॥ अथ शौनक महर्षि प्रणीता बृहद्देवता॥
॥ प्रथमोध्यायः॥
मन्त्रदृग्भ्यो नमस्कृत्वा समाम्नायानुपूर्वशः।
सूक्तर्गर्धर्चपादानामृग्भ्यो वक्ष्यामि दैवतम्॥१॥
वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः।
दैवतज्ञोहि मन्त्राणां तदर्थमवगच्छति॥२॥
तद्धितांस्तदभिप्रायानृषीणां मन्त्रदृष्टिषु।
विज्ञापयति विज्ञानं कर्माणि विविधानि च॥३॥
नहि कश्चिदविज्ञाय यथातथ्येन दैवतम्।
लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते॥४॥
प्रथमो भजते त्वासां वर्गोऽग्निमिह दैवतम्।
द्वितीयो वायुमिन्द्रं वा तृतीयः सूर्यमेव च॥५॥
अर्थमिच्छन्नृषिर्देवं यं यमाहायमस्त्विति।
प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः॥६॥
स्तुतिस्तु नाम्ना रूपेण कर्मणा बान्धवेन च।
स्वर्गायुर्धनपुत्राद्यैरर्थैरासीस्तु कथ्यते॥७॥
स्तुत्याशिषौ तु यस्वृक्षु दृश्येतेऽल्पास्तु ता इह।
ताभ्यश्चाल्पतरास्ताः स्युः स्वर्गो याभिस्तु याच्यते॥८॥
स्तुवन्तम् वेद सर्वोऽयमर्थयत्येष मामिति।
स्तौतीत्यर्थं ब्रुवन्तं च सार्थं मामेष पश्यति॥९॥
स्तुवद्भिर्वा ब्रुवद्भिर्वा ऋषिभिस्तत्त्वदर्शिभिः।
भवत्युभयमेवोक्तमुभयं हैर्थतः समम्॥१०॥
प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते।
तामेव देवतां विद्यान्मन्त्रे लक्षनसम्पदा॥११॥
तस्मात्तु देवतां नाम्ना मन्त्रे मन्त्रे प्रयोगवित्।
बहुत्वमभिधानां च प्रयत्नेनोपलक्षयेत्॥१२॥
सम्पूर्णमृशिवाक्यं तु सूक्तमित्यभिधीयते।
दृश्यन्ते देवता यस्मिन्नेकस्मिन्बहुषु द्वयोः॥१३॥
देवतार्षार्थछन्दस्तो वैविध्यं च प्रजायते।
ऋषिसूक्तं तु यावन्ति सूक्तान्येकस्य वै स्तुतिः॥१४॥
श्रूयते तानि सर्वाणि ऋषेः सूक्तं हि तस्य तत्।
यावदर्थसमाप्तिः स्यादर्थसूक्तं वदन्ति तत्॥१५॥
समानछन्दसो याः स्युस्तच्छन्दः सूक्तमुच्यते।
वैविध्यमेवं सूक्तनामिह विद्याद्यथा तथम्॥१६॥
देवतानामधेयानि मन्त्रेषु त्रिविधानि तु।
सूक्तभाञ्ज्यथवार्ग्भाञ्जि तथा नैपातिकानि तु॥१७॥
सूक्तभाञ्जि भजन्ते वै सूक्तन्यृग्भाञ्जि वै ऋचः।
मन्त्रेऽन्यदैवतेन्यानि निगद्यन्तेऽत्र कानिचित्॥१८॥
सालोक्यात्साहचर्याद्वा तानि नैपातिकानि तु।
तस्माद्बहुप्रकारेऽपि सूक्ते न्यात्सूक्तभागिनी॥१९॥
देवता तद्यथा सूक्तमविशेष्यं प्रतीयते।
भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः॥२०॥
तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत्।
देवतायाः परिज्ञानात्तद्धि कर्म समृध्यते॥२१॥
आद्यन्तयोस्तु सूक्तानां प्रसङ्गपरिकीर्तनात्।
स्तोतृभिर्देवता नाम्ना उपेक्षेतेह मन्त्रवित्॥२२॥
तत्खल्वाहुः कतिभ्यस्तु कर्मभ्यो नाम जायते।
सत्त्वानां वैदिकानां वा यद्वान्यदिह किञ्चन॥२३॥
नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये।
मधुकः श्वेतकेतुश्च गालवश्चैव वन्वते॥२४॥
निवासात्कर्मणो रूपान्मङ्गलाद्वा च आशिषः।
यदृच्छयोपवसनात्तथामुष्यायणाच्च यत्॥२५॥
चतुर्भ्य इति तत्राहुर्यास्कगार्ग्यरथीतराः।
आशिषोऽथार्थवैरूप्याद्वाचह् कर्मण एव च॥२६॥
सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः।
आशी रूपं च वाच्यं च सर्वं भवति कर्मतः॥२७॥
यदृच्छयोपवसनात्तथामुष्यायणाच्च यत्।
तथा तदपि कर्मैव तच्छृणुध्वं च हेतवः॥२८॥
प्रजाः कर्मसमुत्थाहि कर्मतः सत्त्वसङ्गतिः।
क्वचित्सञ्जायते सच्च निवासात्तत्प्रजायते॥२९॥
यादृच्छिकं तु नामाभि धीयते यत्र कुत्रचित्।
औपम्यादपि तद्विद्याद्भावशै वेह कस्यचित्॥३०॥
नाकर्मकोऽस्ति भावो हि न नामास्ति निरर्थकम्।
नान्यत्र भावान्नामानि तस्मात्सर्वाणि कर्मतः॥३१॥
मङ्गलात्क्रियते यच्च नामोपवसनाच्च यत्।
भवत्येव तु सा ह्याशीः स्वस्त्या देर्मङ्गलादिह॥३२॥
अपि कुत्सितनामायमिह जीवेत्कथं चिरम्।
इति क्रियन्ते नामानि भूतानां विदितान्यपि॥३३॥
मन्त्रा नानाप्रकाराः सुर्दैष्टा ये मन्त्रदर्शिभिः।
स्तुत्या चैव विभूत्या च प्रभावाद्देवतात्मनः॥३४॥
स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना।
स्पृहाशीः कत्थना याज्ञा प्रश्नः प्रैषः प्रवह्लिका॥३५॥
नियोगश्चानुयोगश्च श्लाघा विलपितं च यत्।
आचिख्यासाथ संलापः पवित्राख्यानमेव च॥३६॥
आहनस्या नमस्कारः प्रतिराधस्तथैवच।
सङ्कल्पश्च प्रलापश्च पर्तिवाक्यं तथैव च॥३७॥
प्रतिषेधोपदेशौ च प्रमादापह्नवौ च ह।
उपप्रैषश्च यः प्रोक्तः स्ंज्वरो यश्च विस्मयः॥३८॥
आक्रोशोऽभिष्टवश्चैव क्शेपः शापस्तथैव च।
उपसर्गो निपातश्च नाम चाख्यातमित्यपि॥३९॥
भुतं भव्यं भविष्यं च पुमान् स्त्री च नपुंसकम्।
एवं प्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः॥४०॥
वाक्यार्थदर्शनार्थीया ऋचोऽर्धर्चाः पदानि च।
ब्राह्मणे चाथ कल्पे च निगद्यन्तेऽत्र कानि चित्॥४१॥
शब्देनोच्चरितेनेह येन द्रव्यं प्रतीयते।
तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिनः॥४२॥
अष्टौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः।
तन्नाम कवयः प्राहुर्भेदे वचनलिङ्गयोः॥४३॥
क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इहैक एव।
क्रियाभिर्निवृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः॥४४॥
क्रियाभिर्निवृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात्।
स~ख्याविभक्त्यव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः॥४५॥
यथा नानाविधैः शब्दैरपश्यन्नृषयः पुरा।
विविधानीह वाक्यानि तान्यनुक्रमतः शृणु॥४६॥
रूपादिभिः स्तुतिः प्रोक्ता आशीः स्वर्गाधिभिस्तथा।
यानि वाक्यानयोऽन्यानि तान्यपि स्युरनेकधा॥४७॥
मन्त्रे प्रशंसा भोजस्य चित्र इत्सोभरे स्तुतिः।
आक्रोशार्थस्तु दृश्यन्ते माता चेत्यभिमेथति॥४८॥
ऋङ्मोघमन्नं निन्दा च शापो यो मेत्यृगेवतु।
याच्ञा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि॥४९॥
आशीस्तु वात आवातु दण्डेति परिदेवना।
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक्॥५०॥
संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः।
इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते॥५१॥
इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे।
प्रतिषेधोपदेशौ तु अक्षृर्मेत्यक्षसंस्तुतौ॥५२॥
आख्यानं तु हये जाये विलापः स्यान्नदस्य मा।
आवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा॥५३॥
नमस्कारः शुनः शेपे नमस्ते अस्तु विद्युते।
सङ्कल्पयन्निदं त्य्ल्योऽहं स्यामिति यदुच्यते॥५४॥
सङ्कल्पस्तु यदिन्द्राहं प्रलापस्त्वैतशस्य यः।
महानग्न्याहनस्या स्यात्प्रतिराधो भुगित्यपि॥५५॥
प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः।
इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः॥५६॥
होता यक्शदिति प्रैषः को अद्येति तु विस्मयः।
जामयेपह्नवो नैषा विततादिः प्रवह्लिका॥५७॥
न मृत्युरासीदित्येतामाचिख्यासां प्रचक्षते।
अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे॥५८॥
बह्वप्येवं प्रकारं तु शक्यं द्रष्टुमितीदृशम्।
वक्तुम् प्रयोगतश्चैषामृक्सूक्तार्धर्च संश्रितम्॥५९॥
एते तु मन्त्रवाक्यार्था देवतां सूक्तभागिनीम्।
संश्रयन्ते यथान्यायं स्तुतिस्त्वत्रानुमानकी॥६०॥
भवद्भूतस्य भव्यस्य जङ्गमस्थावरस्य च।
अस्यैके सूर्यमेवैकं प्रभवं प्रलयं विदुः॥६१॥
असतश्च सतश्चैव योनिरेषा प्रजापतिः।
यदक्षरम् च वाच्यं च यथैतद्ब्रह्म शाश्वतम्॥६२॥
कृत्वैष हि त्रिधात्मानमेषु लोकेशु तिष्थति।
देवान्यथायथं सर्वान्निवेश्य स्वेषु रश्मिषु।।६३॥
एतद्भूतेशु लोकेषु अग्निभूतं स्थितं त्रिधा।
ऋषयो गीर्भिरर्चन्ति व्यञ्जितं नामभिस्त्रिभिः॥६४॥
तिष्ठतेव हि भुतानां जठरे जठरे ज्वलन्।
त्रिस्थानं चैनमर्चन्ति होत्रायां वृक्तबर्हिषः॥६५॥
इहैष पवमानोऽग्निर्मध्यमोऽग्निर्वनस्पतिः।
अमुष्मिन्नेव विप्रैस्तु लोकेऽग्निः शुचिरुच्यते॥६६॥
इहाग्निभूतस्त्वृषिभिर्लोके स्तुतिभिरीळितः।
जातवेदा स्तुतो मध्ये स्तुतो वैश्वानरो दिवि॥६७॥
रसान्रश्मिभिरादाय वायुनायं गतः सह।
वर्षत्येष च यल्लोके तेनेन्द्र इति स स्मृतः॥६८॥
आग्निरस्मिन्नथेन्द्रस्तु मध्यतो वायुरेवच।
सूर्यो दिविति विज्ञेयास्तिस्र एवेह देवताः॥६९॥
एतासामेव माहात्म्यान्नामान्यत्वं विधीयते।
तत्त्वत्स्थानविभागेन तत्र तत्रेह दृश्यते॥७०॥
तासामियं विभुतिर्हि नामानि यदनेकशः।
आहुस्तासां तु मन्त्रेषु कवयोऽन्योन्ययोनिताम्॥७१॥
यथास्थानम् प्रदिष्टास्ता नामान्यत्वेन देवताः।
तद्भक्तास्तत्प्रधानाश्च केचिदेवं वदन्ति ताः॥७२॥
पृथक्पुरस्ताद्ये तूक्ता लोकाधिपतयस्त्रयः।
तेषामात्मैव तत्सर्वं यद्यद्भक्तः प्रकीर्त्यते॥७३॥
तेजस्त्वेवायुधं प्राहुर्वाहनम् चैव यस्य यत्।
इमामैन्द्रीं च दिव्यां च वाचमेवम् पृथक् स्तुताम्॥७४॥
बहुदेवता स्तुतयो द्विवत्संस्तुतयश्च याः।
प्राधान्यमेव सर्वासु पतीनामेव तास्वपि॥७५॥
स्थानं नामानि भक्तीश्च देवताया स्तुतौ स्तुतौ।
सम्पादयन्नुपेक्षेत यां काञ्चिदिह सम्पदम्॥७६॥
अग्निभक्तिस्तुतान्सर्वानग्नावेव समापयेत्।
यदिन्द्रभक्ति तच्चेन्द्रे सूर्ये सूर्यानुगं च यत्॥७७॥
निरुप्यते हविर्यस्यै सुक्तं च भजते च या।
सैव तत्र प्रधानं स्यान्न निपातेन या स्तुता॥७८॥
इति त्रयाणामेतेषामुक्तः सामासिको विधिः।
समासेनैवमुक्तस्तु विस्तरेन त्वनुक्रमः॥७९॥
अवश्यम् वेदितव्यो हि नाम्नां सर्वस्य विस्तरः।
न हि नामान्यविज्ञाय मन्त्राः शक्या हि वेदितुम्॥८०॥
सत्त्वान्यमूर्तान्यपि च देवतावन्महर्षयः।
तुष्टवुरृषयः शक्त्या तासु तासु स्तुतिष्विह॥८१॥
यैस्त्वग्निरिन्द्रः सोमश्च वायुः सूर्यो बृहस्पतिः।
चन्द्रोऽथ विष्नुह् प्रजन्यः पूषा चाप्यृभवोऽश्विनौ॥८२॥
रोदसी मरुतो देवाः पृथिव्यापः प्रजापतिः।
देवौ च मित्रावरुणौ पृथक् सह च तावुभौ॥८३॥
विश्वे च देवाः सविता त्वष्टा वै रूपकृन्मतः।
अश्वोऽन्नमृत्विजो वज्रो ग्रावणो रथसंयुताः॥८४॥
स्तुताः पृथक्पृथक् स्वैः स्वैः सूक्तैरृग्भिश्च नामभिः।
स्तुतौ स्तुतौ प्रवक्ष्यामि तानि तेषामनुक्रमात्॥८५॥
व्यवस्येन्मन्त्रमाग्नेयं लिङ्गैरग्नेश्च लक्षितम्।
हविष्पङ्क्तिप्रधानैश्च नामाह्वानैश्च केवलैः॥८६॥
ऐन्द्रस्तु मन्त्रो वायव्यैर्लिङ्गैरैन्द्रैश्च लक्ष्यते।
नामधेयैश्च वज्रस्य बलकृत्या बलेन च॥८७॥
