञसमृद्धि माशास्ते ॥
तृतीयस्या रुचः पूर्वार्धमनूद्य व्याचष्टे। सन्तिर्दानं तामर्हतीति सन्त्यो हे सन्त्य फलप्रदानकुशलाग्ने विप्राय मेधाविने तुभ्यं त्वदर्थं स्तोका बिन्दवो घृतश्चुतो घृतस्राविणो वर्तन्ते। अत्र घृतस्रावित्वप्रसिद्धिं हिशब्देन दर्शयति। उत्तरार्धमनुद्य व्याचष्टे। हे अग्ने ऋषिर्द्रष्टा श्रेष्ठः प्रशस्ततमश्च समिध्यसेऽस्माभिः प्रज्वाल्यसे। अतो यज्ञस्यास्मदीयस्य प्राविता प्रकर्षेण रक्षिता भव। अत्र यज्ञरक्षणवचनेन यज्ञ समृद्धिप्रार्थनम्॥
॥तुभ्यं श्चोत.न्त्यध्रिगो शचीव.स्स्तोकासो अग्ने मेदसो घृतस्येति, मेदसश्च ह्येव हि घृतस्य च भवन्ति, कविशस्तो बृहता भानुनाऽगा हव्या जुषस्व मेधिरेति हव्यजुष्टि मेवाशास्त॥
चतुर्थ्या ऋचःपूर्वार्धमनूद्य व्याचष्टे। हे अघ्रिगो घृतरेश्मे हे शचीवः शक्तिमन्नग्ने मेदसो वपायाः सम्बन्धिनो घृतस्य स्तोकासो बिन्दवस्तुभ्यम् त्वदर्थं श्चोतन्ति क्षरन्ति। अत्रापि हिशब्दद्वयं पूर्ववत्। उत्तरार्धमनूद्य व्याचष्टे। हे अग्ने त्वं कविशस्तो विद्वद्भिरृत्विग्भिः स्तुतः सन्बृहता भानुना महता तेजसा युक्त आगा आगच्छ। हे मेधिर यज्ञयोग्यास्मदीयानि हव्यानि जुषस्व। तदेतद्धविसेवायाः प्रार्थनम्॥
॥ओजिष्ठ.न्ते मध्यतो मेदˆ उद्भृतं प्र ते वय न्ददामहे। श्चोतन्ति ते वसो स्तोकाˆ अधि त्वचि प्रति ता.न्देवशो विही,त्यभ्येवैनां-स्तद्वषट्करोति- यथा सोमस्याग्ने वीहीति॥
पञ्चम्या ऋचश्चतुरोऽपि पादाननुवदति। हे अग्ने त्वदर्थमोजिष्ठं बलवत्तमं मेदो वपारूपं मध्यतः पशोर्मध्यभागादुद्धृतमुत्कृष्य सम्पादितं वयं यजमानास्ते तुभ्यं प्रदादामहे प्रकर्षेण दद्मः। हे वसो सर्वेषां निवासहेतोऽधित्वचि वपायामधिश्रिताः स्तोका बिन्दवस्तेत्वदर्थं श्चोतन्ति क्षरन्ति। देवशस्तत्तद्देवतुष्ट्यर्थं तान्स्तोकान्प्रति वीहिप्रत्येकं पिब। एतन्मन्त्रतात्पर्यं दर्शयति। तत्तेन मन्त्रपाठेनैतान्स्तोकानभिवषट्कारमन्त्रं पठति। यथा सोमस्येत्यादिमन्त्रस्तद्वत्॥
॥तद्यत्स्तोका.श्श्चोतन्ति- सर्वदेवत्याˆ वै स्तोका-स्तस्मा.दियं स्तोकशो वृष्टि र्विभक्तोपाचरति॥
इदानीं स्तोकान्प्रशंसति। तत्सस्यां वपायां यद्यस्मात्कारणात्स्तोका श्चोतन्ति ते च स्तोकाः सर्वासां देवतानां प्रिया व तस्माद्देवानुग्रहादियं वृष्टिर्लोके स्तोकशः प्रतिबिन्दुभिर्विभक्ता सती भूसमीपमागच्छति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य द्वितीयः खण्डः॥
॥ सप्तमाऽध्याये तृतीयः खण्डः॥
॥ॐतदाहु- का.स्स्वाहाकृतीनां पुरोऽनुवाक्या- क प्रैष- का याज्येति, याˆ एवैताˆ अन्वाहैता पुरोऽनुवाक्याˆ, य प्रैष- स्स प्रैषो, यायाज्या- सा याज्या॥
अथ वपाप्रशंसां हृदि निधाय तदुपयोगिनं कञ्चित्प्रह्नमुत्थापयति। स्वाहाकृति शब्देनान्तिमप्रयाजदेवता उच्यन्ते। तासां देवतानां पुरोनुवाक्याप्रैषयाजासु ज्ञानरहिता ब्रह्मवादिनः पृच्छन्ति। तस्य प्रश्नस्योत्तरमाह। वपासम्बन्दिह् स्तोकार्थं प्रेषितो मैत्रावरुणो जुषस्वेत्यादयो या एवैता अन्वाह एता एव स्वाहाकृतीनां पुरोनुवाक्या भवन्ति। न त्वन्याः सन्ति। ननेन वपाप्रशंसा सूचिता। प्रैषसूक्ते होता यक्शदग्निं स्वाहाज्यस्येति प्रयाजान्तिमो यः प्रैष आम्नातः स एष प्रैषः। आप्रीसूक्ते येयमुत्तमा याज्यारूपेणाम्नाता सैव स्वाहाकृतिदेवतानां याज्या। तदेतत्सर्वमज्ञानप्रश्नोत्तरम्॥
॥तदाहु- कादेवता स्स्वाहाकृतय इति, विश्वेदेवा इति ब्रूया-त्तस्मा.त्स्वाहाकृतं हवि.रदन्तु देवा इति यजन्तीति॥
पुनरपि तथाविधं प्रश्नान्तरमुत्थापयति। अग्निवाय्वादिवत्स्वाहाकृत्याख्या अपि प्रसिद्धाः काश्चिन्न सन्ति तस्मादेताः का इत्यज्ञात्वा प्रश्नः। तस्योत्तरं दर्शयति। प्रसिद्धा ये देवाः सन्ति ते सर्वे स्वाहाकृत्याख्या इत्यभिज्ञात उत्तरं ब्रूयात्। तदेतदुपपादयति। अस्या अन्तिमप्रयाजयाज्यायाश्चतुर्थपाद एवमाम्नातः स्वाहाकृतं हविरदन्तु देवा इति। तस्य पादस्यायमर्थः। स्वाहाकारेण संस्कृतं हविः सर्वे देवा भक्षयन्त्विति। एवं सति स्वाहाकृतिनामकाः सर्वे देवतास्तस्मात्स्वाहाकृतमित्यादिपादसहितेन मन्त्रेणान्तिमं प्रयाजंयजति। मन्त्रलिङ्गमेवं स्वाहाकृतिशब्देन सर्वदेवताभिदाने प्रमाणमित्यर्थः। पशोः पर्यग्निकरणात्पूर्वं प्रयाजकाले दशैव प्रयाजा इष्टा अन्तिमप्रयाजस्त्वस्थापितः। तदुक्तमापस्तम्बेन- दशेष्ट्वैकादह्सायाज्यमवशिनष्टि इति। सोऽयमवशिष्टोऽन्तिमप्रयाजो जुशस्व सप्रथस्तमम्(ऋ. सं. १-२५-१) इत्यादिः स्तोकानुवचनादूर्ध्वं वपाहोमात्प्रागिज्यते। अतो व्यवहितत्वादन्तिमप्रयाजविषयः पुरोनुवाक्याप्रैषप्रयाज्याप्रश्नो युक्तः। वपासमीपवर्तित्वादेव स्तोकानुवचनमन्त्राणामेतदीयपुरोनुवाक्यात्वं चोपपन्नम्। अनुष्ठानस्य व्यवधानेऽपि प्रैषयाज्ये तत्तदनुवाकोक्ते एवेति स्मर्यते॥
॥, देवा वै यज्ञेन श्रमेण तपसाहुतिभि स्स्वर्गँ लोक मजयं,-स्तेषाँ वपायामेव हुतायां स्वर्गो लोक प्राख्यायत, ते वपामेव हुत्वाऽनादृत्येतराणि कर्मा.ण्यूर्ध्वा.स्स्वर्गँ लोक मायं,-स्ततो वै मनुष्याश्च ऋषयश्च देवानाँ यज्ञवास्त्वभ्यायन्,यज्ञस्य किञ्चि.देषिष्याम प्रज्ञात्या इति, तेऽभित परिचरन्त ऐ-त्पशुमेव निरान्त्रं शयान,न्ते विदु-रियान्वाव किलपशु- र्यावती वपेति, सˆ एतावा.नेव पशु-र्यावती वपा॥
अथ वपाहोमं प्रशंसितुमाख्यायिकामाह। पुरा कदाचिद्देवाज्योतिष्टोमादियागेन तीर्थयात्रादिश्रमेण कृच्छ्रचान्द्रायणादि तपसा कूष्माण्ड गणहोमादिगताभिराहुतिभिश्च स्वर्गं लोकमजयन्वशीकृतवन्तः। तेषां देवानां यज्ञमध्ये वपायामेव हुतायां स्वर्गः प्रख्यातोऽभूत्। ततस्ते देवा वपामेव हुत्वोत्तरकालीनानि सर्वाणि कर्माण्यनादृत्योर्ध्वाभिमुखाः स्वर्गं लोकं प्राप्ताः। अनन्तरं मनुष्याश्च ऋषयश्च यज्ञसम्बन्धि किञ्चिदुत्तममङ्गमन्विष्य निश्चेष्याम इति विचार्य तत्प्रज्ञाय यज्ञानां ज्ञानाय देवानां यज्ञभूमिं प्रत्यागच्छन्। आगत्य च ते मनुष्यादयस्तदन्वेषणार्थं तस्यांयज्ञभूमौ परितश्चरन्तः। निरान्त्रं निरङ्गं शयानं भूमौ पतितं पशुमेवैत्प्राप्तवन्तः। वपाया देवैरुत्कृत्य हुतत्वादयं पशुर्निरान्त्रो दृष्ठः। यद्यप्यान्त्रशब्दः पुरीतद्वाची तथाद्यत्र तेन वपोपलक्ष्यते। मनुष्यादयः स्वमनस्येवं विदुर्निश्चितवन्तः। वपा यावती विद्यत एतावानेव किल पशुरन्यथा कथं देवा वपामेव हुत्वा शिष्टान्यङ्गान्युपेक्षितवन्तः। तथा पशौ सारभूतमङ्गं वपेति। आख्यायिकामुखेन वपां प्रशस्य श्रुतिः स्वयमपि साक्षात्प्रशंसति। पशुशरीरमध्ये वपा यावती विद्यत एतावानेव मुख्यः पशुः हविरदन्तु देवा इति मन्त्रे वपायाः सर्वदेवाहविष्ट्वाभिधानात्॥
॥अथ यदेन.न्तृतीयसवने श्रपयित्वा जुह्वति- भूयसीभिर्नˆ आहुतिभि.रिष्ट मस-त्केवलेन न पशुनेष्ट.मसदिति, भूयसीभि र्हास्याहुतिभि रिष्टं भवति- केवलेन हास्य पशुनेष्टं भवति-यˆ एवँ वेद॥
ननु सुत्यादिने सवनीयपशोर्वपां प्रातःसवने हुत्वा शिष्टानि हृदयाद्यङ्गानि तृतीयसवने पक्त्वा यजमाना जुह्वति वपामात्रस्य पशुस्वरूपत्वे तृतीयसवने पशुतेषं जुह्वतां कोऽभिप्राय इत्याशङ्क्याह। अथ वपायाः पशुसारत्वे सत्येनमवशिष्टं पशुं तृतीयसवने श्रपयित्वा जुह्वतीति यदस्ति तत्र जुह्वतामयमभिप्रायः। यद्यपि वपायाग एव स्वर्गाय पर्याप्तस्तथापिनोऽस्माकं भूयसीभिर्बहुलाभिराहुतिभिरिष्टमस्तु केवलेन द्रव्यान्तरनिरपेक्षेण निरवशेषेण नोऽस्मदीयेन पशुनेष्टमस्त्विति। अत्राधिकं नैव दोषायेति लोइकिकन्यायेन तृतीयसवने पश्वङ्गहोमो न तु वपायांन्यूनत्वबुद्ध्येत्यर्थः। वेदनं प्रशंसति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य तृतीयः खण्डः॥
॥ सप्तमाऽध्याये चतुर्थः खण्डः॥
॥ॐसा वा एषाऽमृताहुति.रेव- यद्वपाहुति,रमृताहुति रग्न्याहुति- रमृताहुति राज्याहुति-रमृताहुति स्सोमाहुति,रेताˆ वा अशरीरा आहुतयो, याˆवैकाश्चाशरीराˆ आहुतयो-ऽमृतत्व.मेव ताभि र्यजमानो जयति॥
आज्याद्याहुतीनां प्राशस्त्यप्रसिद्धेस्तद्वद्वपाहुतिरपि प्रशस्तेति विवक्षया ताभिः सहैतामाहुतिं प्रशंसति। या वपाहुरिरस्ति सैषा स्वयममृताहुतिर्देवानाममृते यावती प्रीतिस्तावत्प्रीतेर्वपाहुतौ विद्यमानत्वात्। आतिथ्य कर्मसु मथितस्याग्नेराहवनीयाग्नौ प्रक्षेपरूपा येयमाहुतिः साप्यमृताहुतिः। अमृतत्वाख्यस्य देवत्वस्य प्राप्तिहेतुत्वात्। याप्यन्याकाचिदाज्याहुतिः साप्यमृताहुतिरमृतं वा आज्यनिति श्रुतेः। याप्यन्यासोमाहुतिः सापि अपाम सोमममृता अभूम (ऋ. सं. ८-४८-३) इति सोमस्यामृतत्वप्राप्तिसाधनत्वश्रवणात्। या एताश्चतस्र आहुतयस्ताः सर्वा अशरीराः शीघ्रमरणयुक्तशरीरप्राप्तिसाधनत्वाभावात्। अत एव याः काश्चिदशरीरा आहुतयः सन्ति ताभिर्यजमानश्चिरजीविनो रूपममृतत्वं देवत्वमेव प्राप्नोति॥
॥सा वा एषा रेतˆएव- यद्वपा, प्रेववैरेतोलीयते- प्रेव वपालीयते, शुक्लँ वै रेत- श्शुक्ला वपा,ऽशरीरँ वै रेतो-ऽशरीरा वपा,यद्वै लोहितँ यन्मांस- न्तच्छरीर,न्तस्मा.द्ब्रूया-द्याव.दलोहित- न्ताव.त्परिवासयेति॥
पुनः प्रकारान्तरेण वपां प्रशंसति। येयं वपास्ति सेयं रेत एव तत्सादृश्यात्। कथं सादृश्यमिति तदुच्यते। तेतो योन्यां निषिक्तं सत्प्रलीयत एव वपाप्यग्नौ हुता प्रलीयत एव। इदमेकं सादृश्यं शुक्लवर्णत्वं द्वितीयमशरीरत्वं तृतीयम्। तस्मात्प्रजोत्पादकरेतोवद्वपा प्रशस्ता। न च वपायाः शरीरमध्येऽवस्थानाच्छ्रीरत्वं शङ्कनीयम्। यएव लोहितं रक्तमस्ति यच्च मांसम्। अनेन मुग्धबालादिप्रसिद्धास्त्वगस्थ्यवयवा उपलक्ष्यन्ते। अतो बालादि प्रसिद्धं रक्तमांसादिकमेव मुख्यं शरीरम्। न तु वपायां रेतसि वा बालप्रसिद्धिरस्ति। ततस्तयोरशरीरत्वम्। यस्माद्वपाशरीरयोर्विभाग उक्तस्तस्माद्याज्ञिको वपोद्धरणकर्तारं प्रत्येवं ब्रूयात्। वपायाः स्वरूपं यावदलोहितं रक्तरहितं श्वेतं भवति तावत्सर्वं परिवासय च्छिन्दीति तदेव वपा प्रशस्ता॥
॥सा पञ्चावत्ताभवति, यद्यपि चतुरवत्ती यजमान.स्स्या-दथ पञ्चावत्तैव वपा,ज्यस्योपस्तृणाति, हिरण्यशल्को वपा- हिरण्यशल्क आज्यस्योपरिष्टा दभिघारयति॥
तस्या अवदाने विशेषं विधत्ते। द्विविधा यजमानाश्चतुरवत्तिनः पञ्चावत्तिनश्चेति। चतुर्भिरवदानैर्युक्तश्चतुरवत्ती पञ्चभिर्युक्ताः पञ्चावत्तिनः। एवं स्थिते वपा पञ्चभिरवदानैर्युक्ता कर्तव्या। तत्र पञ्चावत्तिनो यजमानस्य स्वत एव पञ्चावदानानि प्राप्तानि यस्तु चतुरवत्ती तस्यापि पञ्चावदानानि वपायां कुर्यात्। तान्येतानि पञ्चापि विभज्य दर्शयति। आज्यस्याज्येनेत्यर्थः। तदेतदापस्तम्बेन स्पष्टमुक्तम्- जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामवदाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयत्येवं पञ्चवत्ता भवति चतुरवत्तिनोऽपि पञ्चावत्तैव स्यादिति॥
॥ तदाहु-र्यद्धिरण्य.न्न विद्येत- कथं स्यादिति, द्विराज्यस्योपस्तीर्य- वपा.मवदाय-द्विरुपरिष्टा दभिघारयति॥
हिरण्यरहितस्य प्रकारान्तरेण पञ्चादानानि प्रश्नोत्तराभ्यां दर्शयति।
॥अत्यमृतँ वा आज्य- ममृतं हिरण्यं,न्तत्र सकामˆ उपाप्तो- य आज्ये, तत्र सकाम उपाप्तो- यो हिरण्ये, तत्पञ्चसम्पद्यन्त॥
आज्यस्य हिरण्यप्रतिनिधित्वमुपपादयति- आज्यस्य स्वादुत्वेन हिरण्यस्य च दर्शनीयत्वेन प्रियत्वादमृतत्वमेवं सति यत्र हिरण्यं प्रक्षिप्यते तत्राज्यप्रयुक्तो यः कामः स प्राप्तो भवति। यत्र त्वाज्यम् प्रक्षिप्यते तत्र हिरण्यप्रयुक्तो यः कामः स प्राप्तो भवति। तस्मादाज्येन हिरण्येन पञ्चावदानानि सम्पद्यन्ते॥
॥पाङ्क्तो य पुरुष पञ्चधा विहितो लोमानि त्वङ्मांस मस्थि मज्जा, सˆ यावानेव पुरुष-स्तावन्तँ यजमानँ संस्कृत्याग्नौ देवयोन्या.ञ्जुहो,त्यग्निर्वै देवयोनि- स्सोऽग्ने र्देवयोन्याˆ आहुतिभ्य स्सम्भूय हिरण्यशरीरˆ ऊर्ध्व स्स्वर्गँ लोकमेति॥
अवदानगतां पञ्चसङ्ख्यां प्रशंसति। पञ्चसङ्ख्यायोगात्पुरुषस्य पाङ्क्तत्वं तद्योगाच्च लोमादिभिः पञ्चभिर्निष्पादितत्वात्। तस्मात्पञ्चभिरवदानैः पुरुषो यावल्लोमादिपञ्चावयवोपेतोऽस्ति तावन्तं सर्वमपि यजमानं संस्कृत्याग्नौ देवत्वप्राप्तिकारने हुतवान्भवति। अग्नेश्च यागद्वारा देवजन्मकारणत्वात्। एवं सति स यजमानो देवत्वकारणादग्नेः स्वेनानुष्ठिताभ्य आहुतिभ्यः समष्टिरूपेणोत्पद्य सुवर्णवर्णशरीरयुक्त ऊर्ध्वगामी स्वर्गं प्राप्नोति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य चतुर्थः खण्डः॥
॥ सप्तमाऽध्याये पञ्चमः खण्डः॥
॥ॐदेवेभ्य प्रातर्यावभ्यो होत.रनुब्रू3ही.त्याहाध्वर्यु,रेते वाव देवा प्रातर्यावाणो- यदग्नि रुषाˆ अश्विनौ, त एते सप्तभि स्सप्तभि श्छन्दोभि रागच्छन्ति॥
अथ प्रातरनुवाको वक्तव्यः। तदर्थमादौ प्रैषं विधत्ते। सुत्यादिने प्रातः काले यान्ति यज्ञभूमिं गच्छन्तीति प्रातर्यावाणस्तादृशेभ्यो देवेभ्यस्तत्प्रीत्यर्थं हे योगरनुकूला ऋचो ब्रूहि तमेतं प्रैषमन्त्रमध्वर्युः पठेत्। तं मन्त्रं व्याचष्टे। योऽयमग्निर्या चोषः कलाभिमानिनी देवता यौ चाश्विनावेत एव देवाः प्रैषमन्त्रे प्रातर्यावाण इति विशेष्यन्ते। तत्कथमिति तद्य्च्यते। त एते देवाः प्रत्येकं सप्तच्छन्दोयुक्ताभिऋग्भिर्यज्ञभूमिमागच्छन्ति तस्मात्प्रातर्यावाणः। सप्तभिः सप्तबिरिति वीप्सा प्रत्येकं सङ्ख्यान्वयार्था। ताश्च ऋचः सर्वा आश्वलायने नापो रेवतीः क्षयथ (ऋ. सं. १-३०-१२) इत्यादि ग्रन्थेनोदाहृताः (आश्व.श्रौ. सू. ४-१०-७) तत्र- उप प्रयन्तः (ऋ. सं. १-२४-१) इत्यादिषु छन्दो गायत्रम्। त्वमग्ने वसून् (ऋ. सं. १-४५-१) इत्यादिष्टनुष्टुप् छन्दः। अबोध्यग्निः (ऋ. सं ५-१-१-) इत्यादिषु त्रिष्टुप् छन्दः। एना वो अग्निं (ऋ. सं. ७-१६-१) इत्यादिषु बृहती छन्दः। अग्ने वाजस्य (ऋ. सं. १-७९-४) इत्यादिषूष्णिक् छन्दः। जनस्य गोपा (ऋ. सं. ५-११-१) इत्यादिषु जगती छन्दः। अग्निं तं मन्ये (ऋ. सं. ५-६-१) इत्यादिषु पङ्क्तिश्छन्दः। तान्येतानि सप्तछन्दांस्याग्नेये क्रतौ प्रातरनुवाके द्रष्टव्यानि। प्रतिष्या सूनरी (ऋ. सं. ४-५२-१) इत्यादिषु गायत्री छन्दः। उषो भद्रेभिः (ऋ. सं. १-४९-१)इत्यादिषु अनुष्टुप्। इदं श्रेष्ठं (ऋ. सं. १-११३-१) इत्यादिषु त्रिष्टुप्। प्रत्युक् अदर्शि (ऋ. सं. ७-८२-१) इत्यादिषु बृहती। उषस्तच्चित्रमाभर (ऋ. सं १-९२-१३) इत्यादिषु उष्णिक्। एता उ त्या (ऋ. सं. १-९२-१) इत्यादिषु जगती। महे नो अद्य (ऋ. सं. ५-७९-१) इत्यादिशु पङ्क्तिः।तान्येतान्युषस्य प्रातरनुवाके सप्त छन्दांसि। एषो उषा (ऋ. सं. १-४६-१) इत्यादिषु गायत्री। यदद्य (ऋ. सं. ५-७३-१) इत्यादिष्वनुष्टुप्। अभात्यग्निः (ऋ. सं. ५-७६-१) इत्यादिषु त्रिष्टुप्। इमा उ वां (ऋ. सं. ७-७४-१) इत्यादिषु बृहती। अश्विना वर्तिः( ऋ. सं. १-९२-१६) इत्यादिषूष्णिक्। अबोध्यग्निर्ज्म (ऋ. सं. १-१५७-१) इत्यादिषु जगती। प्रति प्रियतमम् (ऋ. सं. ५-२५-१) इत्यादिषु पङ्क्तिः। तान्येतान्याश्विने प्रातरनुवाके सप्त छन्दांसि। तैरेतैः सप्तभिः सप्तभिः प्रतेकं छन्दोभिर्देवानामागमनं द्रष्टव्यम्॥
॥न्त्याऽस्य देवा प्रातर्यावाणो हव.ङ्गच्छन्ति-यˆ एवँ वेद॥
एतद्वेदनं प्रशंसति। हूयतेऽत्रेति हवो यज्ञोऽस्य वेदितुर्हवमुक्ता देवाः प्राप्नुवन्ति॥
॥प्रजापतौ वै स्वयं होतरि प्रातरनुवाक मनुवक्ष्य-त्युभये देवासुराˆ यज्ञ मुपावस,न्नस्मभ्य मनुवक्ष्य.त्यस्मभ्य मिति, सˆ वै देवेभ्य एवान्वब्रवीति॥
प्रैषमन्त्रे देवेभ्योऽनु ब्रूहीति यदुक्तं तदुपपादयितुं प्रातरनुवाकस्य देव्सम्बन्धं विशदयति। पुरा कदाचिक्कस्मिंश्चिद्यज्ञे प्रजापतिः स्वयं होता भूत्वा प्रातरनुवाकमनुवक्तुमुद्यतस्तस्मिन्ननुवक्ष्यति देवाश्चासुराश्चास्मभ्यमस्मदर्थमेवानुवक्ष्यतीति प्रत्येकमभिप्रेत्य तं यज्ञमुपेत्य तत्राऽऽसन्निति। अस्मभ्यमिति वीप्सा वर्गद्वयस्य प्रत्येकमन्वयार्थम्। तदानीं प्रजापतिरसुरानुपेक्ष्य देवार्थमेवान्वब्रवीत्। ततः प्रातरनुवाकस्य पुर्वोक्तैरग्न्यादिभिर्देवसम्बन्धः॥
॥त्ततो वै देवाˆअभव- न्पराऽसुराˆ, भव.त्यात्मना- पराऽस्य द्विष.न्पाप्मा भ्रातृव्यो भवति-यˆ एवँ वेद॥
प्रातरनवाकस्य देवोत्कर्षहेतुत्वं तदभावस्यासुरपराभवहेतुत्वं च दर्शयति। अभवन्भुतिमुत्कर्षं प्राप्ताः। असुरास्तु पराभवन्नपकर्षं प्राप्ताः। वेदनं प्रशंसति। आत्मन भवति स्वयमुत्कृष्टो भवति। तदीयस्तु भ्रातृव्यः पराभवति।
॥प्रातर्वै सत.न्देवेभ्योऽन्वब्रवी,द्यत्प्रातरन्वब्रवी -त्तत्प्रातरनुवाकस्य प्रातरनुवाकत्वं॥
प्रातरनुवाकशब्दस्य निर्वचनं दर्शयति। प्रतः काल एव स प्रजापतिस्तमनुवाकमृक्समूहं देवार्थमनुक्रमेणाब्रवित्। यस्मादेवं तस्मात्प्रातरनुवाक इति नाम सम्पन्नम्॥
॥ महति रात्र्या अनूच्य-स्सर्वस्यै वाच.स्सर्वस्य ब्रह्मण परिगृहीत्यै, यो वै भवति- यश्श्रेष्ठता मश्नुते- तस्यवाचं प्रोदिता मनुप्रवदन्ति, तस्मा.न्महति रात्र्या अनूच्य, पुरावाच प्रवदितो रनूच्यो- यद्वाचि प्रोदिताया मनुब्रूया- दन्यस्यै वैनमुदितानुवादिन.ङ्कुर्या,- त्तस्मा न्महति रात्र्या अनूच्य, पुराशकुनिवादा दनुब्रूया-न्निर्ऋते र्वा एत न्मुखँ- यद्वयांसि- यच्छकुनय,स्तद्य.त्पुराशकुनिवादा दनुब्रूया-न्मा यज्ञियाँ वाचं प्रोदिता मनुप्रवदिष्मेति, तस्मा.न्महति रात्र्या अनूच्यः॥
तस्य प्रातरनुवाकस्य कालविशेषं विधत्ते। रात्र्याः पुर्वस्यौपवसथ्याख्यस्य दिनस्याग्नीषोमीय पश्वनुष्थानयुक्तस्य या रात्रिस्तस्या रात्रेः सम्बन्धिनि शेषे महत्यवतिष्ठमाने सति प्रातरनुवाकाख्य ऋक्समूहो वक्तव्यः। एतदुक्तं भवति- यस्मिन्काले प्रारब्धः प्रातरनुवाकस्तमसोपघातात्पुरैव समापयितुं शक्यः स्यात्तदा प्रारब्धव्य इति। तथाविधमनुवचनं लौकिक्याः सर्वस्या वाचो ब्रह्मणो वेदस्य सर्वस्यापि परिग्रहाय भवति। यो वा इत्यादिना लौकिको न्याय उच्यते। लोके यः पुमान्भवत्यैश्वर्यं प्राप्नोति यश्च विद्यवृत्तादिभिः श्रेश्ठत्वं प्राप्नोति तस्योभयविथस्य पुरुषस्य सम्बन्धिनीं वाचं प्रोदितां प्रथमत उक्तामनु पश्चत्सर्वे भृत्याः शिष्याश्च प्रवदन्ति। तस्मात्तत्रापि राजाचार्यादि वाक्स्थानीयः प्रातरनुवाकः स्वेतरवैदिकलौकिकसर्ववाक्प्रवृत्तेः पूर्वं रात्र्याः सम्बन्धिनि महत्यवशिष्टे काले पश्चात्ययामेऽनुवक्तव्यः। यद्यप्ययमुशः कालो न तु प्रातः कालस्तथापि प्रातः कालसमीपवर्तित्वात्प्रातरनुवाकत्वं द्रष्टव्यम्। पश्चात्ययामेऽपि किञ्चिद्विशेषं विधत्ते। रात्रौ निद्रां कुर्वन्तः प्राणिन उषः काले प्रबुध्य वाचं प्रवदन्ति तस्मात्प्रवदितोः प्रवचनात्पूर्वमेवायमनुवक्तव्यः। विपक्षे बाधकमाह। निद्रां परित्यज्य प्रबुद्ध्यैः परुषैर्वाचि प्रोदितायां यदि पश्चाद्ब्रूयात्तदानीमेतं प्रातरनुवाकमुदितानुवादिनं कुर्यादन्यैरुदिता या वाक्तदनुवादित्वे सति भृत्यादि शिष्यादिरूपत्वं स्यान्न तु राजाचार्यादिरूपत्वम्। स्वपक्षं निगमयति। अपरं विशेशं विधत्ते। शकुनयः पक्षिण उषः काले प्रबुद्ध्यवदन्ति ध्वनिं कुर्वन्ति तस्माद्वादात्पुर्वमेवानुब्रूयात्। तदेतदुपपादयति। निर्यतिः का चिद्राक्षसरूपा म्रुत्युदेवता। यानि वयांसि ये च शकुनय एतत्सर्वं मृत्युदेवताया मुखं। अत्र वयः शब्देन पक्षिसामान्यमुच्यते शकुनिशब्देन पक्षि विशेशः। येषां सञ्चारादध्वनीष्टानिष्टसूचकतया मनुष्या व्यवहरन्ति ते शकुनयः। यस्मादुभयं मृत्युमुखं तद्यदि तदुभयध्वनेः पुरानुब्रूयात्तदानीं प्रोदितां प्रथमत उक्तामयज्ञियां यज्ञसम्बन्धरहितां वाचमनु मा प्रवदिष्म प्रातरनुवाकं पश्चादुक्तवन्तो मा भवामेति होतुरभिप्रायो भवति। अतो महति रात्रिविशेषेऽवस्थिते सति शकुनिवादशंकानुदयात्तदानीमेवानूच्यः॥
॥अथो~ खलु यदैवाध्वर्यु रुपाकुर्या- दथानुब्रूया,द्यदा वा अध्वर्यु रुपाकरोति- वाचैवोपाकरोति, वाचा होताऽन्वाह- वाग्घि ब्रह्म, तत्र सकाम उपाप्तो- यो वाचि च- ब्रह्मणि च॥
पक्षान्तरं विधत्ते। अध्वर्योरुपाकरनं प्रैषमन्त्रपाठः। स एव प्रातरनुवाकस्य कालः। तदेतदुपपादयति। अध्वर्योरुपाकरणं प्रैषमन्त्ररूपाया वैदिकवाचैव सम्पद्यते। होतुरनुवचनमपि वैदिकवाचा भवति यस्मादुभयविधा वाग्ब्रह्म वेदरूपं तस्मादुपकरणान्तर भाविनानुवचनेन लोइकिकवाचि वैदिकवाचि यत्फलं भाविनं तत्प्राप्नोति। अत्र कालविशेशः शाखान्तरेऽप्याम्नातः। पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वक्तामवरुन्धे इति। उपाकरणं चापस्तम्बेन स्पष्टीकृतम्- पुरा वाचः पुरा वा वयोभ्यः प्रवदितो प्रातरनुवाकमुपाकरोति प्रातर्यावभ्यो देवेभ्योऽनु ब्रूहि ब्रह्मन्वाचं यच्च प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति सम्प्रेष्यति। इति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य पञ्चमः खण्डः॥
॥ सप्तमाऽध्याये षष्ठः खण्डः॥
॥ॐप्रजापतौ वै स्वयं होतरि प्रातरनुवाक मनुवक्ष्यति- सर्वाˆदेवता आऽशंसन्त- मामभि.प्रतिपत्स्यति- मामभीति, स प्रजापति.रैक्षत- यद्येका न्देवता मादिष्टा मभिप्रतिपत्स्यामीतरा मेकेन- देवताˆ उपाप्ता भविष्यन्तीति, सˆ एता.मृच मपश्य- दापो रेवती रि,त्यापो वै सर्वाˆ देवताˆ- रेवत्य स्सर्वा देवता- स्सˆ एतयर्चा प्रातरनुवाकं प्रत्यपद्यत, ता.स्सर्वा देवता प्रामोदन्त- मामभिप्रत्यपादि मामभीति॥
अथ प्रातरनुवाके प्रथमामृचं विधातुमाख्यायिकामाह- प्रजापतौ वै स्वयमेव होतृत्वं प्रप्य कस्मिंश्चिद्यज्ञे प्रातरनुवाकमनुवक्तुमुद्युक्ते सति सर्वा अपि देवताः प्रत्येकं मामभिलक्ष्य प्रतिपत्स्यति प्रारम्भं करिष्यतीत्येवमाशंसन्तापेक्षां कृतवन्तः। मामभीति वीप्सा सर्वसङ्ग्रहार्था। मद्देवत्ययैवर्चा प्रारम्भ इति सर्वासां देवतानां प्रत्येकमाशामवलोक्य स प्रजापतिः स्वमनसि विचारितवान्। स एव विचारो यदित्यादिना स्पष्टीक्रियते। आदिष्टां केनचिन्मन्त्रेण प्रतिपादितामेकां देवतामभिलक्ष्य यद्यहं प्रतिपत्स्यामि प्रारम्भम् करिष्यामि तदानीमितरा देवताः कुप्येयुरिति शेषः। तस्मात्कारणान्मे मम केन प्रकारेण देवता सर्वा अप्युपाप्ता उपक्रमे प्राप्ता भविष्यन्ति। एवं विचार्य स प्रजापतिः सर्वदेवतासिद्ध्यर्थमापो रेवतीः क्षयथा हि वस्व इत्येताम्रुचमपश्यत्। तत्राप्शब्देन रेवती शब्देन च सर्वा देवता उक्ता भवन्ति। आप्नुवन्तीत्यापः। रायो धनानि यासां सन्तिति रेवत्यः। यज्ञभूमिप्राप्तिर्धनवत्त्वं च सर्वासु देवतासु विद्यते तस्मात्सर्वदेवता प्रतिपादिकेयमृक्। स प्रजापती रेवत्यै वोपक्रान्तवान्। तेन सर्वा देवताः प्रत्येकं मामभिलक्ष्य प्रारम्भः कृत इति प्रहृष्टवत्यः। वीप्सा पूर्ववत्॥
॥ सर्वाहास्मि न्देवता प्रातरनुवाक मनुब्रुवति प्रमोदन्ते, सर्वाभि.र्हास्य देवताभि प्रातरनुवाक प्रतिपन्नो भवति-यˆ एवँ वेद॥
अथार्थवादेन विधिमुन्नयति। स एतयर्चा प्रातरनुवाकं प्रतिपद्यत इति शेषः। यः पुमानापो रेवतीरित्येतया प्रातरनुवाकं प्रारभतेऽस्मिन्प्रारभ्यानुब्रुवति सर्वा देवताः प्रहृष्यन्ति तस्मादनयैवर्चा प्रारभेतेति विधिरुन्नेयुः। वेदनं प्रशंसति- तदेतदाश्वलायनेनाभिहितम्- अन्तरेण युगधुरावुपविश्य प्रेषितः प्रातरनुवाकमनुब्रूयान्मन्द्रेणापो रेवतीः क्शयथा हि वस्व उप प्रयन्त इति स्तोके इति।
॥ ते देवा अबिभयु-रादातारो वै नˆ इमं प्रात.र्यज्ञ मसुराˆ- यथौजीयांसो बलीयांसˆ एवमिति, तानब्रवी.दिन्द्रो- मा बिभीत- त्रिषमृद्ध.मेभ्योऽहं प्रात र्वज्रं प्रहर्ताऽस्मी,त्येतां वाव तदृच मब्रवी- द्वज्र.स्तेन, यदपोनप्त्रीया- वज्र स्तेन, यत्त्रिष्टु-ब्वज्र.स्तेन, यद्वा-क्तमेभ्य प्राहर-त्तेनैना.नहं,-स्ततो वै देवाˆ अभव- न्पराऽसुराˆ, भव.त्यात्मना- पराऽस्य द्विष न्पाप्मा भ्रातृव्यो भवति-यˆ एवँ वेद॥
आपो रेवतीरित्येतामृचमाख्याहिकया प्रशंसति- पुरा कदाचित्प्रजापतौ प्रातरनुवाकमनुब्रुवति सति तत्समीप आगता देवा अबिभयुर्भीतिं प्राप्ताः। केनाभिप्रायेणेति तदुच्यते। यथा लोके केचिच्छत्रव ओजसोऽतिशयेनौ जसा सप्तधातुना युक्तत्वात्पुष्टशरीरा बलीयांसो महता सैन्येन युक्तत्वादतिशयेन प्राबल्यादागत्य धनमपहरन्ति, एवमसुरा नोऽस्मदीयमिमं प्रातर्यज्ञं प्रातरनुवाकरूपमादातारो वा आदास्यन्त्येवापहरिष्यन्त्येवेति। तदानीमिन्द्रो मा बिभीत भीतिं मा कुरुतेति तान्देवानब्रवीत्। कथं भीत्या अभाव इति तदुच्यते। अहमिन्द्र एवैभ्योऽसुरेभ्योऽसुरविनाशार्थं प्रातः काले त्रिषमृद्धं त्रिभिः प्रकारैः समृद्धं प्रबलं वज्रं प्रहर्तास्मि तेषामुपरि प्रक्षेप्स्यामि। ततो हे देवा अस्माकं भीतिर्माभुत्। इत्युक्त्वा तत्तदानीमेता वावापोरेवतीरिति यास्ति तामृचमेवाब्रवीत्। तस्या ऋचस्त्रिप्रकारवज्रत्वं कथमिति तदुच्यते। यद्यस्मात्कारणादपोनिप्त्रीया सा ऋगपोनप्तैदेवताका। तथा चानुक्रमणिकाकारः- यस्मिन्सूक्ते सास्ति तस्य सूक्तस्य देवतांब्रूते प्रदेवत्रा पञ्चोना कवष ऐलूष आपमपोनप्त्रीयं वा इति। तेनापोनप्तृदेवताकत्वेन कारणेनायं मन्त्रो वज्रः सम्पन्नम्। सोऽयमेकः प्रकारः। अपोनप्ता देवोऽतिक्रूरस्तत्तदीयाया ऋचो वज्रत्वं युक्तम्। यस्मादियं त्रिष्टुप् छन्दस्का तेनापि प्रकारेण वज्रत्वम्। इन्द्रियं वै वीर्यं त्रिष्टुबिति श्रुत्यन्तरे वीर्यरूपत्वश्रवणाद्वज्रत्वम्। सोऽयं द्वितीयः प्रकारः। यस्मादियं वाग्रूपा तेनापि प्रकारेण वज्रत्वम्। स वग्वज्रो यजमानं हीनस्तीत्यत्र शब्दरूपाया वाचो वज्रत्वश्रवणात्। सोऽयं तृतीयः प्रकारः। तमेवं त्रिषमृद्धमृग्रूपं वज्रमेभ्योऽसुरेभ्यः प्राहरत्तेनैनानसुरानहनद्धतवान्। तत एवासुरवधाद्देवा विजयिनोऽभवन्नसुराश्च पराभवन्। वेदनं प्रशंसति। पूर्ववद्व्याख्येयम्॥
॥तदाहु- स्सˆ वै होतास्या-द्यˆ एतस्या मृचि सर्वाणि च्छन्दांसि प्रजनये.दि,त्येषा वाव त्रिरनूक्ता, सर्वाणि च्छन्दांसि भव-त्येषा छन्दसां प्रजातिः॥
अस्या ऋचस्त्रिरावृत्तिं विधत्ते। तत्तस्यामापो रेवतीरित्यृचि ब्रह्मवादिन एवमाहुः- यः पुमानेतस्यामृचि सर्वाणि छन्दांस्युत्पादयेत्स एव मुख्यो होता स्यान्नत्वन्य इति। एतद्ब्रह्मवादिनांवचनं श्रुत्वा कश्चिदभिज्ञः सर्वछन्दसामुत्पादनप्रकारं ब्रूते। येयमृगनूक्त्या सेयमेव त्रिः पठिता सती सर्वछन्दसांस्वरूपं भवति। इयं त्रिष्टुब्रूपत्वाच्चतुश्चत्वारिंशदक्षरा। तस्यां त्रिरावृत्तायां द्वात्रिंशदधिकशताक्षराणि सम्पद्यन्ते। तेषु जगत्यादीन्यधिकाक्षराणि गायत्र्यादीनि न्यूनाक्षराणि सर्वछन्दांसि सम्पादयितुं शक्यते। तस्मादेषा सर्वेषां छन्दसां प्रजातिरुत्पत्तिस्थानम्। यस्येषा त्रिरावृत्तिः सूत्रकारेण नोक्ता तर्हि सर्वछन्दोऽन्तर्भावनेयमृचः प्रशंसास्तु॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य षष्ठः खण्डः॥
॥ सप्तमाऽध्याये सप्तमः खण्डः॥
॥ॐशत.मनूच्य.मायुष्कामस्य, शतायु र्वै पुरुष.श्शतवीर्य श्शतेन्द्रियˆ- आयुष्येवैन न्तद्वीर्य इन्द्रिये दधाति॥
अथ प्राथरनुवाकगतानामृचां काम्या विशेषा वक्तव्याः। तत्रायुरर्थं शतसङ्ख्यां विधत्ते। अपमृत्युरहितमायुर्यः कामयते तस्यर्चां शतमनूच्यम्। ऋग्विशेषास्तु सूत्रान्तरे द्रष्टव्याः। शतस~ख्याका वत्सरा आयुर्यस्य मनुष्यस्य सोऽयं शतायुः धर्मसपादितस्यापम्रुत्योरभावे संवत्सरशतं मनुष्या जीवन्ति। दशसङ्ख्याकानीन्द्रियाणि प्रत्येकं दशसुनाडीषु वर्तमानत्वात्तन्मिलित्वा शतेन्द्रियाणि भवन्ति। ततस्तद्व्यापारणामपि शतत्वेन शतवीर्यत्वम्। तस्माच्छतानुवचनेन तत्सङ्ख्याक आयुषि वीर्य इन्द्रिये चैनं यजमानं स्थापयति॥
॥त्रीणि च शतानि षष्टि.श्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च सँवत्सरस्याहानि- तावा.न्त्सँवत्सर-स्सँवत्सर प्रजापति- प्रजापति र्यज्ञˆ, उपैनँ यज्ञो नमति-यस्यैवँ विद्वां.स्त्रीणि च शतानि च षष्टि.ञ्चान्वाह॥
अहीनरात्रादुत्तरक्रतुकामस्य सङ्ख्यान्तरं विधत्ते- षष्ट्युत्तर शतत्रयदिवसपरिमितो यः संवत्सरः कालात्मक स एव प्रजापतिः। संवत्सरादि कालविशेषणं। प्रजापतिसृष्टत्वेन तदभेदोपचारः । तथा यज्ञस्यापि तेन सृष्टत्वात्तद्रूपत्वम्। एवंसति षष्ट्युत्तरशतत्रय सङ्ख्यायाः संवत्सर प्रजापतिद्वारा यज्ञसम्बन्धादुत्तरक्रतुप्राप्तिहेतुत्वं भवति॥ होतुर्वेदनं प्रशंसति॥
॥सप्त च शतानि विंशति.श्चानूच्यानि प्रजापशुकामस्य, सप्त च वै शतानि विंशतिश्च सँवत्सरस्याहोरात्रा-स्तावा.न्त्सँवत्सर-स्सँवत्सर प्रजापति,र्यं प्रजायमानँ विश्वं रूप.मिद.मनु प्रजायते- प्रजापति.मेव तत्प्रजायमानं प्रजया पशुभि रनुप्रजायते प्रजात्यै, प्रजायते प्रजया पशुभि- र्यˆ एवँ वेद॥
अथ प्रजां पशूंश्च कामयमानस्य पूर्वसङ्ख्याया द्विगुणां सङ्ख्यां विधत्ते। संवत्सरगतानामह्नां रात्रीणां च पृथग्गणना यां मिलित्वा विंशत्यधिकसप्तशतसङ्ख्या संवत्सरे सम्पद्यते। संवत्सरस्य च प्रजापतित्वमुक्तम्। एतावता विंशत्युत्तरसप्तशतसङ्ख्यायाः प्रजापतिसम्बन्धो दर्शितः। यं प्रजायमानमित्यादिना काम्यमानानां प्रजानां पशूनां च पुरुषमनु विश्वरूपमिदमोषधिवनस्पत्यादिस्थावरं भ्रातृभगिनी गोमहिष्यादिकं जङ्गमं च सर्वं प्रजायते तत्तद्गृहे प्रजायमानं प्रजापतिमेवानु प्रजापशुरूपेण सर्वमुत्पद्यते। एतदुक्तं भवति। कस्यचिद्धनिकस्य पुत्र उत्पद्यमाने सति कुटुम्बाभिव्रुद्ध्या तज्जीवनार्थं सस्यादिनिष्पत्तिं गोमहिष्यादिसम्पत्तिं च स धनिकः प्रभुतां करोति। तस्य पुत्रस्य भ्रातृभगिन्यादयोऽपि पुनर्जायन्ते। तत्र च स्थावरजङ्गमरूपानां प्रजानां पलनहेतुत्वादयं जायमानः पुत्र एव च प्रजापतिः। अतः प्रजापतिद्वारा प्रजापशुसम्बन्धोऽपि भवतिति। त्तस्मादियं सङ्ख्या यजमानस्य प्रजात्यै प्रजापशूत्पादनाय सम्पद्यते। वेदनं प्रशंसति॥
॥दाष्टौ शता न्यनूच्या.न्यब्राह्मणोक्तस्य, यो वा दुरुक्तोक्त.श्शमलगृहीतो यजेता,ऽष्टाक्षरा वै गायत्री- गायत्र्या वै देवापाप्मानं शमल मपाघ्नत- गायत्र्यैवास्य तत्पाप्मानं शमल मपह,न्त्यपपाप्मानं हते-यˆ एवँ वेद॥
अथ दुर्ब्राह्मणत्व परिहारकामस्य सङ्ख्यान्तरं विधत्ते। अब्राह्मणत्वेन स्मृतिषु योऽभिषितः सोऽयमब्राह्मणोक्तो राजसेवाधिकाई। स्मृतिवाक्यं चात्र पूर्वमेवोदाहृतम्। तादृशस्याष्टौ शतान्यनुब्रूयात्। अथवा यो वा दुरुक्तोक्तो दुरुक्तेनापवादेन जनैर्व्यवहृतः स शमलगृहीतो मलिनेन लोकविरुद्धेन स्वीकृतस्तादृशो यदा यजेत तदाप्यष्टौ शतान्यनुब्रूयात्। गायत्र्या अष्टाक्षरत्वात्तया च मलिनस्य पापस्य देवैर्विनाशितत्वात् अष्टसङ्ख्यामनु तिष्ठन्गायत्रैव मलिनं पापं विनाशयति। वेदनं प्रशंसति। अपहन्तीत्यर्थः॥
॥सहस्र.मनूच्यं स्वर्गकामस्य, सहस्राश्वीनेवा इत स्स्वर्गो लोक- स्स्वर्गस्य लोकस्य समष्ट्यै- सम्पत्त्यै सङ्गत्या॥
सङ्ख्यान्तरं विधत्ते। प्रबलोऽश्व एकेन्नाह्ना यावन्ति योजनानि गच्छति तावद्योजनपरिमितो देशो आश्वीनः। स च सहस्र सङ्ख्यया गुणितः सहस्राश्वीनः। अश्वस्यैकाहगमः इति पाणिनीयसूत्रादाश्वीनशब्दनिष्पत्तिः। इतो भूलोकादारभ्य सहस्राश्वीन ऊर्ध्वदेशे स्वर्गो लोको वर्तते। अतः सहस्रसङ्ख्या स्वर्गस्यलोकस्य समष्ट्यै प्राप्त्यै भवति। प्राप्तस्य सम्पत्त्यै स्वापेक्षितसर्वभोग्यवस्तु सम्पादनाय भवति। सम्पन्नस्य च सङ्गत्यै महतामिन्द्रादिदेवानां प्रीतिपूर्वक सम्बन्धाय भवति॥
॥अपरिमित मनूच्य,मपरिमितो वै प्रजापति- प्रजापते र्वा एत दुक्थँ- यत्प्रातरनुवाक,स्तस्मि न्त्सर्वे कामाˆ अवरुध्यन्ते, स यदपरिमित मन्वाह- सर्वेषा.ङ्कामाना.मवरुद्ध्यै, सर्वा न्कामा नवरुन्धे-यˆ एवँ वेद, तस्मा.दपरिमित मेवानूच्यं॥
सर्वकामसिद्धर्घमियत्तापतिच्छेदराहित्यसङ्ख्याम भिधत्ते। शतं सहस्रमित्यानि सङ्ख्यापरिमानं परित्यज्य मध्यरात्रावूर्ध्वमुपक्रम्य सूर्योदयात्प्राचीनकाले यावतीरनुवक्तुं शक्तिरस्ति ता वतीरनुब्रूयात्। जगत्कारनभूतः प्रजापतिश्चापरिमितः। न हेतावदस्य स्वरूपमिति प्रजापतिः परिमातुं शक्यते। यः प्रातरनुवाकोऽस्ति तदेतत्तादृशस्य प्रजापतेरुक्थं प्रियं शस्त्रमतस्तस्मिन्प्रातरनुवाके सर्वे कामा अन्तर्भवन्ति। एवं सति स होता यद्यपरिमितमनुब्रूयात्तदानीं तदनुवचनं सर्वकामाप्राप्त्यै भवति। वेदनं प्रशंसति। बहुफलहेतुत्वादपरिमितपक्षमादरेण निगमयति॥
॥सप्ताग्नेयानि च्छन्दां.स्यन्वाह, सप्त वै देवलोका- स्सर्वेषु देवलोकेषु राध्नोति-यˆ एवँ वेद॥
प्रातरनुवाकगतास्वृक्षु छन्दोविशेषान्विधत्ते। प्रातरनुवाके त्रयोभागाः। तत्र प्रथमो भाग आग्नेयः। तस्मिंश्च गायत्र्यनुष्टुप् त्रिष्टुब्बृहत्युष्णिग्जगती पङ्क्तिरिति सप्तभिश्छन्दोभिर्युक्ता ऋचोऽनुब्रूयात्। देवानां सम्बन्धिनो बहुलोकयुक्ता लोकविशेषाः सप्त। तस्माच्छन्दसां सप्तसङ्ख्या प्रशस्ता। वेदनं प्रशंसति। भूलोकादयः सत्यलोकान्ताः सप्त वै देवलोका द्रष्टव्याः॥
॥सप्तोषस्यानि च्छन्दांस्यन्वाह, सप्त वै ग्राम्या पशवो-ऽवग्राम्या न्पशू.न्रुन्धे-यˆ एवँ वेद, सप्ताश्विनानि च्छन्दांस्यन्वाह, सप्तधा वै वा.गवद-त्तावद्वै वागवद,त्सर्वस्यै वाच स्सर्वस्य ब्रह्मण परीगृहीत्य॥
प्रातरनुवाकस्य द्वितीयभागे छन्दाम्सि विधत्ते। यथा प्रथमभागस्य अग्निर्देवता तथा द्वितियभागस्योषा देवता तस्मादुषः प्रतिपादिकास्वृक्षु पुर्ववद्गायत्र्यादीनि सप्त छन्दाम्सि द्रष्टव्यानि। ग्रामे भवा ग्राम्याः पशवस्ते च सप्त। तथा च भौधायनः- सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी च इति। आपस्तम्बमतानुसारिणस्त्वेवं वर्णयन्ति-अजविकं गवाश्वं च गर्दभोष्ट्रनरस्तथा। सप्त वै ग्राम्यपशवो गीयन्ते कविसत्तमैः॥तस्मादत्र सप्त सङ्ख्यायुक्ता। वेदनं प्रशंसति।
॥ तिस्रो देवताˆ अन्वाह, त्रयो वा इमे त्रिवृतो लोकाˆ- एषा मेव लोकाना मभिजित्य॥
भागत्रये देवतात्रयं विधत्ते। अग्निरुषाश्विनाविति देवतात्रयम्। यथा गुणत्रयमेलनरूपा रज्जुस्त्रिवृदेवमेते पृथिव्यन्तरिक्षद्युलोकाः परस्परमिलितास्त्रिवृतः। यदैकैकस्मिंल्लोके सत्वरजस्तमोगुनभेदेनास्योत्तममध्यमाधमरूपत्वात्प्रत्येकं त्विवृत्त्वमतो देवता त्रिसङ्ख्या लोकत्रयजयाय भवति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य सप्तमः खण्डः॥
॥ सप्तमाऽध्याये अष्टमः खण्डः॥
॥ॐतदाहु- कथ.मनूच्य प्रातरनुवाकˆ इति, यथाछन्दस मनूच्य प्रात रनुवाक, प्रजापते र्वा एता.न्यङ्गानि- यच्छन्दां,स्येषˆ उ एव प्रजापति- र्यो यजते- तद्यजमानाय हितं॥
अथ तस्य प्रातरनुवाकस्यानुवचन प्रकार विशेषंनिर्णेतुं प्रश्नमवतारयति। किमेकैकस्मिन्भागे गायत्र्यादीनि छन्दांस्यनुक्रमेणैवानुवक्तव्यानि आहोस्विदन्यथेत्येकः संशयः। अनुक्रमपक्षेऽपि किं पादे पादेऽवसानं कृत्वानुवचनीयम्, आहोस्वित्तत्तदर्थेऽवसानं कृत्वेति द्वितीयः संशयः। तत्र प्रश्नोत्तरमाह। अनुक्रमेणावस्थितानि गायत्र्यादीनि छन्दांस्यनतिक्रम्येति यथाछन्दसं छन्दः क्रमेणैवायमनुवचनीयश्छन्दसां प्रजापतिसृष्टत्वेन तदवयवत्वात्। यजमानस्य च प्रजापतिपदप्राप्तियोग्यत्वेन प्रजापतिरूपत्वात्तदङ्गरूपच्छ्न्दसां क्रमेणानुवचनं यजमानायावयवविपर्यासराहित्येन हितंभवति। तस्माच्छन्दः क्रमेणैवानुवक्तव्यम्।
॥ पच्छोऽनूच्य प्रात रनुवाक,श्चतुष्पादाˆ वै पशव- पशूनां मवरुद्ध्या, अर्धर्चशˆ एवानूच्यो, यथैवैन.मेत.दन्वाह-प्रतिष्ठाया एव, द्विप्रतिष्ठो वै पुरुष- श्चतुष्पादा पशवो- यजमान मेव तद्द्विप्रतिष्ठ.ञ्चतुष्पात्सु पशुषु प्रतिष्ठापयति, तस्मा.दर्धर्चशˆ एवानूच्य॥
द्वितीयविचारे पूर्वपक्षमाह। पच्छ एकैकस्मिन्पादेऽवसायेत्यर्थः। सिद्धान्तमाह। अर्धर्चश एकैकस्मिन्नृचोऽर्धेऽवसायावसाय प्रातरनुवाकोऽनूच्यः। एवकारः पूर्वपक्षव्यावृत्त्यर्थः। यथैवेत्यादिनार्धर्चश इत्येतदेव स्पष्टीक्रियते। एनमर्थं ययैव येनैव प्रकारेनैतदन्वध्ययन कालीनङ्गुरूच्चारणमनु यथाध्ययनकाले प्रत्यर्थमवसायाह पठति तथैव प्रातरनुवाकानुष्थानकालेऽपि। न त्वत्र ऋगन्ते प्रनवप्रक्षेपादिवत्किञ्चिन्नूतनं कर्तव्यमस्ति। तदेतदर्धर्चशोऽनुवचनं प्रतिष्ठाया एव यजमानस्य प्रतिष्ठार्थमेव भवति। तत्कथमिति तदेवोच्यते। यथ्येकस्या ऋचो द्वे अर्धर्चे एवं पुरुषो द्विप्रतिष्थ प्रतितिष्ठति स्थैर्येणावस्थितो भवत्याभ्यां पादाभ्यामिति प्रतिष्ठे द्वे पादौ प्रतिष्ठे यस्यासौ द्वि प्रतिष्ठः। पशूनां चत्वारः पादः। तथा सति पादचतुष्टयोपेतास्वृक्षु द्वाभ्यामर्धाभ्यामवसानयुक्ताभ्यामनुवचने कृते सति द्विप्रतिष्ठं द्विपादं यजमानं चतुष्पात्सु पशुषु प्रतिष्ठापयति। तस्मादर्धर्चश एवानुवचनं युक्तम्॥
॥,तदाहु- र्यद्व्यूळ्ह प्रात.रनुवाक कथ.मव्यूळ्हो भवतीति, यदेवास्य बृहती मध्या.न्नैतीति ब्रूया-त्तेनेति॥
तत्र प्रातरनुवाकक्रममाक्षिप्य समाधत्ते। छन्दसां योऽयमनुक्रमः सोऽयमनुक्रमणिकाकार्तेण दर्शितः। अथ छन्दांसि गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्ति त्रिष्टुप् जगत्यतीजगती शर्कर्यति शर्कर्यष्ट्यत्यष्टी धृत्यतिध्तयश्चतुर्विंशत्यक्षरादीनि चतुरुत्तराणि इति। चतुर्विंशत्यक्षरोपेतां गायत्रीमारभ्योत्तरोत्तरं छन्दश्चतुर्भिश्चतुर्भिरक्षरैरधिकमित्यर्थः। तमेतं छन्दसां क्रमं विपर्यस्य प्रातरनुवाके क्रमान्तरमूहितं गायत्र्यनुष्टुप् त्रिष्टुब्बृहत्युष्णिग्जगती पङ्क्तिरिति। सोयं क्रमोऽस्माभिराश्वलायनोक्तक्रमेण पूर्वमेवोदाहृतः। तस्मात्प्रातरनुवाकोक्तक्रमस्य विपर्येयेणोहनादयं व्यूढह् सम्पन्नः। सोऽयमनुचितः। तस्मात्कथमव्योळ्हो भवतीति प्रश्न आक्षेपे वा यदेवेत्यादिकमुत्तरं यस्मादेव कारनाच्छन्दः क्रमेऽनुष्ठानक्रमे वास्य प्रातरनुवाकस्य मध्याद्बृहतीछन्दो नैतिनापगच्छतीत्युत्तरमभिज्ञो ब्रूयात्तेन कारणेनायमव्यूळ्हः सम्पन्न इत्यवगन्तव्यम्॥
॥त्याहुतिभागा वा अन्या देवता- अन्या स्स्तोमभागा.श्छन्दोभागा,स्ताˆ या अग्ना.वाहुतयो हूयन्ते- ताभि राहुतिभागा प्रीणा,त्यथ यत्स्तुवन्ति च शंसन्ति च- तेन स्तोमभागा.श्छन्दोभागा, उभय्योहास्यैताˆ देवता प्रीताˆ अभीष्टाˆ भवन्ति-यˆ एवँ वेद॥
अथ प्रातरनुवाकं प्रशंसति। अन्याः काश्चिद्देवता अग्नौ हूयमानामाहुतिं भजन्त इत्यपराः काश्चिद्देवताः साम्न आवृत्तिप्रकारभेदेन निष्पन्नत्रिवृत्पञ्चदशादिस्तोमं भजन्ते। अपराः काश्चिद्देवता ऋग्गतगायत्र्यादि छन्दो भजन्ते। एवं सति ता विधिवाक्येषु प्रसिद्धा आहुतयो याः सन्ति ताभिराहुतिभागानां देवतानां प्रीतिः। उद्गातारः स्तोमयुक्तैः सामभिस्तुवन्तीति यत्तेन स्तोमभागानां प्रीतिः होतारश्छन्दोयुक्ताभिरृग्भिः शंसन्तीति यत्तेन छन्दोभागानां प्रीतिः। वेदनं प्रशंसति। आहुतिभागा एको राशिः स्तोमभागांश्छन्दो भागाश्च द्वितीयो राशिः। एता उभयविधा अपि देवता वेदनेन प्रीताः सत्यो वेदितुरभीष्टप्रदा भवन्ति। शंसनेन छन्दोभागानां प्रीत्यभिधानात्प्रातरनुवाकस्य प्रशम्सा सम्पन्ना॥
॥त्रयस्त्रिंशद्वै देवा.स्सोमपा-स्त्रयस्त्रिंश.दसोमपाˆ, अष्टौ वसव- एकादशरुद्राˆ-द्वादशादित्या- प्रजापतिश्च- वषट्कारश्चैते देवा.स्सोमपा, एकादशप्रयाजा- एकादशानुयाजा- एकादशोपयाजा- एतेऽसोमपा पशुभाजना,स्सोमेन सोमपा न्प्रीणाति- पशुनाऽसोमपा,नुभय्यो हास्यैताˆ देवता प्रीताˆ अभीष्टाˆ भवन्ति-यˆ एवँ वेद॥
विभिन्ने प्रीतिनिमित्ते दृष्टान्तमभिप्रेत्य सोमं पशुं प्रशंसति। वस्वादीनां वषट्कारान्तानां देवानां सोमपानेन प्रीतिः। होता यक्षदग्निमित्यादिमैत्रावरुणप्रैषमन्त्रेषु समिद्धो अद्येत्यादियाज्यासु चभिहिताः समिदाद्या एकादश प्रयाजदेवताः। देवं बर्हिः सुदेवमित्यादि मैत्रावरुणप्रैषमन्त्रेषु देवं बर्हिर्वसुवन इत्यादि याज्यासु चाभिहिता बर्हिराद्या एकादशानुयाजदेवताः। समुद्रं गच्छस्वाहेत्यादि मन्त्रोक्ताः समुद्रादय एकादशोपयाजदेवताः। सर्वा अपि सोमपानवर्जिताः पशुमेव भजन्ते। तासां पशुना तृप्तिः। वेदनं प्रशंसति। अत्र सोमपानामसोमपानां च भिन्न प्रीतिनिमित्ततया छन्दोभागानां देवतानामितरदेवताविलक्षणं प्रीतिनिमित्तं प्रातरनुवाक इत्यभिप्रायः॥
॥अऽभू.दुषा रुश.त्पशु.रित्युत्तमया परिदधाति, तदाहु-र्यत्त्री.न्क्रतू.नन्वाहाग्नेय मुषस्य माश्विनं- कथ मस्यैकयर्चा परिदधत- स्सर्वे त्रय क्रतव परिहिताˆ भवन्त॥
तस्य प्रातरनुवाकस्य समाप्तिमृचं विधत्ते। अत्र कञ्चिदाक्षेपमुत्थापयति। क्रतुशब्दः सोमयागसम्बन्धिनः प्रातरनुवाक भागानुपलक्शयति। ते च भागास्त्रय आग्नेय उपस्य आश्विनश्चेति। तत्र सर्वानसौ होता ब्रूते तदानीमेकयर्चा परिधानं कुर्वतोऽस्य होतुस्त्रयो भागाः सर्वेऽपि कथं समपपिता भवन्तीत्याक्षेपमाहुः॥
॥अभूदुषा रुश.त्पशु.रित्युषसो रूप- माऽग्नि रधा.य्यृत्विय इत्यग्ने,रयोजि वाँ वृषण्वसू~ रथो दस्रा वमर्त्यो माध्वी मम श्रुतं हव-मित्यश्विनो,रेवमु हास्यैकयर्चा परिदधत- स्सर्वे त्रय क्रतव परिहिताˆ भवन्ति भवन्ति॥
तच्च समाधानं दर्शयति। येयमुषाः सूयोदयात्पूर्वभिविनी सेयं रुशत्पशुरभूत्। रुशन्तः परस्परध्वनिंकुर्वन्तः पशवो यस्यामुशसि सेयं रुशत्पशुः। रात्रौ निद्रां कुर्वन्तः पशवः उषःकाले प्राप्ते ध्वनिं कुर्वन्तीति प्रसिद्धमेतत्। उषोदेवताया अस्मिन्पादेऽभिहितत्वादयं प्रथमः पद उषसो रूपमनुकूल इत्यर्थः। ऋत्वियोऽरणिमथनरूप ऋतुकाले भवस्तादृशोऽग्निरा समन्तादधय्याढानेन सम्पादितः। अताग्नेरभिधानाद्द्वितीयपदोऽग्ने रूपम्। व्रुचण्वसू वर्धमानधनौ दस्रौ हे अश्विनौ देवौ वां युवयोर्मर्त्यो रथो मनुष्याणामयोग्यः समीचीनो रथोऽयोज्यश्वाभ्यां योजितः। अतो माध्वी मधुरया वाचा मम हवं मदीयमाह्वानं श्रुतं युवां शृणुतम्। अस्मिन्नुत्तरार्धेऽश्विनोरभिधानादयमर्धोऽश्विनो रूपम्। तस्मादेकयर्चा देवतात्रयप्रदिपादिकयैतमेव प्रातरनुवाकं परिदधतः समापयतोऽस्य होतुस्त्रयः क्रतवः प्रातरनुवाकभागाः सर्वे परिहिताः समापिता भवन्ति। पदाभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य सप्तमाध्यायस्य अष्टमः खण्डः॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तक वीरबुक्कणसाम्राज्य धुरन्धर सायणाचार्यकृतावैतरेय ब्राह्मनभाष्ये सप्तमोऽध्यायः समाप्तः॥