सौर्यस्तु लिङ्गैः सूर्यस्य गुणैः सर्वैश्च तैजसैः।
नामधेयैश्च चन्द्रस्य सूक्तं च भजतेऽत्र यैः॥८८॥
एतासां देवतानां तु नामधेयानुकीर्तनैः।
यस्य यस्येह यामन्ति न व्यवस्यन्त्यतोऽन्यथा॥८९॥
अयं प्रयोगस्त्वेतेषां ज्योतिषां त्रिषु वर्तताम्।
लोकेषु मन्त्रविद्विद्वान्प्रयोगे नावसीदति॥९०॥
नीयतेऽयं नृभिर्यस्मान्नयत्यस्मादसौ च तम्।
तेनेमौ चक्रतुः कर्म सनामानौ पृथक् पृथक्॥९१॥
यद्विद्यते हि जातः सञ्जातैर्यद्वात्र विद्यते।
तेनेमौ तुल्यनामानौ उभौ लोकौ समाप्नुतः॥९२॥
विसृजन्नयमेतेषां भ्राजते व्योम्नि मध्यमः।
निपातमात्रे कथ्यन्ते तथाग्नेयानि कानिचित्॥९३॥
अर्चिभिः केश्ययं त्वग्निर्विद्युद्भिश्चैव मध्यमः।
असौ तु रश्मिभिः केशी तेनैनानाह केशिनः॥९४॥
एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह।
सलंक्ष्यन्ते प्रक्रियासु त्रयः केशिन इत्यृचि॥९५॥
न चैवेषां प्रसूतिर्वा विभूतिस्थानजन्म वा।
निर्वक्तुम् शक्यमेतैर्हि कृत्स्नं व्याप्तमिदं जगत्॥९६॥
वैश्वानरं श्रितो ह्यग्निरग्निं वैश्वानरः श्रितः।
अनयोर्जादवेदास्तु तथैते जातवेदसी॥९७॥
सालोक्याच्चैकजातत्वाद्व्याप्तिमत्त्वात्तु तेजसः।
तस्य तस्येह देवत्वं दृश्यन्ते च पृथक् स्तुताः॥९८॥
यत्त्वाग्नेयमिति बृमः सूक्तभाक्तत्र पार्थिवः।
जादवेदस्यमित्युक्ते सूक्तेऽस्मिन्मध्यमः स्मृतः॥९९॥
वैश्वानरीयमिति तु यत्र ब्रूमोऽथ वा क्वचित्।
सूर्यः सूक्तस्य भाक् तत्र ज्ञेयो वैश्वानरस्तुतौ॥१००॥
सूर्यप्रसूतावग्नी तु दृष्टौ पार्थिवमध्यमौ।
एतेषामेव लोकानां त्रयाणामध्वरेऽध्वरे॥१०१॥
रोहात्प्रत्यवरोहेन चिकीर्षन्नाग्निमारुतम्।
शस्त्रं वैश्वानरीयेण सूक्तेन प्रतिपद्यते॥१०२॥
ततस्तु मध्यमस्थाना देवतास्त्वनुशंसति।
रुद्रं च मरुतश्चैव स्तोत्रियेऽग्निमिमं पुनः॥१०३॥
यथैतदुक्तमेताषां विभूतिस्थानसम्भवम्।
तथा च देवदेवस्य तत्र तत्रेहं दृश्यते॥१०४॥
यद्यत्र पृथिवीस्थानं पार्थवं चाग्निमाश्रितम्।
तत्सर्वमानुपूर्व्येन कथ्यमानं निबोधत॥१०५॥
जातवेदाः श्रितो ह्यग्निमग्निम् वैश्वानरः श्रितः।
द्रविणोदास्तथेध्मश्च श्रितश्चाग्निं तनूनपात्॥१०६॥
नराशंसः श्रितश्चैनमेनमेवाश्रितस्त्विळः।
बर्हिर्द्वारश्च देव्योऽग्निमेनमेव तु संश्रिताः॥१०७॥
नक्तोषासा च देव्यौ च होतारवेतदाश्रयौ।
देव्यस्तिस्रः श्रिताश्चैनं त्वष्टा चैवैतदाश्रयः॥१०८॥
श्रितो वनस्पतिश्चैनं स्वाहाक्रुतय एव च।
अश्वश्च शकुनिश्चैव मण्डूकाश्चैतदाश्रयाः॥१०९॥
ग्रावाणश्चैनमक्षाश्च नराशम्सस्तथा रथः।
दुन्दुभिश्चेषुधिश्चैनं हस्तघ्नोऽभीत्शवो धनुः॥११०॥
ज्या चैतदाश्रितेषुश्च श्रिता अश्वाजनी च या।
वृषभो द्रुघणश्चैनमेनं पितुरुलूखलम्॥१११॥
नद्यश्चैवैनमापश्च सर्वा ओषधयश्च ह।
रात्र्यप्वाग्नाय्यरण्यानी श्रद्धेळा पृथिवी तथा॥११२॥
भजेते चैनमेवार्त्नी द्वन्द्वभुते च रोदसी।
मुसलोलूखले चैनं हविर्धाने च य स्मृते॥११३॥
जोष्ट्री चोर्जाहुती चैनं शुतुद्र्या च विपाट् सह।
यौ च देवौ शुनासीरौ तौ चाग्नी चैतदाश्रयौ॥११४॥
लोकोऽयं यच्च वै प्रातः सवनं क्रियते मुखे।
वसन्तशरदौ चर्तू स्तोमोऽनुष्तुबथो त्रिवृत्॥११५॥
गायत्री चैकविंशश्च यच्च साम रथन्तरम्।
साध्याः साम च वैराजमाप्त्याश्च वसुभिः सह॥११६॥
इन्द्रेण च मरुद्भिश्च सोमेन वरुनेन च।
पर्जन्येनर्तुभिश्चैव विष्णुना चास्य संस्तवः॥११७॥
अस्यैवाग्नेस्तु पूष्णा च साम्राज्यं वरुणेन च।
देवतामर्थतत्त्वज्ञो मन्त्रैः संयोजयेड्धविः॥११८॥
असंस्तुतस्यापि सतो हविरेकं निरुप्यते।
देवतावाहनं चैव वहनं हविषां तथा॥११९॥
कर्म दृष्टे च यत्किञ्चिद्विषये परिवर्तते।
इत्युक्तोऽयं गणः सर्वः पृथिव्याग्न्याश्रयो महान्॥१२०॥
यश्चैन्द्रो मध्यमस्थानो गनः सोऽयमतः परः।
विमानानि च दिव्यानि गणश्चाप्सरसाम् तथा॥१२१॥
इन्द्राश्रयस्तु पर्जन्यो रुद्रो वायुर्बृहस्पतिः।
वरुणः कश्च म्रुत्युश्च देवश्च ब्रह्मणस्पतिः॥१२२॥
मन्युश्च विश्वकर्मा च मित्रः क्षेत्रपतिर्यमः।
तार्क्ष्यो वास्तोष्पतिश्चैव सरस्वांश्चैवमत्र ह॥१२३॥
अपान्नपाद्दधिक्राश्च सुपर्णोऽथ पुरूरवाः।
ऋतोऽसुनीतिर्वेनश्च तस्यैतस्याश्रयेऽदितिः॥१२४॥
त्वष्टा च सविता चैव वातो वाचस्पतिस्तथा।
धाता प्रजापतिश्चैव अथर्वाणश्च ये स्मृताः॥१२५॥
श्येनश्चैवैवमग्निश्च तथेळा चैव या स्मृता।
विधातेन्दुरहिर्बुध्न्यः सोमोऽहिरथ चन्द्रमाः॥१२६॥
विश्वानरश्च वै देवो रुद्राणां संस्तुतो गणः।
मरुतोऽङ्गिरसश्चैव पितरश्चर्भुभिः सह॥१२७॥
राका वाक्सरमाप्त्याश्च भृगवोऽघ्न्या सरस्वती।
यम्युर्वशी सिनीवाली पथ्या स्वस्तिरुषाः कुहूः॥१२८॥
पृथिव्यनुमतिर्धेनुः सीता लाक्शा तथैव गौः।
गौरी च रोदसी चैव इन्द्राण्याश्चैष वै पतिः॥१२९॥
डन्दस्त्रिष्टुप् च पङ्क्तिश्च लोकानां मध्यमश्च यः।
एतेष्वेवाश्रयो विद्यात्सवनं मध्यमं च यत्॥१३०॥
ऋतू च ग्रीष्महेमन्तौ यच्च समोच्यते बृहत्।
शक्वरीषु च् यद्गीतं नाम्ना तत्साम शाक्वरम्॥१३१॥
॥ इति बृहद्देवतायां प्रथमोऽध्यायः॥
॥ द्वितीयोऽध्यायः॥
आह चैवास्य द्वौ स्तोमावाश्रयौ शाकटायनः।
यश्च पञ्चदशो नाम्ना सङ्ख्यया त्रिणवश्चयः॥१॥
संस्तुतश्चैव पूष्णा च विष्णुना वरुणेन च।
सोमवाय्वग्निकुत्सैश्च ब्रह्मणस्पतिनैव च॥२॥
बृहतस्पतिना चैव नाम्ना यश्चापि पर्वतः।
कासुचित्केचिदित्याहुर्निपाता स्तुतिषु स्तुताः॥३॥
मिश्रश्च श्रूयते देवो वरुणेन सहासकृत्।
रुद्रेण सोमः पूष्णा च पुनः पूषा च वायुना॥४॥
वातेनैव च पर्जन्यो लक्ष्यतेऽन्यत्र वै क्वचित्।
ऋक्ष्वर्धर्चेषु पादेषु सूक्तेष्वेषु तु कृत्स्नशः॥५॥
रसादानं तु कर्मास्य वृत्रस्य च निबर्हणम्।
स्तुतेः प्रभुत्वम् सर्वस्य बलस्य निखिला कृतिः॥६॥
इत्यैन्द्रो मध्यमस्थानो गनः सम्युगुदाहृतः।
यः परस्तु गनः सौर्यो द्युस्थानस्तम् निबोधत॥७॥
तस्य मुख्यतमौ देवावश्विनौ सूर्यमाश्रितौ।
वृषाकपायि सूर्योषाः सूर्यस्यैव तु पत्नयः॥८॥
अमुतोऽर्वाङ्निवर्तन्ते प्रतिलोमास्तदाश्रयाः।
पुरोदयात्तामुषसं सूर्यां मध्यन्दिने स्थिते॥९॥
वृषाकपायीं सूर्यस्य कामेवाहुस्तु निम्रुचि।
तस्याश्रये सरण्यूश्च भगः पूषा वृषाकपिः॥१०॥
यमो वैश्वानरो विष्णुर्वरुणश्चैकपादजः।
पृथिवी च समुद्रश्च देवाः सप्तर्षयश्च ये॥११॥
आदित्याः केशिसाध्याश्च सविता वसुभिर्मनुः।
दध्यङ्ङथर्वा विश्वे च वाजिनो देवपत्नयः॥१२॥
असौ तृतीयं सवनं लोकः साम च रैवतम्।
वैरूपं चैव वर्षाश्च शिशिरोऽथ ऋतुस्तथा॥१३॥
त्रस्त्रिंशश्च यः स्तोमः क्लृप्त्या सप्तदशश्च यः।
छन्दश्च जगती नाम्ना कथातिछन्दसश्च याः॥१४॥
पौरुषं चाहुरस्यैतत्सर्वमेव तु पौरुषम्।
एतस्यैव तु विज्ञेया देवाह् संस्तविकास्त्रयः॥१५॥
चन्द्रमाश्चैव वायुश्च यं च संवत्सरम् विदुः।
केचित्तु निर्वपन्त्यस्य सौर्यवैश्वानरम् हविः॥१६॥
सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते।
ऋगर्धचोऽथवा पादो द्वृचो वा यदि वा तृचः॥१७॥
अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः।
सूर्यवैश्वानराग्नीनामैकात्म्यमिह दृश्यते॥१८॥
हरणं तु रसस्यै तत्कर्मामुत्र च रश्मिभिः।
येन नातिविजानन्ति सर्वभूतानि चक्षुषा॥१९॥
विभागमिममेतेषां विभूतिस्थानसम्भवम्।
सम्यग्विजानन्मन्त्रेषु तम् तु कर्मसु योजयेत्॥२०॥
अध्यापयन्नधीयानो मन्त्रं चैवानुकीर्तयन्।
स्थानं सालोक्यं सायुज्यमेतेषामेव गच्छति॥२१॥
अग्नेस्तु यानि सूक्तानि पञ्च नामानि कारवः।
षड्विंशतिस्तथेन्द्रस्य प्राहुः सूर्यस्य सप्त च॥२२॥
तेषां पृथङ्निर्वचनमेकैकस्येह कर्मजम्।
उच्यमानं यथान्यामं शृणुध्वमखिलं मया।। २३॥
जातो यदग्रे भुतानामग्रणीरध्वरे च यत्।
नाम्ना संनयते वाङ्गं स्तुतोऽग्निरिति सूरिभिः॥२४॥
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा।
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम्॥२५॥
अयं तनूनपादग्निरसौ हि तननात्तनुः।
ततस्तु मध्यमो जज्ञे स्थानेऽयं मध्यमात्ततः॥२६॥
अनन्तरां प्रजामाहुर्नपादिति कृपण्यवः।
नपादमुष चैवायमग्निस्तेन तनूनपात्॥२७॥
पृथक्त्वेन समासैस्तु यज्ञे यच्छस्यते नृभिः।
स्तुवन्त्याप्रीषु तेनेमं नराशम्सं तु कारवः॥२८॥
पुनाति यदिदम् विश्वमेवाग्निः पार्थिवोऽथ च।
वैखानसर्षिभिस्तेन पवमान इति स्तुतः॥२९॥
भूतानि वेद यज्जातो जातवेदाथ कथ्यते।
यच्चैष जातविद्योऽभूद्वित्तं जातोऽधिवेत्ति वा॥३०॥
विद्यते सर्वभुतैर्ह यद्वा जातः पुनः पुनः।
तेनैष मध्यभागेन्द्रो जातवेदा इति स्तुतः॥३१॥
अणिष्ठ एष यत्तु त्रीन्व्याप्यैको व्योम्नि तिष्थति।
तेनैनम्रुषयोऽर्चन्तः कर्मना वायुमब्रुवन्॥३२॥
त्रीणीमान्यावृणोत्येको मूर्तेन तु रसेन यत्।
तयैनं वरुणं शक्त्या स्तुतिष्वाहुः क्रुपण्यवः॥३३॥
अरोदीदन्तरिक्षे यद्विद्युद्वृष्टिं ददन्नृणाम्।
चतुर्भिरृषिभिस्तेन रुद्र इत्यभिसंस्तुतः॥३४॥
चतुर्विधानां भूतानां प्राणो भूत्वा व्यवस्थितः।
ईष्टे चैवास्य सर्वस्य तेनेन्द्र इति स स्मृतः॥३५॥
इरां दृणाति यत्काले मरुद्भिः सहितोऽम्बरे।
रवेण महता युक्तस्तेनेन्द्रमृषयोऽब्रुवन्॥३६॥
यदिमां प्रार्जयतेको रसेनांबरजेन गाम्।
कालेऽत्रिरौर्वशश्चर्षी तेन पर्जन्यमाहतुः॥३७॥
तर्पयत्येष यल्लोकाञ्जन्यो जनहितश्च यत्।
परो जेता जनयिता यद्वाग्नेयस्ततो जगौ॥३८॥
ब्रुहन्तौ पाति यल्लोकावेष द्वौ मध्यमोत्तमौ।
ब्रुहता कर्मणा तेन बृहस्पतिरितीळितः॥३९॥
ब्रह्म वाग्ब्रह्म सत्यम् च ब्रह्म सर्वमिदं जगत्।
पातारं ब्रह्मणस्तेन शौनहोत्रः स्तुवञ्जगौ॥४०॥
अन्नं क्षितिभ्यो विदधद्यदृतुष्वविशत्क्षितौ।
तेनैनमाह क्षेत्रस्य वामदेवः स्तुवन्पतिम्॥४१॥
मनसेमं तु यद्दृश्यं मध्यमं लोकमाश्रितम्।
शम्सत्सत्येन सत्ये वै स एष स्तुतवानृतम्॥४२॥
रवेणान्तारसैः क्षिप्तैः स्थितो व्योम्न्येष मायया।
ऋतस्य श्लोक इत्येष पुनश्चैनं ततोऽब्रवीत्॥४३॥
वास्तु प्रयच्छंल्लोकस्य मध्यमः स तु पाति यत्।
तेन वास्तोष्पतिं प्राह चतुर्भिरिममौर्वशः॥४४॥
वाचा वेदा ह्यधीयन्ते वाचा छन्दाम्सि तत्र ह।
अथो वाक्सर्वमेवेदं तेन वाचस्पतिः स्तुतः॥४५॥
न कुतश्चन यद्दीनो वृत्वा तिष्ठति मध्यमः।
राहूगण ऋषिस्तेन प्राहैनं गोतमोऽदितिम्॥४६॥
प्रजाभ्यस्त्वेष यच्छर्म कमिच्छन्मनसा सुखम्।
हिरण्यगर्भस्तेनैनमृशिरर्चन्नुवाच कम्॥४७॥
इह प्रजाः प्रयच्छन्स सङ्गृहीत्वा प्रयाति च।
ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम्॥४८॥