अथैतरेय ब्राह्मणे अष्टमाध्याये प्रथमः खण्डः
॥ॐऋषयो वै सरस्वत्यां सत्र.मासत, तेकवष मैलूषं सोमा.दनय,न्दास्या पुत्र कितवो ऽब्राह्मण- कथन्नो मध्येऽदीक्षिष्टेति, तं बहिर्धन्वोदवह-न्नत्रैनं पिपासाहन्तु- सरस्वत्याˆ उदकं मापादिति, स बहिर्धन्वोदूळ्ह पिपासया वित्त- एत.दपोनप्त्रीय मपश्य,त्प्रदेवत्रा ब्रह्मणे गातु रेत्विति, तेनापां प्रिय.न्धामोपागच्छ- त्तमापोऽनूदायं-स्तं सरस्वती समन्तं पर्यधाव॥
पर्यग्न्यादेर्विशेषांश्च स्तोकाः स्वाहाकृतीरपि। वपां चाधीयते प्रातरनुवातविधिः परम्॥ अथापोनप्त्रीयादयो वक्तव्याः। तदर्थमादावाख्यायिकामाह भृग्वङ्गिररसः प्रभृतय ऋषयः कदाचित्सरस्वत्यामेतन्नामकनदीतीरे सत्रमासत। द्वादशाहमारभ्योपरितनं त्रयोदशरात्रादिकं बहुयजनानकं कर्म सत्रमित्युच्यते। तदुद्दिश्य तत्र स्थितवन्तः सत्रमन्वतिष्ठन्नित्यर्थः। तदानीं तेशां मध्ये कश्चदिलूशाख्यस्य पुरुषस्य पुत्रः कवषनामकोऽवस्थितोऽभूत्। ते च ऋषयस्तं कवषं सोमयागान्निस्सारितवन्तः॥ तेषामभिप्राय उच्यते। दास्याः पुत्र इत्युक्तिरधिक्षेपार्था। कितवो द्युतकारस्तस्मादब्राह्मणोयम्। ईदृशो नोऽस्माकं शिष्टानां मध्ये स्थित्वा कथं दीक्षां कृतवानिति तेषामभिप्रायः। तं कवषं सरस्वतीतीराद्बहिर्दूरे धन्व जलरहितां भूमिं प्रत्युदवहन्नुद्धृतवन्तो बलादपसारितवन्तः। धन्वदेशे बलात्प्रेरयितॄणामयमभिप्रायः। अत्र जलवर्जितदेश एनं कवषं पिपासा मारयतु सरस्वत्या नद्याः पवित्र मुदकमयं पापिष्ठो मा पिबत्विति। स च कवषोऽत्र सरस्वत्या बहिर्दूरं धन्व निर्जलं देशं प्रत्युदूळ्ह उत्कर्षेणापसारितः पिपासया वित्तो लब्ध आक्रान्तस्तत्परिहारार्थमेतत्प्र देवत्रेत्यादिकमपोनप्तृदेवताकं सूक्तं वेदमध्ये विचार्यापश्यत्। तेन सूक्तेन जपितेनापां जलाभिमानिनीनां देवतानां प्रियं स्थानमुपागच्छत्। तं जागतमापो देवता अनूदायन्ननुग्रहेणोत्कर्षो यथा भवति तथा प्राप्तवत्यः। ततः सरस्वती नदी तं कवषं पर्यधावत्पिरितः प्रवाहवेगेन प्रवृत्तासीत्॥
॥त्तस्मा.द्धाप्येतर्हि परिसारक मित्याचक्षते- यदेनं सरस्वती समन्तं परिससार॥
उक्तमर्थं लोकप्रसिद्ध्या द्रढयति। यद्यस्मिन्स्थाने सरस्वती नद्येनं कवषं समन्तं सर्वासु दिक्षु परिससार तत्स्थानमेतर्ह्यप्येतस्मिन्नपि काले तीर्थविशेषाभिज्ञाः पुराणकर्तारः परिसारकमित्येतन्नाम्ना व्यवहरन्ति॥
॥ ते वा ऋषयोऽब्रुव-न्विदुर्वा इम न्देवा- उपेमं ह्वयामहा इति- तथेति, तमुपाह्वयन्त, तमुपहूयैत.दपोनप्त्रीय मकुर्वत- प्र देवत्रा ब्रह्मणे गातु.रेत्विति,तेनापां प्रियन्धामोपागच्छ,न्नुपदेवाना
॥मुपापां प्रिय न्धाम गच्छ,-त्युप देवाना.ञ्जयति परमँ लोकँ-यˆ एवँ वेद- यश्चैवँ विद्वा नेत.दपोनप्त्रीय.ङ्कुरुत॥
एतद्वेदनपूर्वकमनुष्ठानं च प्रशम्सति । यस्मादेवं प्रशस्तं तस्मादपोनप्त्रीयं कुर्यादिति विधिरुन्नेयः॥
॥ तत्सन्तत मनुब्रूया,त्सन्ततवर्षीह प्रजाभ्य पर्जन्यो भवति- यत्रैवँ विद्वा.नेत.त्सन्तत.मन्वाह, यदवग्राह मनुब्रूया- ज्जीमूतवर्षीह प्रजाभ्य पर्जन्य.स्स्या,त्तस्मा.त्तत्सन्तत.मेवानूच्य,न्तस्य त्रि प्रथमां सन्तत मन्वाह- तेनैव तत्सर्वं सन्तत मनूक्तं भवति॥
तस्मिन्नपोनप्त्रीयसूक्ते प्रातरनुवाकवत्प्रसक्तमर्धर्चेऽवसानं निवारयितुं नैतरन्तर्यं विधत्ते। होतुर्वेदनं प्रशंसति पर्जन्यो मेघः सन्ततवर्षी नैरन्तर्येण वृष्टिमान्यावती वृष्टिरपेक्षिता सा सम्पुर्णाभवतीत्यर्थः। विपक्षे बाधकपुर्वकं स्वपक्षमुपसंहरति। अवग्राहम् तस्मिंस्तस्मिन्नर्धर्चे पादे पादे वावगृह्यावगृह्य पुनः पुनरवसानं कृत्वा यद्यनुब्रूयात्तदा प्रचोपकारार्थं प्रवृत्तः पर्जन्यो जीमूतवर्षी स्यात्। जीमूतः पर्वतः। जीमूतौ मेघपर्वतावित्युक्तत्तात्। अनुपयुक्ते पर्वत एव वर्षति न तूपयुक्तेषु सस्येष्टित्यर्थः। यस्मादेवं तस्मादवग्रहो न कार्यह् किन्तु सन्ततमेवानूच्यम्। तस्मिन्सूक्ते प्रथमाया ऋच आवृत्तिसहितं सान्तत्यं विधीयते। अस्य सूक्तस्य प्रथमायास्त्रिरावृत्तिः सान्तत्येन सर्वस्यापि सूक्तस्य सान्तत्यं सिध्यति। प्रथमायां सान्त्यत्यमाश्वलायनो दर्शयति- अध्येर्धकारं प्रथमामृगावानमुत्तराः इति। त्रिरावृत्तायाः प्रथमाया अर्धत्रयेणावसानं कृत्वा पठेदुत्तरासामृचामवसानं कृत्वा पाठः कर्तव्य इत्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य प्रथमः खण्डः॥
अथ अष्टमाध्याये द्वितीयः खण्डः
॥ॐताˆ एता नवानन्तराय मन्वाह, हिनोता नो अध्वर न्देवयज्येति दशमी,मावर्वृतती रध नु द्विधाराˆ- इत्यावृत्ता.स्वेकधनासु॥
तत्सूक्तवचने प्रकारविशेषं विधत्ते। प्रदेवत्रेत्यारभ्य नवसङ्ख्याका यचो याः सन्तितासां द्वयोऋचोर्मध्येऽन्तरायो विच्छेदोन भवति तथानुब्रूयात्। अपरं विशेषं विधत्ते। अध्ययनक्रमेणावर्वृततीरिति दशमी तां परित्यज्य तदुत्तरभाविनीं हिनोता न इति दशमीं क्रुत्वानुब्रूयात्। परित्यक्तायास्तस्या अनुवचनेकालविशेषं विधत्ते। अत्रायं प्रयोगक्रमः। सुत्यादिनात्पूर्वस्मिन्दिनेऽग्नीषोमीयं पशुमनुष्ठाय वसतीवरीसंञ्जिकाः सोमाभिशवकाले सवनीया अपःस्वानीय वेद्यामवस्थाप्य मध्यरात्रादूर्ध्वं निद्रां परित्यज्याग्नीध्रधिष्ण्यादींस्तत्तन्मन्त्रैरभिमृश्य सोमादीनां पात्राण्यासाद्य प्रातरनुवाकार्थं होतारं सम्प्रेष्य प्रातरनुवाकान्ते शृणोत्वग्निरिति मन्त्रेण हुत्वा तत एकधना अप आनेतुंगच्छन्नपोनप्त्रीयसूक्तार्थं होतारं सम्प्रेष्यैकधना अप आनयेदिति। सोऽयं प्रयोगक्रम आध्वर्युवसूत्रेषु द्रष्टव्यः। तत्र होतारं प्रत्यपोनप्त्रीयविषये प्रैषमापस्तम्बो दर्शयति। यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निःसमिधा हवं म इत्यपरं चतुर्गृहीतं गृहीत्वा सम्प्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्व इति। अस्मात्प्रैषादूर्ध्वं होता सूक्तमनुब्रूयात्। तदाऽऽहाश्वलायनः- परीहितेऽप इष्य होतरित्युक्तोऽनभिहिंक्रुत्यापोनप्त्रीया अन्वाह इति। तत्र पूर्वोक्तदशमीसहिता ऋचोऽनूच्यैकधनिनः पुरुषाः प्रेषिताः सन्त एकधनाख्या अपो घटैर्गृहीत्वा यदा जलसमीपादावर्तन्ते तदानीं तास्वेकधनास्वप्स्वाव्रुत्तास्तु सतीशु तदाव्रुत्तिं प्रतीक्षमाणो होता पूर्वं परित्यक्तामावर्वृततीरित्येतामृचं तस्मिन्कालेऽनुब्रूयादित्यर्थः॥
॥प्रतियदापो अदृश्र मायती रिति- प्रतिदृश्यमाना,स्वाधेनव पयसा तूर्ण्यर्थाˆ इत्युपायतीषु, समन्या यन्त्युप यन्त्यन्याˆ इति समायतीषु॥
ऋगन्तरकालं विधत्ते। ता एकधनाख्या आपो ग्रहनस्थानात्प्रतिनिवृत्यतैः पुरुषैरानीयमाना यदा होत्रादृश्यन्ते तदानीं प्रति यदाप इत्येतामृचमनुब्रूयात्। पुनरप्यृगन्तकालंविधत्ते। होत्रा दृश्टास्ता एकधनाख्या आपो यदा चत्वालसमीपं प्रत्यागच्छन्ति तदानीमुपायतीषु समीपमागच्छन्तीषु तासु आ धेनव इत्येतामृचं ब्रूयात्। पुनरप्यृगं तरकालं विधत्ते। पूर्वत्त्रोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्वेत्यापस्तम्बसूत्रोक्तः प्रैष उदाहृतस्तत उन्नेता होतृसम्बन्धिनम् चमसं वसतीवर्याख्याः पूर्वदिनानीता अपश्चात्वालसमीपे समानयति। मैत्रावरुणस्य चमसाध्वर्यवाद्रवेति प्रेषितत्वान्मैत्रावरुणस्य परिचारकश्चमसाध्वर्युरपि तदीयं चमसं चात्वालसमीपे समानयति। तेन होतृचमसेन वसतीवर्यो गृह्यन्ते। ततो वसतीवरीसहिते होगृचमसे मैत्रावरुनचमसगतास्वेकधनास्वध्वर्युणा समीपनीतासु संयोजयितुं समागतासु समन्या यन्तीतादिकामृचमनुब्रूयात्। तमेतमनुवचन कालमापस्तम्बो विशदयति- होतृचमसेन वसतीवरीभ्यो निषिच्योपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च सग्ग् स्पर्ष्य वसतीवरीर्व्यानयति समन्या यन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुनचमस आनयति मैत्रावरुणचमसाधोतृचमस एतद्वा विपरीतमिति॥
॥आपो वा अस्पर्धन्त वयं पूर्वँ यज्ञँ वक्ष्यामो- वयमिति, याश्चेमा पूर्वेद्यु र्वसतीवर्यो गृह्यन्ते- याश्च प्रात.रेकधना,स्ता भृगु.रपश्य-दापो वै स्पर्धन्त इति, ताˆ एतयर्चा समज्ञपय-त्समन्या यन्त्युप यन्त्यन्याˆ इति, ता स्समजानत, सञ्जानानाˆ हास्यापो यज्ञँ वहन्ति-यˆ एवँ वेदा॥
एतस्या ऋचः प्रशंसार्थमाख्यायिकामाह। पूर्वेद्युः सम्पादिता वसतीवर्याख्या य आपो याश्व परेद्युः सम्पादिता एकधनाख्यास्ता उभयविधा अपि यज्ञनिर्वहणे पूर्वभावित्वार्थमन्योन्यं स्पर्धां कृतवत्यः। तदानीं भृगुनामक ऋषिराप एव परस्परं स्पर्धन्त्य इत्यपश्यत्। अर्थवादत्वादचेतनानां स्पर्थायां न चोदनीयम्। यदा तत्तदभिमानिनी देवतास्पर्धतेत्यवगन्तव्यम्। ततो भृगुः स्पर्थां दृष्ट्वा समन्यायन्तीत्येतयर्चा ता उभयीरपः समज्ञपयत्संज्ञानं परस्परमैकमत्यं प्रापयत्। ततो मन्त्रसामर्थ्यात्ता उभयविधा आपः समजानतैकमत्यं प्राप्ताः। वेदनं प्रशंसति। या वसतीवर्यो याश्चैकधनास्ता द्विविधा अपि सञ्जानानाः परस्परैकमत्यं प्राप्ता अस्य विदुषो यज्ञम् निर्वहन्ति॥
॥आपो न देवी.रुप यन्ति होत्रिय मिति होतृचमसे समवनीयमाना.स्वन्वाह वसतीवरी.ष्वेकधनासु चा॥
ऋगन्तरकालं विधत्ते। एतासु द्विविधास्वप्सु होतृचमसे सिच्यमानासु तस्मिन्काल आपो न देवीरित्येतामृचमनुब्रूयात्।
॥अवेरपोऽध्वर्या 3 उ इति होताऽध्वर्युं पृच्छ,त्यापो वै यज्ञोविदो- यज्ञा 3 मित्येव तदा,होते.मनन्नमु रित्यध्वर्यु प्रत्या.होतेमा पश्येत्येव तदाह॥
अथ होतुः कञ्चिद्यजुरात्मकं मन्त्रं विधत्ते। हे अध्वर्यो द्विविधा अपःकिमवेर्लब्धवानसि। अस्मिन्मन्त्रे प्लुतिः प्रश्नार्था। तमेतं मन्त्रं व्याचष्टे। एतद्विविधा अप्यापः सोमाभिषवसाधनत्वेन यज्ञनिर्वाहकत्वाद्यज्ञस्वरूपा एव। तथा सति यज्ञमब्रूपमविदः किं लब्धवानसीत्यनेन प्रकारेण तदाह तन्मन्त्रवाक्यं ब्रूते। यज्ञा ३ मिति प्लुतिः पूर्ववत्। अध्वर्योः प्रत्युत्तरमन्त्रं विधत्ते। उत शब्दोऽपि शब्दार्थः। ईमिति वाक्यपूरनार्थो निपात इमा इत्यस्मिन्नर्थे वर्तते। इमा द्विविधा अप्यापोऽनन्नमुरतिशयेनोपनताः प्राप्ता इति। एतमध्वर्योरुत्तरमन्त्रं व्याचष्टे। इमा द्विविधा अप्यवो हे होतः पश्येत्यनेन प्रकारेण तन्मन्त्रवाक्यंब्रूते। शाखान्तरेऽप्येतत्सर्वं श्रुतम्। अध्वर्योऽवेरपा इत्याहोतेमनन्नमुरुतेमाः पश्येति वावैतदाहेति॥
॥तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तम्।वृष्टिवनि न्तीव्रान्तं बहुरमध्यँ वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते। यस्येन्द्र पीत्वा वृत्राणि जङ्घन-त्प्र सˆ जन्यानि तारिषो 3 मिति प्रत्युत्तिष्ठति॥
अथ किञ्चिन्निगदरूपेण मन्त्रेण होतुः प्रत्युत्थानं विधत्ते। तास्वित्यादिरोमित्यन्तो निगदस्तेन मन्त्रेण होता द्विधानामप्यपां प्रत्युत्थानं कुर्यात्। हे अध्वर्यो द्विविधास्वप्सु सोमं सोता सोमस्याभिषवकर्ता भव। कीदृशं सोमं मधुमन्तं माधुर्यरसोपेतं वृष्टिवनिं वृष्टेः सम्भजनकर्तारं व्रुष्टिप्रदमित्यर्थः। तीव्रान्तं तीव्रमवश्यंभावि फलमन्ते यस्य सोमस्य सोऽयं तीव्रान्तः। अविघ्नेन सोमयागे समाप्ते सति सर्वथा ;अहल्त्येवेत्यर्थः। बहुरमध्यं बहुलमङ्गादिकमनुष्थानंमध्ये प्रारम्भसमाप्त्योरन्तराले यस्यासौ बहुरमध्यः। रुत्विग्वरनमारभ्योदवसानीयेष्टेः पूर्वं दीक्शणीयाद्यङ्गकर्मभिरुपांश्वन्तर्यामग्रहादिभिश्च प्रधानैरुनुष्ठानबाहुल्यं प्रसिद्धम्। कीदृशायेन्द्राय। वसुरुद्रादित्यैरन्यैरप्यैभुभिर्देवैर्विभुभिः समर्थैर्भृत्यैर्वाजेनान्नेन ब्रुहस्पतिना सर्वदेवविहितैर्भाग्यैश्च युक्तत्वेन वस्वादिमते अयमिन्द्रो यस्य सोमस्य वल्लीरूपस्य रसं पीत्या वृत्राणि यजमानस्य शत्रून्पापानि च जङ्घनद्विनाशितावांस्तादृशं सोममिति पूर्वत्रान्वयः। अथवा यस्य यजमानस्य सम्बन्धिनं सोमं पीत्वेति व्याख्येयम्। स यजमानो जन्यानि जने सम्भावितानि पापानि प्रतारिषत्प्रकर्षेण तीर्णवान्भवति। ओमित्यङ्गीकारार्थः। अयं युक्तार्थ एवमेवेत्यङ्गीकारार्थः॥
॥ प्रत्युत्थेयाˆ वा आप, प्रति वै श्रेयांस मायन्त मुत्तिष्ठन्ति, तस्मा.त्प्रत्युत्थेयाˆ अनुपर्यावृत्याˆ,अनु वै श्रेयांसं पर्यावर्तन्ते- तस्मा दनुपर्यावृत्याˆ, अनुब्रुवतैवानु प्रपत्तव्य॥
एतन्मन्त्रसाध्यं प्रत्युत्थानमुपपादयति। याश्च द्विविधा अपस्ताः प्रत्यत्थेया एव। दर्शनानन्तरमेव प्रत्युत्थानं कर्तव्यम्। लोकेऽपिश्रेयांसमतिप्रशस्तमाचार्यपित्रादिकमायान्तं स्वसम्मुखत्वेन समागच्छन्तं प्रति शिष्यपुत्रादय उत्तिष्ठन्त्येव। तस्मादति प्रशता आपः प्रत्युत्थानयोग्याः। न केवलं प्रत्युत्थानं किं त्वनुवर्तनमपि कर्तव्यमिति विधत्ते। अनु पृष्ठतः पर्याव्रुत्याः परितः सञ्चरणयोग्या द्विविधा आपः। तदेतदुपपादयति। श्रेयंसमाचार्यादिकमनुगम्य शिष्यादयः परितः सञ्चरन्ति तस्मादत्रापि शिष्यस्थानीयेन होत्रा पूर्वोक्तमपोनप्त्रीयं निगदमनुब्रुवतैव तासामपां पृष्ठतोऽनुगन्तव्यम्॥
॥मीश्वरो ह यद्यप्यन्योयजेताऽथ होतारँ यशोऽर्तो,स्तस्मा दनुब्रुवतैवानु प्रपत्तव्य॥
यद्यपि होता यागकर्ता न भवत्यथाप्यनुव्रजन्तं होतारं यशः कीर्तिरर्तोरीश्वरो ह प्राप्तुं समर्थैव। तस्मात्कीर्तिहेतुत्वादनुब्रुवतैव होत्रा तासामपामनुगमनम् कर्तव्यम्॥
॥मम्बयो य.न्त्यध्वभि रित्येता मनुब्रुव.न्ननु प्रपद्येत, जामयो अध्वरीयताम्। पृञ्चती.र्मधुना पयˆ इति, यो मधव्यो यशोऽर्तो बुभूषेत्॥
ननु प्र देवत्रेत्यादीनामृचां तास्वध्वर्यवित्यादिनिगदस्य ज पूर्वमेवानूक्तत्वादितः परमनुगमनकाले किमनुपक्तव्यमित्याशङ्क्यासुवक्तव्यामवशिष्टामृचं विधत्ते। अस्या ऋचो द्वितीयतृतीयपादावनुवदति तस्यायमर्थः। अम्बेत्यव्ययं मातृवाचकं तद्रूपत्वं यातीत्यम्बयाः। छान्दसो ह्रस्वः। मातृसमाना एता द्विविधा आपोऽध्वभिर्नाविधैर्मार्गैर्यन्ति गच्छन्ति। कीदृश्यः। अध्वरीयतामध्वरं यज्ञमात्मन इच्छतां यजनानां जामयःसानभयो भ्रातृस्थानीया इत्यर्थः। तथा स्वकीयं पय उदकं मधुना मधुरेण सोमरसेन पृञ्चतीः संयोजयन्त्यः। अस्याम्रुचि मधुरशब्दतात्पर्यं दर्शयति। यः पुमान्पूर्वमधव्यो मधुरसं सोमं नार्हति सयदि यशोऽर्तोः सोमयागनिमित्तां कीर्तिं प्रप्तुं समर्थो भवितुमिच्छेत्स पुमान्पूर्वोक्तामनुब्रुवन्ननु प्रपद्येतेत्यन्वयः॥
॥दमू.र्याˆ उप सूर्येयाभिर्वा सूर्य स्सहेति- तेजस्कामो ब्रह्मवर्चसकामो,ऽपो देवी.रुप ह्वये यत्र गाव पिबन्ति नˆ इति पशुकाम,स्ताˆ एताˆ स्सर्वाˆ एवानुब्रुव.न्ननुप्रपद्ये.तैतेषा. ङ्कामाना मवरुद्ध्या॥
ऋगन्तरं फलविशेशाय विधत्ते। शरीरकान्तिं श्रुताध्ययनसम्पत्तिं च कामयमानःपुमानमूर्या इत्येतामृचमनुब्रूयात्। फलान्तरार्थमृगन्तरं विधत्ते। पशुमाप्त्यर्थमपो देवीरित्येतामृचमनुब्रूयात्। अम्बयो यन्त्यमूर्या अपो देवीरित्येतासां तिस्रुनां विधिमुपसंहरति। अथवा नित्यानुष्ठानार्थोः यं पुनर्विधिः। एतेषामित्यादिस्तत्प्रशंसार्थः॥
॥एता न्कामा नवरुन्धे-यˆ एवँ वेदः॥
वेदनं प्रशंसति।
॥एमा अग्म न्रेवती र्जीवधन्याˆ इति साद्यमाना.स्वन्वाह वसतीवरी.ष्वेकधनासु चा,ऽग्मन्नाप उशती र्बर्हिरेद मिति सन्नासु, सˆ एतया परिदधाति॥
ऋगन्तरस्य कालं विधत्ते। उक्ता द्विविधा आपो यदा वेद्यां साद्यन्ते तदानिमेमा अग्मन्नित्येतामनुब्रूयात्। ऋगन्तरेण समाप्तिं विधत्ते। द्विविधास्वप्सु वेद्यां स्थापितास्वाग्मन्नाप इत्येतामृचमनुब्रूयात्। सोऽनुवक्ता होतृतयैवर्चानुवचनं समापयेत्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य द्वितीयः खण्डः॥
अथ अष्टमाध्याये तृतीयः खण्डः
॥ॐशिरो वा एत.द्यज्ञस्य- यत्प्रातरनुवाक, प्राणापानाˆ उपांश्वन्तर्यामौ, वज्रˆ एव वा,ङ्नाहुतयो.रुपांश्वन्तर्यामयो र्होता वाचँ विसृजेत॥
पूर्वस्मिन्खण्डे द्विविधास्वप्सु वेद्यां सादितास्वपोनप्त्रीयानुवचनस्य समापनमुक्तम्। तत्र सादनपाकार आपस्तम्बेन दर्शितः- अपरया द्वारा हविर्धानमपः प्रपादयति पूर्वया गतश्रियः पूर्वया यजमानः प्रपद्यते दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणियग्ं सादयति यं कामयते प~ण्डकः स्यादिति तं प्रचरण्योपस्पृशेदेतस्यैव हविर्धानस्याधस्तात्पुरोक्शं मैत्रावरुणचमसमुत्तरस्यांवर्तन्यां पुरश्चक्रग्ं होतृचमसमुत्तरस्य हविर्धानस्याधस्तात्पुरोक्शं वसतीवरीः पश्चादक्षमेकधना एतद्वा विपरीतमदो यजमानोऽनुप्रपद्यते इति। एवं सादितास्वप्स्वपोनप्त्रीया ऋचः समाप्य होतावतिष्ठते। ततोऽध्वर्युर्युर्दधिग्रहेणांशुग्रहेणादाभ्यग्रहेणोपांशुग्रहेणान्तर्यामग्रहेण क्रमात्प्रचरति तावदयं होता वाचं नियम्यैवास्ते। तदिदं विधत्ते॥ योयं प्रातरनुवाकः पूर्वमुक्तःसोऽयं यज्ञस्य शिरस्थानीय उपांश्वन्त र्यामग्रहौ प्रानापानस्थानीयौ एव ते योनिः प्राणाय त्वा एव ते योनिरपानाय त्वेति तदीयमन्त्रयोः श्रवणात्। होतुर्यावाक्सा वज्रस्थानीया। अत एवान्यत्र श्रूयते। यद्वै होताध्वर्युमभ्याह्वयते वज्रमेवमभिप्रवर्तयति इति। एवं सत्यध्वर्युणोपांश्वन्तर्यामग्रमहोर्हुतयोः सतोः पश्चाद्धोता षाचं विसृजेत। तावत्पर्यन्तं वाचं नियच्छेत्॥
॥यदहुतयो.रुपांश्वन्तर्यामयो र्होता वाचँ विसृजेत- वाचा वज्रेण यजमानस्य प्राणा.न्वीया-द्यˆ एन न्तत्र ब्रूया,द्वाचा वज्रेण यजमानस्य प्राणा न्व्यगा-त्प्राणˆ एनं हास्यतीति- शश्व.त्तथास्या,त्तस्मा.न्नाहुतयो रुपांश्वन्तर्यामयो र्होता वाचँ विसृजेत ॥
विपक्शबाधकपूर्वकं स्वपक्शमुपसंहरति। उपांश्वन्तर्यामहोमात्पूर्वं वाचं विसृजन् होता वाग्वज्रेण यजमानस्य प्राणान्वीयाद्विगतान्कुर्यात्। कथं प्राणविगम इति तद्य्च्यते। तत्र तस्मिन्होतुर्वाग्विसर्गे सति यः कश्चिदागत्यायं होता वाग्वज्रेण यजमानस्य प्राणान्व्यगाद्विगतानकरोत्तस्मात्प्रान एनंयजमानं हास्यति परित्यजतीत्येनं होतारं प्रतिब्रूयात्। तदानीं तेन पुरुषेन होतरि शप्ते सति तदीयशापो न शश्वत्तथा स्यादवश्यंयजमानप्राणविगमो होतुस्तद्वधप्रत्यवायश्च भवेत्। तस्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत।
॥प्राणँ यच्छ स्वाहा त्वा सुहवसूर्याये-त्युपांशु मनुमन्त्रयेत, तमभिप्राणे,त्प्राणप्राणं मे यच्छे-त्यपानँ यच्छस्वाहा त्वा सुहवसूर्याये-त्यन्तर्याम.मनुमन्त्रयेत, तमभ्यपाने-दपानापानं मे यच्छेति, व्यानाय त्वेत्युपांशुसवन.-ङ्ग्रावाण मभिमृश्य वाचँ विसृजत॥
उपांश्वन्तर्यामहोमादूर्ध्वं वाग्विसर्गप्रकारं विधत्ते। शोभनो हवो होमो यस्येत्युपांशुग्रहस्य सोऽयं सुहवो हे सुहव सूर्याय त्वदभिमानि सूर्यदेवताप्रीत्यर्थं त्वोपांशुग्रहरूपं स्वाहा सुष्ठु हुतं करोमि। अतो यजमानसम्बन्धिनं प्राणं यच्छ देहीत्यनेन मन्त्रेणोपांशुग्रहस्यानुमन्तणं कुर्यादिति। अन्वीक्ष्यमन्त्रनमनुमन्त्रणं। ततस्तमभि प्राणेत्तमुपांशुग्रहमभिलक्ष्योच्छ्वासं कुर्यात्। तत्र प्राणेत्यादिको मन्त्रो हे प्रानरूपोपांशुग्रह मे मह्यं प्राणं यच्छ देहि। हे सुहवान्तर्यामग्रहेत्येतावान्विशेषः। अन्यत्पूर्ववत्। अपानेन्निश्वासं कुर्यात्। उपांशुग्रहार्थं सोमाभिषवहेतुर्यः पाषाणस्तं व्यानाय त्वेति मन्त्रेणाभिमृशेत्। हे पाषाणोपांशुसवनाख्य त्वां प्राणापानयोर्मध्यवर्ति व्यानवायुसिद्ध्यर्थमभिमृशामीति शेषः। अभिमर्शनादूर्ध्वं मौनं परित्यज्य वाग्व्यवहारम् कुर्य्तात्॥
॥आत्मा वा उपांशुसवनˆ- आत्मन्येव तद्धोता प्राणा न्प्रतिधाय वाचँ विसृजते, सर्वायु स्सर्वायुत्वाय- सर्व मायुरेति-यˆ एवँ वेद॥
उपांशुसवनमभिमर्शनमुपपादयति। योऽयमुपांशुसवनो ग्रावा सोयमात्मा वै शरीरमेतत्तदीयामभिमर्शनेनायम् होता शरीर एव प्रानानवस्थाप्य स्वयं शतसंवत्सरपरिमितेन सर्वेनायुशा युक्तो वाचं विसृजते। तच्च यजमानस्य सम्पुर्णायुः प्राप्तये भवति। वेदनं प्रशंसति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य तृतीयः खण्डः॥
अथ अष्टमाध्याये चतुर्थः खण्डः
॥ॐतदाहु स्सर्पे 3 त्।न सर्पे 3 त् इति। सर्पेदिति हैक आहु- रुभयेषाँ वा एष देवमनुष्याणां भक्षो- यद्बहिष्पवमान-स्तस्मा.देन मभिसङ्गच्छन्त इति वदन्त-स्तत्तन्नादृत्य॥
अन्तर्यामग्रहमोमादूर्ध्वं महाभिषवं कृत्वैन्द्रवायवमारभ्य यवमत्यन्त्रर्ग्रहार्थं तत्तत्पात्रेषु सोमं गृहित्वा सादितेषु वैप्रुशान् होमन्हुत्वा बहिष्पवमानार्थं प्रसर्पयेयुः। प्रसर्पनप्रकारमापस्तम्ब आह- सप्तहोतारम् मनसानुद्रुत्याहवनीये सग्रहम् हुत्वोदञ्चः प्रह्वा बहिष्पवमानार्थं पञ्चर्त्विजः समन्वारब्धाः सर्पन्त्यध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः इति। आश्वलायनोऽप्याह अध्वर्यु मुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात्तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखास्तान्होतानुमन्त्रयतेऽत्रैवासिनो यो देवानमिह इति॥ ॥ततो होतुः सर्पणं निवारयितुं पूर्वपक्षमुपन्यस्यति- तत्रत्रैन्द्रवायवादिग्रहणादूर्ध्वकालेऽध्वर्युप्रमुखाणां सर्पणे केचिदाहुर्विचारयन्ति। किमयं होता तैः सह सर्पेन्नवेति। विचारार्थे प्लुतिः। अयं होतापि सर्पेदिति केचित्पूर्वपक्षिण आहुः। तत्रोपपत्तिं च कथयन्ति। उद्गातृभिर्गेयमुपास्मै गायता नरः (ऋ. सं. ९-११-१) इत्यादिकं स्तोत्रं बहिष्पवमानशब्देनोच्यते। यो बहिष्पवमान एष एव देवानां मनुष्याणां चोभयेषां भक्षः। तेन हि ते सर्वे तृप्यन्ति। अत एव पूर्वत्र स्तोमभागानां स्तोत्रेण प्रीतिः श्रुता। तस्मात्कारणादेवं बहिष्पवमानं देवमनुष्याः सर्वेऽभिसङ्गच्छन्त इत्येतामुपपत्तिं वदन्तः। पूर्वपक्षिणो यदाहुस्तन्निराकरोति। तस्मिन्सर्पणे तत्पुर्वपक्षिमतं नादरणीयम्॥