मित्रीकृत्य जना विश्वे यदिमं पर्युपासते।
मित्र इत्याह तेनैनं विश्वामित्रः स्तुवन्स्वयम्॥४९॥
निदाघमासातिगमे यदृतेनावति क्षितिम्।
विश्वस्य जनयन्कर्म विश्वकर्मैष तेन सः॥५०॥
सरांसि घृतवन्त्यस्य सन्ति लोकेषु यत्तिषु।
सरस्वन्तमिति प्राह वाचं प्राहुः सरस्वतीम्॥५१॥
प्राणभूतस्तु भूतेषु यद्वेनत्येषु तिष्ठति।
तेनैनं वेनमाहर्षिर्वेनो नामेह भार्गवः॥५२॥
ससृजे मासि मास्येनमभिमत्य तपोऽग्रजम्।
तेनैनं मन्युरित्याह मन्युरेव तु तापसः॥५३॥
यदन्तकाले भुतानामेक एव नयत्यसून्।
तेनासुनीतिरुक्तोऽयं स्तुवता श्रुतबन्धुना॥५४॥
निदाघमासातिगमे जन्म मध्ये भवत्यपाम्।
नप्तारमाह तेनैनमृषिर्गृत्समदः स्तुवन्॥५५।
अपामम्बरगर्भौघमादधत्सोऽष्टमासिकम्।
तत्क्रन्दत्यसकृन्मध्ये धधिक्रास्तेन कथ्यते॥५६॥
मासेन सम्भृतं गर्भं नवमेनाथ मासिकम्।
स्वयं क्रन्दन्दधात्युर्व्यां धातेत्यृग्भिः स गीयते॥५७॥
स्तीर्णेऽन्तरिक्षे क्षियति यद्वा तूर्णं क्षरत्यसौ।
अरिष्टनेमिसार्क्ष्यर्षिस्तार्क्ष्यं तेनैवमुक्तवान्॥५८॥
रुवन्व्योम्न्युदयं याति कृन्तत्राद्विसृजन्नपः।
पुरूरवसमाहैनम् स्ववाक्येनोरुवासिनी॥५९॥
यत्तु प्रच्यावयन्नेति घोषेण महता मृतम्।
तेन मृत्युमिमं सन्तं स्तौति मृत्युरिति स्वयम्॥६०॥
नाम्ना सङ्कुसुको नाम यमपुत्रो जघन्यजः।
संवर्तयंस्तमः सूर्यादुषसं च प्रवर्तयन्॥६१॥
दिवाकरम् प्रसौतेकः सविता तेन कर्मणा।
उदितो भासयंल्लोकानिमांश्चैष स्वरश्मिभिः । स्वयं वसिष्ठस्तेनैनम्रुषिराह स्तुवन्भगम्॥६२॥
पुष्यन् क्षितिं पोषयति प्रणुदन्रश्मिभिस्तमः।
तेनैनमस्तौत्पूषेति भरद्वाजस्तु पञ्चभिः॥६३॥
त्रीणि भान्ति रजांस्यस्य यत्पदानि तु तेजसा।
तेन मेधातिथिः प्राह विष्णुमेनं त्रिविक्रमम्॥६४॥
क्रुत्वा सायं पृथग्याति भूतेभ्यस्तमसोऽत्यये।
प्रकाशं किरणैः कुर्वंस्तेनैनं केशिनंविदुः॥६५॥
संप्रत्येकैकशस्त्वेनं यन्मन्यन्ते पृथङ्नराः।
विश्वी विश्वानरस्तेन कर्मना स्तुतिषु स्तुतः॥६६॥
वृषैष कपिलो भूत्वा यन्नाकमधिरोहति। वृषाकपिरसौ तेन विश्वस्मादिन्द्र उत्तरः।
रश्मिभिः कम्पयन्नेति वृषा वर्षिष्ठ एव सः।।६७॥
सायह्नकाले भुतानि स्वापयन्नस्तमेति यत्।
वृषाकपिरितो वा स्यादिति मन्त्रेषु दृश्यते।
त्रिषु धन्वेति हीन्द्रेण प्रयुक्तो वारिषाकपे॥६८॥
विष्णातेर्विशतेर्वा स्याद्वेवेष्टेर्व्याप्तिकर्मणः।
विष्णुर्निरुच्यते सूर्यः सर्वं सर्वान्तरश्च यः॥६९॥
पञ्च षड्विंशतिश्चैव यानि नामानि सप्त च।
सम्यगग्नीन्द्रसूर्याणां तान्युक्तानि यथाक्रमम्॥७०॥
नैपातिकानां नाम्नां तु प्रागुक्तैर्नामलक्षणैः।
सम्पन्नानां पृथक्त्वेन परिसङ्ख्या न विद्यते॥७१॥
पार्थिवी मध्यमा दिव्या वागपि त्रिविधा तु या।
तस्याः सूक्तानि नामानि यथास्थानं निबोधत॥७२॥
कृत्स्नन्तु भजते सूक्तमेषा नद्यः स्तुता भुवि।
यदा चैनं भजन्त्यापो यदा चौषधयो यदा॥७३॥
अरण्यानी च रात्री च श्रद्धा चोषाः सरस्वती।
पृथिवी चैव नामैषा भूत्वाप्वर्चं भजन्ति च॥७४॥
अग्नायी नामतोऽप्येषा भुत्वाग्नेयेशु केषुचित्।
स्तुता निपातमात्रेन तत्र तत्रेह दृश्यते॥७५॥
मध्ये सत्यदितिर्वाक्च भुत्वा चैषा सरस्वती।
समग्रं भजते सूक्तम् त्रिभिरेव तु नामभिः॥७६॥
एषैव दुर्गा भूत्वर्चं कृत्वा स्यात्सूक्तभागिनी।
तन्नामानि यमीन्द्राणी सरमा रोमतोर्वशी। भवत्यग्र्या सिनीवाली राका चानुमतिः कुहूः॥७७॥
गौर्धेनुर्देवपत्न्योऽघ्न्या पथ्या स्वस्तिश्च रोदसी।
नैपातिकानि ऋग्भाञ्जि येषां नामानि कानिचित्॥७८॥
यदा तु वाग्भवत्येषा सूर्यामुं लोकमाश्रिता।
तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम्॥७९॥
वृषाकपाय्यृचं भुत्वा सरण्यूर्द्वे च ते ध्रुवम्।
निपातमात्रं भजते द्युवच्च पृथिवी सती॥८०॥
सूर्यामेव सतीमेतां गौरीं वाचं सरस्वतीं।
पश्यामो वैश्वदेवेषु निपातेनैव केवलाः॥८१॥
घोषा बोधा विश्ववारा अपालोपनिषन्निषत्।
ब्रह्मजाया जुहूर्नाम अगस्त्यस्य स्वसादितिः॥८२॥
इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी।
लोपामुद्रा च नद्यश्च यमी नारी च शाश्वती॥८३॥
श्रीर्लाक्शा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा।
रात्री सूर्या च सावित्री ब्रह्मवादिन्यः ईरिताः॥८४॥
नवकः प्रथमस्त्वासां वर्गस्तुष्टाव देवताः।
ऋषिभिर्देवताभिश्च समूदे मध्यमो गनः॥८५॥
आत्मनो भाववृत्तानि जगौ वर्गस्तथोत्तमः।
उत्तमस्य तु वर्गस्य य ऋषिः सैव देवता॥८६॥
आत्मानमस्तौद्वर्गस्तु देवतां यस्तथोत्तमः।
तस्मादात्मस्तवेषु स्याद्य ऋशिः सैव देवता।। ८७॥
संवादेष्वाह वाक्यम् यः स तु तस्मिन्भवेदृशिः।
यस्तेनोच्येत वाक्येन देवता तत्र सा भवेत्॥८८॥
उच्चावचेषु चार्थेषु निपाताः समुदाहृताः।
कर्मोपसङ्ग्रहार्थे च क्वचिच्चौपम्य कारणात्॥८९॥
ऊनानां पूरणार्था वा पादानामपरे क्वचित्।
मिताक्षरेषु ग्रन्थेषु पूरणार्थास्त्वनर्थकाः॥९०॥
कमीमिद्विति विज्ञेया ये त्वनेकार्थकाश्च ते।
इव न चिन्नु चत्वार उपमार्था भवन्ति ते॥९१॥
उपमार्थे नकारस्तु क्वचिदेव निपात्यते।
मिताक्शरेषु ग्रन्थेषु प्रतिषेधे त्वनल्पशः॥९२॥
इयन्त इति सङ्ख्यानं निपातानां न विद्यते।
वशात्रकरणस्यैते निपात्यन्ते पदे पदे॥९३॥
उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः।
विवेचयन्ति ते ह्यर्थं नामाख्यातविभक्तिषु॥९४॥
अच्छ श्रदन्तरित्येतानाचार्यः शकटायनः।
उपसर्गान् क्रियायोगान्मेने ते तु त्रयोऽधिकाः॥९५॥
त्रिण्येव लोके लिङ्गानि पुमान् स्त्री च नपुंसकम्।
नामसूक्तप्रयोगेषु वाच्यं प्रकरनं तथा॥९६॥
तेषां तु नामभिर्लिङ्गैर्ग्रहणं सर्वनामभिः।
कृताकृतस्य सदृशो गृहीतस्य पुनर्ग्रहः॥९७॥
पाद सूक्त ऋगर्धर्चनामान्यन्यानि यानि च।
सर्वे नामानि चैवाहुरन्ये चैवं यथा कथा॥९८॥
प्रधानमर्थः शब्दो हि तद्गुणायत्त इष्यते।
तस्मान्नानान्वयोपायैः शब्दानर्थवशं नयेत्॥९९॥
अतिरिक्तं पदं त्याज्यम् हीनं वाक्ये निवेशयेत्।
विप्रकृष्टम् च सन्दध्यादानुपूर्वीं च विकल्पयेत्॥१००॥
लिङ्गं धातुम् विभक्तिं च सन्नमेत्तत्र तत्र च।
यद्यस्माच्छान्दसं मन्त्रे तत्तत्कुर्यात्तु लौकिकम्॥१०१॥
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत्।
अर्थश्चाप्यभिधेयः स्यात्तावद्भिर्गुणविग्रहः॥१०२॥
धातूपसर्गावयवगुणशब्दं द्विधातुजम्।
बह्वेकधातुजं वापि पदं निर्वाच्यलक्षणम्॥१०३॥
धातुजं धातुजाज्जातं समस्तार्थजमेव वा।
वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम्॥१०४॥
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः॥१०५॥
विग्रहान्निर्वचः कार्यं समासेष्वपि तद्धिते।
प्रविभज्यैव निर्बूयाद्दण्डार्हो दण्ड्य इत्यपि॥१०६॥
भार्या रूपवती चास्य रूपवद्भार्य इत्यपि।
इन्द्रश सोमशेत्येवमिन्द्रासोमौ निदर्शनम्॥१०७॥
शब्दरूपं पदार्थश्च व्युत्पत्तिः प्रकृतिर्गुणः।
सर्वमेतदनेकार्थं दशानवगमे गुणाः॥१०८॥
सामान्यवाचिनः शब्दा विशेषे स्थापिताः क्विचित्।
पलायने यथा वृत्तिः को नु मर्या इतीषते॥१०९॥
विशेषवाचिनस्त्वन्ये सामान्ये स्थापिताः क्वचित्।
हिमेनाग्निमिति मन्त्रे हिमशब्दो निदर्शनम्॥११०॥
पदमेकं समादाय द्विधा कृत्वा निरुक्तवान्।
पूरुषादः पदं यास्को वृक्षे वृक्ष इति त्वृचि॥१११॥
अनेकं सत्तथा चान्यदेकमेव निरुक्तवान्।
अरुणो वा सकृन्मन्त्रे माकृद्विग्रहेण तु॥११२॥
पदव्यवायेऽपि पदे एकीकृत्य निरुक्तवान्।
गर्भं निधानमित्येते न जामय इति त्वृचि॥११३॥
पदजातिरविज्ञाता त्वः पदेऽर्थः शितामनि।
स्वरानवगमोऽधायि वने नेत्य्रुचि दर्शितः॥११४॥
शुनःशेपं नराशम्सं द्यावा नः पृथिवीति च।
निरस्कृतेति प्रभ्रुतिष्वर्थादासीत्क्रमो यथा॥११५॥
वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य च।
अत्राणीति कपिर्नाभा दनो यामीत्यघासु च॥११६॥
अर्थात्पदं स्वाभिधेयं पदाद्वाक्यार्थ निर्णयः।
पदसङ्घातजं वाक्यं वर्ण सङ्घातजं पदम्॥११७॥
अर्थात्प्रकरणाल्लिङ्गादौचित्याद्देशकालतः।
मन्त्रेष्वर्थविवेकः स्यादितरेष्विति च स्थितिः॥११८॥
इति नानावयोपायैर्निरुक्ते यो यतेत सः।
जिज्ञासुर्ब्रह्मणो रूपमपि दुष्क्रुत्परं व्रजेत्॥११९॥
यथेदमग्रे नैवासीदसदप्यथवापि सत्।
जज्ञे यथेदं सर्वं तद्भाववृत्तम् वदन्ति तु।।१२०॥
भावप्रधानमाख्यातं षड्विकारा भवन्ति ते।
जन्मास्तित्वं परीणामो वृद्धिर्हानं विनाशनम्॥१२१॥
एतेषामेव षण्णां तु येऽन्ये भावविकारजाः।
ते यथावाक्यमभ्यूह्याः सामर्थ्यान्मन्त्रवित्तमैः॥१२२॥
देवानां च पितॄणां च नमस्कारैस्तथैव च।
अथ व्यस्तं समस्तं वा शृणु व्याहृति दैवतम्॥१२३॥
व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः।
व्यस्तानामयमग्निश्च वायुः सूर्यश्च देवताः॥१२४॥
वाग्देवत्योऽथवाप्यैन्द्रो यदि वा परमेष्ठिनः।
ओंकारो वैश्वदेवो वा ब्रह्मो दैवः क एव वा॥१२५॥
॥इति पीठिकाप्रकरणं समाप्तम्॥
आग्नेयं प्रथमं सूक्तं मधुच्छन्दस आर्षकम्।
ज्ञेयाः सर्वेऽन्यदेवत्यास्तृचाः सप्तात उत्तराः॥१२६॥
वायव्यः प्रथमस्त्वेषामैन्द्रवायव उत्तरः।
मैत्रावरुणोऽथाश्विनोऽप्यैन्द्रोऽतो वैश्वदेवकः॥१२७॥
तन्नामा विश्वलिङ्गो वा गायत्रोऽन्त्यस्तु यस्तृचः।
बहुदैवतमन्युत्तु वैश्वदेवेषु शस्यते॥१२८॥
लुशे दुवस्यौ शार्याते गोतमेऽथ ऋजिश्वनि।
अवत्सारे परुच्छेपे अत्रौ दीर्घतमस्यृषौ॥१२९॥
वसिष्ठे नाभानेदिष्ठे गये मेधातिथौ मनौ।
कक्षीवति विहव्ये च बहुष्वन्येष्वथर्षिषु॥१३०॥
अगस्त्ये ब्रुहदुक्थे च विश्वामित्रे च गाथिनि।
दृश्यन्ते विप्रवादाश्च तासु तासु स्तुतिष्विह॥१३१॥
बह्वीनां सन्निपातस्तु यस्मिन्मन्त्रे प्रदृश्यते।
आचारौ यास्कशाण्डिलौ वैश्वदेवं तदाहतुः॥१३२॥
पादम् वा यदि वार्धर्चमृचं वा सूक्तमेव वा।
वैश्वदेवम् वदेत्सर्वं यत्किञ्चिद्बहुदैवतम्॥१३३॥
ऋषिभिर्देवताः सर्वा विश्वाभिः स्तुतिभिः स्तुताः।
संज्ञा तु विश्वमित्येषा सर्वावाप्तौ निपातिता॥१३४॥
सारस्वतस्तु सप्तम एताः प्रौगदेवताः।
सरस्वतीति द्विविधम्रुक्षु सर्वास्युसा स्तुता॥१३५॥
नदिवद्देवतावच्च तत्राचार्यस्तु शौनकः।
नदिवन्निगमाः षट् ते सप्तमो नेत्युवाच ह॥१३६॥
अम्ब्येका च द्रुषद्वत्यां चित्र इच्च सरस्वती।
इयं शुष्मेभिरित्येतं मेने यास्कस्तु सप्तमम्॥१३७॥
पशोः सारस्वतस्यैतां याज्यां मैत्रायणीयके।
प्रधान्याद्धविषः पश्यन्वा च एवैतरोऽब्रवीत्।। १३८॥