॥ यत्सर्पे- दृचमेव तत्साम्नोऽनुवर्त्मान.ङ्कुर्या-द्यˆ एन न्तत्र ब्रूया,दनुवर्त्मान्वा अयं होता सामगस्याभू-दुद्गातरि, यशोधा.दच्योष्टायतनाच्चोष्यतˆ आयतना दिति- शश्वत्तथास्यात् ॥
विपक्षे बाधं दर्शयति यद्ययं होता तैः सह सर्पेत्तदानीं स्वकीयमृचमेव साम्नोऽनुवर्त्मानं पृष्ठगामिनींकुर्यात्। तच्चायुक्तं। ऋच आधारत्वात्। साम्न आधेयत्वातश्चाद्भावि। अत एव छन्दोगा आमनन्ति- तदेतस्यामृच्यध्यूळ्हः साम तस्मादृच्यध्यूळ्हं साम गीयते इति। ततःपुरोगामिन्या ऋचः पश्चाद्भावित्वमयुक्तम्। तत्र होतुः सर्पणे यः कश्चिदागत्यैनं होतारं ब्रूयादयं होता सामगस्योद्गातुरनुवर्त्मान्वै पृष्थगाम्येवाभूत्। अतो होता स्वकीयां यशः कीर्तिमुद्गातर्यधात्स्थापितवान्। स्वयमायतनात्स्वकीयपदादच्योष्ट च्युतवान्। इतः परमपि च्योष्यते स्वकीयस्थानात्प्रच्युतो भविष्यतीत्येवं पुरुषान्तरेण शप्तस्य होतुरवश्यं तथा भवेत्॥
॥तस्मा.त्तत्रैवासीनोऽनुमन्त्रयेत, यो देवाना मिह सोमपीथोयज्ञे बर्हिषि वेद्यां 3। तस्यापि भक्षयामसी-त्येवमुहास्यात्मा सोमपीथा.दनन्तरितो भवति॥॥
सर्पणं निवार्यानुमन्त्रनंविधत्ते। यस्मात्सर्पने दोषाः सन्ति तस्माद्यत्र पूर्वमवस्थितस्तत्रैवासीन इतरेषां सर्पणमन्वीक्ष्यानुमन्तायेत। तस्मिन्ननुमन्त्रेण मन्त्रं दर्शयति। इह देशे क्रियमाणो यः सोमयागस्तस्मिन्या वेदिर्यच्च तत्रत्यं बर्हिस्तत्र सर्वदेवानां सम्बन्धी सोमपीथः सोमयागरूपो बहिष्पवमानाख्यो यो भक्ष्य्ऽस्ति तस्याप्यंशं वयं भक्षयाम इत्येषोऽनुमन्त्रणमन्त्रः। तं प्रशंसति। एवमेवानुमन्त्रणे सत्यस्य होतुरात्मा जीवः सोमपानत्कदाचिदप्यन्र्तरितो न भवति॥
॥अथो ब्रूया-न्मुखमसि मुखं भूयासमिति, मुखँ वा एत.द्यज्ञस्य यद्बहिष्पवमानो, मुखं स्वेषु भवति- श्रेष्ठ स्स्वानां भवति-यˆ एवँ वेदा॥
मन्त्रान्तरं च विधत्ते। पूर्वोक्तान्मन्त्रादनन्तरं मुखमित्यादिकमपि मन्त्रं ब्रूयात्। हे बहिष्पवमान यज्ञस्य त्वम् मुखमसि यज्ञमध्ये मुख्योऽसि । अतस्त्वत्प्रसाददहमपि मुखं मुख्यो भूयासं। एतं मन्त्रं प्रशंसति। स्तोत्रेषु सर्वेष्वाद्यत्वाद्बहिष्पवमानस्य मुख्यत्वम्। वेदनं प्रशंसति। मुखत्वं लोकव्यवहारप्रवर्तकत्वं श्रेष्ठत्वं विद्यावित्तादिसम्पत्तिः। अथ सवनीयपुरोडाशेषु येयं मैत्रावरुणी पयस्यास्ति तत्सद्भाव आपस्तम्बेन दर्शितः- प्राग्वंशे प्रतिप्रस्थाता सवनीयान्निर्वपति सर्वे यवा भवन्ति लाजार्थान्परिहाप्येन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारत्यै परिवापमिन्द्राय पुरोडाशं मित्रावरुणाभ्यां पयस्यां इति॥
॥सुरी वै दीर्घजिह्वी देवानां प्रातस्सवन मवाले-ट्तद्व्यमा,द्यत्ते देवा प्राजिज्ञासन्त- ते मित्रवरुणा.वब्रुवन्-युव मिद.न्निष्कुरुत मिति, तौ तथेत्यब्रूता,न्तौ वै वो वरँ वृणावहा इति- वृणाथामिति, तावेत.मेव वरमवृणातां- प्रातस्सवने पयस्यां,सैनयो.रेषाऽच्युता- वरवृता ह्येनयो,स्तद्य.दस्यै विमत्तमिव- तदस्यै समृद्धँ, विमत्तमिव हितौ तया निरकुरुताम् ॥
तामेतां पयस्यां प्रशंसितुमाख्यायिकामाह- दीर्घा जिह्वा यस्याः सा दीर्घजिह्वी। असुरजातावुत्पन्नत्वादासुरी। तथा च तलवकारा आमनन्ति- दीर्घजिह्वी वा असुर्या सा इति। सा च देवानां सम्बन्धि प्रातःसवनमवालेट्। स्वकीयया जिह्वया तस्यावलेहं कृतवती। तच्च प्रातः सवनं विषजिह्वालेहनेन व्यमाद्यद्विविधं मत्तमभूत्। सर्वस्यापि सवनप्रयोगस्य विपर्यासो जातः। ते देवास्तत्परिहारोपायं प्राजिज्ञासन्त प्रकर्षेन विचारितवन्तः। विचार्य च तत्परिहारसमर्थौ मित्रावरुनावब्रुवन् हे मित्रावरुणौ युवं युवामुभाविदं प्रातस्सवनं निष्कुरुतम् निर्गतदोषं कुरुतम्। तत्तावदङ्गीकृत्य देवेभ्यो वरं याचित्वा प्रातस्सवनगताम् पयस्यामेव स्वकीयवरत्वेन व्रुतवन्तौ। पयसि भवा आमिक्शा पयस्या। सैषा वरवृतत्वादेनयोः कचाचिदप्यविच्युता। तत्र प्रातस्सवने यदङ्गमस्या अनया दीर्घजिह्वया विमत्तमिव कृतमासीत्। तत्सर्वमस्या अनया पयस्यया समृद्धमासीत्। यस्माद्विमत्तमिव स्थितं प्रातस्सवनं तौ मित्रावरुणौ तया पयस्यया निरकुरुतां निवारितवन्तौ तस्मात्समृद्धिर्युक्ता॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य चतुर्थः खण्डः॥
अथ अष्टमाध्याये पञ्चमः खण्डः
॥ॐदेवानाँ वै सवनानि नाध्रियन्त,त एता न्पुरोळाशा नपश्यं,-स्ताननुसवन न्निरवप.न्त्सवनना न्धृत्यै, ततो वै तानि तेषा मध्रियन्त, तद्य.दनुसवनं पुरोळाशाˆ निरुप्यन्ते- सवनाना मेव धृत्यै, तथा हि तानि तेषा मध्रियन्त॥
अथ सवनीयपुरोडाशान्विधातुमादौ कथामाह। यानि प्रातन्सवनमाध्यन्दिन सवन तृतीयसवनानि सन्ति तानि त्रीणि देवानामर्थे नाध्रियन्त नैव धृतानि दैवैरवरोद्धुमशक्यान्यासन्। ते देवास्तद्धारनहेतून्पञ्च पुरोडाशान्दृष्ट्वा तान्प्रतिसवनं निरवपंस्तैः पुरोडासहिस्तुष्टानि सवनानि देवानामर्थे धृतान्यासन्। आख्यायिकया प्रशस्य पुरोडाशान्विधत्ते। तत्तस्माद्देवैर्निरुप्तत्वाद्यदि यजमानाः प्रतिसवनं पुरोळाशा निरुप्येरंस्तदा स निर्वापः सवनानां धारणाय भवति। तथा तेनैव हि प्रकारेण तानि सवनानि तेषां देवानामर्थे ध्रियन्तेऽतो मनुश्याणामपि निर्वाप एव धारणोपायः॥
॥पुरो वा एता.न्देवा अक्रत-यत्पुरोळाशा,स्तत्पुरोळाशानां पुरोळाशत्व॥
यत्पुरोळाशाः सत्येतान्देवाः पुरो वै सोमाहुतिभ्यः पुरस्तादेवाक्रत कृतवन्तस्तस्मात्पुरोडाशेति नाम सम्पन्नम्। दाशृ दान इति धातुः पुरतो दीयमानं हविरित्यर्थः। यद्यप्यत्र धानादिषु हविष्षु चतुर्थ एव पुरोडाशस्तथापि च्छत्रिन्यायेन धानादीनां सर्वेषां पुरोडाशत्वोपचारह् यदा पुरश्शब्द एवं वाख्येयः। सवनानां धारणार्थं देवा एतानि हवींषि दुर्गमाणि पुराण्यकुर्वतेति। यदि पुरस्ताद्यदि वा पुराणि सर्वथापि पुरोडाशशब्दो निष्पद्यते॥
॥न्तदाहु.रनुसवनं पुरोळाशा न्निर्वपे- दष्टाकपालं प्रातस्सवन- एकादशकपालं माध्यन्दिने सवने- द्वादशकपाल न्तृतीयसवने, तथा हि सवनानां रूप-न्तथा छन्दसामिति- तत्तन्नादृत्य,मैन्द्राˆवा एते सर्वे निरुप्यन्ते- यदनुसवनं पुरोळाशा,स्तस्मा.त्तानेकादशकपाला.नेव निर्वपेत॥
अथ पुरोडाशस्वरूपविशेशं निर्धारयितुं पूर्वपक्षमाह तत्तेषु पुरोडाशेषु पूर्वपक्षिण आहुः। प्रतिसवनं निर्वपणीयेषु पुरोडाशेषु क्रमेण कपालसङ्ख्याष्टत्वादिसङ्ख्या द्रष्टव्या सवनानां रूपस्य तथाविधत्वात्। तच्च छन्दोद्वारेन द्रष्टव्यम्। गायत्री त्रिष्टुब्जगती चेति छन्दांसि सवननिष्पादकानि गायत्रं प्रातस्सवनं त्रैष्टुभं माध्यन्दिनं जागतं तृतीयसवनमिति श्रुत्यन्तरात्। तथा सति तत्तच्छन्दोगताक्षरसङ्ख्यानुसारेण कपालसङ्ख्यायुक्तेति पूर्वपक्षः। तं निराकृत्य सिद्धान्तम् दर्शयति॥ पञ्चसु हविष्षु धानादिषु मध्ये चतुर्थस्य पुरोडाशस्यैन्द्रदेवताकत्वादैन्द्रश्चान्यत्रैकादश कपाल एव प्रायेण विधीयत इति तत्प्रयत्नावगमादत्रापि त्रिष्वपि सवनेश्वैन्द्रान्पुरोडाशानेकादशकपालानेव निर्वपेत्। शाखान्तरेपि विलोमत्वदोषेण पूर्वपक्षंनिराक्रुत्य सिद्धान्तोऽभिहितः- एकादह्सकपालानेव प्रातस्सवने कुर्यादेकादशकपालान्माध्यन्दिने सवन इत्यादि। आपस्तम्बस्त्वन्यशाखाभेधमनुस्मृत्य पक्षद्वयमप्युदाहरति- अष्टौ पुरोडाशकपालाननु सवनमेके समामनन्ति इति॥
॥त्तदाहु र्यतो घृतेनानक्तं स्या-त्ततपुरोळाशस्य प्राश्नीया- त्सोमपीथस्य गुप्त्यै, घृतेन हि वज्रेणेन्द्रो वृत्रमह.न्निति- तत्तन्नादृत्यं, हविर्वा एत-द्यदुत्पूतं, सोमपीथो वा एष- यदुत्पूत,न्तस्मा त्तस्य यतˆ एव कुतश्च प्राश्नीया,त्सर्वतो वा एता.स्स्वधा यजमान मुपक्षरन्ति- यदेतानि हवींष्याज्य न्धाना करम्भ परिवाप पुरोळाश पयस्येति, सर्वतˆ एवैनं स्वधाˆ उप क्षरन्ति-यˆ एवँ वेद॥
अथ तत्पुरोडाशशेशभक्शने कञ्चित्पूर्वपक्शमुपन्यस्यति। तत्सोमपानस्य रक्षणाय भवति। यस्मादिन्द्रो घृतमेव वज्रम् कृत्वा तेन व्रुत्रं हतवांस्तस्मात्तस्य क्रूरत्वात् घृतरहितं सकलं भक्ष्यमिति पूर्वपक्षिन आहुः। तं निराकृत्य सिद्धान्तं दर्शयति। घृतरहितभाग एव भक्षणीय इति मतं नादरणीयम्। उत्पवनसंस्कार रहितस्य घृतस्य वज्रत्वेऽपि यदुत्पूत घृतं तद्धविरेव। किञ्च यदुत्पूतं तत्सोमपीथसदृशमेव। तस्मात्तस्य पुरोडाशस्य यतः कुतश्च घृतयुक्ताद्घृतरहिताद्वा यस्मात्कस्मादपि भागात्प्राश्नीयात्। आज्यं धानादीनि यानि हवींशि सन्ति ता एताः सर्वतह् स्वधान्नं तद्रूपा एव भूत्वा यजमानमुपक्षरन्ति स्रवन्ति। तस्मात्सर्वतः प्राशनमुपपन्नं। वेदनं प्रशंसति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य पञ्चमः खण्डः॥
अथ अष्टमाध्याये षष्ठः खण्डः
॥ॐयो वै यज्ञं हविष्पङ्क्तिं वेद- हविष्पङ्क्तिना यज्ञेन राध्नोति, धाना करम्भ परिवाप पुरोळाश पयस्ये-त्येषˆ वै यज्ञो हविष्पङ्क्ति, र्हविष्पङ्क्तिना यज्ञेन राध्नोति-यˆ एवँ वेद॥
विहितान्सवनीयपुरॊडाशान्धानादिरूपान्प्रशंसति। हिविषां धानादिद्रव्यरूपानां पङ्क्तिः समूहो यस्मिन्सोमयागे सोऽयं हविष्पङ्क्तिस्तादृशं यज्ञम् यो वेद स आथैव तादृशेन यज्ञेन समृद्धो भवति। भृष्टा यवतण्डुला धानाः। तदाहापस्तम्बः- कपालानामुपधानकाले प्रथमकपालमन्त्रेन धानार्थं लाजार्थं कपाले अधिश्रित्य तण्डुलानोप्य धानाःकरोति व्रीहीनोप्य लाजान्करोति पुरोडाशामधिश्रित्यामिक्षावत्पयस्यां करोत्युद्वासनकाले धाना उद्वास्य विभागमन्त्रेन विभज्यार्धा आज्येन संयौत्यर्धा पिष्टानात्माअवृता सक्तून्करोति मन्थं संयुतं करम्भ इत्याचक्षते लाजान्परिवाप इति न वै लाजेभ्यः स्तुषान्संहरति इति। पुरोडाशः प्रसिद्धः। अन्ये धानाकरम्भपरिवापपयस्याशब्दा आपस्तम्बेन व्याख्याताः। एतैर्हविभिर्युक्त यज्ञो हविष्पङ्क्तिः। हविष्पङ्क्तिनेत्यादिपुनर्वचनमुपसंहारार्थम्। यद्वा पूर्वं वेदनं पूर्वकानुष्थान प्रशंसेह तु वेदनमात्र प्रशंसा द्रष्टव्या। हविषां पञ्चसङ्ख्यानां समूहरूपाया पङ्क्तिः सा शाखान्तरेऽप्याम्नाता ब्रह्मवादिनो वदन्ति नर्चा न यजुशा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति। धानाः करम्भः परिवापः पुरोळाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वं इति। अत्रार्थवादेन धानादीनां पुरोडाशद्रव्याणां विधिरुन्नेतव्यः॥
॥यो वै यज्ञ मक्षरपङ्क्तिं वेदाऽक्षरपङ्क्तिना यज्ञेन राध्नोति, सुमत्-पद्वग्द इत्येषˆ वै यज्ञोऽक्षरपङ्क्ति-रक्षरपङ्क्तिना यज्ञेन राध्नोति-यˆ एवँ वेद॥
अनेनैव न्यायेनाक्षरानां पञ्चानां विध्युन्नयनं दर्शयति- पञ्चसङ्ख्याकानामक्शरानां समूहोऽक्शरपङ्क्तिः सु इत्येकमक्शरं मदिति द्वितीयमक्षरं पदिति तृतीयमक्षरं वगिति चतुर्थमक्षरं दे इति पञ्चममक्शरं तान्येतान्यक्षराणि होत्रुजपादौ प्रयोक्तव्यानि। तथा च सम्प्रदायविद आहुः-एतद्धोत्रुजपाख्यस्य चादितोऽक्शर पञ्चकम्। एकैकमक्शरं चात्र परस्य ब्रह्मणो वपुः॥सुपूजितं मत्प्रहृष्टं पत्सर्वव्यापि तच्च वक्। सर्वस्य वक्तृ ब्रह्मैव दे फलानां प्रदातृ तत्॥ इति अन्यत् पूर्ववद्व्याख्येयम्॥
॥ यो वै यज्ञ न्नराशंसपङ्क्तिँ वेद- नराशंसपङ्क्तिना यज्ञेन राध्नोति, द्विनाराशंसं प्रातस्सवन- न्द्विनाराशंसं माध्यन्दिनसवनं- सकृ.न्नाराशंस न्तृतीयसवन- मेषˆ वै यज्ञो नराशंसपङ्क्ति,र्नराशंसपङ्क्तिना यज्ञेन राध्नोति-यˆ एवँ वेद॥
तथा पञ्चविधनाराशम्सविध्युन्नयनं दर्शयति। भक्षिताप्यायितानां सादितानां चमसानां नाराशंसशब्दः संज्ञा। अत उक्तमाचार्येणाप्यायितांश्चमसान्सादयन्ति ते नाराशम्सा भवन्तीति। भक्षितेशु चमसेषु पुनः पूरणमाप्यायनं। तथा विधाश्चमसाः प्रातस्सवने द्विः प्रयुज्यन्ते तथा माध्यन्दिनसवनेऽपि तृतीयसवने तु सकृदेव। एवं पञ्चसङ्ख्योपेतत्वान्नराशंसानां पङ्क्तिर्यज्ञे विद्यते॥
॥यो वै यज्ञं सवनपङ्क्तिँ वेद- सवनपङ्क्तिना यज्ञेन राध्नोति, पशु.रुपवसथे- त्रीणि सवनानि- पशु.रनूबन्ध्यˆ इ-त्येषˆ वै यज्ञ स्सवनपङ्क्ति,स्सवनपङ्क्तिना यज्ञेन राध्नोति-यˆ एवँ वेद॥
तथैव सवनपङ्क्तिं दर्शयति। परेद्युर्यक्श्यमाणस्य यजमानस्य समीपे पूर्वेध्य्र्देवतास्तदीयं यज्ञम् प्रतीक्शमाणा वसन्ति तस्मादुप समीपे वसन्त्यस्मिन्दिवस इति पूर्वदिवसमुपवसथाख्ये पूर्वदिवसे यः पशुरग्नीषोमीयः सोऽप्यत्र सवनसमीपवर्तित्वात्सवनत्वेन गण्यते। प्रातस्सवनादीनि तु त्रीणि प्रसिद्धान्येव सवनानि। सवनेभ्य ऊर्ध्वमनुष्ठेयोऽनूबन्ध्याख्यः पशुरपि पूर्ववत्सवनत्वेन गण्यते। अतः पञ्चानां सवनानां पङ्क्त्या समूहेन युक्तो यो यज्ञ एष एव सवन कङ्क्तिः। एवं हविष्पङ्क्तिप्रसङ्गेनाक्षर पङ्क्तिर्नराशम्सपङ्क्तिः सवनपङ्क्तिश्चेत्येतावदभिहितम्। एतदेवाभिप्रेत्य तत्र तत्र पाङ्क्तो यज्‘ज इति श्रूयते॥
॥हरिवा इन्द्रो धानाˆ अत्तु- पूषण्वा न्करम्भं-सरस्वतीवा.न्भारतीवा न्परिवाप- इन्द्रस्यापूपˆ इति हविष्पङ्क्त्या यजति॥
अथ प्रकृतानां सवनीयपुरोडाशानां क्रमेण याज्या विधत्ते। हरिनामानौ द्वावश्वावस्य स्त इति हरिवानिन्द्रः। सोऽयं धाना अत्तु भक्शयतु। सेयं प्रथमहविषो याज्या। पोषकत्वात्पशवः पुशञ्छब्देनोच्यते। तत्स्वामी देवः पूशण्वान्स तु करम्भमत्त्वित्यनुवर्तते। सेयं द्वितीयहविषो याज्या। सरस्वती वाक्साऽस्यास्तीति देवविशेशः सरस्वतीवान्। स एव भाअतीवान्। अयं विशेशणद्वयोपेतो देवः परिवापः परिवापाख्यं हविरत्तु। इयं तृतीयस्य याज्या इन्द्रस्यापूपः पुरोदाशः प्रिय इति शेशः। तथा सतीन्द्रोऽपूपमत्त्वित्यर्थादवगम्यते। सेयं चतुर्थहविषोयाज्या। पञ्चमहविः स्वरूपायाः पयस्यायाः शाखान्तरादत्रोपसंहर्तव्या। एवं हविष्पङ्क्त्यायजति हविष्पङ्क्तिविषयाम् याज्यां पठेदित्यर्थः॥
॥ इन्द्रस्य हरी~ पशव-??पूषान्नकरम्भ स्सरस्वतीवा न्भारतीवानिति- वागेव सरस्वती प्राणो भरत परिवाप- इन्द्रस्यापूपˆ इ,त्यन्नमेव परिवाप- इन्द्रिय मपूप॥
प्रथमयाज्यां व्याचष्टे। ऋग्देवता सामदेवता चेत्युभयदेवता रूपाविन्द्रस्याश्वावतो हरिवानिति मन्त्रोक्तिरित्यर्थः। द्वितीययाज्यां व्याचष्टे। पोषकत्वात्पशूनां पूषत्वं स्वादुपोषकत्वात्करम्भस्यान्नत्वमतः पशुस्वामिनः करम्भो योग्य इत्यर्थः। तृतीययाज्यां व्याख्यापूर्वं व्याचष्टे। अत्र सरस्वतीवान्भरतीवानति व्याख्येयमनूद्य वागित्यादिना तद्व्यख्यानं क्रियते। वागेव सरस्वतीत्येतल्लोकप्रसिद्धं न त्वत्र किञ्चिद्वक्तव्यमस्तीत्येवशब्दस्यार्थः। अहरीरभरणहोतुत्वात्प्राणो भरतशब्दव्याचः। तदीयवृत्तिर्भारती तदुभयोपेतं मत्प्रत्ययस्यार्थ इति द्रष्टव्यम्। तृतीय याज्याया उत्तरार्धम् चतुर्थयाज्यां चानूद्य व्याचष्टे। परिवापशब्द वाच्यानां लाजानां मृदुत्वेनात्तुं सुकरत्वादन्नत्वम्। इन्द्रियवृद्धिहेतुत्वादपूपस्येन्द्रियत्वम्। अत्र हरिपूशादिविशेशनरूपदेवता भेदाद्याज्यभेदेऽपि यजनीयस्य विशेषस्येन्द्रस्यैकत्वादेकयाज्यात्वमभिप्रेत्य हविष्पङ्क्या यजतीत्येक प्रधानविधिरिति द्रष्टव्यम्॥
॥एतासा मेव तद्देवतानाँ यजमानं सायुज्यं सरूपतां सलोकता.ङ्गमयति, गच्छति श्रेयस स्सायुज्य-ङ्गच्छति श्रेष्ठताँ-यˆ एवँ वेद॥
होतुरक्तुयाज्यावेदनं प्रशंसति। य एवं वेदिता होता यजमानमिन्द्रादिदेवतानां सायुज्यं सहवासं समानशरीरत्वं सलोकतामेकलोकावस्थानं च प्रापयति। स्वयं च होता श्रेयसोऽतिप्रशस्तस्येन्द्रादेः सायुज्यं सहवासं प्राप्नोति भागाधिक्येन श्रेष्ठतां च प्राप्नोति॥
॥हवि.रग्ने वीहीत्यनुसवनं पुरोळाश स्स्विष्टकृतो यज,त्यवत्सारो वा एतेनाग्ने प्रियन्धामोपागच्छ,त्सˆ परमँ ल्लोक मजय,दुपाग्ने प्रिय न्धाम गच्छति- जयति परमँ लोकँ-यˆ एवँवेद- यश्चैवँ विद्वा.नेतया हविष्पङ्क्त्या यजते, यजतीति च यजतीति च॥
सवनीयपुरोडाशसम्बन्धिनः स्विष्टकृतो याज्यां विधत्ते। हेऽग्न इदमस्माभिर्दत्तं हवींषि भक्षय। एतामेव त्रिष्टपि सवनेषु याज्यां पठेत्। एतामेव प्रशंसति। अवत्सारनामकःकश्चिद्रुशिर्हविरित्येतेन मन्त्रेणाग्निदेवतायाः प्रियं स्थानं प्राप्य तत ऊर्ध्वं ततोऽप्युत्कृष्टं लोकं जितवान्। अत्र सर्वत्र यजुः स्वरूपैव याज्या। तदेतन्मन्त्र वेदनं तत्पूर्वकमनुष्ठानं च प्रशंसति। यस्य त्रिवेदिनः फलतया हविष्पङ्क्तिं स्वार्थमनुतिष्ठतो यजमानस्य परार्थं याज्यां पठतो होतुश्च फलं भवति। उभयविवक्षयात्मनेपदपरस्मैपदप्रयोगः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य अष्टमाऽध्यायस्य पञ्चमः खण्दः॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तक वीरबुक्कणसाम्राज्य धुरन्धर सायणाचार्यकृतावैतरेय ब्राह्मनभाष्ये अष्टमोध्यायः समाप्तः॥
॥अथैतरेयब्राह्मणे नवमाध्याये प्रथमः खण्डः॥
॥अपोनप्त्रीयतच्छेष उपांश्वादिग्रहा अपि। सवनीयाः पुरोडाशाः पवमानाय सर्पणम्॥
ॐदेवाˆ वै सोमस्य राज्ञोऽग्रपेयेन समपादय- न्नहं प्रथम पिबेय- महं प्रथम पिबेय मित्येवाकामयन्त, ते संपादयन्तोऽब्रुवन्-हन्ताजि मयाम-सˆयोनˆ उज्जेष्यति- सˆ प्रथम स्सोमस्य पास्यतीति तथेति, त आजि मयु,स्तेषा माजिँ यता मभिसृष्टानाँ- वायु र्मुखं प्रथम प्रत्यपद्यताऽथेन्द्रोऽथ मित्रावरुणा.वथाश्विनौ॥
इदानीमैन्द्रवायवादीन्द्विदेवत्यान्ग्रहान्विधातुमाख्यायिकामाह- पुरा कदाचिद्देवाः सोमस्याग्रपेये प्रथमपाने निमित्तभुते सति न समपादयन्सम्पादनं सम्पत्तिं न प्राप्ताःकिन्त्वहमेव प्रथमःपिबेयमिति सर्वेऽप्यकामयन्त सर्वे समयबन्धपुरस्सरमाजिं धावनावधिं किञ्चिद्वृक्षं पाषाणमन्यद्वा किञ्चिदयाम प्राप्नवाम। स यो यः कश्चिदपि नोऽस्माकं मध्य उज्जेष्यति तस्मिन्धावन उत्कर्षेण जयं प्राप्स्यति स एक एव प्रथमोभूत्वा सोमस्यसोमं पास्यति। ते देवास्तथेत्यङ्गीकृत्याजिं धावनमर्यादामयुः प्राप्तवन्तः। आजिं यतां प्रप्नुवतामभिसृष्टानामभितः प्रव्रुत्तानां तेशां मध्ये वायुः प्रथमो भूत्वा मुखमवधेः संमुखं तं प्रत्यषद्यत। वायोः पृष्ठत इन्द्रस्तस्य पृष्ठतो मित्रा वरुणौ तयोः पृय्ष्थतोऽश्विनावेवं क्रमेण सर्वे धावनं प्रारब्धवन्तः॥
॥ सोऽवे.दिन्द्रो वायु-मुद्वै जयतीति- तमनुपराऽपत,त्सˆह ना.वथोज्जयावेति- सˆनेत्यब्रवी-दह.मेवोज्जेष्यामीति, तृतीयं मेऽथोज्जयावेति नेति हैवाब्रवी-दहमेवोज्जेष्यामीति, तुरीयं मेऽथोज्जयावेति- तथेति, तन्तुरीयेऽत्यार्जत, तत्तुरीयभा.गिन्द्रोऽभव-त्त्रिभाग्वाय॥
तस्मिन्धावने वायोरिन्द्रस्य च परसप्रं संवादं दर्शयति। अयं वायुरुत्कर्षेण जयत्येवेति स इन्द्रोऽवेत्स्वमनसि ज्ञातवान् ज्ञात्वा च तं वायुमनु पृष्ठतः प्राअपतत्सहसैवाधावत्। आगत्य चेदमुक्तवान् हे वायो नावावयोरुभयोः सह सोमपानमस्तु तवार्धम् ममार्धम्। अथ तस्मात्कारणादावामुभौ सहैवोत्कर्षेण जयं प्राप्नवावेति। स वायुर्नेति निराकृत्याहमेक एवोज्जेष्यामीत्यब्रवीत्। ततः स इन्द्र एवमुवाच ममार्धं मा भूत्किन्तु तृतीयं त्रिषु भागेषु भागोऽस्तु तव द्वौ भागौ। अथैवं सति सहैवावामुज्जयावेति। पुनरपि नेत्येव निराकृत्य स वायुरहमेवोज्जेष्यामीत्यब्रवित्। ततः स इन्द्रः पुनरप्युवाच तृतीयो मा भूत्किं तु मे तुरीयमस्तु चतुर्थभागोस्तु तव त्रयो भागा अथैवं सत्यावामुभावुज्जयावेति। ततो वायुरङ्गीकृत्य तमिन्द्रं तुरीये चतुर्थभागेऽथार्जतातिशयेन स्थापितवान्। तस्मात्कारणादिन्द्रश्चतुर्धांशभागभूत्। वायुरंशत्रयभागवान्॥
॥तौ सहैवेन्द्रवायू~ उदजयतां, सह मित्रावरुणौ सहाश्विनौ, त एषा.मेते यथोज्जितं भक्षा- इन्द्रवाय्वो प्रथमोऽथ मित्रावरुणयो रथाश्विन॥
अथ विजयक्रमेण सोमपानक्रमं दर्शयति। इन्द्रवायू उभौ सहैवोदजयतां धावतामवधिदेशं प्राप्नुतां। तयोः प्रुष्ठतो मित्रावरुणौप्रसपरं सह प्राप्नुतः। तयोः पृष्ठतोऽश्विनौ सह प्राप्नुतः। एषां देवानां यथोज्जितं तत्तज्जयमनतिक्रम्य तएते भक्षाः सोमपानरूपा अभवन्निन्द्रवाय्वोः प्रथमं सोमपानं ततो मित्रावरुणयोः सोमपानं ततोऽश्विनोः सोमपानमित्येवं द्विदेवत्यग्रहाणां क्रमो व्यवस्थितः॥
॥ स्सˆ एषˆ इन्द्रतुरीयो ग्रहोगृह्यते- यदैन्द्रवायव॥
इदानीमैन्द्रवायवग्रहं विधत्ते। योऽयमैन्द्रवायुदेवताको ग्रहः स एष इन्द्रतुरीय इन्द्रस्य तुरीयभागो यस्मिन्ग्रहे सोऽयमिन्द्रतुरीयस्तादृशं गृहं गृह्णीयात्॥
॥स्तदेत.दृषि पश्यन्नभ्यनूवाच- नियुत्वा इन्द्रसारथि रिति॥