सुरूपक्रुत्नुमित्यैन्द्रं सप्त चान्यान्यतः परम्।
षळादह स्वधामनु मारुत्योऽनन्तरा ऋचः॥१३९॥
एका वीळु चिदिन्द्राय मरुद्भिः सह गीयते।
तस्या एकान्तरायास्तु अर्धर्चोऽन्त्यो द्विदेवतः॥१४०॥
मरुद्गणप्रधानो हीत्थं चेन्द्रो विचिकित्सितः।
मन्दू समानवर्चसा मन्दुना वा सवर्चसा॥१४१॥
मन्दू इति प्रगृह्णन्ति येशामेव द्विदेवतः।
एकदेवत्यमाश्राव्यो विज्ञायाध्ययनाप्तदम्॥१४२॥
रोदसी देवपत्नीनामथर्वाङ्गिरसे यथा।
मरुद्गणप्रधानेयमाचार्याणां स्तुतिर्मता॥१४३॥
मरुद्गणप्रधानत्वादिन्द्रस्तु विचिकित्सितः।
मरुद्गनं महेन्द्रस्य समांशं सकलंविदुः॥१४४॥
अग्निमित्यग्निदैवत्यं पादस्तत्र द्विदेवतः।
निर्मथ्याहवनीयार्थावग्निनाग्निः समिध्यते॥१४५।।
द्वितीये द्वादशर्चे तु प्रत्यृचं यास्तु देवताः।
स्तूयन्ते ह्यग्निना सार्धं तासां नामानि मे शृणु॥१४६॥
प्रथमायां स्तुतश्चेध्मो द्वितीयायां तनूनपात्।
नराशंसस्तृतीयायां चतुर्थ्यां स्तूयते त्विळः॥१४७॥
बर्हिरेव तु पञ्चम्यां द्वारो देव्यस्ततोऽन्यया।
नक्तोषासा तु सप्तम्यामष्टम्यां संस्तुतौ सह॥१४८॥
दैव्याविति तु होतारौ नवम्यामृचि संस्तुताः।
तिस्रो देव्यो दशम्यां तु ज्ञेयस्त्वष्टैव तु स्तुतः॥१४९॥
एकादश्यां तु सूक्तस्य स्तुतम् विद्याद्वनस्पतिम्।
द्वादश्यां तु स्तुता देवीर्विद्यात्स्वाहाकृतीरिति॥१५०॥
सूक्तेऽस्मिन्प्रत्यृचं यास्तु देवताः परिकीर्तिताः।
ता एव सर्वास्वाप्रीषु द्वितीया तु विकल्पते॥१५१॥
प्रैषैः सहाप्रीसूक्तानि तान्येकादश सन्ति च।
यजूंषि प्रैषसूक्तं वा दशैतानीतराणि तु॥१५२॥
सौत्रामणानि तु त्रीणि प्राजापत्याश्वमेधिके।
पुरुषस्य तु यन्मेधे यजुःष्वेव तु तानि षट्॥१५३॥
अत्रैव प्रैषसूक्तं स्यान्न यजुःष्वाद्रियेत तत्।
तेषां प्रैषगतं सूक्तं यच्च दीर्घतमा जगौ॥१५४॥
मेधातित्यौ यदुक्तं च त्रीण्येवोभयवन्ति तु।
ऋषौ गृत्समदे यच्च वाध्र्यश्वे च यदुच्यते॥१५५॥
नराशम्सवदत्रेश्च ददर्श च यदौर्वशः।
तनूनपादगस्त्यश्च जमदग्निश्च यज्जगौ॥१५६॥
विश्वामित्र ऋषिर्यच्च जगौ वै काश्यपोऽसितः।
मेधातिथेरृचां यास्तु प्रोक्ता द्वादश देवताः॥१५७॥
सम्पद्यन्ते यथाग्निं ताः सम्पदम् तां निबोधत।
इध्मो यः सर्वमेवाग्निरयं हीध्मः समिध्यते॥ ध्मातेर्वैतत्कृतं रूपं ध्मातो हीध्मः समिध्यते ध्मातो हीध्मः समिध्यते॥१५८॥
॥ इति बृहद्देवतायां द्वितीयोऽध्यायः॥
॥बृहद्देवतायां तृतीयोऽध्यायः॥
तनूनपादयम् त्वेव नाम्ना यच्छत्यसौ तनुम्।
नपादिति प्रजामाहुरमुतोऽस्य च सम्भवम्॥१॥
नराशंसमिहैके तु अग्निमाहुरथेतरे।
नराः शम्सन्ति सर्वेऽस्मिन्नासीना इति वाध्वरे॥२॥
एतमेवाहुरन्येऽग्निं नराशंसोऽध्वरे ह्ययम्।
नरिः प्रशस्य आसीनैराहुश्चैवर्त्विजो नरः॥३॥
इळस्त्वृषिकृतं रूपमीडेश्च स्तुतिकर्मणः।
इळावांस्तेन वोक्तोऽग्निरिडिना वर्द्धिकर्मना॥४॥
बर्हिरेवायमग्निस्तु सर्वं हि परिब्रुंहितम्।
अनेन यद्धुतो वा सन्निध्मेन परिबृंहितः॥५॥
द्वारस्तु देव्यो याः प्रोक्ता विश्वेषां तास्तु पत्नयः।
अग्नायीमनुवर्तन्ते तथाग्नाय्यग्निमेव च॥६॥
अग्नौ ध्रुवं स्थितास्तास्तु संस्तूयन्तेऽग्निना सह।
प्राधान्यं तासु चैवाग्ने स्तुतिष्वेव हविःषु च॥७॥
नक्तोषासौ च ये देव्यावाग्नेय्यावेव ते स्मृते।
श्याव्याग्नेयी हि कालस्य तस्यैवोषाः कलेव तु॥८॥
तम उच्छत्युषा नक्तानक्तीमां हिमबिन्दुभिः।
अपि वाव्यक्तवर्णेति नञ्पूर्वाञ्चेरिदं भवेत्॥९॥
सा हि दोषा भवत्यादौ निशीथे सा तमस्वती।
नाम्ना भवत्युषाश्चैव सैषा प्रागुदयाद्रवेः॥१०॥
दैव्याविति तु होतारावाग्नी पार्थिवमध्यमौ।
दिव्यादग्नेर्हि जज्ञाते दैव्यौ तेनेह जन्मना॥११॥
तिस्रस्तु देव्यो याः प्रोक्तास्त्रिस्थानैवेह सा तु वाक्।
त्रिविधेनोच्यते नाम्ना ज्योतिःषु त्रिषु वर्तनी॥१२॥
अग्निमेवानुगेळा तु मध्यं प्राप्ता सरस्वती।
अमुं स्थिताधि लोकं तु भारती भवति ह्यसौ॥१३॥
सैषा तु त्रिविधा वाग्वै दिवि च व्योम्नि चेह च।
व्यस्ता चैव समस्ता च भजत्यग्नीनिमानपि॥१४॥
त्वष्टा तु यस्त्वयमेव पार्थिवोऽग्निरिति स्तुतिः।
पार्थिवस्यास्य वर्चः स्युः कस्याप्यृक् चार्तवेषु च॥१५॥
त्विषितस्त्वक्षतेर्वा स्यात्तूर्णमश्नुत एव वा।
कर्मसूत्तारणो वेति तेन नामैतदश्नुते॥१६॥
यः सहस्रतमो रश्मी रवेश्चन्द्रमुपाश्रितः।
सोऽपि त्वष्टारमेवाग्निं परं चेह च यन्मधु॥१७॥
प्रादाद्ब्रह्मापि सुप्रीतः सुताय तदथर्वणः।
स चभावदृषिस्तेन ब्रह्मना दीप्तिमत्तरः॥१८॥
तमृषिं निषिपेध्र्न्द्रो मैवं वोचः क्वचिन्मधु।
न हि प्रोक्ते मधुन्यस्मिञ्जेवन्तं त्वोत्सृजाम्यहम्॥१९॥
तमृषिं त्वश्विनौ देवौ विविक्ते मध्वयाचताम्।
स च ताभ्यां तदाचष्टे यदुवाच शचीपतिः॥२०॥
तमब्रूतां तु नासत्यावाश्व्येन शिरसा भवान्।
मध्वाशु ग्राहयत्वावां मेन्द्रश्च त्वा वधित्ततः॥२१॥
आश्व्येन शिरसा तौ तु दध्यङ्ङाह यदश्विनौ।
तदस्येन्द्रोऽहरत्स्वं तन्न्यधत्तामस्य यच्छिरः॥२२॥
दधीचश्च शिरश्चाश्व्यं कृत्तं वज्रेन वज्रिना।
पपात सरसो मध्ये पर्वते शर्यणावति॥२३॥
तदद्भ्यस्तु समुत्थाय भूतेभ्यो विविधान्वरान्।
प्रादाय युगपर्यन्तं तास्वेवाप्सु निमज्जति॥२४॥
त्वष्टा रूपविक्रता च योऽसौ माध्यमिके गणे।
स्तुतः स च निपातेन सूक्तं तस्य न विद्यते॥२५॥
वनस्पतिं तु यं प्रहुरयं सोऽग्निर्वनस्पतिः।
अयं वनानां हि पतिः पाता पालयेतीति वा॥२६॥
अग्निर्गृत्समदेनायं वनस्पतिरितीळितः।
मन्दस्वेत्यस्य सूक्तस्य षळृचस्य तृतीयया॥२७॥
यूपवत्तरुवच्चैव स्तुतिर्यास्य प्रसङ्गजा।
सर्वेणाञ्जन्तिसूक्तेन तृतीये सा तु मण्डले॥२८॥
स्वाहाकृतयोऽनेकाश्च विदुषां मतयोऽभवन्।
तत्सर्वं त्वयमेवाग्निर्भवतीति विनिश्चयः॥२९॥
अयं हि कर्ता स्वाहानां कृतिस्तासामिहैकजा।
अयं प्रसूतिर्भूतानां सर्वेषामयमव्ययः॥३०॥
तनूनपाद्द्वितीया च नाराशंसवती च या।
समस्येते प्रयोक्तव्ये त्रिष्वेवोभयवत्सु तु॥३१॥
नराशंसवती वा स्याद्द्वितीया च प्रजार्थिनाम्।
बलकामोऽन्नकामो वा भूतिमिच्छेदथापि यः॥३२॥
आग्नेयं सूक्तमेभिर्यद्वैश्वदेवमिहोच्यते।
तद्विश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते॥३३॥
इन्द्र सोमं पिबेतीदं यद्द्वादशकमार्तवम्।
तस्मिन्सहर्तुना सप्त प्रत्यृचं स्तौति देवताः॥३४॥
तत्रर्तुनेति षट्स्वृक्षु चतसृष्वृतुभिः सह।
पुनर्द्वयोरृतुनेति बहुत्वैकत्वलक्षिताः॥३५॥
ऋतवो देवताभिश्च निपातेनेह संस्तुताः।
तथर्तुप्रैषसूक्ते च तथा गार्त्समदेऽपि च।। ३६॥
मुख्यया त्विन्द्रमेवास्तौन्मरुतस्तु द्वितीयया।
तृतीयया तु त्वष्टारं चतुर्थ्या चाग्निमेव च॥३७॥
पञ्चम्या तु पुनः शक्रं षष्ठ्या देववृतावैधौ।
सप्तम्याद्याभिरग्निं च चतुर्भिर्द्रविणोदसम्॥३८॥
आदेशाद्दैवतं ज्ञेयमृङ्मन्त्रानां न लिङ्गतः।
न शक्यं लिङ्गतो ह्यासां ज्ञातुं तत्त्वेन दैवतम्॥३९॥
एकादश्या तु नासत्यौ द्वाश्याग्निमिमं पुनः।
पृथक्पृथक्त्सुतीदं तु सूक्तमाह रथीतरः॥४०॥
हबुदैवे द्विदैवे वा गुणैर्वा यत्र कर्मजैः।
स्तूयते देवतैकैका विभक्तस्तुति तद्विदुः॥४१॥
वैश्वदेवानि सूक्तानि त्रिविधानि भवन्ति तु।
सूर्यसंस्तवसंयुक्तं विश्वलिङ्गं प्रुथक्स्तुति॥४२॥
पृथक्स्तुतीति यत्प्रोक्तं तद्विध्याद्बहुदैवतम्।
विश्वलिङ्गं तु तद्यत्र विश्वैः स्वैः कर्मजैर्गुणैः॥४३॥
विश्दानुद्दिश्य यद्देवान् स्तौति सूर्यमनेकधा।
देवानेवाभिसंस्तौति तं प्राहुः सूर्यसंस्तवम्॥४४॥
न तु भागस्य सूक्तादौ सूक्तेष्वेवौष सेषु वा।
न सावित्रे ह्वयामीति न सूर्यायां क्रतौ मुखे॥४५॥
न चैववं प्रवादेषु मन्त्रेष्वन्येषु केषुचित्।
न च यत्र सजोषेति पदं वा स्यात्सजूरिति॥४६॥
यस्मिन्प्रसङादपि तु बह्वीनां परिकीर्तनम्।
वैश्वदेवं तदप्याह स्थविरो लामकायनः॥४७॥
असंस्तुतं स्तुतं वापि प्रदिष्टम् दैवतं क्विचित्।
मन्त्रैस्तदृषयोऽर्चन्ति तां तु बुध्येत शास्त्रवित्॥४८॥
आदौ हि मध्ये चान्ते च पृथक्त्वेषु च कर्तृभिः।
कर्माण्यनपदिष्टानि प्रदिष्टान्यपि तु क्वचित्॥४९॥
कर्मैव तावित्सावित्र्यां निविदि स्तौति कर्मणा।
यद्धेनुः सप्त्यनड्वाहौ वोळ्हा दोग्ध्र्याशुरेव वा॥५०॥
भागे यत्स्तौति चाग्न्यादिन्मित्रादींश्चाश्वसंस्तुतौ।
यदैभिरिति चैतस्मिन्वैश्वदेवेग्निमर्चति॥५१॥
तदाहुरादावन्ते च प्रायशोऽन्या स्तुवन्नृचः।
प्रतियोगात्प्रसङ्गाद्वा स्तौत्यन्यामपि देवताम्॥५२॥
यस्यां वदत्यर्थवादान्सा ज्ञेया सूक्तभागिनी।
यान्तु स्तौतु प्रसङ्गेन सा विज्ञेया निपातिनी॥५३॥
चतुर्धा भण्यते तस्मिन्सूक्ते वा सूक्तभागिनी।
यस्मिन्सर्वांस्तु राजर्षीनृषीन्वापि स्तुवन्नृषिः॥५४॥
मेधातिथिरगस्त्यस्तु बृहदुक्थो मनुर्गयः।
ऋजिश्वा वसुकर्णश्च शार्यातो गोतमो लुशः॥५५॥
स्वस्त्यात्रेयः परुच्छेपः कक्षीवान् गाथिनौर्वशौ।
नाभाकश्चैव निर्दिष्टो दुवस्युर्ममतासुतः॥५६॥
विहव्यः कश्यप ऋषिरवत्सारश्च नाम यः।
वामदेवो मधुच्छन्दाः पार्थो दक्षसुतादितिः॥५७॥
जुहूर्गृत्समदश्चर्षिर्देवाः सप्तर्षयश्च ये।
यमोग्निस्तापसः कुत्सः कुसीदी त्रित एव च॥५८॥
बन्धुप्रभृतयश्चैव चत्वारो भ्रातरः पृथक्।
विष्णुश्च नेजमेषश्च नाम्ना संवननश्च यः॥५९॥
एते तु सर्व एवास्य विश्वैः स्वैः कर्मजैर्गुणैः।
समस्तैरथ च व्यस्तैः पृथक्सूक्तेषु तुष्तुवुः॥६०॥
पार्थिवो द्रविणोदोऽग्निः पुरस्ताद्यस्तु कीर्ततः।
तमाहुरिन्द्रम् दातृत्वादेके तु बलवित्तयोः॥६१॥
अयं हि द्रविणॊदोऽग्निरयम् दाता बलस्य हि।
जायते च बलेनायं मथ्यत्यृषिभिरध्वरे॥६२॥
हवींषि द्रविणम् प्राहुर्हविषो यत्र जायते।
दातारश्चर्त्विजस्तेषां द्रविणोदास्ततः स्वयम्॥६३॥
ऋषीणां पुत्र इत्येषां दृश्यते सहसो यहो।
मध्यमाद्वा यतो जज्ञे तस्माद्वा द्राविणोदसः॥६४॥
द्रविणोदोऽग्निरेवायं द्रविणोदास्तदोच्यते।
आग्नेयेष्वेव दृश्यन्ते प्रवादा द्रविणोदसः॥६५॥
ऐन्द्रस्य नवकस्येह यदैन्द्रावरुणं परम्।
तस्योत्तरं च सोमानं स्तूयते ब्रह्मणस्पतिः॥६६॥
ऋग्भिः पञ्चभिराद्याभिस्तिसृभिः सदसस्पतिः।
नराशम्सोऽन्त्यया चर्चा सोमेन्द्रौ तु निपातितौ॥६७॥
चतुर्थ्यां सोम इन्द्रश्च पञ्चम्यां दक्षिणादिका।
प्रसङ्गाद्रुषिणा प्रोक्ताः सम्बन्धाह् स्थानलोकयोः॥६८॥
प्राजापत्यं तथेन्द्रः स्यादिति तस्येह नामनी।
कथिते द्वे च षट् चान्यान्येशां चाद्यः प्रजापतिः॥६९॥
शिष्टानि यानि नामानि तानि वक्ष्याम्यतः परम्।
सत्पतिः कश्च कामश्च सदसस्पतिरेव च॥७०॥
इळस्पतिर्वाचस्पतिस्ततस्तु ब्रह्मणस्पतिः।
तृतीयान्त्ये तु सूक्तस्य प्रथमम् पञ्चमं च यत्॥७१॥
चतुर्भिरितरैस्त्वेनं न सूक्तं नाप्यृगश्नुते।
सर्वाण्येवतु सर्वासाम् देवतानाम् प्रजापतेः॥७२॥
नामानि कथयन्त्येते सम्यग्भक्तिदिदृक्षवः।
तदाहुर्नैतदेवम् स्यादष्टानामेष हि स्मृतः॥७३॥
तैरेव चास्य कल्प्यन्ते क्रतवश्च हवींषि च।
मरुद्भिर्मध्यमस्थानैरयमग्निस्तु पार्थिवः॥७४॥
नवकेनेह सूक्तेन प्रति त्यमिति संस्तुतः।
मरुतां साहचर्यात्तु सूक्तेऽस्मिन्नाग्निमारुते॥७५॥
मन्यते मध्यमम् चैव यास्कोऽग्निं न तु पार्थिवम्।
स्यादयं पार्थिवस्त्वेव तथा रूपं हि दृश्यते॥७६॥
हूयसे पीतये चेति वैद्युते न तदस्ति हि।
अथ स्यादभिधानस्य देवतायाः प्रुथक् पृथक्॥७७॥
ऋचोऽर्धर्चस्य पादस्य कथं ज्ञायेत दैवतम्।
यथा निविदि सावित्र्याम् सूयते कर्म कर्मना॥७८॥
दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिया।
यथा च शन्नोमित्रीया वरुणः प्राविता भुवत्॥७९॥
सूक्तप्रायेणैभिरग्ने परीक्ष्यास्तत्र देवताः।
शब्दानां द्वैपदादीनां द्विदैवबहुदैवतम्॥८०॥
असंस्तुतं संस्तुतवत्प्रदिष्टम् दैवतं क्वचित्।
यत्र द्विदैवते मन्त्र एकवद्देवतोच्यते॥८१॥
विभक्तस्तुति तद्विद्याद्बहुष्वबहुवच्च यत्।
आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवताः।
बह्व्यो ह बहुवत्तत्र द्विपदे यत्र संस्तुते॥८२॥
सुधन्वन अङ्गिरसस्यासन्पुत्रास्त्रयः पुरा।
रुभुर्विभ्वा च वाजश्च शिष्यास्त्वष्टुश्च तेऽभवन्॥८३॥
शिक्षयामास तांस्त्वष्टा त्वाष्ट्रम् यत्कर्म किञ्चन।
परिनिष्ठितकर्मानो विश्वे देवा उपाह्वयन्॥८४॥
विश्वेषां ते ततश्चक्रुर्वाहनान्यायुधानि तु।
धेनुं सबर्दुघां चक्रुरमृतम् सबरुच्यते॥८५॥
बृहस्पतेरथाश्विभ्यां रथं दिव्यं त्रिवन्धुरम्।
इन्द्राय च हरी देवप्रहितेनाग्निनापि यत्॥८६॥
एकं चमसमित्युक्ते ज्येश्थ आहेत्यधो दिवि।
उक्त्वा ततक्षुश्चमसान्यथोक्तं तेन हर्षिताः॥८७॥
त्वष्टा च सविता चैव देवदेवह् प्रजापतिः।
सर्वान्देवान्समामन्त्र्य अमृतत्वं ददुश्चते॥८८॥
तेषामाद्यान्त्ययोर्नाम्ना दृश्यते बहुवत्स्तवः।
तृतीयसवने तेषां तैस्तु भागः प्रकल्पितः॥८९॥
अपिबत्सोममिन्द्रश्च तैस्तत्र सवने सह।
तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम्॥९०॥
इन्हेन्द्राग्नी स्तुतौ देवौ तृतीयस्यादिरश्विनौ।
हिरण्यपाणिं सावित्र्यश्चतस्रश्चाप्यथोत्तराः॥९१॥
एकाग्नेर्द्वे तु देवीनां द्वादश्यां देवपत्नयः।
इन्द्राणी वरुणानी च अग्नायी च पृथक् स्तुताः॥९२॥
द्यावापृथिव्यौ द्वे च स्यात्स्योनेत्यृक् पार्थवी स्मृता।
देवानां वात इत्येशा सूक्तेशेषस्तु वैष्णवः॥९३॥
वायोस्तीव्रेन्द्रवायुभ्यां द्वृचो द्वाभ्यां ततः परम्।
तृचो मित्रावरुणयोस्तथेन्द्राय मरुत्वते॥९४॥
तृचो विश्वेषां देवानां पूष्ण आघृणये तृचः।
आसक्तो हि घृणिस्तस्य दध्नः पूर्णो दृती रथे॥९५॥
आघृणिस्तत्स्तुतः पूषा कीरिभी रिभ्यते ततः।
यथा हि मधुनः पूर्णो दृतिरर्थ्येति चाश्विनौ॥९६॥
आ वर्तनिं मधुनेति द्रुतिरेव च दृश्यते।
अर्धाष्टमा अपां ज्ञेया अध्यर्धान्त्याग्निदेवता॥९७॥
कस्य सूनं तु कय्याद्या आग्नेय्यृक् सवितुस्तृचः।
भगभक्तस्य भागी वा परं यच्चिच्च वारुनम्॥९८॥
वसिष्वा हीति चाग्नेये ऋगग्नेर्मध्यमस्य तु।
जराबोधेति विज्ञेया वैश्वदेव्युत्तमा नमः॥९९॥
पराश्चतस्रो यत्रेति इन्द्रोलूखलयोः स्तुतिः।
मन्येते यास्ककात्थक्याविन्द्रस्येति तु भागुरिः॥१००॥
यच्चिद्व्युलूखलस्य द्वे द्वे परे मुसलस्य तु।
चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति॥१०१॥
ऐन्द्रं यच्चिद्धि सत्येति उत्तरं चाश्विनातृचात्।
आश्विनादुत्तरः कस्त उषस्यस्तृच उत्तमः॥१०२।।
स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ।
शुनह्शेपाय दिव्यं तु रथं सर्वं हिरण्मयम्॥१०३॥
अग्नेयं यत्वमैन्द्रे च त्रिश्चिदित्याश्विनं ततः।
ऋतेऽर्थवदं कर्मैतदिन्द्रस्येति तु शंसति॥१०४॥
पादओय्ऽग्नये ह्वयामीति मैत्रावरुण उत्तरः।
तृतीयो रात्रि संस्तावः सूक्तं सावित्रमुच्यते॥१०५॥
पञ्चैतानि जगौ द्रुष्ट्वा सूक्तान्याङ्गिरसो मुनिः।
हिरण्यस्तूपतां प्राप्य सख्यं चेन्द्रेण शाश्वतम्॥१०६॥
अग्नेयं प्रेति मरुतांक्रीळं त्रीणि पराण्यतः।
उत्तिष्ठ ब्राह्मणस्पत्यं यं रक्शन्ति त्रयस्तृचाः॥१०७॥
वरुणार्यममित्राणां मध्य आदित्यदैवतः।
पौष्नं सं पूषन् षड्रौद्र्यस्तृतीया नतु केवला॥१०८॥
मित्रेण वरुणेनात्र विश्वैर्देवैश्च संस्तवः।
उक्तमत्रिर्षिणा पूर्वमादेशाद्दैवतं विना॥१०९॥
ज्ञातुं न शक्यते लिङ्गात्तथापि क्वचिदुच्यते।
आदित्या वसवो रुद्रास्त्वमग्न इति संस्तुताः॥११०॥
तिस्रः स्ॐयोऽग्न आग्नेये प्रगाथेनाश्विना स्तुतौ।
सहोषसा लिङ्गभाजा अयं सोमः सुदानवः॥१११॥
अर्धर्चो देवदेवत्य एषो इत्याश्विने परे।
आदित्यं मन्यते यास्को हविषेति सह स्तुतम्॥११२॥
सहौषसे ततः सौर्यमुदु त्यमिति संस्तुतः।
द्युभक्तिर्येन वरुणो रोगघ्नस्तृच उत्तमः॥११३॥
रोगापनुत्तिराद्याभ्यामुद्यन्नित्युत्तमे तृचे।
अर्धेर्चे तु द्विषद्द्वेष ऐन्द्रः सव्यः शतर्चिषु॥११४॥
स्वयमिन्द्रसमं पुत्रमिच्छतोऽङ्गिरसो मुनेः।
वज्र्येव सव्यो भूत्वर्षेर्योगित्वात्पुत्रतां गतः॥११५॥
प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्चिनः।
क्षुद्रसूक्तमहासूक्ता अन्त्ये मध्येषु मध्यमाः॥११६॥
नवकं जातवेदस्यं नू चिद्यत्तु वया इति।
वैश्वानरीयंतत्सूक्तं वह्निमाग्नेयमुत्तरम्॥११७॥
ऐन्द्राण्यस्मै ततस्त्रीणि वृष्णे शर्धाय मारुतम्।
आग्नेयानि तु पश्वेति नव शश्वद्धि वामिति॥११८॥
ददाश्विनानीमानीति इन्द्रावरुणयोः स्तुतिः।
सौपर्णेयास्तु याः काश्चिन्निपातस्तुतिषु स्तुताः॥११९॥
उपप्रयन्तः सूक्तानि आग्नेयान्युत्तराणि षट्।
हिरण्यकेशो रजसस्तृचोऽग्नेर्मध्यमस्य तु॥१२०॥
इत्थेति पञ्च् त्वैन्द्राणि यामित्यस्यां निपातिताः।
दध्यङ्मनुरथर्वा च मारुतानि प्र ये ततः॥१२१॥
चत्वार्या नो वैश्वदेवे द्वे देवानां स्तुतिर्मते।
आनो भद्राश्च देवानां भद्रं यावच्छतं पुनः॥१२२॥
मधु वातास्तृचे तस्मिन्परमं मध्वपिष्यते।
अदितिर्द्यौरिति त्वसॄं विभूतिः कथितादितेः॥१२३॥
त्वं सोम स्ॐयमौषसमेता उ त्यास्तृचोऽश्विनोः।
अश्विनाग्नेः ससोमस्य अग्नीषोमाविति स्तुतिः॥१२४॥
इमं कुत्स आङ्गिरसो ददर्श जातवेदस्यं जगाद षोळशर्चम्।
पूर्वो देवा इत्यृचो देवदेवास्त्रयः पादा उत्तमायास्ततोऽर्धम्॥१२६॥
तस्यैव वा यस्य तत्पूर्वसूक्तं मित्रादिभ्यो वात्र षड्भ्यः प्रकृताभ्यः।
अन्त्योऽर्धर्चस्तु वा षण्णां स्तुतानां पूर्वो देवाः पाद्यैस्तु त्रिभिः स्तुताः॥१२७॥
भरद्वाजे गृत्समदे वसिष्ठे नोधस्यगस्त्ये विमदे नभाके।
कुत्से नोदर्का बहुदैवतेषु तथाद्विदेवेषु समानधर्मिणः॥१२८॥
द्वे विरूपे सूक्तमौषसायाग्नये स प्रत्नथेति द्रविणोदसेऽग्नये।
वैश्वानरस्येति वैश्वानरीयमस्मात्पूर्वं शुचयेऽग्नये पुनः॥१२६॥
जातवेदस्यं सूक्तसहस्रमेक ऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति।
जातवेदसे सुक्तमाद्यं तु तेषामेकभूयस्त्वं मन्यते शाकपूणिः॥१३०॥
स यो वैषैन्द्रणि पञ्च वैश्वदेवानि चन्द्रमाः।
त्रीण्यैन्द्राग्ने य इन्द्राग्नी ततमित्यर्भवे परे॥१३१॥
त्रितं गास्त्वनुगच्छन्तम् क्रूराः सालावृकीसुताः।
कूपे प्रक्षिप्य गाः सर्वास्तत एवापजह्रिरे॥१३२॥
स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः।
देवांश्चावहयत्सर्वाम्स्तच्छुश्राव ब्रुहस्पतिः॥१३३॥
आगच्छतोऽथ तान्दृष्ट्वा क्व वसत्यस्य तत्त्वतः।
सर्वदैक्त्वं च वरुनस्यार्यम्णेश्चेत्युपालभत्॥१३४॥
पूपेष्तकाभिर्व्रणितान्यङ्गान्येवाभवन्मम।
दृष्ट्वा सर्वानहं स्त्ॐइ यद्यप्येको न पश्यति॥१३५॥
बृहस्पति प्रचोदिता विश्वेदेवगणास्त्रयः।
जग्मुस्त्रितस्य तं यज्ञम् भागांश्च जगृहुः सहः॥१३६॥
बृहस्पतिस्त्रितस्यैतज्ज्ञानं विज्ञानमेव च।
तैचेनान्त्येन सूक्तस्य जगादर्षिरसाविति॥१३७॥
द्यावापृथिव्योरीळेति आग्नेयः पाद उत्तरः।
अश्विनः सूक्तशेषः स्यादिदं रात्र्युषसोः स्तुतिः॥१३८॥
इमा रौद्रं परं सौर्यं चित्रं पञ्चाश्विनान्यतः।
नासत्याभ्यामिति त्वेन्ये अन्त्या दुःस्वप्ननाशिनी॥१३९॥
ऐन्द्रं कद्वैश्वदेवं च प्रौषसे प्रुथुरुत्तरे।
ऋषिर्दानं च भाव्यस्य प्रातरित्यत्र शंसति॥१४०॥
काक्षीवन्तम् कदित्थेति यदैन्द्रमुपदिश्यते।
परोक्शं वैश्वदेवं तत्प्रदिष्टम् स्वरसामसु॥१४१॥
अधिगम्य गुरोर्विद्याम् गच्छन्स्वनिलयं किल।
कक्षीवानध्वनि श्रान्तः सुष्ट्वापारण्यगोचरः॥१४२॥
तं राजा स्वनयो नाम भावयव्यसुतो व्रजन्।
क्रीडार्थं सानुगोऽपश्यत्सभार्यः सपुरोहितः॥१४३॥
अथैनं रूपसम्पन्नं दृष्ट्वा देवसुतोपमम्।
कन्यादाने मतिं चक्रे वर्णगोत्राविरोधतः॥१४४॥
सम्बोध्यैनं स पप्रच्छ वर्नगोत्रादिकम् ततः।
राजन्नाङ्गिरसोऽस्मीति कुमारः प्रत्युवाच तम्॥१४५॥
पुत्रोऽहं दीर्घतमस औचथ्यस्य ऋषेर्न्रुप।
अथास्मै स ददौ कन्या दशाभरन भूशिताः॥१४६॥
तावतश्च रथाञ्छ्यावान्वीड्वङ्गान्वै चतुर्युजः।
वधूनां वाहनार्थाय धनकुप्यमजाविकम्॥१४७॥
निश्काणां व्रुशभानां च शतं शतमदात्पुनः।
एतदुत्तरसूक्तेन शतमित्यादिनोदितम्॥१४८॥
शतमश्वाञ्छतं निष्क्रान्रथान्दश वधूमतः।
चतुर्युजो गवां चैव सहस्रं षष्ट्युपाधिकम्॥१४९॥
स्वनयाद्भावयव्याद्यः कक्शीवान्प्रत्यपद्यत।
प्रतिगृह्य च तुष्टाव प्रातः पित्रे शशंस च॥१५०॥
फलप्रदर्शनम् तस्य क्रियते प्रायशस्त्विह।
द्वितीयां तु पितापश्यत्सुगिरित्यादिकामैचम्।।१५१॥
काक्षीवतं सर्वमिति भगवानाह शौनकः।
एषा तु दैर्घतमसी सानुलिङ्गा कथं भवेत्॥१५२॥
उच्यते प्रातरित्युक्ते सूनोर्दानेन हर्षितः।
राज्ञश्चाशिषमाहाथ सुगिरित्यादिना किल॥१५३॥
कर्माणि याभिः कथितानि राज्ञां दानानि चोच्चावचमध्यमानि।
नाराशंसीरित्यृचस्ताः प्रतीयाद्याभिः स्तुतिर्दाशतयीशु राज्ञाम्॥१५४॥
पञ्चामन्दान्भावयव्यस्य गीता जायापत्योः सम्प्रवादो द्वृचेन।
सम्प्रवादं रोमशयेन्द्रराज्ञोरेते ऋचौ मन्यते शाकपूणिः॥१५५॥
इन्द्रेण जायपत्योश्चेतिहासं द्वृचेऽस्मिन्मन्यते शाकटायनः।
प्रादात्सुतां रोमशां नाम नाम्नाब्रुहस्पतिर्भावयव्याय राज्ञे॥१५६॥ बृहस्पतिर्भावयव्याय राज्ञे॥
॥ इति ब्रुहद्देवतायां तृतीयोऽध्यायः समाप्तः॥
॥ अथ बृहद्देवतायां चतुर्थोऽध्यायः॥