उक्तभागविशेषं मन्त्रसंवादेन द्रषयति। तदेतच्चतुर्थभागत्वम् दिव्यदृष्ट्या पश्यन्कश्चिन्मन्त्रात्मक ऋषिस्तेन मन्त्रेणाभ्यनूवाच साकल्येनतदुक्तवान्। नियुत्वानित्यादिको मन्त्रः। नियुत्वच्छब्दो वायुसम्बन्धिनां मन्त्राणां वाचकः। अथ वायुं नियुतः सश्चतस्वा इत्यादिमन्त्रेष्टभिधानात्। नियुतो यस्य वायोः सन्ति सोऽयंनियुत्वानिन्द्रः सारर्थिर्यस्य वायओः सोऽयमिन्द्रसारथिः। अत्र सारथित्वाभिधानादिन्द्रस्य चतुर्थभागप्राप्तिदर्शिता॥
॥तस्मा.द्धाप्येतर्हि भरता.स्सत्वनाँ वित्तिं प्र यन्ति, तुरीये हैव सङ्ग्रहीतारो वदन्ते,ऽमुनैवानूकाशेन- यददˆ इन्द्र.स्सारथि रिव भूत्वोदजयत्॥
उक्तमर्थं लोकव्यवहारेण द्रढयति। यस्मात्सारथिरूपस्येन्द्रस्य चतुर्थभागः पूर्वं प्रत्तस्तस्माद्ध तत एव कारणादेतर्ह्यपीदानीमपि भरता भरः सङ्ग्रामस्तं तन्वन्ति विस्तारयन्तीति भरता योद्धारः सत्वनां सारथीनां वित्तिं वेतनां जीवितरूपां प्रयन्ति प्रकर्षेण सम्पादयन्ति। ते च सङ्ग्र्हीतारह् सारथयस्तुरीये हैव युद्धलब्धस्य द्रव्यस्य चतुर्थभाग एव वदन्तेऽस्माकमेतावदुचितमिति कथयन्ति। तदौचित्ये युक्तिमाह। अमुनैव पूर्वोक्तेनैवानूकाशेन दृष्टान्तेन। स एव दृष्टानेओ यदद इत्यादिना स्पष्टीक्रियते। यस्मात्कारनादिन्द्रो वायोः सारथिरिव भुत्वादश्चतुर्थां शरूपं सोमात्मकं धनमुदजयत्तस्माल्लोकेऽपि तथैव प्रवृत्तमित्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य प्रथमः खण्डः॥
अथ नवमाध्याये द्वितीयः खण्डः
॥ॐते वा एते प्राणाˆ एव- यद्द्विदेवत्याˆ, वाक्च प्राणश्चैन्द्रवायव- श्चक्षुश्च मनश्च मैत्रावरुण- श्श्रोत्रञ्चात्मा चाश्विन॥
अथैन्द्रवायवमैत्रावरुणाख्यान्द्विदेवत्यग्रहान्प्राणरूपत्वेन प्रशंसति। तेषां त्रयाणां प्राणरूपत्वं विभज्य दर्शयति। उच्छ्वासादिवृत्तिभेदवर्ती वायुः प्रणः। वागादीनीन्द्रियाणि। तेषां प्राणरूपत्वाभावेऽपि प्राणाधीनवृत्तिलाभत्वेन पूर्वत्र प्राणा इति निर्देशः कृतः। इममर्थं वाजसनेयिन आमनन्ति। त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति। तत्र वायुरूपे त्वमुख्यः प्राणो वाक्चेत्येतदुभयमैन्द्रवायवग्रहस्वरूपं चक्षुर्मनश्चातीन्द्रियद्वयं मैत्रावरुनग्रहस्वरूपंश्रोत्रं जीवात्मा चेत्युभयमाश्विन ग्रहस्वरूपम्॥
॥स्तस्य हैतस्यैन्द्रवायवस्या-प्येकेऽनुष्टुभौ पुरोऽनुवाक्ये~ कुर्वन्ति- गायत्र्यौ याज्ये~, वाक्च वा एष प्राणश्च ग्रहो- यदैन्द्रवायव,स्तदपिच्छन्दोभ्याँ यथायथ.ङ्क्लप्स्येते~ इति॥
वक्ष्यमानयाज्यानुवाक्योपयोगित्वेन प्रानरूपतयाप्रशस्यैन्द्रवायवग्रहस्य याज्यानुवाक्ये विधातुं पूर्वपक्षमाह। योऽयमैन्द्रवायवग्रहः पूर्वमुक्तस्तस्यैके ह याज्ञिका अनुष्टुप् छन्दस्के ऋचौ पुरोनुवाक्ये कृत्वा गायत्रीछन्दस्के ऋचौ याज्ये इति कुर्वन्ति। अपिशब्दोऽनर्थकः। यदापि कुर्वन्तीत्येवं पूर्वपक्षानुवादार्थो वा। तेषां पुर्वपक्षिणामभिप्रायं दर्शयति। योऽयमैन्द्रवायवग्रहः स एष प्राणात्मकस्तत्रेन्द्रो वाचो व्याकरणरूपायाः कर्ता तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोदिति श्रुत्यन्तरादतैन्द्रद्वारा वाग्रूपत्वम्। यः प्राणः स वायुरिति श्रुत्यन्तरात्प्राणरूपत्वम्। तावुभावपि यथोक्ताभ्यामनुष्टुप् गायत्रीछन्दोभ्याम् यथायथं स्वस्वसम्बन्धमनतिक्रम्यक्ल् प्स्येते कल्पितौ भविष्यतः। वाग्वा अनुष्टुबिति श्रुत्यन्तरादनुष्टुप् छन्दसो वाग्रूपत्वम्। प्राणो वा गायत्रीति श्रुत्यन्तराद्गायत्र्याः प्राणरूपत्वम्। अत्र मन्त्र विशेषाः शाखान्तरे द्रष्टव्याः। सोऽयं पूर्वपक्षिणामभिप्रायः॥
॥तत्तन्नादृत्यँ, व्यृद्धँ वा एत.द्यज्ञे क्रियते- यत्र पुरोऽनुवाक्या ज्यायसी याज्यायै,यत्र वै याज्या ज्यायसी- तत्समृद्ध,-मथो~ यत्र समे~-यस्यो~तत्कामाय तथाकुर्या,त्प्राणस्य च वाचश्चात्रैव तदुपाप्तँ॥
पूर्वपक्शनिराकरणपूर्वकसिद्धान्तं दर्शयति। तत्पूर्वपक्षमतं नादरणीयम्। तत्र हेतुरुच्यते। यस्मिन्कर्मणि याज्यायाः सकाशात् पुरोनुवाक्याक्षरैरभ्यधिका तत्कर्म व्यृद्धं समृद्धिरहितं। पूर्वपक्षिणश्चात्र न्यूनां याज्यां पुरोनुवाक्यामधिकां कुर्वन्ति। तस्मादेतन्मतमयुक्तम्। यत्र वै यस्मिंस्तु कर्मणि पुरोनुवाक्यायाः सकाशादभ्यधिका याज्या भवति तत्कर्म समृद्धम्। अपि च यत्र कर्मणि याज्यानुवाक्ये समे भवतस्तदपि कर्मसमृद्धम्। साम्यपक्षेऽन्योपि गुणोस्ति तत्कथमिति तदुच्यते। प्राणस्यच वाचश्च प्राणवाचोर्मध्ये यस्य यस्य वस्तुनः कामयापेक्षितफलसिद्धये तत्तथाकुर्यात् तेन पूर्वोक्तप्रकारेण अनुष्टुब्गायत्रीजन्यमनुष्ठानं पूर्वपक्षी कुर्वीत तत्सर्वं विफलम्। त(अ)त्रैव याज्यानुवाक्ययोः साम्यानुष्ठान एवोपाप्तं शीघ्रं प्राप्तं भवति। तस्मात्साम्यपक्षएव आदरणीय इत्यर्थः॥
॥वायव्या पूर्वा पुरोऽनुवाक्यैन्द्रवायव्युत्त-रैवँ याज्ययो,-स्सायावायव्या-तया प्राण.ङ्कल्पयति- वायुर्हि प्राणो,ऽथ यैन्द्रवायवी-तस्यै यदैन्द्रं पद- न्तेन वाच.ङ्कल्पयति, वाग्घ्यैन्द्र्युपो~ तङ्काम माप्नोति- य प्राणे च वाचि च,न यज्ञे विषम.ङ्करोति॥
साम्यपक्षे पूर्वपक्ष्यभिप्रेतं प्रयोजनख् कथं सिध्येदित्याशङ्क्याह- द्वयोः पुरोनुवाक्ययोर्मध्ये या पूर्वा पुरोनुवाक्या सा वायव्या वायुदेवताका वायवायाहि दर्शत [१-१-२] इत्यस्यामृचि वायोः श्रवणात्। या तूत्तरा पुरोनुवाक्या सेयमैन्द्रवायवी। इन्द्र वायू इमे सुताः [१-१-४] इत्यस्यामृचीन्द्रवाय्वोः श्रवणात्। एवं याज्य योरपि द्रष्टव्यम्। उभयोर्याज्ययोर्मध्ये या पूर्वा सा वायव्या। अग्रं पिबामधूनां [४-४६-१] इत्यस्यामृचि सुतं वायो दिविष्टिष्विति वायोः श्रवणात्। योत्तरा याज्या सेन्द्रवायवी। शतेनानो अभिष्टिभिः [र्-४६-२] इत्यस्यामृचि नियुत्वां इन्द्रसारथिरितीन्द्रः श्रूयते वायोसुतस्येति वायुरपि श्रूयते। तस्मादियमैन्द्रवायवी। एवं सति या वायव्या पुरोनुवाक्या याज्या च तया प्रानःकल्पितः स्वव्यापारसमर्थो भवति यः प्राणः स वायुरिति श्रुत्यन्तरेण वायुप्राणयोरेकत्वस्य पूर्वपक्षिनाप्यङ्गिकर्तव्यत्वात्। अथ यैन्द्रवायवी पुरोनुवाक्या या याज्या वा तस्यै तस्यामुभयविधायां यदैन्द्रमिन्द्रसम्बन्धिपदं विद्यते तेन पदेन वाचं कल्पयति समर्थां करोति। हि यस्मात्कारनाद्वागैन्द्रीन्द्रस्य व्याकरण कर्तृत्वात्। तस्माद्वाचौ सामर्थ्यम् भवति। एवमनुतिष्ठन्पुरुषो वाक्प्राणयोर्यः कामोऽस्ति तम् प्राप्नोति यज्ञे च छन्दःसाम्यं विषममनुष्ठानं न करोति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य द्वितीयः खण्डः॥
अथ नवमाध्यायेतृतीयः खण्डः
॥ॐप्राणाˆ वै द्विदेवत्याˆ एकपात्राˆ गृह्यन्ते, तस्मात्प्राणाˆ एकनामानो द्विपात्राˆ हूयन्ते- तस्मा.त्प्राणाद्वन्द्वँ॥
अथ द्विदैवत्यानामन्द्रवायव मैत्रावरुणाश्विनग्रहाणां त्रयाणां ग्रहणहोमयोः प्रात्रवैषम्यं विधत्ते-
द्वे देवते युग्मौफ्रे येषां ग्रहाणां ते द्विदेवत्याः। इन्द्रश्च वायुश्चेत्येकं युग्मम्। मित्रश्च वरुणश्चेति द्वितीयं युग्मम् यावश्विनौ तौ तृतीयं युग्मम्। त एते द्विदेवत्यग्रहाः प्राना वै, इन्द्रियरूपा एव, वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रावरुनः श्रोत्रमाश्विन इति श्रुत्यन्तरात्। ते च ग्रहा एकपात्रा ग्रहीतव्या इन्द्रवाय्वोरेकस्मिन्पात्रे ग्रहणं मित्रावरुनयोरेकस्मिन्नश्विनोरेकस्मिन्निति। यस्मात्प्राणरूपाणां ग्रहाणां एकपात्रत्वं तस्माद्वाक्चक्षुः श्रोत्ररूपाः प्राणा एकनामानः प्राना इत्येवमेतेषां नाम। ते च ग्रहा होमकाले द्विपात्रा होतव्यास्तत्तद्ग्रहन पात्रेणाध्वर्युर्जुहोति प्रतिप्रस्थाता पात्रान्तरेन जुहोतिति। यस्माद्धोमकाले पात्रद्वयम् तस्माच्चक्षुरादयः प्राणाः स्वस्वगोलकेषु द्वन्द्वं द्वौ द्वौ भूत्वा वर्तन्ते। अयमर्थः श्रुत्यन्तरेण प्रश्नोत्तराभ्यामाम्नातः ’ब्रह्मवादिनो वदन्तिक् तस्मात्सत्यादेकपात्रा द्विदेवत्या ग्रुह्यन्ते द्विपात्रा हूयन्त इति यदेकपात्रा गृह्यन्ते तस्मादेकोन्तरतः प्राणो दिव्पात्रा हूयन्ते तस्माद्द्वौ द्वौ बहिष्ठाः प्राणाः’ इति। होमकाले द्विपात्रत्वमापस्तम्बेन स्पष्टीकृतम् "हविर्धानं गच्छन्सम्प्रेष्यति वायव इन्द्रवायुभ्यामनुब्रूहीत्युपयाम ग्रुहीतोसि वाक्षसदसीत्यादित्य पात्रेण प्रतिप्रस्थाता द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं ग्रुहीत्वा न सादयत्यैन्द्रवायवमादायाध्वर्युर्द्रोणकलशाच्च परिप्लवया (य) राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसन्धिमन्ववहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाघारमाघारयत्यात्राव्य प्रत्याश्राविते सम्प्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्य वषट्कृते जुहोत्येवमुत्तराभ्यां ग्रहाभ्यां प्रचरत" इति॥
॥येनैवाध्वर्यु र्यजुषा प्रयच्छति- तेन होता प्रतिगृह्णा,-त्येष वसु पुरूवसु- रिह वसुपुरूवसु- र्मयिवसु पुरूवसु- र्वाक्पाˆवाचं मे पाही- त्यैन्द्रवायवं भक्षय,-त्युपहूता वाक्सह प्राणेनोपमाँ वाक्सह प्राणेन ह्वयता-मुपहूताˆ ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजा- उपमा.मृषयो दैव्यासो ह्वयन्ता न्तनूपावान स्तन्व स्तपोजाˆ- इति, प्राणाˆ वा ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजा स्तानेव तदुपह्वयत॥
अथ होतुः ग्रहशेषभक्षप्रतिग्रहमन्त्रं विधत्ते- अध्वर्योः प्रदानमन्त्र आपस्तम्बेन दर्शित- "ग्रहमध्वर्युरादाय क्शिप्रग्ं होतारमनुद्रुत्य मयि वसुः पुरो वसुरिति ग्रहग्ं होत्रे प्रयच्छत्येतेनैव होता प्रतिगृह्यदक्षिण ऊरावासाद्य हस्ताभ्यांनिग्रुह्यास्ते" इति अथ होतुः समन्त्रकं भक्षनंविधत्ते- एष ऐन्द्रवायव ग्रहो वसुर्निवासहेतुः पुऊर्वसुः प्रभूतनिवासहेतुः। तस्मिंल्लोके निवासहेतुरित्याकाङ्क्षानिव्रुत्यर्थमिह वसुरित्यादिकमुच्यते। अस्मिन्नेव मनुष्यलोके निवासं करोति तत्रापि प्रभूतनिवासं करोति॥ कस्मिन्पुरुषे ग्रहस्य निवास इत्याकाङ्क्षानिव्रुत्त्यर्थंमयि वसुरित्यादिकमुच्यते। मयि होतरि निवसति। तदापि प्रभूतनिवासं करोति। स तादृशो ग्रहो वाक्पा वाचं पालयति। हे ग्रहमे वाचं पालयेत्यनेन मन्त्रेणैन्द्रवायवशेषं भक्षयेत्। तस्य मन्त्रस्यावशिष्टभागं पठति- प्राणेन सह वाग्देवतामयोपहूताऽनुज्ञाता तस्मात्प्राणसहिता सा वाग्देवतामामुपह्वयता मनुजानातु तथर्षय उपहूता मयानुज्ञाताः। कीदृशा ऋषयिओ दैव्यासो देवेषु भवाः तनूपावानोऽस्मच्छ्रीरपालकास्तन्वः शरीरस्यास्मदीयस्य सम्बन्धिन इति शेषः। तपोजाः पूर्वजन्मानुष्ठितात्तपसो जाताः। यस्मादीदृशा ऋषयो मयानुज्ञातास्तस्मात्तेऽपि यथोक्तविशेशना मामुपह्वयन्तामनुजानन्तु इत्येष मन्त्रशेशः। अस्य शेषस्य तात्पर्यं दर्शयति- यथोक्तविशेषण विशिष्ठा ऋषयह् प्रानस्वरूपा एव। तस्मात्तेन मन्त्रशेशपाठेन तानेव प्राणाननुजानाति॥
॥एष वसु र्विदद्वसु- रिह वसु र्विदद्वसु- र्मयि वसु र्विदद्वसु- श्चक्षुष्पा श्चक्षुर्मे पाही-ति मैत्रावरुणं भक्षय,-त्युपहूत.ञ्चक्षु स्सह मनसोपमाञ्चक्षु स्सह मनसा ह्वयता- मुपहूता ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजा- उपमा.मृषयो दैव्यासो ह्वयन्ता न्तनूपावान स्तन्व स्तपोजा - इति प्राणाˆ वा ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजा- स्तानेव तदुपह्वयत॥
मैत्रावरुणग्रहस्य समन्त्रकं शेषभक्षणं मन्त्रशेषव्याख्यानं च दर्शयति- एष मैत्रावरुणग्रहो विदद्वसुर्ज्ञानपूर्वकनिवासहेतुरन्यत्सर्वं पूर्ववत्॥
॥एष वसु स्सँयद्वसु- रिह वसु स्सँयद्वसु- र्मयि वसु स्सँयद्वसु- श्श्रोत्रपा श्श्रोत्रं मे पाही-त्याश्विनं भक्षय,-त्युपहूतं श्रोत्रं सहात्मनोपमां श्रोत्रं सहात्मना ह्वयता- मुपहूताˆ ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजाˆ- उपमामृषयो दैव्यासो ह्वयन्ता न्तनूपावान स्तन्व स्तपोजाˆ- इति, प्राणाˆ वा ऋषयो दैव्यास स्तनूपावान स्तन्व स्तपोजा- स्तानेव तदुपह्वयते॥
आश्विनग्रहशेषस्य समन्त्रकं भक्षनं मन्त्रशेशव्याख्यानं च दर्शयति- एष आश्विनग्रहः संयद्वसुर्नियतनिवासः। अथवा वसुशब्दः सर्वत्र धनपरत्वेन व्याख्येयः। मन्त्रशेशस्य पृथक्पाठो व्याख्येयत्वप्रदर्शनार्थः॥
॥पुरस्ता.त्प्रत्यञ्च.मैन्द्रवायवं भक्षयति- तस्मा.त्पुरस्ता.त्प्राणापानौ, पुरस्ता.त्प्रत्यञ्चं मैत्रावरुणं भक्षयति- तस्मा.त्पुरस्ता.च्चक्षुषी, सर्वत परिहार.माश्विनं भक्षयति- तस्मा.न्मनुष्याश्च पशवश्च सर्वतो वाचँ वदन्तीं शृण्वन्ति॥
भक्षणे कञ्चिद्विशेशं विधत्ते- प्राङ्मुखो होता स्वस्य पुरस्तात्सन्तमैन्द्रवायवं प्रत्यञ्चं स्ववक्त्रसमीपवर्तिनं कृत्वा भक्षयेत्। अत एव पुरुषस्य प्राणापानवायू पुरोभागे सम्पन्नौ। मैत्रावरुणेऽपि समानन्यायः। आश्विनं तु सर्वतः परिहारं सर्वासु दिक्षु परितो हरणं कृत्वा शिरःप्रदक्षिणी कृथेर्थः। यस्माच्छोत्ररूपस्य आश्विनस्य परितो हरणं तस्माच्छ्रोत्रेन सर्वतः शृण्वन्ति पुरतः पृय्ष्ठतः पार्श्वयोर्वाचं वदन्तीं स्वार्थमभिदधानां वाचं शृण्वन्ति। यथा होतुरीदृश्यं भक्षनंतथाऽध्वर्योरपि शाखान्तरे श्रुतम्- "वाग्वा ऐन्द्रवायुवश्चक्षुर्मैत्रावरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः परिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृणोति" इति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य तृतीयः खण्डः॥
अथ नवमाध्याये चतुर्थः खण्डः (ग्रन्थमाला...page no 686 volume 31)
॥॥
वेदनं प्रशंसति।
॥॥
ऋगन्तरस्य कालं विधत्ते। उक्ता द्विविधा आपो यदा वेद्यां साद्यन्ते तदानिमेमा अग्मन्नित्येतामनुब्रूयात्। ऋगन्तरेण समाप्तिं विधत्ते। द्विविधास्वप्सु वेद्यां स्थापितास्वाग्मन्नाप इत्येतामृचमनुब्रूयात्। सोऽनुवक्ता होतैतयैवर्चानुवचनं समापयेत्॥
॥॥
अथ द्विदेवत्यग्रहॆशु होत्राऽप्रयोक्तव्यानां मन्त्राणाम् मध्येऽनुच्छ्वासस्ंविधत्ते- द्विदेवत्यग्रहेषु याज्यां पठन्होताऽनवानंयजेन्मन्त्र मध्यौच्छ्वासमकृत्वा यजेत्। द्विदेवत्यानां प्राणरूपत्वादयं नैरन्तर्यपाठः प्राणानां सन्ततावस्थापनाय भवति। ततस्तेषां व्यवच्छेदो न भवति। सन्ततिरव्ब्यवच्छेदश्चेत्येक एवार्थोऽन्वयव्यतिरेकाभ्यामुच्यते। इतरेषु ग्रहेषु याज्यान्ते वषट्कारेण सकृद्धुता सोमास्याग्ने वीहीत्यनुवषट्कारेण पुनर्यजन्ति। अतः प्रसक्तमनुवषट्कारमन्त्रं निषेधति-
॥॥
विपक्षे बाधपुरस्सरं स्वपक्षं निगमयति- यदि होताद्विदेवत्येष्वनु वषट्कारमन्त्रं पठेत्तदानीमसंस्थितानसमाप्ताननुपरतान्प्राणान्संस्थापयेदुपरतान्कुर्यात्। योयमनुवषट्कार एषैव संस्थाग्रहस्य समाप्तिः। अतो ग्रहरूपाणां प्रानानामप्युपरतिः स्यत्। तत्रानुवषट्कारकाले यः कोऽप्येनं होतारं ब्रूयाच्छपेत्। कथमिति तदुच्यते। अनुपरतान्प्राणानुपरतानकरोत् तस्मादेनम् होतारं प्राणः परित्यजतीति। ततोऽपराधिनो होतुरवश्यं तथा भवेत्। तस्मादेतेष्वनुवष्ट्कारमन्त्रं न पठेत्॥
॥॥
अथैन्द्रवायवे कञ्चिद्विषेषें वक्तुं प्रश्नमुत्थापयति- आगूः शब्देन प्रतिज्ञाऽभिधीयते। मैत्रावरुणो द्विरागूर्य द्विः प्रतिज्ञाय द्विः प्रेष्यति। द्वावस्य प्रैषमन्त्रौ होता यक्शद्वायुमग्रे गामित्येको योगा यक्षदिन्द्रवायू अर्हन्तेति द्वितीयः। तयोरुभयोरप्यादावयं होता यक्शदिति द्विः प्रतिजानाति। द्वयोर्मन्त्रयोरन्ते होतर्यजहोतर्यजेति द्विः प्रेष्यति। होता त्वग्रं पिबा मधूनामित्यादिके द्वे याज्ये पठितुमादौ ये यजामह इति सकृदेव प्रतिजानीते। द्वयोर्याज्ययोरन्ते वौषड्वौषडिति द्विर्वषट्करोति। तच्च न्यायेन द्वितीयमन्त्रादावपि ये यजामह इत्यागूः करणमपेक्षितम्। तच्च न क्रियते तस्माद्धोतुर्द्वितीय याज्यादावागूः का नाम स्यादिति प्रश्नः॥
॥ॐप्राणाˆ वै द्विदेवत्याˆ, अनवान न्द्विदेवत्यान्यजे- त्प्राणानां सन्तत्यै- प्राणाना.मव्यवच्छेदाय, प्राणाˆ वै द्विदेवत्याˆ-न द्विदेवत्याना मनुवषट्कुर्या,द्यद्द्विदेवत्याना.मनुवषट्कुर्या- दसंस्थिता न्प्राणा न्त्संस्थापये,त्संस्था वा एषा- यदनुवषट्कारो,यˆ एन न्तत्र ब्रूया- दसंस्थिता न्प्राणा न्त्समतिष्ठिप-त्प्राणˆ एनं हास्यतीति- शश्वत्तथास्या,त्तस्मान्न द्विदेवत्याना मनुवषट्कुर्या,त्तदाहु- र्द्विरागूर्य मैत्रावरुणो द्वि प्रेष्यति- सकृ.दागूर्य होता द्विर्वषट्करोति- का होतु रागू.रिति, प्राणाˆ वै द्विदेवत्याˆ- आगूर्वज्र-स्तद्य.दत्र होताऽन्तरेणागुरेता॥
द्वितीययाज्यादौ मा भूदेवागूरित्येतदुत्तरं विपक्षबाधपूर्वकं दर्शयति- द्विदेवत्यग्रहाः प्रानरूपा येयमागूर्ये यजामह इति प्रतिज्ञा सा वज्ररूपा। तथा सत्यत्र कर्मण्यन्तरेण याज्ययोर्मध्ये यदि होताऽऽगुरेत प्रतिजानीयात्तदानीमागूः स्वरूपेण मज्रेण यजमानस्य प्राणान्वीयाद्विगतान्कुर्यात्। तत्र तस्यामागुरि क्रियमानायांयह्कोऽप्येनं होतारं शपेत्। कथमिति तदुच्यते। आगुरा वज्रेण होता यजमानस्य प्राणान्व्यगाद्विगतानकरोत्। तस्मात्प्राण एनं यजमानं होतारं वा परित्यजतीति। तेन कृतः शापोऽवश्यं तथैव स्यात्तस्मात्तत्र तयोर्याज्ययोरन्तरेण मध्ये होता नागुरेत॥
॥ऽथो मनो वै यज्ञस्य मैत्रावरुणो- वाग्यज्ञस्य होता- मनसा वा इषिता वाग्वदति, यां ह्यन्यमनाˆ वाचँ वद-त्यसुर्या वै सा वा.गदेवजुष्टा,तद्य.देवात्र मैत्रावरुणो द्विरा.गुरते- सैव होतु.रागूः॥
तत्रैव युक्त्यन्तरमाह- अपि च मैत्रावरुणो यज्ञस्य मनस्थानीयो होता तु वाक्स्थानीयः। लिके हि मनसा प्रेरिता वाग्वक्तव्यं ब्रूते। यस्त्वन्यमनस्को यां वाचं वदति तत्र सा वागसुरेभ्यस्तामसेभ्यो हिता तेषामसम्बन्द्ध प्रलापप्रियत्वात्। न त्वसौ वाक् सात्विकानां देवानां प्रिया। तस्मान्मनः पूर्विकैव वाग्वक्तव्या। तथा सत्यत्र मनोरूपो मैत्रावरुणो द्विरागुरत इति यदस्ति सैव तत्प्रेषितस्य वाग्रूपस्य होतुरागूर्द्वितीया भविष्यति। तस्माद्याज्ययोर्मध्ये होता नागुरेत॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य चतुर्थः खण्डः॥
अथ नवमाध्याये पञ्चमः खण्डः
॥प्राणाˆ वा ऋतुयाजा,-स्तद्य.दृतुयाजै श्चरन्ति- प्राणानेव तद्यजमाने दधति॥
ऋतुग्रहयागान्विधत्ते- मधुमाधवादय ऋतुदेवा यत्रेज्यन्ते त एत ऋजुयाजास्ते च प्रानस्वरूपाः। प्राणशब्देन प्राणापानव्यानास्त्रयोऽपि विवक्षिताः। तै ऋतुयाजैरनुतिष्ठेयुः तेन प्रानानेव यजनाने स्थापयन्ति॥
॥षळृतुनेति यजन्ति- प्राण.मेव तद्यजमाने दधति, चत्वारˆ ऋतुभि रिति यज.न्त्यपानमेव तद्यजमाने दधति,द्विर्ऋतुने त्युपरिष्टा-द्व्यानमेव तद्यजमाने दधति, सˆ वा अयं प्राण स्त्रेधा विहित- प्राणोऽपानो व्यानˆ इति, तद्य.दृतुन ऋतुभि र्ऋतुनेति यजन्ति- प्राणानां सन्तत्यै- प्राणाना.मव्यवच्छेदाय॥
ऋतुग्रहाश्च द्वादश सङ्ख्याकास्तत्राद्येषु षट्सु कञ्चिद्विशेषम् विधत्ते- अध्वर्युणा प्रेषितो मैत्रावरुनः प्रैषसूक्तगतैर्मन्त्रैः क्रमेण होत्रादीन्प्रेष्यति तेन प्रेषिता होत्रादयह् ऋतुना सोममित्येवं यजेयुः। एतेषां षण्णाम्रुतुयाजानां प्रानस्वरूपत्वाद्धोत्रादयह् षडपि यजमाने प्रानं स्थापयन्ति। सप्तममारभ्य दशमान्ते विशेषं विधत्ते- अध्वर्युणा प्रेषितो मैत्रावरुणः प्रैषसूक्तगतैः सप्तमादिभिश्चतुर्भिर्मन्त्रैः होत्रादीन्क्रमेण चतुरः प्रेष्यति। त ऋतुभिः सोममिति बहुवचनान्त प्रयोगेन चत्वारोऽपि यजेयुः तेषां चतुर्णां ऋतुयाजानां अपानवायुस्वरूपत्वात्तद्यागेन अपानमेव यजमाने स्थापयन्ति। एकादशद्वादशयोर्विशेषं विधत्ते- अध्वर्युप्रेषितो मैत्रावरुणः प्रैशसूक्तगताभ्यामेकादशद्वादशाभ्यां मन्त्राभ्यां प्रेष्यति। तेन प्रेषितौ द्वावध्वर्युयजमानौ ऋतुना सोममित्येकवचनान्तप्रयोगेण यजेतानन्त्ययोर्द्वयोर्यागयोः व्यानस्वरूपत्वात् तद्यागेन व्यानमेव यजनाने सर्वेप्यृत्विजः स्थापयन्ति। अनेनैव क्रमेन मैत्रावरुणं प्रत्यध्वर्योः प्रैष आपस्तम्बेन दर्शितह्- "ऋतुना प्रेष्यति त्रिष्वाद्येष्वध्वर्युः सम्प्रेष्यत्येवं प्रतिप्रस्थाता पात्रयोर्मुखे पर्याव्रुत्यर्तुभिः प्रेष्यति द्वयोरध्वर्युरेवं प्रतिप्रस्थाता पुनः पर्याव्रुत्यर्तुना प्रेष्येति सकृदध्वर्युरेवं प्रैत्प्रस्थाता" इतै। तदेकवचनान्तबहुवचनान्तैकवचनान्तैऋतुशब्दैरुदाहृतः प्रैषस्तैत्तरीयब्राह्मणे सङ्गृह्याम्नातः- ऋतुना प्रेष्यति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणाति ऋतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणातिद्विः पुनः ऋतुनाऽऽह द्विपद एव प्रीणाति" इति। तानेतानृतुयाजान्प्रशंसति- शरीरमध्ये स्थितस्य प्रानवायोः प्राणापानव्यानाख्याभिः व्रुत्तिभिस्त्रिविधत्वादृतुशब्दप्रयोगेण त्रिविधेन यजमानस्य प्रानाः सन्तता भवन्ति न तु व्यवच्छिद्यन्ते॥
॥प्राणाˆ वा ऋतुयाजा- नर्तुयाजाना मनुवषट्कुर्या,दसंस्थिताˆ वा ऋतवˆ- एकैक एव, यदृतुयाजाना मनुवषट्कुर्या- दसंस्थिता नृतू.न्त्संस्थापयेत्,संस्था वा एषा- यदनुवषट्कारो, यˆ एन न्तत्र ब्रूया- दसंस्थिता नृतून्त्समतिष्ठिप- द्दुष्षमं भविष्यतीति- शश्वत्तथास्यात्, तस्मा.न्नर्तुयाजाना मनुवषट्कुर्यात्।॥