ततस्तमर्थं हरिवान्विदित्वा प्रियम् सखायम् स्वनयम् दिदृक्षुः।
अभ्याजगामाशु शचीसहायह् प्रीत्यार्चयत्तं विधिनैव राजा॥१॥
अभ्याजगामाङ्गिरसी च तत्र हृष्टा तयोः सा चरणौ ववन्दे।
इन्द्रः सखित्वादथ तामुवाच रोमाणि ते सन्ति न सन्ति राज्ञि॥२॥
सा बालभावादथ तं जगाद उपोप मे शक्र परामृशेति।
तां पूर्वया स्यान्त्व्य नृपः प्रहृष्टो अन्वव्रजत्साथ पतिं पतिव्रता॥३॥
अथाग्नेये अग्निमित्युत्तरे यं पञ्चैन्द्राणि प्र तदैन्दव्यैगत्र।
युवं तमिन्द्रापर्वतौ सह स्तुतौ त्विन्द्रम् मेन इह यास्कः प्रधानम्॥४॥
ऋक्शु स्तुतः पर्वतवद्धि वज्रो द्विवत्स्तुतौ चेन्द्रमाहुः प्रधानम्।
आ त्वा वायोर्नव पञ्चेन्द्रवाय्वोरेका वायोरुत्तरं द्विप्रथानम्॥५॥
तत्र पञ्च वरुणमित्रदेवा दिवादिभ्यह् कथिताभ्यः परे द्वे।
द्वे द्वे पदे संस्तुते रोदसी च देवाश्चार्धेर्चेन विभक्तमन्यत्॥६॥
मैत्रावरुणं सुषुमेति सूक्तं प्र प्र पौश्णं वैश्वदेवं तृतीयम्।
अस्तु श्रौषट् वैश्वदेवं तृतीयं वैश्वदेवं स्याद्बहुदेवतेषु॥७॥
बहुशस्तु वैश्वदेवेषु सन्त्यृचः पादार्धर्चा द्वैपदास्त्रैपदाश्च।
द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः॥८॥
वैश्वदेवी मैत्रावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्नेः।
मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान्॥९॥
ऋषीनृशिर्वा स्तौति दध्यङ् ह मेऽस्यामात्मानं वा तेषु शंसन्स्वजन्म।
तस्मादस्यां विप्रवदन्ति केचिदिन्द्राग्नी तस्यां तु निपातभाजौ॥१०॥
द्वावुचथ्यब्रुहस्पती ऋषिपुत्रौ बभूवतुः।
आसीदुचथ्यभार्या तु ममता नाम भार्गवी॥११॥
तां कनीयान्बृहस्पतिर्मैथुनायोपचक्रमे।
शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत॥१२॥
इहास्मि पूर्वसम्भूतो न कार्यः शुक्रसङ्करः।
तच्छुक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः॥१३॥
सव्याजहार तं गर्भं तमस्ते दीर्घमस्त्विति।
स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः॥१४॥
स जातोऽभ्यतपद्देवानकस्मादन्धतां गतः।
ददुर्देवास्तु तन्नेत्रे ततोऽनन्धो बभूव सः॥१५॥
स वेदिषदित्यस्तौच्चतुर्भिर्जातवेदसम्।
समिद्ध आप्रियोऽत्यैन्द्री तमिश्यग्नेः पराणि षट्॥१६॥
स्तुतौ तु मित्रावरुणौ सूक्तैर्मित्रमिति त्रिभिः।
मित्रं मैत्रीं वदत्येतामा धेनवश्च शंसति॥१७॥
अदितिं वथवाप्यग्निं तथा रूपम् हि दृश्यते।
अग्निं मेनेऽदितिम् त्वेव कुत्से चेह च शौनकः॥१८॥
ऋषिरत्र प्रसङ्गाद्वा दर्शनाद्वानुकीर्तयेत्।
विष्णोर्नु कमिति त्रिणि वैष्णावानि पराण्यतः।।१९॥
प्रवश्च तिसृभिरृग्भिरिन्द्राविष्णू सह स्तुतौ।
गृहाणि वा वैष्णवानि ता वामितृचि काङ्क्षति॥२०॥
जीर्णं तु दीर्घतमसं खिन्नास्तत्परिचरिणः।
दासा बध्वा नदीतीरे दृष्टिहीनमवादधुः॥२१॥
तत्रैकस्त्रैतनो नाम शस्त्रेणैनमपाहनत्।
शिरश्चांसावुरश्चैव स्वयमेव नैकृन्तत॥२२॥
हत्वा दीर्घतमास्तम् तु पापेन महता वृतम्।
अत्माङ्गान्यनुदश्चैव तत्रोदोन्मोहितो भृशम्।।२३॥
अङ्गदेशसमीपे तु तं नद्यः समुदक्षिपन्।
अङ्गराजगृहे युक्तामुशिजं पुत्रकाम्यया॥२४॥
राज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः।
जनयामास चोत्थाय कक्षीवत्प्रमुखानृषीन्॥२५॥
तुष्टाव चैव सूक्ताभ्यामबोधीत्यश्विनावृषिः।
प्रेति द्यावपृथिव्यौ तु पराभ्यामेतदुत्तरम्॥२६॥
किर्माभवं परे मा नो मेध्यस्याश्वस्य संस्तवः।
ईर्मान्तास इति त्वस्यां नीयमानं प्रशंसति॥२७॥
स्वयूथ्यास्तस्य चैवात्र बहवः संस्तुता हयाः।
नियुक्ताश्चानियुक्ताश्च प्रसङ्गादनुकीर्तिताः॥२८॥
संज्ञप्तवदसंज्ञप्तं भविष्यं चाह भूतवत्।
तस्य मांसस्य सूनस्य चरूणां हविषस्तथा॥२९॥
वासोऽधिवाससोश्चात्र यद्विशस्यं च कीर्तितम्।
गात्रस्य शूलस्थूणानां स्वधितेश्च प्रकीर्तनम्॥३०॥
भागस्य कीर्तनं चात्र इन्द्रापूष्णोः सह स्तुतिः।
सूक्तं यदस्यवामीयं वैश्वदेवं तदुच्यते॥३१॥
प्रवादा विविधास्तत्र देवानां चात्र कीर्तनम्।
सूक्तेऽस्यर्चि परोक्षोक्ता वक्ष्यामि भ्रातरस्त्रयः॥३२॥
अग्निस्तु वामः पलितो वायुर्भ्राता तु मध्यमः।
घृतपृष्ठस्तृतीयोऽत्र सप्त वै रश्मयः स्तुताः॥३३॥
परास्तु कथयन्त्यग्निं यथा वर्षति पाति च।
अहोरात्रान्दिनान्मास्मानृतूंश्च परिवर्तिनः।।३४॥
पञ्चधा च त्रिधा चैव षोढा द्वादशधैव च।
संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः॥३५॥
क्षेत्रज्ञानं च धेनुं च गौरीं वाचं सरस्वतीम्।
धर्मं पूर्वयुगीयं च साध्यान्देवगणांस्तथा॥३६॥
विविधानि च कर्माणि अग्निवायुविवस्वताम्।
विभूतिमग्नेर्वायोश्च जगति स्थास्नुजङ्गमे॥३७॥
हरणं रश्मिभिर्वारो विसर्गं पुनरेव च।
कर्मानुकीर्तनं चात्र पर्जन्याग्निविवस्वताम्॥३८॥
मातापुत्रौ तु वाक्प्राणौ माता वागितरः सुतः।
सरस्वन्तमिति प्राणो वाचं प्राहुः सरस्वतीम्॥३९॥
शरीरमिन्द्रियैर्युक्तं क्षेत्रमित्यभिधीयते।
वेद तत्प्राण एवैकस्तस्मात्क्षॆत्रज्ञ उच्यते॥४०॥
मेघे शकस्तस्य धूमः सलिलं वास एव वा।
सोम उक्षा भवन्त्यस्य पावकाश्च त्रयोऽधिपाः॥४१॥
गौरीरन्तं वैश्वदेवमुपरि स्यात्पृथक्स्तुतिः।
इन्द्रं मित्रमिमे सौर्यौ सौरी वान्त्या सरस्वते॥४२॥
सूक्तमल्पस्तवं त्वेतज्ञानमेव प्रशंसति।
प्रवादबहुलत्वाच्च ततः सलिलमुच्यते॥४३॥
मारुतैन्द्रस्तु संवादः कयेति परमः स्मृतः।
मरुतामयुजस्त्वैन्द्र्यो युग्माः सर्वाः सहन्त्यया॥४४॥
एकादशी प्रथमा च मारुतस्तृच उत्तरः।
तृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु॥४५॥
इतिहासःपुरावृत्त ऋषिभिः परिकीर्त्यते।
समागच्छन्मरुद्भिस्तु चरन्व्योम्नि शतक्रतुः॥४६॥
दृष्ट्वा तुष्टाव तानिन्द्रस्ते चेन्द्रमृषयोऽब्रुवन्।
तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः॥४७॥
स तानभिजगामाशु निरुप्यैन्द्रं हविस्तदा।
मरुतश्चाभितुष्टाव सूक्तैस्तन्विति च त्रिभिः॥४८॥
महश्चिदिति चैवेन्द्रं सहस्रमिति चैतया।
निरुप्तं तद्धविश्चैन्द्रं मरुद्भ्यो दातुमिच्छति॥४९॥
विज्ञायावेक्श्य तद्भावमिन्द्रो निति तमब्रवीत्।
न श्वो नाद्यतनं ह्यस्ति वेद कस्तद्यदद्भुतम्॥५०॥
कस्य चित्त्वर्थसञ्चारे चित्तमेव विनश्यति।
किं न इत्यब्रवीदिन्द्रमगस्त्यो भ्रातरस्तव॥५१॥
मरुद्भिः सम्प्रकल्पस्व वधीर्मा नः शतक्रतो।
किं नो भ्रातरिति त्वस्यामिन्द्रो मान्यमुपालभत्॥५२॥
अगस्त्यस्त्वरमित्यस्यां क्षुब्धमिन्द्रं प्रशामयत्।
प्रादात्संवननं कृत्वा तेभ्य एव च तद्धविः॥५३॥
सुते चकार सोमेऽथ तानिन्द्रः सोमपीथिनः।
तस्माद्विद्यान्निपातेन ऐन्द्रेषु मरुतः स्तुतान्॥५४॥
प्रीतात्या पुनरेवर्षिस्तांस्तुष्टाव पृथक्पृथक्।
मरुतः प्रति सूक्ताभ्यामिन्द्रं षड्भिः परैस्तु सः।। ५५॥
स्तुतश्च तसृभिश्चेन्द्रः स्तुतास इति तैः सह।
मरुद्भिः सह यत्रेन्द्रो मरुत्वांस्तत्र सोऽभवत्॥५६॥
ऋतौ स्नातामृषिर्भार्यां लोपामुद्रां यशस्विनीम्।
उपजल्पितुमारेभे रहः संयोगकाम्यया॥५७॥
द्वाभ्यां सा त्वब्रवीदृग्भ्यां पूर्वीरिति चिकीर्षितम्।
रिरंसुस्तामथागस्त्य उत्तराभ्यामतोषयत्॥५८॥
विदित्वा तपसा सर्वं तयोर्भावं रिरंसतोः।
श्रुत्वैनः क्रुतवानस्मि ब्रह्मचार्युत्तमे जगौ॥५९॥
प्रशस्य तं परिष्वज्य गुरू मूर्ध्न्यवजिघ्रतुः।
स्मित्वैनमाहतुश्चोभावनागा असि पुत्रक॥६०॥
युवो रजांसीति ततः सूक्तैः पञ्चभिरश्विनौ।
अगस्त्य एव तुष्टाव कतरेति परेण तु॥६१॥
द्यावापृथिव्यौ सूक्तेन आ नो विश्वान्दिवौकसः।
पितुमन्नं समिद्धाप्र्यो अग्निमग्ने नयेति च।
।
६२॥
बृहस्पतेरनर्वाणम् कंकतोपनिषत्परम्।
अपां तृणानां सूर्यस्य केचिदेतां स्तुतिं विदुः॥६३॥
ददर्श तदगस्त्यो वा विषघ्नं विषशङ्कया।
अदृष्टाख्यो नष्टरूपः सूक्तस्यान्त्योऽत्र तु द्वृचः॥६४॥
॥इति प्रथमं मण्डलं समाप्तं॥
॥ द्वितीयं मण्डलम्॥
अस्तौद्गृत्समदोऽग्निं त्वं जातवेदस्य मा प्रियः।
यज्ञेनाथ समिद्धोऽग्निरतोऽग्निं सप्तभिर्हुवे॥६५॥
संयुज्य तपसात्मानमैन्द्रं बिभ्रन्महद्वपुः।
अद्रुश्यत मुहूर्तेन दिवि च व्योम्नि चेह च॥६६॥
तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ।
धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः॥६७॥
विदित्वा स तयोर्भावमृषिः पापं चिकीर्षतोः।
यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत्॥६८॥
उक्तेषु कर्मस्वैन्द्रेषु भीस्त्वावाशु विवेश ह।
इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत्॥६९॥
निहत्य तौ गृत्समदमृशिं शक्रोऽभ्यभाषत।
यथेष्टम् मां सखे पश्य प्रियत्वं ह्यागतोऽसि मे॥७०॥
वरं गृहान मत्तस्त्वमक्शयं चास्तु ते तपः।
प्रह्वस्तम् प्रत्युवाचर्षिरस्माकं वदतां वर॥७१॥
तनूनामस्तु चारिष्तिर्वाक् चास्तु हृदयङ्गमा।
सुवीरा रयिमन्तश्च वयं त्वामिन्द्र धीमहे॥७२॥
इन्द्र त्वां च विजानीमो वयं जन्मनि जन्मनि।
त्वद्गतश्चैष मे भावो मापगास्त्वं रथीतरः॥७३॥
निरुक्तं तदिदं वार्यमिन्द्र श्रेष्ठान्यृचान्त्यया।
वव्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः॥७४॥
तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्शिणे।
ऋशिश्चास्य सखित्वेन पाणिना पाणिमस्पृशत्॥७५॥
सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति।
तत्रैनमार्हयत्प्रीत्या स्वयमेव पुरन्दरः॥७६॥
कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत्।
सखित्वाच्च पुनश्चैनमुवाच हरिवाहनः॥७७॥
गृणन्मादयसे यस्मात्त्वमस्मान्रुषिसत्तम।
तस्माद्गृत्समदो नाम शौनहोत्रो भविष्यसि॥७८॥
ततो द्वादशभिः सूक्तैस्तुष्टावेन्द्रं श्रुधीत्यृषिः।
ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्ततिम्॥७९॥
बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च।
स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः॥८०॥
गणानां विश्वमित्यस्यां सहेन्द्राब्रह्मणस्पती।
बृहस्पतिं प्रसङ्गाद्वा ब्रह्मनस्पतिमेव च॥८१॥
तुष्टाव कर्मणैकेन प्रभावस्यान्तरं द्वयोः।
मित्रावरुणदक्षांशतुविजातभगार्यम्णां।। ८२॥
आदित्यानामिमाः सूक्तमिदं वारुणमुच्यते।
वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रनाशिनी॥८३॥
धृतव्रता वैश्वदेवमृतमैन्द्रं परं तु यत्।
प्र हि क्रतुमिति त्वस्यामिन्द्रासोमौ सह स्तुतौ॥८४॥
सरस्वति त्वमित्यस्मिन्नर्धेर्चे मध्यमा तु वाक्।