तेषु ऋतुयाजेश्वनुवषट्कारं निषेधति- लोके वसन्ताद्यृतवोऽसंस्थिता असमाप्त अनुपरता एकस्यैकस्यानन्तरमेव द्वितीय इत्येवमेकैक क्रमेण वसन्त ग्रीष्मवर्षाशरद्धेमन्तशिशिराख्याः प्रत्येकं मासद्वयेन द्वादशमासात्मका घटीयन्त्रवत्पुनः पुनरावर्तन्ते। अतो न कदाचिदपि ऋतूनामुपरतिरस्ति। विपक्षबाधकपूर्वकं स्वपक्षमुपसंहरति- दुःषमं रोगदारिद्र्यरूपं विषमं किञ्चिदस्वास्थ्यम्। अन्यत्पूर्ववद्व्याख्येयम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य पञ्चमः खण्डः॥
अथ नवमाध्याये षष्ठः खण्डः
॥ॐप्राणाˆ वै द्विदेवत्या- पशवˆ इळा, द्विदेवत्या न्भक्षयित्वेळा मुपह्वयते- पशवो वा इळा- पशूनेव तदुपह्वयते- पशून् यजमाने दधाति॥
सवनीयपशुपुरॊडाशप्रचारादूर्ध्वं तदङ्गमिडोपह्वानमवस्थाप्य द्विदेवत्यग्रहप्रचारः कृतः। तत ऊर्ध्वं तद्ग्रहशेषभक्षणमपि प्राप्तं तत्र इळोपह्वानग्रहशेषभक्षणयोः किं पूर्वं किमपरमिति क्रमस्य ज्ञातुमशक्यत्वात्तं क्रमं विधत्ते- द्विदेवत्यानां वागादिप्रानरूपत्वम् पूर्वमेवोक्तमीडादेवता च गौर्वा अस्यै शरीरमिति श्रुतेः पशुरूपा। तत्रैवं स्थिते प्रथमतोद्विदेवत्यग्रहशेषान् भक्षयित्वा पश्चादिळोपह्वानं कुर्यात्। तथा सतीडायाः पशुरूपत्वेन पशुनेवोपहुतवान्भवति। तांश्च पशून्स्वकीयैः प्राणैः सुस्थिते यजमाने स्थापयति। अयमेवार्थो व्यतिरेकमुखेन श्रुत्यन्तरे प्रतिष्ठापितः- "प्राणा वा एते यद्विदेवत्याः पशव इळा यदिडं पूर्वां द्विदेवत्येभ्य उपह्वयेत पशुभिः प्रानानन्तर्दधीत प्रमायुकः स्याद्द्विदेवत्यान्भक्षयित्वेडामुपह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुपह्वयते" इति। इत्थं द्विदेवत्यभक्षनस्य पूर्वभावित्वमिळोपह्वानस्य पश्चाद्भावित्वं च व्यवस्थापितम्। ततेतदिडापात्रे भागमवदाय क्रियमानमुपह्वानम्॥
॥ तदाहु- रवान्तरेळां पूर्वां प्राश्नीया ‘3‘ त्।होतृचमसं भक्षये ‘3‘ त् इति।अवान्तरेळामेव पूर्वां प्राश्नीया-दथ होतृचमसं भक्षये,द्यद्वाव द्विदेवत्या.न्पूर्वा न्भक्षयति- तेनास्य सोमपीथ पूर्वो भक्षितो भवति-तस्मा.दवान्तरेळामेव पूर्वां प्राश्नीया-दथ होतृचमसं भक्षये,त्तदुभयतोऽन्नाद्यं परिगृह्णाति सोमपीथाभ्या-मन्नाद्यस्य परिगृहीत्यै॥
या तु होतुर्हस्ते सम्पादितावान्तरेडा तत्प्राशनस्य होतृचमसभक्षनस्य च पौर्वापर्यं विचार्य निश्चिनोति- विचारार्थं प्लुतिद्वयम्। अवान्तरेळाप्राशनं पूर्वभावि चमसभक्षणं पश्चाद्भावीति निर्णयः। तदेतदुपपादयति- द्विदेवत्यानां भक्षणं पूर्वभावीति यदस्ति तेन सोमपानरूपस्य भक्षस्य इडाप्राशनात्पूर्वत्वं सिध्यति। तत इळां प्राश्य होतृचमसभक्षणे सति उपरिष्टादपि सोमभक्षणसिद्धेरिडाया उभयतः पार्श्वद्वयेऽपि सोमपानाभ्यां अयं होतान्नाद्यं परिगृह्णाति। तच्च यजमानस्य अन्नाद्यपरिग्रहाय भवति॥
॥ प्राणाˆ वै द्विदेवत्याˆ- आत्मा होतृचमसो, द्विदेवत्यानां संस्रवान् होतृचमसे समवनय- त्यात्म.न्येव तद्धोता प्राणा.न्त्समवनयते- सर्वायु स्सर्वायुत्वाय, सर्व.मायु रेति-यˆ एवँ वेद॥
द्विदेवत्यग्रहविशेषस्य बिन्दोर्होतृचमसे प्रक्षेपं विधत्ते। सम्स्रवाबिन्दवस्तत्प्रक्षेपेण द्विदेवत्यरूपान्प्राणान् आत्मन्येव शरीरे होत्रुचमसरूपे होता प्रक्षिपति। प्राणानामवस्थापनात्स्वयं सर्वायुरपमृत्युरहितो भवति। तद्यजमानस्य सर्वायुत्वाय सम्पद्यते। वेदनं प्रशंसति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य षष्ठः खण्डः॥
अथ नवमाध्याये सप्तमः खण्डः
॥ॐदेवाˆ वै यदेव यज्ञेऽकुर्वं-स्तदसुराˆ अकुर्वं,-स्ते समावद्वीर्याˆ एवास.न्नव्यावर्तन्त, ततो वै देवा एत.न्तूष्णींशंस मपश्यं-स्तमेषा मसुराˆ नान्ववायं,-स्तूष्णींसारो वा एषˆ- यत्तूष्णींशंसो,॥
अथ तूष्णीं शंसविधानार्थं इतिहासमाह- देवाः पुरा स्वकीय़े यज्ञे यदेवाङ्गमन्वतिष्ठन् असुरा अप्यवेक्ष्य तदेवान्वतिष्ठन्। तदी ते देवाश्चासुराश्च परस्परसमावद्वीर्यस्तुल्यसामर्थ्या एवाभवन्नेकस्य वर्गस्य सामर्थ्यादिक्यम् इतरस्य तु न्यूनमित्येवं व्यावृत्तिं न प्राप्ताः ततो देवाः सामर्थ्याधिक्यलक्षणव्यावृत्ति हेतुं वेदेष्वन्विच्छन्त एतं वक्ष्यमाणं तूष्णीशंसं तदुपायत्वेन्द् दृष्टवन्तः। सर्वेष्वपि शस्त्रेष्वप्यृचः पठ्यन्ते। अस्मिंस्तु शस्त्रे न पठ्यन्त इति तूष्णीशम्शंसत्वम्। ऋक्पाठराहित्येन गूढमेषां देवानां तं तूष्णीषंसमसुरा नान्ववार्यन् नानुगतवन्तः। एतदनुष्ठानमविज्ञाय न क्रुतवन्त इत्यर्थः। योऽयं तूष्णीं शंसं एष तूष्णींसारो वा ऋक्पाठराहित्य लक्शणात्तूष्णींभाव एवास्मिन्यस्त्रे शस्तः। असुराणां तु निश्फलं तूष्णीमवस्थानमिति निश्चयः॥
॥ देवाˆ वै यँयमेव वज्र मसुरेभ्यˆउदयच्छं-स्तन्त.मेषा मसुरा प्रत्यबुध्यन्त, ततो वै देवा एत.न्तूष्णींशंसँ वज्र मपश्यं-स्तमेभ्यˆ उदयच्छं-स्तमेषा.मसुराˆ नप्रत्यबुध्यन्त, तमेभ्य प्राहरं-स्तेनैना.नप्रतिबुद्धेनाघ्नं,स्ततो वै देवाˆ अभव- न्पराऽसुराˆ, भव.त्यात्मना- पराऽस्य द्विष.न्पाप्मा भ्रातृव्यो भवति-यˆ एवँ वेद,॥
अस्य तूष्णींशंसस्य असुरविनाशहेतुत्वं दर्शयैत्- देवा असुरविनाशार्थमायुधरूपं मन्त्ररूपमाभिचाररूपं वा यं यं वज्रं प्रत्युक्तवन्त एषां देवानां तं तं वज्रमसुराः प्रत्यबुध्यन्त तदा तदा प्रतीकारं कुर्वन्ति। ततो देवा एतं तूष्णींशंसं वज्रत्वेन दृष्ट्वा तदसुरविनाशार्थं प्रयुक्तवन्तः। असुरास्तु देवानां तं तूष्णींशंसमज्ञात्वा प्रतीकारं न कृतवन्तः। ततो निर्विघ्नेन देवास्तं तूष्णींशंसं वज्रमसुराणामुपरि प्राहरन् तद्विनाशार्थं प्रयुक्तवन्तः। असुरैरविज्ञातेन तेनैव असुरान्हतवन्तः। ततो देवा विजयिनोऽभवन् मुख्येष्टसुरेषु हतेष्ववशिष्टा असुराः पराभूताः। एतद्वेदनं प्रशंसति॥
॥ते वै देवाˆ विजितिनो मन्यमानाˆ यज्ञ मतन्वत, तमेषा मसुराˆ अभ्यायन्-यज्ञवेशस.मेषा.ङ्करिष्यामˆ इति, ता.न्त्समन्त मेवोदारा न्परियत्ता नुदपश्यं-स्तेऽब्रुव- न्त्संस्थापया.मेमँ यज्ञँ- यज्ञ.न्नोऽसुराˆ मावधिषु रिति- तथेति, तन्तूष्णींशंसे संस्थापय-न्भूरग्नि र्ज्योति र्ज्योति.रग्नि –रित्याज्यप्रउगे~संस्थापय,न्निन्द्रो ज्योति र्भुवो ज्योति रिन्द्र- इति निष्केवल्य मरुत्वतीये~ संस्थापय,न्त्सूर्यो ज्योति- र्ज्योति स्स्वस्सूर्य - इति वैश्वदेवाग्निमारुते~ संस्थापयं,-स्तमेव.न्तूष्णींशंसे संस्थापयं,-स्तमेव.न्तूष्णींशंसे संस्थाप्य- तेनारिष्टेनोदृच.माश्नुवत॥
अथोपाख्यानमुखेनैव तूष्णींशम्सस्य स्वरूपं दर्शयति- मुख्यानामसुरानां हतत्वात्ते देवा विजितिनो विजयवन्तो वयमिति मन्यमानाः यज्ञं विस्तारितवन्तः। एषाम् देवानां यज्ञवेशसं यज्ञविघातम् करिष्याम इति तदभिप्रायः। ततो देवाः समन्तमेव पुरतः पृष्ठतः पार्श्वयोश्च समागतानुदारानुद्धतान्परियत्तानत्यन्तसन्निभानुदपश्यन् उदङ्मुखाः सन्तो दृष्टवन्तः। दृष्ट्वा च परस्परमिदमब्रुवन्। इमं यज्ञं संस्थापयामः शीघ्रं समापयामः तथा सति नोऽस्मदीयं यज्ञमसुरा मा वधिषुर्माविनाशयन्तु विलम्बे सति विनाशयिष्यन्ति तन्मा भुदिति। तद्वचनं परस्परमङ्गीकृत्य स्वकीयं तं यज्ञं तूष्णींशंसे संस्थापयन् शीघ्रं समापितवन्तः। यद्वा तूष्णींशंसस्य वज्ररूपेण रक्षकत्वाद्रक्शार्थं तस्मिन् स्थापितवन्तः। इन्द्रो ज्योतिर्भुवो जुयोतिरिन्द्र इत्येश दशाक्षरात्मको मन्त्रो द्वितीयस्तूष्णींशंस भागः। निश्केवल्यं मरुत्वतीयं चेत्युभे माध्यन्दिनसवनकालीने शस्त्रे तदुभयमिन्द्रो ज्योतिरित्यस्मिंस्तूष्णींशंसभागे स्थापितवन्तः। सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इत्येष नवाक्षरात्मको मन्त्रस्तृतीयस्तूष्णींशंसभागः। वैश्वदेवमाग्निमारुतं चेत्युभे तृतीयसवनकालीने शस्त्रे तदुभयं सूर्योज्योतिरित्यादिके तूष्णींशंशभागे स्थापितवन्तः। तं सवनत्रयगतैः षड्भिः शस्त्रैः उपेतं यज्ञमेवमुक्तेन प्रकारेण तूष्णींशंसे स्थापितवन्तः इत्येवमुक्तार्थस्य उपसंहारः पुनस्तमेवमित्यादिः। उक्तार्थानुवादषड्विधशस्त्रसंस्थापनादूर्ध्वमरिष्टेन हिंसारहितेन ते यज्ञेनोदृचमुत्तमामृचं यज्ञसमाप्त्माश्नुत प्राप्तवन्तः॥
॥स तदा वाव यज्ञ स्सन्तिष्ठते- यदा होता तूष्णींशंसं शंसति॥
इत्थमाख्यायिकामुखेन तूष्णींशम्सस्वरूपमभिधाय तदनुष्ठानं विधत्ते- यस्मिन्काले होता तमिमं मन्त्रं शंसेत् तदैव स यज्ञो निर्विघ्नः समाप्यते। तस्माद्धोत्रा तच्छस्त्रं शंसनीयं। तत्प्रकार आश्वलायनेन दर्शितः- सुमत्पद्वग्देपिता मातरिश्वाऽच्छिद्रा पदाधादच्छिद्रोक्था कवयः शंसन् सोमो विश्वविन्नीथा निनेषद्ब्रुहस्पतिदुक्थामदानि शंसिषद्वागायुर्विश्वायुर्विश्वामायुः क इदं शंसिष्यति स इदं शम्सिष्यतीति जपित्वानभिहिंकृत्य शोंसावोमित्युच्चैराहूय तूष्णींशंसं शंसेदुपांशु सप्रनवमसन्तन्वन्नेष आहावः प्रातस्सवने शस्त्रादिषु इति। अस्यायमर्थः। तुपात्रभक्षणानन्तरं होतुर्मुखत आसीनोध्वर्युः पराङ्मुखस्सन्नावर्तते तदानीं होता सुमदित्यादि स इदं शंसिष्यतीत्यन्तं मन्त्रं जपित्वा अभिहिङ्कारमकृत्वा शोंसावोमित्यनेन मन्त्रेणाध्वर्युमुच्चैराहूय भूरग्निरित्यादिकं प्रणवसहितमुपांशु पठेत्प्रनवेन सहासन्ततमविच्छेदनं कुर्यात्। एष शोंसावोमिति मन्त्रोध्वर्योराह्वानरूपत्वादाहाव इत्युच्यते। स च प्रातः सवने शस्त्रादिषु प्रवर्तते इति॥
॥सˆ यˆ एनं शस्ते तूष्णींशंसˆ- उपवा वदे- दनुवाव्याहरे,त्तं ब्रूया- देषˆ एवैता.मार्ति मारिष्यति- प्रात.र्वाव वय.मद्येमं शस्ते तूष्णींशंसे संस्थापयाम- स्तँ यथागृहानि- तङ्कर्मणाऽनुसमिया-देव.मेवैन मिद.मनु समिमˆ इति, सˆह वाव ता.मार्ति मृच्छति-यˆ एवँ विद्वा न्त्संशस्ते तूष्णींशंस- उपवा वद.त्यनुवा व्याहरति, तस्मा.देवँ विद्वा.न्त्संशस्ते तूष्णींशंसेनोपवदे-न्नानु व्याहरेत॥
उक्तं तूष्ंणींशंसनं प्रशंसति- होत्रा तूष्णींशंसे शस्ते सत्येनम् होतारम् स उपवदेद्वाऽनुव्याहरेद्वायःकोऽप्यन्यः पुरुषो निन्देच्छपेद्वा। उपवादो निन्दाऽनुव्याहारः शपः। तदानीमयं होता निन्तितारम् शप्तारं वा ब्रूयात्। कथं ब्रूयादिति तदुच्यते। यो निन्दिता शप्ता वास्त्येष एव निन्दारूपां शापरूपां वाऽर्तिं विनाशमारिष्यति प्राप्स्यति न त्वहंप्राप्स्यामि। तत्र हेतुरुच्यते। प्रातर्वाव प्रातस्सवन एव वयम् होतारोऽद्य अस्मिन्दिवसे अस्माभिः शस्ते तूष्णीं शंसे तमिमं यज्ञं संस्थापयामः स्मापयामो यथा लोके ग्रुहानितं स्वकीयान्गृहान्प्राप्तमतिथिं कर्मणा आतिथ्यसत्काररूपेणानुसमियादानुकूल्येन सम्यक्प्राप्नुयादुपचरेदित्यर्थः। एवमेवमपीदं तूष्णींशंसानुष्ठानं कृत्वैनं यज्ञमनुसमिम अनुकूल्येन सम्यक्प्राप्नुम उपचाराय इत्यर्थः। एष एवेत्यादिकोऽनुसमिम इत्यन्तो निन्दाशापपरिहार्थो मन्त्रः। तं होता ब्रूयात्। तस्मिन्नुक्ते सति यः पुमान्स्वयं विद्वानेव संस्तूष्णींशंसस्य शम्सनादूर्ध्वन्निन्दति शपति वा स एव तामार्तिं प्राप्नोति। तस्मात्कारणादेवमुक्तार्थं विद्वान्पुरुषस्तूष्णींशंसपाठादूर्ध्वं होतारं न निन्देन्नापि शपेत्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य सप्तमः खण्डः॥
अथ नवमाध्याये अष्टमः खण्डः
॥ॐचक्षूंषि वा एतानि सवनानाँ- यत्तूष्णींशंसो, भूरग्नि र्ज्योति.र्ज्योति रग्निरिति प्रात.स्सवनस्य चक्षुषी, इन्द्रो ज्योति र्भुवो ज्योति रिन्द्रˆ इति माध्यन्दिनस्य सवनस्य चक्षुषी, सूर्यो ज्योति र्ज्योति स्स्व.स्सूर्यˆ इति तृतीयसवनस्य चक्षुषी॥
अथ प्रकारान्तरेण तूष्णींशम्सं प्रशंसति। यत्तूष्णींश्ंसोऽस्त्येतान्येव तद्गतानि पदानि त्रयाणां सवनानां चक्षुःस्थानीयानि। कथमेतदिति तदेव स्पष्टीक्रियते भूरग्निर्ज्योतिरिति प्रथमस्य तूष्णींशंसपादस्य पूर्वोभागः। त च प्रातःसवनस्य दक्शिणचक्षुःश्थानीयः। ज्योतिरग्निरित्ययमुत्तरभागो वामचक्षुःस्थानीयो भूलोकवर्ती योऽग्निः स एव गोलकद्वये प्रकाशक इत्यर्थः। इन्द्रो ज्योतिरित्ययं द्वितीयस्य पूर्वो भागो माध्यन्दिनस्य सवनस्य दक्षिणं चक्षुः। भुवो ज्योतिरित्ययमुत्तरो भागो वामचक्षुरन्तरिक्षलोकवर्ती परमैश्वर्यप्र्युक्तो वायुर्गोलकद्वये भासक इत्यर्थः। सूर्यो ज्योतिरित्येष तृतियस्य पुर्वभागः तृतीयसवनस्य दक्षिणं चक्षुः। ज्योतिः स्वः सूर्य इत्ययमुत्तरो भागो वामचक्षुः स्वर्लोकवर्ती सूर्यो गोलकद्वये भासक इत्यर्थः॥फ़्
॥ चक्षुष्मद्भि.स्सवनै राध्नोति- चक्षुष्मद्भि स्सवनै स्स्वर्गँ लोकमेति-यˆ एवँ वेद, ॥
वेदनं प्रशंसति- राधिरिहलोके समृद्धिः।
॥चक्षुर्वा एत.द्यज्ञस्य- यत्तूष्णींशंसˆ, एकासती व्याहृति-र्द्वेधोच्यते, तस्मा देकं सच्चक्षु र्द्वेधा॥
तूष्णींशंसस्य चक्षुःस्वरूपमुपपादयति- यद्यपि भूरित्येषैव व्याहृतिस्तथाऽपि तद्योगादग्निर्ज्योतिरित्यपि पदद्ययं व्याहृतित्वेनोच्यते। सेयं व्याहृतिरेकैव सत्यरोहावरोहाभ्यां द्वेधोच्यते। यस्मादेवं तस्माच्चक्षुरिन्द्रियमप्येकमेव सद्गोलकद्वये द्वेधा वर्तते। तस्माच्चक्षुष्ट्वं युक्तम्॥
॥मूलँ वा एत द्यज्ञस्य- यत्तूष्णींशंसो, यङ्कामयेता.ऽनायतनवा.न्त्स्यादिति- नास्य यज्ञे तूष्णींशंसं शंसे- दुन्मूलमेव त,द्यज्ञं पराऽभवन्त.मनुपराभवति॥
पुनरपि प्रकारान्तरेण प्रशम्सति- यं यजमानमुद्दिश्य होता द्व्षादेवं कामयेतानायतनवान्स्वर्गसाधनरूपेणाऽऽयतनेनाऽऽश्रयरूपेण रहितोऽयं यजमानः स्यादिति तदानीमस्य द्विषस्य यजमानस्य यज्ञे तूष्नींशंसं होता न शंसेत्। तथा सति वृक्षमूलवद्यज्ञमूलत्वेन अवस्थितस्य तूष्णींशंसस्य पाठाभावदयं यज्ञो मूलरहितः पराभव्वति विनश्यति। तमनु यजमानोपि विनश्यति। तदेवं द्वेष्यस्य विनाशहेतुत्वेन प्रशम्सा कृता॥
॥तदु वा आहु- श्शंसे.देवापि वै तदृत्विजे हितँ, यद्धोतातूष्णींशंसन्न शंस,-त्यृत्विजि हि सर्वो यज्ञ प्रतिष्ठितो- यज्ञे यजमान-स्तस्मा.च्छंस्तव्य.श्शंस्तव्य॥
पुनरपि ऋत्विजो होतुरनुकूलत्वेन प्रशंसति- तदु वै तत्रैव तूष्णींशंसविषये ब्रह्मवादिन आहुः। किमिति तदुच्यते। यद्यपि यजमाने प्रीतिरहितो होता तथापि शम्सेदेव। अपि वेति पूर्वोक्तापेक्शया पक्षान्तरोपन्यासार्थः। होता न शंसतीति यदस्ति तदेतदृत्विजे होत्रेप्यभिहितं भ्रष्टे यज्ञे दक्षिणाया अलाभात्। यस्मादृत्विजि सर्वो यज्ञः प्रतिष्ठितस्तस्माद्यज्ञ यजमानयोः प्रतिष्ठाद्वारा होतुर्हितत्वेनायं तूष्णींशंसः शंस्तव्यः। अभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य नवमाऽध्यायस्य अष्टमः खण्डः॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तक वीरबुक्कणसाम्राज्य धुरन्धर सायणाचार्यकृतावैतरेय ब्राह्मणभाष्ये नवमोध्यायः समाप्तः॥
अथैतरेय ब्राह्मणे दशमाध्याये प्रथमः खण्डः
॥ॐब्रह्म वा आहावः~ क्षत्र न्निवि-द्वि.ट्सूक्त-माह्वयते,ऽथ निविद.न्दधाति- ब्रह्मण्येव तत्क्षत्र मनुनियुनक्ति, निविदं शस्त्वा सूक्तं शंसति- क्षत्रँ वै निवि-द्विट्सूक्त-ङ्क्षत्र एव तद्विशमनु नियुनक्ति॥ ऋतुजाया द्विदेवत्यास्तद्विशेषफला स्तुतिः। तूष्णींशंसप्रशंसा च नवमाध्यायचोदना॥
अथाहावादयो वक्तव्यास्त्रिहावं निविदं सूक्तं च विधत्ते- शोंसावोमित्यनेन मन्त्रेण शंसनकाले होताध्वर्युमाह्वयति सोयमाहावः। अग्निर्देवेद्ध इत्यादिभिर्द्वादशभिर्वक्ष्यमाणैः पदैर्युक्ता तत्समूहरूपा निवित्। प्रवो देवाया अग्नय (३-१३-१) इत्यादिकं सप्तर्चं सूक्तम्। तदेतत्त्रायं क्रमेण ब्राह्मणक्षत्रियवैश्यरूपं तत्र ब्राह्मनरूपत्वेन प्रथमाह्वयन्ते मन्त्रेणाध्वर्योराह्वानं कुर्यात्। अथानन्तरं क्षत्रियरूपत्वेन निविदं दधाति अग्निर्देवेद्ध इत्यादि पदसमूहं वपेत्तथा सति ब्रह्मण्येव ब्राह्मण जातवेव क्षत्त्रं क्षत्त्रियजातिमनुनियुनत्ति। प्रथमतो ब्राह्मणजातिः पश्चाक्षत्रियजातिरित्येवं नियोगः कृतो भवेत्। तां निविदं तस्त्वा पश्चात्र्पवो देवायेतिसूक्तं शंसेत्। तथासति क्षत्रियजातिरूपायां निविदि वैश्यजातिरूपंसूक्तमनुनियुनक्ति अनुकूल्येन पश्चादवस्थापयति। यः पूर्वमुक्तस्तूष्णींशंसो ये च निवित्सूक्ते तदेतत्त्रयमाज्यनामकशस्त्रस्य रूपम्। तदुक्तं सम्प्रदावविद्भिः। "तूष्णींशंसनिवित्सूक्तैराज्यशस्त्रं त्रिपर्वकं" इति॥
॥यङ्कामयेत क्षत्रेणैनँ व्यर्धयानीति- मध्य एतस्यै निविद स्सूक्तं शंसे,त्क्षत्रँ वै निवि-द्विट्सूक्त- ङ्क्षत्रेणैवैन न्तद्व्यर्धयति, य.ङ्कामयेत विशैनँ व्यर्धयानीति- मध्य एतस्य सूक्तस्य निविदं शंसे,त्क्षत्रँ वै निवि-द्विट्सूक्तँ- विशैवैन.न्तद्व्यर्धयति॥
अथ कञ्चिदभिचारप्रयोगंविधत्ते येयं द्वादशपदात्मिका निविदस्ति तस्या मध्ये सूक्तशंसने सति क्षत्रियजातिरूपाया निविदः खण्डितत्वादेनं यजमानं क्षत्रियजात्या व्यृद्धं वियुक्तं विरोधिनं करोति। अतो यजमानमुद्दिश्य होत्रा यत्कामितं तत्सिध्यतीत्युक्तं भवति। अभिचारान्तरम् विधत्ते- प्र वो देवायेत्यस्य सूक्तस्य वैश्यस्थानियस्य मध्ये निविदः शंसने सति वैश्य जातेः खण्दितत्वात्तद्विरोधो यजमानस्य भवति॥
॥ यमु कामयेत-सर्व मेवास्य यथापूर्व मृजुकॢप्तं स्या.दि-त्याह्वये.ताऽथ निविद न्दध्या-दथ सूक्तं शंसे-त्सोसर्वस्य कॢप्ति॥
प्रतिकूलं प्रयोगद्वयं विधायानुकूलं प्रयोगं विधत्ते- यमु यं तु यजमानं प्रति। पूर्वोक्तस्य द्वेष्यस्य यजमानस्य व्यावृत्यर्थ उशब्दः। अस्य यजमानस्य सर्वमेव ब्राह्मणक्षत्रियवैश्यजातिरूपंयथापूर्वमुत्तमजातेः पूर्वमनतिक्रम्य ऋजुक्लृप्तं सम्यक्सम्पादितमंस्यादिति कामनायां शोंसावोमित्यादावः प्रथमस्ततोऽग्निर्देवेद्ध इति निवित्ततः प्रवो देवायेति सूक्तं शंसेत्। सो सैवोक्तानुष्ठितिरेव सर्वस्य जातित्रयस्य क्लृप्तिः समीचीनकल्पना भवति॥
॥प्रजापतिर्वा इदमेक एवाग्र आस, सोऽकामयत प्रजायेय- भूया.न्त्स्यामिति, सˆ तपोऽतप्यत- सˆ वाच मयच्छ-त्सˆसँवत्सरस्य परस्ता.द्व्याहर.द्द्वादशकृत्वो, द्वादशपदा वा एषा निवि-देताँ वाव तान्निविदँ व्याहर,त्तां सर्वाणि भूता.न्यन्वसृज्यन्त॥
अथ निविदः प्रशंसितुमाह- इद्मिदानीं दृश्यमानं जगदग्रे स्वोत्प्तत्तेः पुरा प्रजापतिरीश्वर एक एव आसवै। स चाकामयताहमेव प्रजायेय प्रजारूपेणोत्पद्येय । तथा सति पूर्वस्मादद्वितीयरूपाद्भूयानति प्रभूतः स्यामिति कामयित्वा स प्रजापतिः सृष्टिसाधनं तपः कृतवान्। तस्मिंस्तपसि वाचमयच्छन्मौनव्रतं कृतवान्। तथा कृत्वा संवत्सरादूर्ध्वं द्वादशकृत्वो वाचमुच्चारितवान्। सेयमुच्चारिता वागेषा द्वादशपदोपेता निवित्सम्पन्ना। तामेतामेव निविदं प्रजापतिर्व्याहृतवान्। तां निविदमनु तत्सामर्थ्यात्सर्वाणि भूतान्यन्वसृज्यन्त॥
॥ तदेत दृषि पश्य न्नभ्यनूवाच-स पूर्वया निविदा कव्यतायोरिमा प्रजा अजनय न्मनूना मिति, ॥
उक्तार्थं द्रषयितुं कञ्चिन्मन्त्रमुदाहरति- तदेतत्प्रजापतेः सर्जनं दिव्यदृष्ट्या पश्यन्कुत्सनामको- महर्षिर्मन्त्रेणाभ्यनूवाच। स पूर्वयेत्यादिमन्त्रः। स प्रजापतिः पूर्वया प्रथमं प्रादुर्भूतया निविदा द्वादशरूपया कव्यता कवित्वं शब्दस्रष्टृत्वमायोरागतवान्प्राप्तवानित्यर्थः। तत ऊर्ध्वं मनूनां वैवस्वतादीनां सम्बन्धिनीरिमा ब्राह्मणक्षत्रियादिरूपाः प्रजा अजनयदित्ययंवन्त्रः पुर्वोक्तमेवार्थं ब्रूते।
॥तद्य.देतां पुरस्ता त्सूक्तस्य निविद न्दधाति- प्रजात्यै, प्रजायते प्रजया पशुभि- र्य एवँ वेद॥
निविदं प्रशस्य तदनुष्ठानं प्रशंसति- यस्मात्प्रजापतिनैवं कृतं तस्माद्यदि होता सूक्तस्य पुरस्तादेतां निविदं दध्यात्तदा सा निविद्यजमानस्य प्रजात्यै प्रजोत्पादनाय सम्पद्यते। वेदनं प्रशंसति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य प्रथमः खण्डः॥
अथ दशमाध्याये द्वितीयः खण्डः
॥ॐअग्नि.र्देवेद्धˆ इति शंस- त्यसौ वा अग्नि र्देवेद्धˆ- एतं हि देवाˆ इन्धत- एतमेव तदेतस्मि।न्ल्लोक आयातयति॥
द्वादशपदोपेताया निविदः प्रथमं पदं विधत्ते- देवैरिद्धः प्रज्वलितोऽग्निरित्येष निविदि प्रथमभागस्यार्थः। तं भागं होता शंसेदसौ वा आदित्यमण्डलेऽवस्थित एव प्रकाशो देवैरिद्धोऽग्निः। यस्मादेतं द्युलोकवर्तिनं प्रकाशं देवा इन्धक इद्धं दीपितं समृद्धं कुर्वन्ति तत्तेन प्रथमभागपाठेन एतमेवादित्यरूपं प्रकाशमेतस्मिन् द्युलोक आयातयति प्रसादयति।
॥अग्नि.र्मन्विद्धˆ इति शंस- त्ययँ वा अग्नि र्मन्विद्धˆ- इमं हि मनुष्याˆ इन्धतेऽग्निमेव तदस्मि.न्ल्लोक आयातयति॥
द्वितीया पदं विधत्ते- अङ्गाररूपोऽग्निर्भूलोकवर्ती मनुष्यैः प्रज्वाल्यते। अन्यत्पूर्ववत्।
॥त्यग्नि स्सुषमिदिति शंसति- वायुर्वा अग्नि स्सुषमि-द्वायुर्हि स्वय मात्मानं समिन्धे- स्वयमिदं सर्वँ- यदिदङ्किञ्च- वायुमेव तदन्तरिक्षलोक आ यातयति॥
तृतीयं पदं विधत्ते- शोभना समित्प्रकाशनं सञ्चरनरूपं यस्य वायोः सोऽयं सुषमित्। तस्याग्नित्वं गतिहेतुत्वाद्यौगिकम्। अगि गता वित्यस्माद्धातोरुत्पन्नोऽयं शब्दः। प्रथमपर्यायेऽप्यादित्यपरत्वं एवं योजनीयम्। वायुर्हि स्वात्मानं सर्व जगच्च समिन्धे सम्यक्प्रकाशयति व्यापारक्षमं करोतीत्यर्थः॥