ब्रुहस्पतिस्तुतिर्यो नस्तं व ऋङ्मरुतां स्तुतिः॥८५॥
अस्माकं वैश्वदेवं स्यादादावस्येति चास्य ऋक्।
द्यावापृथिव्योस्त्वाष्ट्र्यौ वा अथवैन्द्र्यौ परे ततः॥८६॥
द्वे द्वे राकासिनीवाल्योः षड्गुङ्ग्वाद्यास्तथान्त्यया।
तत्पूर्वे द्वे ऋचौ कुह्वाः कुहूमहमिति स्मृते॥८७॥
तदुत्तरे द्वेऽनुमतेरनु नोऽन्विदिति स्मृते।
धातुश्चतस्रस्तत्रादौ धाता ददातु नो रयिम्॥८८॥
रौद्रं मारुतं तु परमा ते धारावरा इति।
वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम्॥८९॥
स्तुहि श्रुतमिति त्वस्यां तमेवास्तौत्प्रसादयन्।
अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे॥९०॥
तुभ्यमित्यार्तवे सूक्ते सावित्रादाश्विनं परम्।
सोमः पूषादितिश्चैव सोमापौश्णेऽन्त्यया स्तुताः॥९१॥
वायव्ये चैन्द्रवायवी पञ्चाथ प्रा उगास्तृचाः।
प्रेत्यृक्त्सौति हविर्धाने अग्निस्तत्र निपातभाक्। द्यावापृथिव्यौ द्यावेति हविर्धाने ततः परे॥९२॥
स्तुतिम् तु पुनरेवेच्छन्निन्द्रो भुत्वा कपिञ्जलः।
ऋषेर्जिगमिषोराशाम्ववाशास्थाय दक्षिणाम्॥९३॥
स तमार्षेण सम्प्रेक्ष्य चक्षुषा पक्षिरूपिणम्।
पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत्॥९४॥
॥इति द्वितीयं मण्डलं समाप्तम्॥
अथ तृतीयं मण्डलम्॥
प्रशास्य गां यस्तपसाभ्यगच्छाद्ब्रह्मर्षितामेकशतं च पुत्रान्।
स गाथिपुत्रस्तु जगाद सूक्तं सोमस्य मेत्याग्नेयं यत्परे च॥९५॥
वैश्वानरीये समित्समिदाप्र्यो द्वे आग्नेये उत्तरे त्वत्र सूक्ते।
द्यावापृथिव्या उषसो निपाता आपोऽथ देवाः पितरश्च मित्रः॥९६॥
अग्नेयेषु दृश्यन्ते स्तुतास्तु वैश्वानरो वरुणो जातवेदाः।
स्तूयेतैको यत्र यत्रास्तुतिर्वा निपात्यर्थांश्चोपमार्थांश्च विद्यात्॥९७॥
राजर्षयो गृत्समदा वसिष्ठा भरद्वाजाः कुशिका गोतमाश्च।
विश्वेऽश्विनामङ्गिरसोऽत्रयोऽदितिर्भोजाः कण्वा भृगवो रोदसी दिशः॥९८॥
सावित्रस्ॐयाश्विनमारुतेशु ऐन्द्राग्नेये रौद्रसौर्याषसेषु।
आदावन्ते सूक्तमध्ये स्तुतास्तु न व्याघ्नन्ति देवताः सूक्तभाजः॥९९॥
अग्नेः सप्तदशोऽध्याय ऊर्ध्व ऊ ष ण ऊतये।
एते काण्व्याव्रुचौ यौप्या अञ्जन्ति त्वेति पञ्च च॥१००॥
शेषा बहुभ्यो यूपेभ्यो वैश्वदेवी त्वृगष्टमी।
अस्यान्त्या व्रश्चनी योक्ता षष्ठमैन्द्राग्नमुच्यते॥१०१॥
अग्निमुषसं वैश्वदेवी दधिक्रामिति चैतया।
आग्नेन्द्री त्वग्न इन्द्रश्चर्क परो वैश्वानरस्तृचः॥१०२॥
प्रयन्तु मारुतश्चान्त्या शतधारां गुरुस्तवः।
प्र वो वाजा ऋतुन्स्तौति ऋत्विजः न्स्तौति मन्थत॥१०३॥
पुरीष्यास इति त्वस्यां दिह्ष्ण्यानग्नीन्प्रशंसति।
ज्ञेयाश्चैव तु होतारस्ते दैव्याश्चैव तत्र तु॥१०४॥
त्रयोविंशतिरैन्राणि इच्छन्तीति परान्यतः।
सूक्ते प्रेति तु नद्यश्च विश्वामित्रः समूदिरे॥१०५॥
पुरोहितः सन्निज्यार्थं सुदासा सह यन्नृषिः।
विपाट्छुतुद्र्योः सम्भेदं शमित्येते उवाच ह॥१०६॥
प्रवादास्तत्र दृश्यन्ते द्विवद्बहुवदेकवत्।
अच्छेत्यर्धर्चे पच्छो वा नदीष्वप्येकवन्नि ते॥१०७॥
आद्ये द्वृचे द्वितत्सार्धे विश्वामित्रवचः श्रुतेः।
एताभिरृग्भिर्वा नद्यः ऋशिं बहूवदूचिरे॥१०८॥
षष्ट्याष्टम्या चतुर्थ्या च दशम्या चेतरा ऋषेः।
सप्तम्यामृचि षष्ट्यां च यौ देवौ परिकीर्तितौ॥१०९॥
निपातिनौ तु तौ ज्ञेयौ ऐन्द्राप्रर्वत्यृगुत्तमे।
करोति पुत्रिकां नाम यथा दुहितरं तथा॥११०॥
तस्यां सिञ्चति रेतो वा तच्छासदिति कीर्तितम्।
रिक्तस्य दुहितुर्दानं नेत्यृचि प्रतिषिध्यते॥१११॥
तस्याश्चाह यवीयांसं भ्रातरं ज्येष्ठवत्सुतम्।
सुदासश्च महायज्ञे शक्तिना गाथिसूनवे॥११२॥
निगृहीतं बलाच्चेतः सोऽवसीदद्विचेतनः।
तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचम् ससर्परीं॥११३॥
सूर्यक्षयादिहाहृत्य ददुस्ते जमदग्नयः।
कुशिकानां ततः सा वागमतिं तामपाहनत्॥११४॥
उपेति चास्यां कुशिकान्विश्वामित्रोऽनुबोधयत्।
लब्ध्वा वाचं च हृष्टात्मा तानृषिन्प्रत्यपूजयत्॥११५॥
ससर्परीरिति द्वाभ्यामृग्भ्यां वाचं स्तुवन्स्वयम्।
स्थिरावित्यनसोऽङ्गान्यनडुहश्च ग्रुहान्व्रजन्॥११६॥
ततश्च स्वशरीरेण गृहान्गच्छन्परीददे।
पराश्चतस्रो यास्त्वत्र वसिष्ठद्वेषिण्यह् स्मृताः॥११७॥
विश्वामित्रेण ताः प्रोक्ता अभिशापा इति स्मृताः।
द्विषद्द्वेषास्तु ताः प्रोक्ता विद्याश्चैवाभिचारिकाः॥११८॥
वसिष्ठास्ता न शृण्वन्ति तदाचार्यक संमतम्।
कीर्तनाच्छ्रवनाद्वापि महादोशष्च जायते॥११९॥
शतधा भिद्यते मूर्धा कीर्तितेन श्रुतेन वा।
तेषां बालाः प्रमीयन्ते तस्मात्तास्तु न्यकीर्तयेत्॥१२०॥
विश्वांश्च देवांस्तुष्टाव चतुर्भिरिममित्यृशिः।
अस्तौद्विश्वात्मना सर्वान्मन्यमानः परं पदम्॥१२१॥
देवानामसुर्त्वं तदेकं महदितीरयन्।
अश्विनौ मित्र ऋभवो धेनुर्मित्र इहेह वः॥१२२॥
वैश्वदेवीति विज्ञेया मैत्री मित्राय पञ्चतु।
ऐन्द्रार्भवस्तृचस्त्वत्र आर्भवे सूक्त उत्तमः॥१२३॥
पूर्वे द्वृचे निपातीन्द्र उषो वाजेन पञ्चमात्।
औशसादुत्तरास्त्वन्त्ये षट् पृथग्देवतास्तृचाः। ऐन्द्रावरुणः प्रत्थमो बार्हस्पत्यस्तथापरः॥१२४॥
पौष्णसावित्रस्ॐआश्च मैत्रावरुण उत्तमः।
तुष्टाव जमदग्निश्च तेन देवावृतावृधौ॥१२५॥
॥ इति तृतीयं मण्डलम्॥
॥ अथ चतुर्थं मण्डलम्॥
देवर्षिपितृपूजार्थं पपाचान्त्राणि यच्छुनः।
यस्य वै श्येनरूपेण आहरद्वृत्रहा मधु॥१२६॥
सोऽग्निं तु पञ्चदशभिरिन्द्रं षोडशभिः परैः।
रुषिस्त्वामिति तुष्टाव सूक्त्यरेति तु गौतमः॥१२७॥
स भ्रातरमिति त्वासु तिसृष्वग्निर्निपातभाक्।
वरुणेनाभिसंस्तौति आहुरन्ये निपातिनम्॥१२८॥
लिङ्गोक्तदेवते सूक्ते एके प्रत्यग्निरेव तु।
ऋशिर्बोधदिति द्वाभ्यां स्तौति सोमकमेव तु॥१२९॥
तस्यैव चायुषोऽर्थाय पराभ्यामश्विनौ स्तुतौ।
अञ्जना न जनिष्युएऽहं ब्रुवाणं गर्भमेव तु॥१३०॥
अन्वशाददितिः पुत्रमिन्द्रमात्महितैषिणी।
स जातमात्रो युद्धाय ऋषिमेवाजहाव तु॥१३१॥
योधयन्वामदेवस्तं क्रुत्वात्मनि बलम् तथा।
दिनानि दश रात्रीश्च विजिग्ये चैनमोजसा॥१३२॥
स तं क इममित्यस्यां विक्रीणन्नृषिसंसदि।
स्वयं तेनाभितुष्टाव नकिरिन्द्रेति गौतमः॥१३३॥
किमादुतासीति चास्यां मन्युमर्धे पराणुदत्।
अथास्य रूपवीर्याणि धैर्यकार्याणि तान्यृशिः॥१३४॥
विविधानि च कर्माणि शशंसादितये तथा।
अहमित्यात्मसंस्तावस्तृचे स्तुतिरिवास्य हि॥१३५॥
प्र सु ष विभ्यो नवभिरृग्भिः श्येनस्य संस्तवः।
पराभिस्त्वेति पञ्चर्चे सोमेनेन्द्रः स्तुतः सह॥१३६॥
सोमप्रधानमेतां तु क्रौष्तुकिर्मन्यते स्तुतिम्।
दिविश्चिदिति चैतेन तृचेनेन्द्रेण संस्तुताम्॥१३७॥
उषसं मध्यमां मेने आचार्यः शाकटायनः।
वामम्रुचि स्तुताश्चात्र भगः पूशेति चार्यमा॥१३८॥
करूळतिति पूषोक्तोऽदन्तकः स इति श्रुतेः।
अस्माकमुत्तमं सूर्यं स्तौतीत्याहाश्वलायनः॥१३९॥
इन्द्रस्य हरयो ह्यश्वा अग्नेरश्वास्तु रोहितः।
सूर्यस्य हरितश्चैव वायोर्नियुत एव च॥१४०॥
रासभः सहितोऽश्विभ्यामजाः पूष्णश्च वाजिनः।
पृषत्योऽश्वास्तु मरुतां गावोऽरुण्यस्तथोषसाम्॥१४१॥
सवितुर्वाजिनः श्यावा विश्वरूपा बृहस्पतेः।
सहैते देवताभिस्तु स्तूयन्तेऽप्यल्पशोऽन्यथा॥१४२॥
आयुधं वाहनं चापि स्तुतौ यस्येह दृश्यते।
तमेव तु स्तुतं विद्यात्तस्यात्मा बहुधा हि सः॥१४३॥
कनीनका सूक्तशेशो हर्यो स्तुतिरिहोच्यते।
चत्वार्यतश्च विज्ञेयान्यप्रगृह्याणि विद्रधे अप्रग्रुह्याणि विद्रधे॥१४४॥
॥ इति बृहद्देवतायां चतुर्थोऽध्यायः॥
॥ अथ बृहद्देवतायां पञ्चमोऽध्यायः॥
प्रेति पञ्चार्भवं त्रीणि दाधिक्राणि पराण्यतः।
ऋग्द्यावाप्रुथिव्यौ स्तौति दाधिक्राणां मुखे तु या॥१॥
परोक्षैरम्रुतो वाग्भिर्नामभिश्च स्तुतास्त्रयः।
अग्निर्वायुश्च सूर्यश्च हंसः शुचिषदित्यृचि॥२॥
नियुक्ता सूर्यदेवत्या ह्स्ंस इत्यैतरेयके।
द्वे त्वैन्द्रावरुणे सूक्ते ततस्त्रीण्याश्विनानि कः॥३॥
अयं वायो विहीत्येषु वयव्याः सप्त कीर्तिताः।
नव चैवेन्द्रवायव्या इन्द्रस्तिस्रह् शतेन षट्॥४॥
इदं कथितदेवत्वं यस्तस्तम्भोत्तमो द्वृचः।
स्तुतिरिन्द्राबृहस्पतोरष्टावेता ऋचः स्मृताः॥५॥
सूक्तं तु तद्बार्हस्पतमिदमिप्यौषसे परे।
पुरोधातुः कर्मशंसा स इद्राजोचृते तृचे॥६॥
तत्सावित्रे द्वे तु को वैश्वदेवं मही द्यावापृथिवीयं परं तु यत्।
क्षेत्रस्येति तिस्रस्तु क्षैत्रपत्याः शुनं वाहाः शुनदेवी त्वृगुत्तरा॥७॥
वायुः शुहः सूर्य एवात्र सीरः शुनासीरौ वायुसूर्यौ वदन्तु।
शुनासीरं यास्क इन्द्रं तु मेने सूर्येन्द्रौ तौ मन्यते शाकपूणिः॥८॥
शुनासीरौ पञ्चम्यां तु स्तुतौ तौ द्वे तु सीतायै षष्ठी सप्तमी च।
शुनं नः फालाः कृषिं स्तौति पादः शुनं कीनाशाः कृषिजीवान्मनुष्यान्॥९॥
स्तुतः पादेऽत्र पर्जन्यस्तृतीये अन्त्यं त्वृशिर्धनकामो जगाद।
क्रुशिं वा स्तौति सर्वं हि सूक्तं समुद्रादित्यग्नेर्मध्यमस्य॥१०॥
आदित्यं वा ब्राह्मणोक्तं प्रदिष्टमाग्नेयं वाप्याज्यसूक्तं हि दृष्टम्।
अपां स्तुतिं वा यदि वा घृतस्तुतिं गव्यमेके सौर्यमेतद्वदन्ति॥११॥
॥ अथ पञ्चमं मण्डलम्॥
स्वर्भानुदृष्टं सूर्यस्य अपहृत्य तमोऽत्रयः।
सप्तविंशतिभिः सूक्तैरबोधीत्यग्निमस्तुवन्॥१२॥
त्रैवृष्णस्त्रसदस्युश्च अश्वमेध ऋणञ्चयः।
स्तूयमानाः परीक्ष्याः स्युरत्रिष्वेते क्वचित्क्वचित्॥१३॥
ऐक्ष्वाकुस्त्र्यरुणो राजा त्रैवृष्णो रथमास्थितः।
सञ्जग्राहाश्वरश्मींश्च वृशो जानः पुरोहितः॥१४॥
स ब्राह्मणकुमारस्य रथो गच्छञ्छेरोऽच्छिनत्।
एनस्वीत्यब्रवीच्चैव स राजैनं पुरोहितम्॥१५॥
सोऽथर्वाङ्गिरसान्मन्त्रान् दृष्ट्वा सञ्जीव्य तं शिशुम्।
क्रोधात्सन्त्यज्य राजानमन्यदेशं समाश्रितः॥१६॥
हरोऽप्नग्नेर्ननाशास्य तस्यापक्रमणादृषेः।
अग्नौ प्रास्तानि हव्यानि न ह्यपच्यन्त कानिचित्॥१७॥
ततः प्रव्यथितो राजा सोऽभिगम्य प्रसाद्य तम्।
अनीश्वा स व्रुशं जानं पुनरेद पुरोदधे॥१८॥
स प्रसन्नो वृशोऽन्वैच्छद्धरमग्नेर्नृपक्षये।
अविन्दत पिशाचीं तां जायां तस्य च भूपतेः॥१९॥
निशण्णः स तया सार्धमासन्द्यां कशिपावपि।
तामुपामन्त्रयां चक्रे कमेतं त्वमिति त्वृचा॥२०॥
हरः कुमाररूपेण ब्रुवंस्तामभ्यभाषत।
विज्योतिषेति चोक्तायां सहसाग्निरुदज्वलत्॥२१॥
सहमानः सहायान्तं प्रकाशं च प्रकाशयन्।
पीशाचीमदहत्तं स तत्र चोपविवेश सा॥२२॥
एष एव परामृष्टो भाल्लविब्राह्मणे द्वृचः।
निदान संज्ञके ग्रन्थे छन्दोगानामिति श्रुतिः॥२३॥
भवेदेव परामर्शः सूक्तस्यास्य व्यपेक्शया।