॥ होतादेववृतˆ इति शंस- त्यसौ वै होतादेववृतˆ- एष हि सर्वतो देवै.र्वृतˆ- एतमेव तदेतस्मिन्ल्लोक आ यातयति ॥
चतुर्थपदं विधत्ते। असावादित्य स्वोदयास्तमयाभ्यां सायं प्रातर्होमनिमित्तेन होता स वै द्युलोके वर्तमानत्वाद्देवैर्वृतः।
॥॥ होता मनुवृतˆ इति शंस- त्ययँ वा अग्नि र्होता मनुवृतो-ऽयं हि सर्वतो मनुष्यै र्वृतोऽग्निमेव तदस्मिन्ल्लोक आ यातयति॥
पञ्चमं पदं विधत्ते- भूलोकेऽवस्थितोऽग्निः होमाधिकरणत्वाद्धोता यजमानर्त्विग्भिश्चेष्टितत्वान्मनुवृतः।
॥प्रणी र्यज्ञाना मिति शंसति- वायुर्वै प्रणी र्यज्ञानाँ- यदाहिप्राणि-त्यथ यज्ञोऽथाग्निहोत्रँ- वायुमेव तदन्तरिक्षलोक आयातयति ॥
षष्ठम् पदं विधत्ते- यज्ञान्प्रकर्षेण नयति यावस्तस्मादेष यज्ञानां प्रणीः यस्मिन्काले पुरुषः प्राणिति प्राणवायुना चेष्टते तदा यज्ञो भवति। तस्यैव व्याख्यानमुदाहरन रूपं अथाग्निहोत्रमिति प्राणवायुचेष्टया अग्निहोत्रकरनादिव्यापारा निष्पद्यन्ते॥
॥ रथी रध्वराणा मिति शंस- त्यसौ वै रथी रध्वराणा- मेषˆ हि यथैतच्चरति- रथीरिवैत मेव तदेतस्मिन्ल्लोक आ यातयति॥
सप्तमं पदं विधत्ते- असावादित्योध्वरानां प्रकाशनाय रथीर्भवति रथवान्भूत्वा सञ्चरति। अयमेवार्थ एष हीत्यादिनोच्यते। यथालोकेरथीरिव कश्चन रथवानेवैतद्गन्तव्यस्थानं प्रति चरति तथैष आदित्योपि रथयुक्त एव चरति। शाखान्तरे तु तदीयरथप्रदर्शनपूर्वकमेव मन्त्रो व्याख्यातः ‘रथीरध्वराणामित्याह, एष हि देवरथः’ इति।
॥अतूर्तो होतेति शंस-त्ययँ वा अग्नि रतूर्तो हो.तेमं हन कश्चन तिर्यञ्च न्तर-त्यग्निमेव तदस्मिन्ल्लोक आयातयति॥॥
अष्टमम् पदं विधत्ते- भूर्ल्कवर्ती वह्निरतूर्तः केनाप्यतीर्णः मार्गमध्ये तिर्यञ्चं मार्गस्यावरोधकत्वेनावस्थितं प्रौधं दावाग्निं कश्चिदपि तरितुं न समर्थः।
॥तूर्णि र्हव्यवाळिति शंसति- वायुर्वै तूर्णि र्हव्यवा.ड्वायुर्हीदं सर्वं सद्य स्तरति- यदिदङ्किञ्च- वायु र्देवेभ्यो हव्यँ वहति- वायुमेव तदन्तरिक्षलोक आ यातयति॥
नवमं पदं विधत्ते- तरतीतितूर्णिः। वायोः सर्वतरणसामर्थ्यं प्रसिद्धम्। हव्यंवहतीति हव्यवाढविर्वहनस्य क्रियारूपस्य वायुनिष्पाद्यत्वादसौ हव्यं वहति।
॥ आ देवो देवान्वक्षदिति शंस- त्यसौ वै देवो देवा नावह-त्येतमेव तदेत.स्मिन्ल्लोक आ यातयति॥
दशमं पदं विधत्ते- असावादित्यो देवः स्वोदयास्तमयाभ्यां होमकालसूचनेन देवानवक्षत् आवहति।
॥ यक्ष दग्नि र्देवो देवानिति शंस- त्ययँ वा अग्नि र्देवो देवान्यज-त्यग्नि मेव तदस्मिन्ल्लोक आ यातयति॥
एकादशं पदं विधत्ते- अयं भूमौ दृश्यमानोऽग्निर्देवो देवान्यजतीति प्रसिद्धम्।
॥ सो अध्वरा करति जातवेदाˆइति शंसति- वायुर्वै जातवेदाˆ- वायुर्हीदं सर्व.ङ्करोति- यदिदङ्किञ्च,वायुमेव तदन्तरिक्षलोक आ यातयति॥
द्वादशं पदं विधत्ते- उच्छ्वासनिःश्वासप्रदानेन जातं प्राणिनं वेदयति जीवनयुक्तत्वेन ज्ञापयतीति वायुर्जातवेदाः। स चाध्वरा सर्वयज्ञान्करोति निष्पादयति व्यापाररूपस्यानुष्ठानस्य वाय्वधीनत्वात्। एष द्वादशसु पदेषु सूर्याग्निवायवः चतुरावृत्ताः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य द्वितीयः खण्डः॥
अथ दशमाध्याये तृतीयः खण्डः
॥ॐप्र वो देवायाग्नय इत्यनुष्टुभ प्रथमे पदे विहरति,तस्मा.त्स्त्र्यूरू~ विहरति, समस्यत्युत्तरे पदे, तस्मात्पुमा.नूरू~ समस्यति, तन्मिथुनं- मिथुनमेव तदुक्थमुखे करोति प्रजात्यै, प्रजायते प्रजया पशुभि- र्यˆ एवँ वेद॥
निविदो यानि द्वादशपदानि भागरूपाणि तन्युक्तानि। अथ तदनन्तरभावि सूक्तं विधत्ते- प्र व इत्यदि सूक्तस्य प्रतीकं तस्मिन्सूक्ते याः सप्तसङ्ख्याता अनुष्टुप्छन्दस्का ऋचः सन्ति ताः शंसेदिति शेषः। प्रथमायामृचि यौ प्रथमद्वितीयपादौ तयोर्विहरनं विधत्ते- विहरणं पृथक्करणं द्वयोः पादयोर्मध्ये विहारं विच्छेदं कृत्वा पठेत्॥ यस्मादत्र पादयोः परस्परवियोगस्तस्माल्लोकेऽपि स्त्री सम्भोगकाले स्वकीये ऊरू विहरति वियोजयति। तस्यामृचि तृतीय चतुर्थपादयोरविच्छेदं विधत्तेयस्मात्तृतीय चतुर्थ पादयोरुत्तरार्धगतयोः संयोजनं तस्माल्लोकेऽप्युपरिवर्ती पुमान् भोगकाले स्वकीये ऊरू समस्यति संयोजयति तदुभयं मिलित्वा मिथुनं भवति तस्मादुक्थमुखे शस्त्रस्योपक्रमे मिथुनमेव करोति। तच्च यजमानस्य प्रजननाय सम्पद्यते। वेदनं प्रशंसति॥
॥प्र वो देवायाग्नय इत्येवानुष्टुभ प्रथमे पदे विहरति- वज्रमेव तत्परोवरीयांस.ङ्करोति, समस्यत्येवोत्तरे पदे,आरम्भणतो वै वज्रस्याणिमाऽथो~ दण्डस्याथो~ परशो,र्वज्रमेव तत्प्रहरति- द्विषते भ्रातृव्याय वधँ- योऽस्य स्तृत्य स्तस्मैस्तर्तवै॥
पुनरप्युक्तमेवानूद्य प्रकारान्तरेण प्रशंसति- इत्येवानुष्टुभ इति योऽयमेवकारः स पूर्वस्यैवानुवादो न तु नूतनविधिरिति ज्ञापनार्थः। पयोवरीयाम्सं परस्युत्तरभागेऽतिशयेन स्थूलमीदृशं वज्रं सूक्तपशनेन सम्पादयति। प्रथमया ऋच उत्तरार्धे पदे तत्पादयोः समसनं तदपि वज्रसादृश्यार्थं वज्रस्य ह्यारम्भनतोऽणिमा मूले सौक्ष्म्यमित्यर्थः। वज्रशब्देन खड्गादिरूपमायुधमभिधीयते। तस्य हि मूले मुष्टिबन्धनस्थाने सूक्ष्मता भवत्युपरि तु विस्तारः। दण्डशब्देन गदा विवक्षिता। सापि हस्तग्रहणस्थाने मूले सूक्ष्मा प्रहारस्थानेऽग्रे स्थूला। परशुरपि तथाविधः। यथा यं त्रिविधो वज्र एवमिदमपि सूक्तं प्रथमार्धर्चपादविहरणेन सूक्ष्ममुत्तरार्धर्चपादसमासेन स्थूलं। अत ईदृशं सूक्तरूपं वज्रमेव द्वेषं कुर्वतो भ्रातृव्यस्य वधमुद्दिश्य प्रहरति। यः शत्रुरस्य स्तृत्यो हन्तव्यस्तस्मैस्तर्तवै तस्य हिंसायै भवति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य तृतीयः खण्डः॥
अथ दशमाध्याये चतुर्थः खण्डः
॥ॐदेवासुरा वा एषु लोकेषु समयतन्त,ते वै देवा.स्सदˆ एवायतन मकुर्वत, तान्त्सदसोऽजयं-स्त आग्नीध्रं संप्रापद्यन्त, ते ततो न पराऽजयन्त, तस्मा.दाग्नीध्र उपवसन्ति, न सदस्याग्नीध्रे ह्यधारयन्त, यदाग्नीध्रे ऽधारयन्त- तदाग्नीध्रस्याग्नीध्रत्वाम्॥
अथाऽऽग्नीध्रीयवासादिसिध्यर्थमाख्यायिकामाह- पुरा कदाचिद्देवाश्चासुराश्च लोकविषये समयतन्त सङ्ग्रामं कृतवन्तः। वयमेवैषु लोकेशु निवसामो न तु यूयमित्येवम् परस्परस्पर्धा। तदानीं देवाः स्ॐइकवेद्यां प्राग्वंशस्य पूर्वस्यां दिशि येयं सदोऽभिधाना शालातामेव स्वस्य निवासस्थानं क्रुतवन्तः। तत्रावस्थितांस्तान्देवानसुराः सदसोऽजयंजित्वा सदसो निःसारितवन्त इत्यर्थः। ततो देवा निर्गतास्सन्त आग्नीध्राभिधां शालां प्राप्तवन्तः। ते देवाः प्राप्य तत आग्नीध्रीयं न पराजयन्त तत्रासुराणामेव पराजयो न तु देवानां। यस्मादेवं तस्मादाग्नीध्रीयशालायामुपवसथे दिने यजमाना उपवसन्ति। अग्निसमीपे निवसेयुः न तु सदसि निवासः कर्तव्यः। आग्नीध्रे हि देवाः पलायनं परित्यज्य स्वात्मानं धारितवन्तस्तस्मात्तत्र निवासो युक्तः। यस्मादाग्नीध्रे धारितवन्तः तस्मादाग्नीध्रनाम सम्पन्नं। अग्निसमीपे स्वात्मधारणस्य प्रवृत्ति निमित्तत्वात्॥
॥तेषाँ वै देवाना मसुरा स्सदस्या.नग्नी न्निर्वापयाञ्चक्रु,स्ते देवाˆ आग्नीध्रा.देवसदस्या नग्नीन्विहरन्त, तै.रसुर.रक्षां.स्यपाघ्नत, तथैवैत.द्यजमानाˆ आग्नीध्रादेवसदस्या नग्नी न्विहर-न्त्यसुररक्षांस्येव तदपघ्नते॥
अथ सदस्यवस्थितेषु धिष्ण्येषु अग्नीध्रादग्निविहरणं विधत्ते- पुरा देवानां सम्बन्धिनो येऽग्नयः सदस्यवस्थितेषु धिष्ण्येषु आसंस्तान्सर्वान्देव पलायनेन सदःप्रविष्टा असुरा निर्वापयांचक्रुः जलप्रक्षेपेण अग्नीन् शान्तानकुर्वन्। तदानीं ते देवा आग्नीध्रे स्थित्वा तत्रत्यान्सदस्यानग्नीन्विहरन्त सदस्यवस्थितेषु धिष्ण्येषु पृथक्पृथगग्नीन्विहृतवन्तः स्थापितवन्तः। तैः प्रबलैरग्निभिरसुरान्रक्षांसि च सदसि हतवन्तः। यथा देवैर्विहरणं कृतं तथैवैतस्मिन्नपि काले यजमाना आग्नीध्रादेव वन्हेः सदस्यानग्नीन्विहरेयुः। तेन विहरणेन असुरान्रक्षांसि च तदपघ्नते तत्तदानीं नाशयन्ति। सोऽयमर्थस्सर्वोपि शाखान्तरे सङ्गृह्याम्नातः- ‘देवा वै यज्ञं पराजयन्त तमाग्नीध्रात्पुनरयाजयन्नैतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरन्ति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते’ इति॥
॥ते वै प्रातराज्यै.रेवाजयन्तˆ आयन्-यदाज्यै रेवाजयन्तˆ आयं-स्तदाज्याना माज्यत्वाम्॥
इत्थं शंसनस्थानगतेषु धिष्ण्येष्वग्निविहरणं विधाय तत्र शंसनीयानां शस्त्राणां यदेतदाज्यनामकत्वं तदेतच्छब्दनिर्वचनेन विस्पष्टयति त एव देवाः प्रातः सवने यान्याज्यनामकानि शस्त्राणि तैरेवाऽऽसमन्ताज्जयं प्राप्नुवन्तः आगच्छन्। यस्मादेवं तस्मादासमन्ताज्जयन्त्येभिरिति व्युत्पत्या शस्त्राणामाज्यनाम सम्पन्नम्। अनेनैव न्यायेन सामवेदे पञ्चदशान्याज्यानीति वाक्येन विहितानां पञ्चदशस्तोमयुक्तानां स्तोत्राणामाज्यनामत्वं द्रष्टव्यम्॥
॥न्तासाँ वै होत्राणा मायतीना माजयन्तीना मच्छावाकीयाऽहीयत, तस्या.मिन्द्राग्नी~ अध्यास्ता,मिन्द्राग्नी~ वै देवाना मोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ, तस्मा.दैन्द्राग्न मच्छावाक प्रातस्सवने शंस,तीन्द्राग्नी~ हि तस्या मध्यास्ताम्॥
अथच्छावाकस्य शस्त्रं विधत्ते- प्रशस्ता ब्राह्मणाच्छंस्य च्छावाक इत्येते शस्त्रिणो होत्रका यद्यपि पुरुषास्तथापि तदीयतनुविवक्षया तासामित्याअदिस्त्रीलिङ्ग निर्देशः। यास्तनवः पूर्वमसुरानपाघ्नत तासामेव होत्राणां होत्रकतनूनामायतीनां सदः प्रवेष्टुमागच्छन्तीनां आजयन्तीनां सर्वतो जयं प्राप्नुवतीनां मध्येऽच्छावाकीयाऽच्छावाकसम्बन्धिनी तनुरहीयत हीनाभूत् सदस्तामधिष्ठाय निवासं कृतवन्तौ। युज्यते हीन्द्राग्न्योरनुग्रहीतृत्वं यस्माद्देवानां मध्य इन्द्राग्नी ओजिष्ठवोजसा बलहेतुनाऽष्टमधातुनाऽत्यन्तमुपेतावत एव बलिष्ठावतिशयेन शरीर शक्तियुक्तौ तत एव सहिष्ठावतिशयेन शत्रूनभिभवितारौ स्वभक्तविषये तु सत्तमावतिशयेन सन्तौ सन्मार्गवर्तिनावनुग्रहीतारावित्यर्थः। अत एव पारयिष्णुतमौ। स्वभक्तैरनुष्ठीयमानं कर्मातिशयेन पारं नेतुं सदोद्युक्तौ। तस्मादयमच्छावाक इन्द्राग्नीदेवताकं शस्त्रं प्रातः सवने शंसेत्। इन्द्राग्नी आ गतमित्यादिकं तच्छस्त्रं यस्मादिन्द्राग्नी तस्यामच्छावाकतन्वामध्यास्तां तस्मादैन्द्राग्न शस्त्रं तस्य युक्तम्॥
॥तस्मादुपुरस्ता दन्ये होत्रका.स्सद प्रसर्पन्ति- पश्चाऽच्छावाक, पश्चेव हि हीनोऽनु सञ्जिगमिषति॥
इदानीमच्छावाकस्य सदः प्रवेशे विशेषं विधत्ते- यस्मादच्छावकव्यतिरिक्ताः प्रशस्त्रादयो होत्रकाः सहसा गन्तुं शक्नुवन्ति न श्वच्छावाकस्तस्मात्प्रशास्त्रादयः पुरस्तात्सदः प्रसर्पेयुः। अच्छावाकस्तु पश्चात्प्रसर्पेत्। लोकेऽपि हि हीनोऽशक्तः पश्चेव हि पश्चादेव हि जिगमिषतीति प्रसिद्धं। अत्र पुरस्तात्पश्चाच्छब्दौ देशतः कालतश्चेति वेदितव्यौ॥
॥तस्मा.द्यो ब्राह्मणो बह्वृचो वीर्यवा.न्त्स्या-त्सोऽस्याच्छावाकीया.ङ्कुर्या-त्तेनैव साऽहीना भवति॥
अच्छावाकीय शस्त्रं प्रशंसति- यस्मादिन्द्राग्नी तस्यां तन्वामधिष्ठाय निवसतस्तस्माल्लोके यः कोऽपि ब्राह्मणो बह्वृच ऋग्वेदाध्यायी वीर्यवान्वेदपाठसामर्थ्यातिशयोपेतः स्यात् सोऽस्य यजमानस्य अच्छावाकीयां कुर्यादच्छावाकसम्बन्धमैन्द्राग्न शस्त्रं पठेत्। तेनैव पाठेन सा तदीयतनुरहीना व्यवहर्तुं समर्था भवति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य चतुर्थः खण्डः॥
अथ दशमाध्याये पञ्चमः खण्डः
॥ॐदेवरथो वा एषˆ यद्यज्ञ,स्तस्यैता.वन्तरौ रश्मी- यदाज्य.प्रउगे~, तद्य.दाज्येन पवमान मनुशंसति- प्रउगेणाज्य- न्देवरथस्यैव तदन्तरौ रश्मी~ विहर,त्यलोभाय॥
अथाज्यशस्त्रस्य बहिष्पवमानस्तोत्रोत्तरत्वं प्र उगशस्त्रस्याऽऽज्यस्तोत्रोत्तेरत्त्वं विधत्ते- यो यज्ञोस्त्येष देवानां रथ एव तस्य रथरूपस्य रथस्याज्यं प्र उगं च यच्छस्त्रद्वयं तदन्तरौ रश्मी अश्वबन्धनरज्जू रथस्योपर्यवस्थितेन सारथिना ध्रियमाणत्वात्तयोरभ्यन्तरत्वम्। यस्मादेवं तस्माद्यद्याज्यशस्त्रेण बहिष्पवमानमनु पश्चात् शंसेत् प्र उगशस्त्रेण चाज्यस्तोत्रमनुशंसेत् तदानीं देवरथस्यैव सम्बन्धिनौ अभ्यन्तरौ रश्मी प्रग्रहौ विहरति विशेण सम्पादयति। तच्छालोभाय व्यामोहराहित्याय सम्पद्यते। रश्मिराहित्ये दुष्टाभ्यामश्वाभ्यां यत्र क्वापि दुर्गमे देशे रथनयने सति रथभङ्गरूपो व्यामोहः स्यात्तन्माभूदिति शस्त्रद्वयं क्रमेण प्रयोक्तव्यम्॥
॥ता मनुकृतिं मनुष्यरथस्यैवान्तरौ रश्मी~ विहर,न्त्यलोभायनाऽस्य देवरथो लुभ्यति- न मनुष्यरथो-यˆ एवँ वेद॥
लौकिकफलप्रदर्शनेऽत्रैव रश्मिस्थानीयं हस्त्रद्वयं प्रशंसति- तां कृतिं देवरथे शस्त्रद्वयरूपरश्मिकरणमनु पश्चान्मनुष्यरथस्यैवान्तरौ सारथिना ग्रहणयोग्यौ रश्मी प्रग्रहौ विहरन्ति सम्पादयन्ति। तच्च मनुष्य रथस्यालोभाय सम्पद्यते। अभग्नो मनुष्यरथो यजमानस्य सम्भवतीत्यर्थः, वेदनं प्रशंसति॥
॥तदाहु-र्यथावाव स्तोत्र.मेवं शस्त्रं पावमानीषु सामगा.स्स्तुवत- आग्नेयं होताज्यं शंसति-कथमस्य पावमान्योऽनुशस्ताˆ भवन्तीति, यो वा अग्नि स्सˆ पवमान,स्तदप्येत.दृषिणोक्त- मग्निर्ऋषि पवमानˆ- इत्येवमुहास्याग्नेयीभि.रेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ताˆ भवन्ति॥
इदानीं स्तोत्रशस्त्रयोः वैयधिकरण्यरूपं चोद्यमुद्भावयति- तत्तस्मिन्नाज्यशस्त्रे ब्रह्मवादिन आहुश्चोदयन्ति। यथैव स्तोत्रं सामगैरुक्तं तथैव बह्वृचैः शस्त्रं वक्तव्यं स्तुतमनुशंसतीति विधानात्। अत्र तु सामगा उपास्मै गायता नरः पवमानाय (९-११-१) इत्यादिषु पावमानीषु पवमानदेवताकास्वृक्षु बहिष्पवमानाख्येनस्तोत्रेण स्तुवते। बह्वृचस्तु होता प्र वो देवायग्नय इत्यादिकमाज्यशस्त्रं शंसति तथा सति कथमस्य होतुः पवमानय ऋचोऽनुशस्ताभवेयुः। न हि पवमानः शस्त्रस्य देवता किन्त्वग्निरिति चोद्यम्। तस्य परिहारमाह- अग्निपवमानदेवतयोः परस्परप्रीत्याऽभेदादाग्नेयमपि सूक्तं पावमानमिति वक्तुं शक्यते। तेन पावमान्योऽनुशस्ताः सम्पद्यन्ते। अग्नि पवमानयोरेकत्वे कञ्चिन्मन्त्रमुदहरति- ऋषिरतीन्द्रियद्रष्टा। योऽयमग्निः स एव पवमानो वायुः प्रीत्यतिशयेनैकत्वप्रतिभासात्। यद्वा शोधकत्वादग्निरेव पवमान इति मन्त्रार्थः। परिहारमुपपाद्य निगमयति- अग्निदेवताकाभिः सूक्तगताभिः ऋग्भिः शस्त्रं प्रारभमाणस्य होतुर्बहिष्पवमान स्तोत्रगताः पवमानदेवताका ऋचोऽनुशस्ता भवन्ति॥
॥तदाहु- र्यथा वाव स्तोत्र.मेवं शस्त्र.ङ्गायत्रीषु सामगा.स्स्तुवत- आनुष्टुभं होताज्यं शंसति- कथमस्य गायत्र्योऽनुशस्ताˆ भवन्तीति,॥
देवताप्रयुक्तं वैयधिकरण्यं परिहृत्य च्छन्दः प्रयुक्तं वैयधिकरण्यरूपं चोद्यं पूर्ववदुद्भावयति- बहिष्पवमानस्तोत्रगता उपास्मैगायता (९-११-१) इत्याद्या ऋचो गायत्रीच्छन्दस्काः प्र वो देवाय (३-१३-१) इत्यादिकमाज्यशस्त्रमनुष्टुप्च्छन्दस्कमिति वैयधिकरण्यं चोद्यम्॥
॥सम्पदेति ब्रूया,त्सप्तैताˆ अनुष्टुभ-स्तास्त्रि प्रथमया त्रिरुत्तमयैकादशभवन्ति- विरा.ड्याज्या द्वादशी, न वा एकेनाक्षरेण च्छन्दांसि वियन्ति-न द्वाभ्या,न्ता.ष्षोळशगायत्र्यो भव-न्त्येवमुहास्यानुष्टुब्भि.रेव प्रतिपद्यमानस्य गायत्र्योऽनुशस्ता भवन्ति॥
तस्य परिहारमाह- अनुष्टुप्सु गायत्रीत्वे सम्पादिते सति तया सम्पादा वैयधिकरण्यपरिहारादनुकूलशंसनं भवतीति परिहारं ब्रूयात्। सम्पादनप्रकारं दर्शयति- आद्यन्तयोः ऋचोस्त्रिरावृत्तौ सत्यां स्वभावतः सप्तानामनुष्टुभामेकादशत्वं सम्पद्यते। अग्न इन्द्रश्चेति याज्या विराट्छन्दस्का। सा द्वादश्यनुष्टुबिति गणनीया॥ यद्यपि तस्या विराजस्त्र यस्त्रिंशदक्षरत्वादेकमक्षरमनुष्टुप्त्वादतिरिच्यते तथाप्यल्पेन वैकल्येन च्छन्दस्त्वम् नापैतीति न्यायःपूर्वमप्युदाहृतः। एवं सति द्वादशस्वप्युनुष्टुप्सु द्वादशपादानपनीयावशिष्टैः पादैस्त्रिपदा गायत्र्यो द्वादश सम्पादनीयाः। अपनीतैश्च पादैश्चतस्तो गायत्र्य इत्यनेन प्रकारेण षोडशसङ्ख्याका गायत्र्य एव सम्पद्यन्ते। परिहारं निगमयति॥
॥अग्ना इन्द्रश्च दाशुषो दुरोण इत्याग्नेन्द्र्या यजति, न वा एता.विन्द्राग्नी~ सन्तौ व्यजयेता,माग्नेन्द्रौ वा एतौ सन्तौ व्यजयेता,न्तद्य.दाग्नेन्द्र्या यजति- विजित्या एव॥
इदानीमैन्द्राग्नग्रहस्य याज्यां विधत्ते- नन्वैन्द्राग्नग्रहे पूर्वभावित्वमिन्द्रस्य प्रतीयतेऽग्नेस्तु पश्चाद्भावित्वम्। याज्यायां तु तद्विपर्ययः कस्मात्क्रियत इत्याशङ्क्याह- असुरैः सह देवानां विजययुद्धे सति विजयार्थमिन्द्रस्य पुरोगमनमग्नेः पश्चाद्गमनमित्येवं न सम्पन्नम्। किं त्वग्निः पुरोगत इन्द्रस्तु पश्चाद्गतः। अतो विजयकालीनक्रमेणैव अग्निपूर्वकत्वप्रतिपादकया यजने सति यजमानस्य विजयाय पम्पद्यत एव॥
॥सा विरा.ट्त्रयस्त्रिंशदक्षरा भवति, त्रयस्त्रिंशद्वै देवाˆ- अष्टौ वसवˆ- एकादशरुद्रा- द्वादशादित्या- प्रजापतिश्च वषट्कारश्च, तत्प्रथम उक्थमुखे देवताˆ अक्षरभाज करो,-त्यक्षर.मक्षर मेव तद्देवताˆ अनुप्रपिबन्ति- देवपात्रेणैव तद्देवता.स्तृप्यन्ति॥
याज्यागतान्यक्षराणि प्रशंसति- अक्षराणां देवतानां च सङ्ख्यासाम्यं। उक्थमुखे शस्त्राणां मध्ये मुख्ये प्रथम आज्यशस्त्रे देवताः प्रत्येकमक्षरभाजः करोति तास्तत्तदक्षरमेवानुसृत्य ता देवताः सोमं प्रकर्षेण पिबन्ति। तथा सति स्वयोग्येनाक्षररूपेण देवपात्रेणैव देवतास्तृप्ता भवन्तीति॥
॥ तदाहु-र्यथा वाव शस्त्रमेवँ याज्याग्नेयँ होताज्यं शंस- त्यथ कस्मा.दाग्नेन्द्र्या यजतीति॥
शस्त्रयाज्ययोः देवताप्रयुक्तं वैयधिकरण्यचोद्यमुद्भावयति- शस्त्रस्याग्निरेक एव देवता याज्यायास्त्वग्निरिन्द्रश्चेति द्वयोर्मिलितयोर्देवतात्वमिति वैयधिकरण्यम्॥
॥ या वा आग्नेन्द्र्यैन्द्राग्नी वै सा-सेन्द्राग्न मेत.दुक्थ.ङ्ग्रहेण च तूष्णींशंसेन,च॥
अस्य चोद्यस्य परिहारमाह- येयमाग्नेन्द्री याज्या सेयमैन्द्राग्न्यपि भवति। द्वयोः पौर्वापर्यमविसंवादेऽपि तस्या ऋचो द्विदेवत्यत्व सद्भावाद्देवतयोः क्रमविपर्यासमत्रेऽङ्गीकृते सति याज्याया ऐन्द्राग्नत्वमुपचरितं यथा सम्पद्यते तथा सत्यैन्द्राग्नत्वस्योपचरितस्य याज्या शस्त्रयोः सद्भावान्नास्ति वैयधिकरण्यम्॥
॥इन्द्राग्नि आ गतं सुत.ङ्गीर्भि र्नभो वरेण्यम्।अस्य पात न्धियेषिते त्यैन्द्राग्न मध्वर्यु र्ग्रह.ङ्गृह्णाति,भूरग्नि र्ज्योति र्ज्योति रग्नि- रिन्द्रो ज्योति र्भुवो ज्योति रिन्द्र- स्सूर्यो ज्योति र्ज्योति.स्स्व स्सूर्यˆ इति होता तूष्णींशंसं शंसति, तद्यथैव शस्त्र-मेवँ याज्या॥
आज्यशस्त्रस्य ग्रहद्वारकं तूष्णीं शम्सद्वारकं चैन्द्राग्नत्वं दर्शयति- हे इन्द्राग्नी सुतमभिषुतं सोमं प्रत्यागतमागच्छतम्। कीदृशं सुतं गीर्भिः स्तुतिभिर्युक्तमिति शेषः। नभ आकाशस्वरूपमाकाशवन्महदित्यर्थः। वरेण्यं वरणीयं। आगत्य च युवां धियेषिता स्वबुद्ध्या प्रेषितौ सन्तावस्य सोमस्य सारं पातं पिबतम्। इत्यनेनैन्द्राग्न देवताकमन्त्रेणाध्वर्युरैन्द्राग्नं ग्रहं गृह्णाति। तूष्णींशंसे भूरग्निरित्यग्निराम्नात इन्द्रो ज्योतिरितीन्द्रोऽप्याम्नातः तत उभयसद्भावातूष्णीं शंसोऽप्यैन्द्राग्न ईदृशस्य ग्रहस्य तूष्णींशंसस्य सम्बन्धदाज्यशस्त्रमप्यैन्द्राग्नं भवति। तस्मच्छस्त्रयाज्ययोरैन्द्राग्नत्वसम्पादनान्नास्ति वैयधिकरण्यम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य पञ्चमः खण्डः॥
अथ दशमाध्याये षष्ठः खण्डः
॥॥
पूर्वत्र पराङध्वर्यावित्याद्याश्वलायनसूत्रोदाहरणेन होतुर्यो जपो दर्शितस्तमिमं जपं विधत्ते- होतुः कर्तव्यो यो जपस्तमनुतिष्ठेत्। तेन प्रजोत्पादनार्थमादौ रेतः सिक्तं भवति॥
॥॥
होतुः कर्तव्यो यो जपस्तमनु तिष्ठेत्। तेन प्रजोत्पादनार्थमादौ रेतः सिक्तं भवति। तत्रोच्चारणप्रकारविशेषं विधत्ते- ओष्ठस्पन्दनमेव परैर्दृश्यते न तु शब्दः श्रूयते तादृशमुपांशुत्वं। लौकिके रेतः सेचनेऽपि ध्वनेरश्रवनाद्युक्तं तथाविधत्वम्॥
॥॥
तस्य जपस्य शोंसावोमित्येतस्मादाहावात्पूर्वभावित्वं विधत्ते- अध्वर्युराह्वयते येन शोंसावोमिति मन्त्रेण तस्मात्पूर्वभावी होतृजपः। तथा चाश्वलायनेनोदाहृतम्- "जपित्वाऽनभिहिंकृत्य शोंसावोमित्युच्चैराहूय" इति। आहावादूर्घ्वं यत्किञ्चित्पठ्यते तत्सर्वम् शस्त्रस्यैव सम्बन्धि भवेत्। आहावमन्त्रेण शस्त्रानुज्ञानस्य पृष्टत्वात्। अतो होतृ जपस्य ठस्त्रान्तर्भावं निवारयितुं पूर्वकालीनत्वम्॥
॥॥
अथाहावे प्रकारविशेषम् विधत्ते- अस्मिन्काले अध्वर्युः पराङ्भवति होतुर्विमुखो भवति। तथा चतुष्पदी गौरिव हस्तौ भूमाववस्थाप्याऽऽसीनो भवति। तादृशमध्वर्युं सम्बोध्याभिमुखो यथा भवति तथा होता शोंसावोमिति मन्त्रेणाऽऽह्वयते। यस्मादाह्वानकाल ईदृशोऽध्वर्युस्तस्माल्लोकेऽपि चतुष्पादो गवादयः पराञ्चः सम्भोगावस्थायां परस्पराभिमुखरहिता भूत्वा रेतः सिञ्चति॥
॥॥
आहावादूर्ध्वं अध्वर्योश्चतुष्पात्वं परित्यज्य सम्यगुत्थानं विधत्ते- ऊर्ध्वत्वेनोत्थानं सम्यक्त्वं तथाविधा भूत्वा रेतस्सिञ्चन्ति। जपितव्यो यो मन्त्रस्तस्याऽऽदौ सुमत्पद्वग्द इति पञ्चाक्षराणि पठितव्यानि। तानि च पूर्वमेवाक्षरपङ्क्ति प्रशंसायां विहितानि॥
॥॥
तेभ्य ऊर्ध्वं यो जपितव्यो मन्त्रस्तस्य प्रथमभागमनूद्य व्याचष्टे- तस्मिन्मन्त्रे यजमानस्य नूतनं जन्म सम्पाद्यते। अतोऽत्रमातरिश्वा वायुः पितृत्वेन वर्ण्यते। तमिमं पितेत्यादिकं मन्त्रं होता ब्रूयात्। प्रान एव लोके पिता मृतात्पितृदेहाज्जन्मासम्भवात्। वायुश्च प्रानः प्राणस्य वायुकार्यत्वात्। रेतश्च प्रानः प्राणयुक्तस्यैव रेतसो जनन हेतुत्वात्। अत एवारण्यके समाम्नास्यते- ‘यद्वा ऋते प्रानाद्रेतः सिच्येत पूयेन्न सम्भवेत्’ इति। तत्तेन प्रथमभागपाठेन यजमान पुनर्जन्माअर्थं रेतः सिक्तं भवति॥
॥॥
द्वितीयभागमनूद्य व्याचष्टे- स वायुरूपः पिता छिद्ररहितं पदं प्रापणीयं रेतोऽधा गर्भाशये स्थापितवान्। अत्रोक्तमच्छिद्रं वस्तु रेत एव। अतो हि रेतसः पुमानच्छिद्र उत्पद्यते॥
॥॥
तृतीयभागमनूद्य व्याचष्टे- कवयः पुरुषाः अच्छिद्रोक्था शम्सम्श्छिद्ररहितमुक्थं शस्त्रं शंसंति। अत्र कविशब्देनानूचानाः षडङ्गसहितवेदाध्यायिन उच्यन्ते। ते चेदच्छिद्रं रेतः प्रजनयन्नुत्पादयन्तीत्यनेनैव प्रकारेण तदच्छिद्रोक्थेति वाक्यमाह ब्रूते॥
॥॥
चतुर्थभागमनूद्य व्याचष्टे- विश्ववित्सर्वज्ञः सोमो नीथानि नेतव्यानुष्ठेयानि स्तोत्रशस्त्राणि निनेषन्नेतुमिच्छां कृतवानित्यर्थः। तथा बृहस्पतिरुक्थामदानि शस्त्ररूपाणि सन्तोषकारणानि शंसिषच्छंसितुमिच्छति शस्तवानित्यर्थः। अस्मिन्भागे बृहस्पतिसोमशब्दाभ्यां ब्राह्मण क्षत्रियजातिद्वयं दैव विवक्षितम्। नीथशब्देनोक्थामदशब्देन च स्तोत्रशस्त्राणि विवक्षितानि। अत एवैतद्भाग पाठे सति देवसम्बन्धिना ब्राह्मणेन क्षत्रियेण च प्रेरितः शस्त्राणि शंसति। सोमबृहस्पत्योः सर्वकर्मप्रेरकत्व प्रसिद्धिं दर्शयति- यज्ञेऽनुष्ठेयं यत्किञ्चिदस्त्यस्य सर्वस्य प्रसवो यत्प्रेरणं तस्य सोमबृहस्पती एव स्वामिनौ। व्यतिरेकमुखनैतदेव द्रढयति- तत्तथा द्वयोः प्रेरनस्वामित्वे सति यदङ्गमेताभ्यामप्रेरितः करोति तदङ्गकृतमेव भवति। लोकेऽपि स्वाम्यनुज्ञामन्तरेण यत्क्रियते तत्तत्राकृतमकरकर्तव्यं कृतवानिति जना निन्दन्ति। वेदनं प्रशंसति। अस्य वेदितुः कृतं कर्तव्यमेव कृतं भवति न त्वकृतमकर्तव्यं कृतं भवति॥
॥॥
पञ्चमभागमनूद्य व्याचष्टे- येयं वागिन्द्रियरूपा यदप्यायुर्जीवनं तदुभयमस्त्विति शेषः। न चात्राऽऽयुरल्पं विवक्षितं किन्तु विश्वायुर्विश्वं समस्तं शतसंवत्सरपरिमितमायुर्विवक्षितम्। तस्माद्विश्वमायुर्यजमानः प्राप्नोत्वित्यध्याहारः। तमिमं भागं परेत्। अत्राऽऽयुः शब्देन प्राण एव विवक्ष्यते। यावध्यस्मिञ्शरीरे प्राणो वसति तावदायुरिति श्रुतेः। प्राणत्वं पूर्वमेवोदाहृतम्। वाक्यशब्देन योनिरुपलक्ष्यते। तथा सति तद्भागपाठेन योनिमुपसन्धाय गर्भस्थानमभिलक्ष्य रेतः सिञ्चति॥
॥॥
षष्ठं भागमनूद्य व्याचष्टे- कः प्रजापतिरिदं शस्त्रं शंसिष्यति शंसितुमिच्छत्यतः स एवेदम् शंसिष्यति तमिममन्तिमभागं ब्रूयात्। अत्र क शब्देन प्रजापति (ते)रुक्तत्वात्स एव यजमानमुत्पादयिष्यतीत्यनेनैव प्रकारेण तन्मन्त्रवाक्यं ब्रूते॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य षष्ठः खण्डः॥
अथ दशमाध्याये सप्तमः खण्डः
॥ॐआहूय तूष्णींशंसं शंसति, रेत.स्तत्सिक्तँ विकरोति, सिक्ति र्वा अग्रेऽथ विकृति॥
आहावात्पूर्वकालीनं जपमुक्त्वा उत्तरकालीनं तूष्णींशंसं विधत्ते- शोंसावोमिति मन्त्रेण अध्वर्युमुपहूय पश्चात्तूष्णींशंसं पठेत्। तथा सति होतृजपेन सिक्तं रेतोऽनेन विकरोति पिण्डाद्याकार विकारं रेतसि जनयति। सेकः पूर्वभावी विकारः पश्चाद्भवतीति युक्तोऽयं क्रमः॥
॥उपांशु तूष्णींशंसं शंस-त्युपांश्विव वै रेतस स्सिक्ति,स्तिरˆइव तूष्णींशंसं शंसति- तिरˆइव वै रेतांसि विक्रियन्ते॥
शंसन काले ध्वनिराहित्यं विधत्ते- परैर्ध्वनेरश्रवणादपठितसदृशं भवतीत्यस्य तूष्णींशंस इति नामधेयम्। तस्मात्तदनुसारेणोपांशूच्चारयेत्। रेतः सेकोऽप्युपांशुसदृशो रहसि क्रियमाणत्वात्। उपांशुत्वेन होतृजपसाम्यप्रसक्तौ वैषम्यं विधत्ते- यथा कुड्यगृहादिव्यवहितमन्यैरधीयमानं वाक्यमीषत्प्रतीयते न तु स्पष्टं तद्वत्तूष्णींशंसोऽप्यस्पष्टो यथा भवति तथा शम्सेत्। तदिदं तिर इवेत्युच्यते होतृजपादीषदुच्चैरित्यर्थः॥
॥ षट्पद.न्तूष्णींशंसं शंसति- षड्विधो वै पुरुष.ष्षळङ्गˆ- आत्मानमेव तत्षड्विधं षळङ्गँ विकरोति॥
तूष्णींशंसस्येयत्तांविधत्ते- षट्पदं षड्भागम्। भूरग्निर्ज्योतिरित्येको भागो ज्योतिरग्निरिति द्वितीयो भागः। एवमुत्तरत्रापि द्रष्टव्यम्। तथाविधशंसने पुरुषसाम्यं भवति। पुरुषस्य षड्विधत्वमेव षळङ्ग इत्यनेन स्पष्टी क्रियते। पुरुषावयवषट्कं शाखान्तरे दर्शितम्- ‘षोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यङ्गानि’ इति। द्वौ हस्तौ द्वौ पादवित्यङ्गचतुष्टयम्। आत्मशब्दो मध्यदेहवाची। भागत्रयोपेते तूष्णींशंसे तत्तद्भागमध्येष्ववसाने षड्भागत्वं भवति। आश्वलायन आह- "भूरग्निर्ज्योतिर्जोतिरग्नों इन्द्रोज्योतिर्भुवो ज्योतिरिन्द्रों सूर्यो ज्योतिर्ज्योतिः स्वः सूर्योमिति त्रिपदस्तूष्णींशंसो यद्युवैषट्पदः पूर्वैर्ज्योतिःशब्दैरग्नेऽवस्येत्" इति॥ अतः षट्पदे तूष्णींशंसेन यजमानस्य शरीरमेव षडङ्गोपेतं कृत्वा विकरोति॥
॥तूष्णींशंसं शस्त्वा पुरोरुचं शंसति- रेत स्तद्विकृतं प्रजनयति- विकृति र्वा अग्रेऽथ जाति॥
एतदनन्तरं निविदो विधत्ते- प्र वो देवायेत्यादिसूक्तात्पुरतो दीप्यते रोचत इति पुरोरुक्शब्देन निविदुच्यते। तां तूष्णींशंसादूर्ध्वं पठेत्। तेनोर्ध्वपाटेन षडङ्गतया विकृतं रेतः शरीररूपेणोत्पादितं भवति। विकारः पूर्वभवी जन्म पश्चाद्भावि। तस्मात्तदानन्तर्यं निविदो युक्तम्॥
॥उच्चै पुरोरुचं शंस-त्युच्चै रेवैन न्तत्प्रजनयति॥
होतृजपगतं यदुपांशुत्वं तूष्णींशंसगतं च यदीशदुच्चध्वनित्वं तस्मादुभयस्माद्वैलक्षण्यं निविदो विधत्ते- उत्पादनकाले प्रसववेदनया तन्मातोच्चैर्ध्वनिं करोति। तदिदमुच्चैः प्रजनयतीत्युच्यते॥
॥ द्वादशपदा पुरोरुचं शंसति- द्वादश वै मासा.स्सँवत्सर- स्सँवत्सर प्रजापति- स्सोऽस्य सर्वस्य प्रजनयिता- सˆ योऽस्य सर्वस्य प्रजनयिता- सˆ एवैन न्तत्प्रजया पशुभि प्रजनयति
प्रजात्यै॥
निविदां न्यूनाधिकभागशंकाव्युदासाय सङ्ख्यां विधत्ते- निविदो द्वादश भगाः पूर्वमेव तद्वाख्याने विवेचिताः। अतो माससङ्ख्यासाम्यान्माससंवत्सरद्वारा सर्वस्य जगत उत्पादकत्वेन प्रसिद्धः प्रजापतिरेवेयं पुरोरुग्भवति। तादृश्याः पठे सति प्रसिद्धः सर्वस्योत्पादको यः प्रजापतिरस्ति स एवैनं यजमानं प्रजापशुसहितं प्रजनयति। तस्मादेतच्छंसनं प्रजात्यै सम्पत्यते॥
॥ प्रजायते प्रजया पशुभि- र्यˆ एवँ वेद, जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गा ॥
वेदनं प्रशंसति- देवता द्वार पुरोरुचं प्रशंसति- जातवेदा देवता यस्याः पुरोरुचः सा जातवेदस्या। जातवेदः शब्दरूपं न्यङ्गं नितरामङ्गं चिह्नं यस्यः पुरोरुचः सा जातवेदोन्यङ्गा तस्याः पुरोरुचोन्तिमे भागे सो अध्वरा करति जातवेदा इति जातवेदः शब्दः पठ्यते॥
॥न्तदाहु- र्यत्तृतीयसवन मेव जातवेदसˆ आयतन- मथ कस्मा.त्प्रातस्सवने जातवेदस्यां पुरोरुचं शंसतीति॥
उक्तमर्थमाक्षिपति- तृतीयसवनस्य जातवेदसं प्रत्यायतनत्वमाग्निमारुतठस्त्रे देवत्वादवगन्तव्यम्। तथा च सम्प्रदायविद आहुः- "जातवेदास्तु देवोऽयं वर्तते अग्निमारुते" इति। यस्मादेवं तस्मात्प्रातः सवने जातवेदस्यायाः शंसने कारनं नास्तीत्याक्षेपं तद्वादिन आहुः।
॥ प्राणो वै जातवेदा- स्सˆ हि जातानाँ वेद, यावताँ वै सजातानाँ वेद- ते भवन्ति, येषा.मु न वेद- किमु ते स्यु,र्यो वा आज्य आत्मसंस्कृतिँ वेद- तत्सुविदितम॥
तस्य परिहारं दर्शयति- अत्र जातवेदः शब्देन प्रान एवाभिधीयते न त्वग्निः। अत एवान्तिमभागव्याख्याने वायुर्वै जातवेदा इत्याम्नातम्। यस्मत्स प्राणो जातनामुत्पन्नानां शरीराणां स्वरूपं वेद जानाति लभत इत्यर्थः। तस्मात्प्राणस्य जातवेदा इति नामधेयम्। एवं सति प्राणो यावतामुत्पन्नानां शरीराणां स्वरूपं वेद लभते ते देहा भवन्ति सत्तां भजन्ते। येषां तु देहानां स्वरूपं प्राणो न वेद न लभते ते देहाः किमु स्युः किमु विद्यमानतां भजेयुः न भजेयुरित्यर्थः। एवं सति जातवेदोनामकस्य प्राणस्य प्रतिपादिकायाः पुरोरुचोन्तः पाठे यजमानो लब्धप्राणः सन्विद्यमानो भवति। अन्यथायमसत्कल्पः स्यात्। एवमुक्तप्रकारेण यो यजमान आज्यशस्त्रे पुनर्जन्मस्वरूपां संस्कृतिं वेद तत्तस्य यजमानस्य सुविदितं सम्यग्ज्ञानमुत्पन्नम्। अनेन होतृजपमित्यारभ्य प्रोक्ते प्रघट्टकेऽवस्थितस्यार्थवादस्य सर्वस्याप्युपसंहारो जातः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य सप्तमः खण्डः॥
अथ दशमाध्याये अष्टमः खण्डः
॥ॐप्र वो देवायाग्नय इति शंसति, प्राणो वै प्र प्राणं हीमानि सर्वाणि भूता.न्यनुप्रयन्ति- प्राण मेव तत्संभावयति- प्राणं संस्कुरुते॥
अथ सूक्तगतां प्रथमामृचं विधत्ते- अस्याः प्रथमाया ऋच आदौ प्रेतिशब्दः श्रूयते स प्राणस्वरूपः। नाम्न आद्यक्षरसाम्यात्। हि यस्मात्कारणात्सर्वाणीमानि भूतानि जीवजातानि प्रानमनु प्रयन्ति। प्राण प्रथमतो गच्छति तमनु पश्चाद्देहाः प्रयन्ति प्राणप्रेरणादूर्ध्वं देहानां चलनात्। तत्तथासति प्रशब्द प्रयुक्ताया ऋचः शंसनेन प्रानंसम्भावयति सम्भावितं पूजितं करोति। अनया पूजया प्रानः संस्कृतः सन्स्वव्यापारसमर्थो भवति। तस्मात्प्र वो देवायेत्येषा शंसनीया॥
॥ दीदिवांस मपूर्व्य मिति शंसति- मनो वै दीदाय- मनसो हि न किञ्चन पूर्वमस्ति- मनˆ एव तत्संभावयति- मन.स्संस्कुरुत॥
द्वितीयामृचं विधत्ते- यद्यप्यध्ययन क्रमेणेयमृक्पञ्चमी तथापि द्वितीयात्वेन प्रयोक्तव्या। ब्राह्मणक्रमस्यानुष्ठानार्थत्वात्। दीदिवासं दीप्तिमन्तमपूर्वमस्मादन्येन पूर्वेण रहितमित्येताभ्यां मन्त्र पदाभ्यां मनोऽभिधीयते। तच्च मनः सर्वार्थप्रकाशकत्वाद्दीदाय दीप्तियुक्तं भवति। तथा मनसोऽपि न किञ्चिदपीन्द्रियं व्यापरवन्नास्ति मनसा सङ्कल्पितेष्वर्थेषु पश्वाद्वागादीन्द्रियाणां व्याप्रियमाणत्वात्। अत एवारण्यकाण्डे वक्ष्यति- ‘मनसा वाऽग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ इति। अतो दीदिवांसमपूर्वमिति पदद्वयार्थस्य मनसि विद्यमानत्वात्तच्छंसनेन मनसः सम्भावना संस्कारौ सम्पद्येते। अत्राध्ययनक्रमादन्यमनुष्ठानक्रममभिप्रेत्य आश्वलायन आह- "अनुब्राह्मणं वाऽऽनुपूर्व्यं" इति॥
॥ स न.श्शर्माणि वीतय इति शंसति- वाग्वै शर्म- तस्मा.द्वाचाऽनुवदन्त.माह- शर्मवदास्मा आयांसीति वाचमेव तत्संभावयति-वाचं संस्कुरुत॥
अध्ययनक्रमेण चतुर्थीमनुष्ठानाय तृतीयात्वेन विधत्ते सोऽग्निर्नोऽस्माकं वीतये कामाय शर्माणि सुखानि यच्छत्विति मन्त्रपादस्यार्थः। अत्र शर्मशब्देन वागेव विवक्षिता। यस्मादेवं तस्माल्लोके स्वगुरूक्तमर्थं स्ववाचा सम्यगनुवदन्तं पुरुषमितरः प्रामाणिक एवमाह। अस्मै गुरूक्तार्थस्य सम्यगनुवादिने शिष्याय शर्मवत्सुखयुक्तं जीवनं संपन्नं यस्मात्तस्माद्धे शिष्याऽऽयांसि समन्ततो नियतोऽस्मि। आङ्पूर्वस्य ‘यम उपरमे’ इत्यस्य धातोश्छान्दसं रूपम्। आस्मा इत्याकारश्चश्छान्दसः। इत्येवं वाङ्नियमितस्य सुखस्य लोइकिकेनोच्यमानत्वान्मन्त्रोक्तशर्मशब्देन वाग्विवक्षोपपन्ना॥ तन्मन्त्रपाठेन वाचं सम्भावनासंस्कारौ भवतः॥
॥ उत नो ब्रह्म.न्नविषˆ इति शंसति- श्रोत्रँ वै ब्रह्म- श्रोत्रेण हि ब्रह्म शृणोति- श्रोत्रे ब्रह्म प्रतिष्ठितं- श्रोत्रमेव तत्संभावयति- श्रोत्रं संस्कुरुत॥
अध्ययनक्रमेण षष्ठीमृचमनुष्ठानाय चतुर्थीत्वेन विधत्ते- उतापि च हे ब्रह्मन्देवेषु ब्राह्मणरूपाग्ने नोऽस्मानविषो रक्षसि। अस्मिन्मन्त्रे ब्रह्मशब्देन श्रोत्रमुपलक्ष्य श्रोत्रेण हि ब्रह्म वेदं पुरुषः शृणोति। श्रोत्रेऽवगतं ब्रह्मवेदवाक्यं प्रतिष्ठितं कदाचिदप्य विस्मृतं भवति। तस्मात्तन्मन्त्रपाठेन श्रोत्रस्य सम्भावनासंस्कारौ भवतः॥
॥स यन्ता विप्रˆ एषा मिति शंस- त्यपानो वै यन्ताऽपानेन ह्ययँ यत- प्राणो न पराङ्भव-त्यपान मेव तत्संभावय-त्यपानं संस्कुरुत॥
अध्ययन क्रमेण तृतीयामृचमनुष्ठानाय पञ्चमीत्वेन विधत्ते- सोग्निर्विप्रो देवेषु ब्राह्मनः सन् एषां मनुष्यविप्राणां यन्ता नियमनकर्ता। अस्मिन्मन्त्रे यंतृशब्देनापानवायुरुपलक्ष्यते। निःश्वासरूपेणापानेन यतो नियमितः प्रानवायुः पराङ्भवति परं बाह्यं दूरदेशमञ्चति गच्छतीति पराङ्। यद्ययं बहिर्मुख उच्छ्वास रूपः प्राणवायुरपानवायुना न नियम्येत तदा बहिरेव गच्छेन्नपुनर्निवर्ठेत। ततः पुरुषो म्रियेतातोऽपानस्य नियंतृत्वं युक्तम्। एतन्मन्त्रपाठेनापानवायोः सम्भावनासंस्कारौ भवतः॥
॥ऋतावा यस्य रोदसी~ इति शंसति- चक्षुर्वा ऋत-न्तस्मा द्यतरो विवदमानयो राहा-ऽह मनुष्ठ्या चक्षुषाऽदर्शमिति- तस्य श्रद्दधति- चक्षुरेव तत्संभावयति- चक्षु स्संस्कुरुते॥
अध्ययनक्रमेण द्वितीयामृचं षष्ठीत्वेनानुष्ठानाय विधत्ते- रोदसी द्यावापृथिव्यौ यस्याग्नेऋतावा सत्यवतौ। अस्मिन्मन्त्रगतऋतशब्देन चक्षुरुपलक्ष्यते। यस्मादेवं तस्माल्लोके विविदमानयोः पुरुषयोर्मध्ये यतरः पुमानेवमाह। कथामिति तदुच्यते। अहमनुष्ठ्याऽनुष्ठित्या प्रयत्नेन चक्षुषाऽदर्शं दृष्टवानस्मीति। तस्य श्रद्दधति तदीयवचनं सर्वे विश्वसन्ति। दूरस्थे चूतवृक्षे फलमस्ति न वेति निश्चेतुं राजा द्वौ पुरुषौ प्रेषयति तयोरलसः कश्चिदापाततो दृष्ट्वा नास्तीति ब्रूते। अपरस्तु तत्र प्रयत्नेन दृष्ट्वा यत्रक्वापि पर्णेनाच्छन्नं फलं सम्यग्दृष्टवानस्मीति ब्रूते। तस्य वचने सर्वेषां विश्वासो जायते। तस्मात्सम्यग्दर्शिनश्चक्षुष ऋतत्वं युक्तं। एतन्मन्त्रपाठेन चक्षुसः सम्भावनासंस्कारौ भवतः॥
॥ नू नो रास्व सहस्रव.त्तोकव.त्पुष्टिम.द्वस्वि.त्युत्तमया परिदधा-त्यात्मा वै समस्त.स्सहस्रवां-स्तोकवा न्पुष्टिमा,नात्मानमेव तत्समस्तं संभावय- त्यात्मानं समस्तं संस्कुरुते॥
अध्ययनक्रमेणानुष्ठानक्रमेण च सप्तम्या शस्त्रसमाप्तिं विधत्ते- यद्वसु धनं सहस्रवत्सहस्रसङ्ख्योपेतं तोकवदपत्योपेतं पुष्टिमत्समृद्धियुक्तमस्ति तादृशं धनं नोऽस्मभ्यं नु क्षिप्रमेव रास्व हेऽग्ने देहि। अनयान्तिमयाऽऽज्यशस्त्रं समापयेत्। अत्र समस्तः पूर्वोक्तः प्राणमनोवागादिभिः सर्वैरिन्द्रियैः सम्पूर्ण आत्मा वै पुरुष एव सहस्रसङ्ख्योपेतधनयुक्तो बहुभिरपत्यैरुपेतः समृद्धियुक्तश्च विवक्षितः। अतस्तत्पाठेन तादृशस्य पुरुषस्यैव सम्भावनासंस्कारौ भवतः॥
॥ याज्यया यजति- प्रत्ति.र्वै याज्या- पुण्यैव लक्ष्मी- पुण्यामेव तल्लक्ष्मीं संभावयति- पुण्याँ लक्ष्मीं संस्कुरुत॥
शस्त्रस्यान्ते याज्यां विधत्ते- अग्न इन्द्रश्चेति येयं याज्या पूर्वमुक्ता तया यजति यागार्थं याज्यां पठेत्। याज्या च प्रत्तिर्वैप्रदानरूपैव। तथा च हविष आदानप्रदाने क्रमेण पुरोनुवाक्या याज्याधीने श्रुत्यन्तरे श्रूयेते ‘पुरोनुवाक्ययाऽऽदत्ते प्रयच्छति याज्यया’ इति। अतः प्रदानरूपत्वादियं पुण्यैव लक्ष्मीः। शास्त्रीयत्वात्पुण्यत्वं फलस्य लब्धिहेतुत्वाल्लक्षणस्य दर्शनहेतुत्वाद्वा लक्षीत्वम्। अतो याज्यापाठेन पुण्याया एव लक्ष्म्याः सम्भावनासंस्कारौ भवतः॥
॥सˆ एवँ विद्वां.श्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमय.स्सम्भूय देवताˆ अप्येति-यˆ एवँ वेद, यो वै तद्वेद- यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमय.स्सम्भूय देवता अप्येति-तत्सुविदितम्॥
उक्तक्रमेणानुष्ठातृवेदित्रोः फलं दर्शयति- एवं विद्वानित्यत्रानुतिष्ठन्नित्यध्याहार्यं। वेदनपूर्वकोनुष्ठाता गायत्र्यादिच्छन्दः स्वरुपो वन्ह्यादिदेवतास्वरूप ऋगादिवेदस्वरूपो मरणरहितो मोक्शस्वरूपः सन्सम्भूय सर्वं जगदेकीकृत्य सर्वा देवताः प्राप्नोति। तदेतदनुष्थातुः फलम्। य एवं वेदेत्यत्रापि विदुषः फलत्वेन च्छन्दोमयत्वादिकमावर्तनीयम्। अथवा य एवं वेदेत्युक्तस्यैव स एवं विद्वानित्यनूद्यमानत्वान्नेदं वाक्यमावर्तनीयम्। वेदनमात्रस्य कथमीदृशं फलमित्याशङ्क्य सुवेदनत्वाद्युक्तं फलमित्येतद्दर्शयति- येन प्रकारेण च्छन्दः प्राप्त्यादिपूर्वकं सर्वदेवताप्राप्तिर्भवति तत्तादृशं प्रकारं यो वेद तद्वेदनं सुविदितं शोभनज्ञानं तस्माद्युक्तं फलमित्यर्थः।
॥मित्यध्यात्म- मथाधिदैवतम्॥
उक्तवक्ष्यमाणयोः शङ्कापरिहाराय विभागं दर्शयति- आत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मम्। अस्मिन्खण्डे शरीररूपत्वेन प्रशंसनमाम्यशस्त्रस्योक्तम्। उत्तरखण्डे त्वधिदैवतम् देवताविषयमाज्यशस्त्रप्रशंसनमुच्यते॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य अष्टमः खण्डः॥
अथ दशमाध्याये नवमः खण्डः
॥ॐषट्पद.न्तूष्णींशंसं शंसति- षड्वा ऋतवˆ- ऋतूनेव तत्कल्पय-त्यृतू नप्येति॥
पूर्वोक्तक्रमेणैव देवताविषयशस्त्रप्रशंसनं विवक्षित्वा प्रथमं भूरग्निरित्यस्य प्रशंसां दर्शयति- भूरग्निरित्यादीनां भागानां षट्सङ्ख्यासाम्यादृतुत्वे सति तत्पाठेन ऋतून्स्वभोगप्रदानसमर्थान्करोति। तत ऋतून्देवान्प्राप्नोति॥
॥, द्वादशपदां पुरोरुचं शंसति-द्वादश वै मासाˆ- मासानेव तत्कल्पयति- मासा.नप्येति॥
निविदः प्रशंसां दर्शयति- निविदां पाठेन मधुमाधवादीन्मासान्स्वात्मभोगाय सम्पादयति प्राप्नोति च।।
॥प्र वो देवायाग्नय इति शंस-त्यन्तरिक्षँ वै प्रान्तरिक्षं हीमानि सर्वाणि भूता.न्यनुप्रय-न्त्यन्तरिक्ष.मेव तत्कल्पय- त्यन्तरिक्ष.मप्येति,॥
सूक्तप्रथमामृचं प्रशंसति- सर्वे प्राणिनोन्तरिक्षमनुसृत्य तिष्ठन्ति तस्मिन्नवकाशे प्रकृष्टगमनादन्तरिक्षस्य प्रशब्दवाच्यत्वम्॥
॥दीदिवांस मपूर्व्य मिति शंस- त्यसौ वै दीदाय योऽसौ तप- त्येतस्माद्धि न किञ्चन पूर्वम-स्त्येत.मेव तत्कल्पय-त्येत.मप्येति॥
अनुष्ठानक्रमेण द्वितीयामृचं प्रशंसति- योऽसावादित्यस्तपति जगति सन्तापं करोत्यसौ वै दीदाय दीप्यते। तस्योदयात्पूर्वमन्धकारे किमपि प्राणिजातं स्वव्यापारकर्तृ नास्ति। तस्मादादित्यस्य दीदिवांसमपूर्व्यमिति पदद्वयाभिधेयत्वम्॥
॥ स न.श्शर्माणि वीतय इति शंस- त्यग्नि र्वै शर्माण्यन्नाद्यानि यच्छ- त्यग्निमेव तत्कल्पय- त्यग्नि मप्य॥
तृतीयाम्रुचं दर्शयति- सुखकराण्यत्तुं योग्यान्नन्नानि पाकेन प्रयच्छतीत्यग्नेः शर्मशब्दवाच्यत्वम्॥
॥उत नो ब्रह्मन्नविषˆ इति शंसति- चन्द्रमाˆ वै ब्रह्म- चन्द्रमस.मेव तत्कल्पयति- चन्द्रमस मप्येति॥
चतुर्थीमृचं दर्शयति- नक्षत्रादिप्रकाशेशु बृहत्वाच्चन्द्रमसो ब्रह्मत्वम्॥
॥ सˆ यन्ता विप्रˆ एषा मिति शंसति- वायुर्वै यन्ता- वायुना हीदँ यत मन्तरिक्ष.न्न समृच्छति- वायुमेव तत्कल्पयति- वायुमप्ये॥
पञ्चमीमृचं दर्शयति- इदं दृश्यमानं सूर्यचन्द्रनक्षत्रादि मण्डलं सर्वं वायुना यतं नियमितं सदन्तरिक्षं न समृच्छति सम्यङ्नप्राप्नोति। वायुनियमाभावे सम्यक्प्राप्नुयादन्तरिक्शस्य निरवधिकत्वेन तस्मिन्यत्र क्वापि गच्छेदित्यर्थः। तस्माद्वायुरेव नियन्ता॥
॥ऋतावा यस्य रोदसी~ इति शंसति- द्यावापृथिवी~ वै रोदसी~- द्यावापृथिवी~ एव तत्कल्पयति- द्यावापृथिवी अप्येति॥
षष्ठीम्रुचं दर्शयति- रोदः शब्दवाच्यत्वं द्यावापृथिव्योर्लोकेऽपि प्रसिद्धम्॥
॥नू नो रास्व सहस्रव.त्तोकव.त्पुष्टिम.द्वस्वि-त्युत्तमया परिदधाति- सँवत्सरो वै समस्तस्सहस्रवां-स्तोकवा.न्पुष्टिमा- न्त्सँवत्सर मेव तत्समस्त.ङ्कल्पयति- सँवत्सरं समस्त मप्येति॥
सप्तमीम्रुचं दर्शयति- चैत्रादि फाल्गुनान्तः समस्तः संवत्सरः सहस्रादिविशेषनयुक्तः। संवत्सरेण हि धनिकानां व्रुद्धिः सहस्रसङ्ख्याका सम्पद्यते। तोकान्यपत्यानि गर्भधारणमारभ्य संवत्सरमध्य एवोत्पद्यन्ते। रोगैः कृशानां शरीराणामारोग्ये सति संवत्सरमध्ये पुष्टिर्भवति॥
॥याज्यया यजति- वृष्टि र्वै याज्या- विद्यु.देव विद्युद्धीदँ वृष्टि मन्नाद्यं संप्रयच्छति- विद्युत.मेव तत्कल्पयति- विद्युत.मप्येति॥
शस्त्रयाज्यां दर्शयति- याज्याया प्रक्षिप्तं हविर्वृष्टिपर्यवसितं भवति। तथा च स्मर्यते-"अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः" इति॥ व्रुष्टिश्च विद्युत्पुरस्सरत्वाद्विद्युदेव। यस्मान्मेघेषूत्पन्ना विद्युद्वृष्टिं सम्पाद्य तद्वारेणान्नं प्रयच्छति तस्माद्वृष्टिर्विद्युदेव॥
॥ सˆ एवँ विद्वा नेतन्मयो देवतामयो भवति भवति॥
वेदनं प्रशंसति- एतन्मयो वसन्तग्रीष्ंआदिविद्युदन्तवस्तुमयो भूत्वा तदभिमानिदेवतानां भोगं प्राप्नोति। अभ्यासोऽध्यायसमाप्त्यर्थः॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्यस्य दशमाऽध्यायस्य नवमः खण्डः॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तक वीरबुक्कणसाम्राज्य धुरन्धर सायणाचार्यकृतावैतरेय ब्राह्मणभाष्ये दशमाऽध्यायः समाप्तः॥