भवन्ति बाह्या मन्त्रा हि विधिद्रुष्टेन चोदिताः॥२४॥
दृश्यन्ते ब्राह्मणे मन्त्रा एकदेशे प्रदर्शिताः।
जामदग्न्यस्तथैवाप्र्य स्तोकीयाश्चैतरेयके॥२५॥
आप्रियः सुसमिद्धाय पञ्चमं सूक्तमत्र तु।
एदमृग्वैश्वदेवी वा अन्त्या चैन्द्राग्न्युपोत्तमे॥२६॥
ऐन्द्राणि द्वादश त्रीति उशान त्वत्र संस्तुतः।
उशनेति तु पादेन सं ह यद्वामनेन च।।२७॥
इन्द्राकुत्सेति चैतस्यां कुत्सेनेन्द्रःस्तुतः सह।
यत्त्वा सूर्येति चात्रीणां पञ्चर्चे कर्म कीर्त्यते॥२८॥
अनस्वन्तेति सूक्तेऽस्मिन्नाग्नेयेऽत्रिऋषिः स्वयम्।
दानतुष्टः शशंसैतान्राजर्षीनिति केचन॥२९॥
आशीरध्येषणाच्चैभ्यो अग्निं प्रति च दृश्यते।
अयुतं च गवां त्रीणि शतान्यथ च विंशतिम्॥३०॥
सौवर्णं शकटं गोभ्यां त्र्यरुणोऽदान्नृपोऽत्रये।
अश्वमेधः शतं चोक्ष्णां त्रसदस्युर्धनं बहु॥३१॥
राज्ञः प्रति च तत्सूक्तं बभाष इति केचन।
आत्मा हि नात्मने दद्यादग्रहीन्नृपतेरृषिः॥३२॥
अत्रेः सुतमृषिं बभ्रुमार्त्विज्याय ऋणं चयः।
सहस्रदक्षिणे सोमे वव्रे तं सोऽप्ययाजयत्॥३३॥
ददौ च रौ मशो राजा सहस्राणि शतानि च।
तस्मै चत्वारि चत्वारि महावीरं च काञ्चनम्॥३४॥
प्रवर्ग्येषु महावीराः सौवर्णास्तस्य चाभवन्।
प्रतिगृह्य ऋषिर्गच्छन्मध्यमेनाग्निना पथि॥३५॥
पृष्ट इन्द्रेण चाचखौ भद्रं चतसृभिश्च तत्।
को नु वां वैश्वदेवानि एकादश पराण्यतः॥३६॥
मारुतानि दश प्रेति इळाभीत्यृचि तु स्तुता।
उदित्यृचि तृतीयायां सविता शौनकोऽब्रवीत्॥३७॥
उपेति बार्हस्पत्यस्तु तृचो मारुत्यृतुत्तरा।
तमु ष्टुहीति रौद्री तु प्रसुष्टुतिरिति त्वृचि॥३८॥
शौनकादिभिराचार्यैर्देवता बहुधेरिता।
इळस्पतिं शाकपूणिः पर्जन्याग्नी तु गालवः॥३९॥
यास्कस्तु पूषणं मेने स्तुतमिन्द्रं तु शौनकः।
वैश्वानरं भागुरिस्तु मारुत्येष समाश्विनी॥४०॥
वायव्याध र्यवः स्ॐई दशेत्यैन्द्री परा तु या।
अग्निं घर्मं पराञ्जन्ति अश्विनौ स्तौत्य गच्छ च॥४१॥
प्रेति वायुं पूषणं च अर्धर्चेऽग्निरिहोच्यते।
प्रथमेऽथ द्वितीये च स्तुता एति दिवौकसः॥४२॥
आ वाचं मध्यमां स्तौति ततोऽन्या तु बृहस्पतिम्।
ज्यायांसमिति चादित्यं प्र वो वायुरिहोच्यते॥४३॥
तं प्रत्नथेति सौ मी वा दैव्यैन्द्री वा प्रजापतेः।
परोक्शवैश्वदेवं तदाह कौषीतकिः स्वयम्॥४४॥
तेषु तृतीयमित्युक्तं देवान् हुव इदं परम्।
देवनां पत्नीरिति तु देषपत्न्यो द्वृचे स्तुताः॥४५॥
अयम् चतुर्णामिति चेन्द्रवायू त्रिभिः स्तुतौ वायवा याहि वायुम्।
रथं त्वृचा रोदसी स्तूयतेऽत्र यास्या स्तुता मरुतो रुद्रपत्न्याः॥४६॥
आ रुद्रास इति त्वस्यां रुद्राणां संस्तुतो गणः।
मरुतां तु गणस्यैतन्नाम रुद्रा इति स्मृताः॥४७॥
असावग्निरयं चोभावग्नी पार्थिवमध्यमौ।
अग्ने मरुद्भिरित्यस्यां मरुद्भिः सह संस्तुतौ॥४८॥
मध्यमा वाक् स्त्रियः सर्वाः पुमान् सर्वश्च मध्यमः।
गणाश्च सर्वे मरुतो गुणभेदात्पृथक् पृथक्॥४९॥
राजर्षिरभवद्धार्भ्यो रथवीतिरिति श्रुतः।
स यक्ष्यमाणो राजतत्रिमभिगम्य प्रसाद्य च॥५०॥
आत्मानं कार्यमर्थं च ख्यापयन्प्राञ्जलिः स्थितः।
अव्रुणीतर्षिमात्रेयमार्त्विज्यायार्चनानसम्॥५१॥
स सपुत्रोऽभ्यगच्छत्तं राजानं यज्ञसिद्धये।
स्यावाश्वश्चात्रिपुत्रस्य पुत्रः खल्वर्चनानसः॥५२॥
साङ्गोपाङ्गान्सर्ववेदान्यः पित्राध्यापितो मुदा।
अर्चनानाः सपुत्रोऽथ गत्वा नृपमयाजयत्॥
यज्ञे च विततेऽपश्यद्राजपुत्रीं यशस्विनीम्।
स्नुषा मे राजपुत्री स्यादिति तस्य मनोऽभवत्॥५४॥
श्यावाश्वस्य च तस्याम् वै सक्तमासीत्तदा मनः।
संयुज्यस्व मया राजन्निति याज्यं च सोऽब्रवीत्॥५५॥
श्यावाश्वाय सुतां दित्सुर्महिषीं स्वां न्रुपोऽब्रवित्।
किं ते मतमहं कन्यां श्यावाश्वाय ददामि हि॥५६॥
अत्रिपुत्रोऽदुर्बलो हि जामाता त्वावयोरिति।
राजानमब्रवीत्सापि न्ऋपर्षि कुलजा ह्यहम्॥५७॥
नानृषीर्नौ तु जामाता नैष मन्त्रान् हि दृष्टवान्।
ऋषये दीयतां कन्या वेदस्याम्बा भवेत्तथा। ऋषिर्मन्त्रदृशं वेदपितरं मन्यते यतः॥५८॥
प्रत्याचष्टे स तं राजा सह समन्त्र्य भार्यया।
अनृषिर्नैव जामाता कश्चिद्भवितुमर्हति॥५९॥
प्रत्याख्यात ऋषिस्तेन व्रुत्ते यज्ञे न्यवर्तत।
श्यावाश्वस्य तु कन्याया मनो नैव न्यवर्तत॥६०॥
ततस्तौ तु निवर्तेतामुभावेवाभिजग्मतुः।
शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम्॥६१॥
तरन्तपुरुमीळ्हौ तु राजानौ वैददश्व्यृषी।
ताभ्यां तौ चक्रतुः पूजामृषिभ्यां नृपती स्वयम्॥६२॥
अजाविकं गवाश्वं च श्यावाश्वाय शशीयसी।
अत्रिं याज्यार्चितौ गत्वा पितापुत्रौ स्वमाश्रमम्॥६४॥
अभ्यवादयतामत्रिं महर्षिं दीप्ततेजसम्।
श्यावाश्वस्य मनस्यासीन्मन्त्रस्यादर्शनादहम्॥६५॥
न लब्धवानहं कन्यां हन्त सर्वाङ्गशोभनाम्।
अप्यहं मन्त्रदर्शी स्यां भवेद्धर्षो महान्मम॥६६॥
इत्यरण्ये चिन्तयतः प्रादुरासीन्मरुद्गणः।
ददर्श संस्थितान्पार्श्वे तुल्यरूपानिवात्मनः॥६७॥
समानवयसश्चैव मरुतो रुक्मवक्षसः।
तांस्तुल्यवयसो दृष्ट्वा देवान्पुरुशविग्रहान्॥६८॥
श्यावाश्वो विस्मितोऽपृच्छत् के ष्थेति मरुतस्तदा।
ततस्तु मरुतो देवान्रुद्रसूनूनबुध्यत॥६९॥
य ईं वहन्त इत्याभिर्बुध्वा तुष्टाव तांस्तथा।
अतिक्रमं हि तं मेने ऋषिर्विपुलमात्मनः॥७०॥
यन्न दृष्ट्वैव तुष्टाव यच्च के ष्ठेति पृष्टवान्।
स्तुता स्तुत्या तया प्रीता गच्छन्तः पृश्निमातरः॥७१॥
अवमुच्य स्ववक्षोभ्यो रुक्मं तस्मै तदा ददुः।
मरुत्सु तु प्रयातेषु श्यावाश्व सुमहायशा॥७२॥
रथवीतेर्दुहितरमगच्छन्मनसा तदा।
स सद्य ऋषिरात्मानं प्रवक्ष्यन्रथवीतये॥७३॥
एतं मे स्तोषुमित्याभ्यां दौत्ये रात्रीं न्ययोजयत्।
रथवीतिमपश्यन्तीं सम्प्रेक्ष्यार्षेण चक्षुषा॥७४॥
रम्ये हिमवतः पृष्थे एष क्षेतीति चाब्रवीत्।
ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः॥७५॥
आदाय कन्यां तां दार्भ्य उपेयायार्चनानसम्।
पादौ तस्योपसङ्गृह्य स्थित्वा प्रह्वः कृताञ्जलिः॥७६॥
रथवीतिरहं दार्भ्य इति नाम शशंस च।
मया सङ्गतिमिच्छन्तं त्वां प्रत्याचक्षि यत्पुरा॥७७॥
तत्क्षमस्व नमस्तेऽस्तु मा च मे भगवन्क्रुधः।
ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः॥७८॥
हन्त प्रतिगृहाणेमां स्नुषामित्येवमब्रवीत्।
पाद्यार्घ्यमधुपर्कैश्च पूजयित्वा स्वयं नृपः॥७९॥
शुक्लमश्वशतं दत्वा अनुजज्ञे गृहान्प्रति।
शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम्॥८०॥
षड्भिः सनदिति स्तुत्वा जगामर्षिरपि क्षयम्।
ऋतेन मैत्रावरुणान्येकादश पराणि तु॥८१॥
षळाश्विनानि गर्भार्थं पञ्चर्चोपनिषत्स्तुतिः।
सप्त कृत्वापराधान्वै विफले दारसङ्ग्रहे॥८२॥
ऋषिः कृतोऽश्वमेधेन भारतेनेति वै श्रुतिः।
तमष्टमेऽपराधे तु वृक्षद्रोण्यां स पार्थिवः॥८२॥
ऋबीसे ह विनिक्षिप्य स्कन्नं रात्रौ न्यधारयत्।
सोऽश्विनाविति सूक्तेन्द् तुष्टावर्षिः शुभस्पती॥८४॥
तौ तं तस्मात्समुद्धृत्य चक्रतुः सफलं पुनः।
तृचः स्वस्यैव गर्भार्थम् स्वपतस्तस्य गर्भवत्॥८५॥
यथा वात इति ज्ञेये त्वश्विभ्यामितरे ऋचौ।
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम्॥८६॥
भावव्रुत्तं तु तद्वत्स्यात्तथारूपं हि द्रुश्यते।
जरायुगर्भशब्दाभ्यामेतद्रूपं हि दृश्यते॥८७॥
महे उषस्ये सावित्रे युञ्जतेऽच्छेति वै स्तुतः।
पर्जन्यो बळिति त्वस्मिन्पृथिवी मध्यमा स्तुता॥८८॥
आद्या नो देव सवितरियं दुःस्वप्ननाशिनी।
वारुणं तु प्र सम्राजे इन्द्राग्न्यैन्द्राग्नमुत्तरम्॥८९॥
विष्णुन्यङ्गम् परं प्रेति मारुतं सूक्तमुत्तमम्।
एवयामरुदाख्यातं द्यौर्नेन्द्रे प्रतिपूर्वकम्॥९०॥
श्रीसूक्त माशीर्वादस्तु श्रीपुत्राणां पराणि षट्।
तत्स्याद्वालक्ष्म्यपनुदमग्निस्तत्र निपातभाक्॥९१॥
प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ।
नानारूपा पयस्विन्यः संस्रवन्तीति संस्तुताः॥९२॥
आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवता।
निपातभाक् लिङ्गवाक्यात्परीक्षेतेह मन्त्रवित्॥९३॥
मन्त्रप्रयोगमन्त्रयोः प्रयोगो बलवत्तरः।
विधेस्तयोः परीक्षा स्यान्मन्त्राः स्युरभिधायकाः॥९४॥
तस्मात्तेन विसंवादो मन्त्राणां तद्गतानि तु।
गुणाभिधायकानि स्युः संविज्ञानपदानि तु॥९५॥
मन्त्रेषु गुणभूतेषु प्रधानेषु च कर्मसु।
प्रधानगुणभूताः स्युर्देवता इति गम्यते॥९६॥
त्रिसांवत्सरिकं सत्त्रं प्रजाकमः प्रजापतिः।
आहरत्सहितः साध्यैर्विश्वैर्देवैः सहेति च॥९७॥
तत्र वाग्दीक्शणी यायामाजगाम शरीरिणी।
तां दृष्ट्वा युगपत्तत्र कस्याथ वरुणस्य च॥९८॥
शुक्रं च स्कन्द तद्वायुरग्नौ प्रास्यद्यदृच्छया।
ततोऽर्चिभ्यो घृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः॥९९॥
प्रजापतिं सुतौ दृष्ट्वा दृष्ट्वा वागभ्यभाषत।
आभ्यामृषिस्तृतीयोऽपि भवेदत्रैव मे सुतः॥१००॥
प्रजापतिस्तयेत्युक्तः प्रत्यभाषत भारतीं।
ऋषिरत्रिस्ततो जज्ञे सूर्यालनलसमद्युतिः॥१०१॥
योऽङ्गारेभ्य ऋशिर्जज्ञे तस्य पुत्रो ब्रुहस्पतिः।
ब्रुहस्पतेर्भरद्वाजो विदथीति य उच्यते॥१०२॥
॥ इति पञ्चमं मण्डलम्॥
॥ अथ षष्ठं मण्डलम्॥
मरुत्स्वासीद्गुरुर्यश्च स एवाङ्गिरसो नपात्।
सपुत्रस्य तु तस्यैतन्मण्डलं षष्ठमुच्यते॥१०३॥
त्वं ह्यग्न इति तत्रादावाग्नेयानि त्रयोदश।
सूक्तानि त्रीणि मूधानमग्नेर्वैश्वानरस्य तु॥१०४॥
एकान्नत्रिंशदेवात्र पिबेत्यैन्द्राण्यतः परम्।
अग्ने स क्षेषदित्यस्यां देवौ यौ तु निपातितौ॥१०५॥
प्रोतये नू म इत्येते वैश्वदेव्यावृचौ स्मृते।
ऋग्द्वितीया पदं चान्त्यमैन्द्रमेति गवां स्तुतिः॥१०६॥
आसस्राणस इत्यस्यां वायुरिन्द्रश्च संस्तुतौ।
इन्द्रः प्राधान्यतो वात्र स्तुतो वायुर्निपातभाक्॥१०७॥
अयं देवस्तृचं स्ॐयमैन्द्रमेके प्रचक्षते।
य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः॥१०८॥
पितरं स्तौति शंयुश्च तृचस्यान्ते पदे स्वकम्।
स्वादुष्किलायमिति तु स्ॐयः पञ्चर्च उत्तरः॥१०९॥
इन्द्रः प्रधानतो वात्र स्तुतः सोमो निपातभाक्।
इन्द्रस्यैन्द्र्योऽनुपानीयाः श्रूयन्ते ह्यैतरेयके॥११०॥
अगव्यूतिस्तौति देवान्पादो भूमिमथोत्तरः।
ब्रुहस्पतिं त्रूतीयस्तु इन्द्रमेवोत्तमं पदम्॥१११॥
वनस्पते वीड्वङ्गः परं यत्तदाचार्या भाववृत्तं वदन्ति।
ऋचस्तु तिस्रस्तु रथाभिमर्शना उपेति तिस्रो दुन्दुभेः संस्तवोऽत्र॥११२॥
समश्वपर्णा इति चार्धमैन्द्रं दशादितोऽग्नेस्तृणपाणिकस्य।
तृचः परो मारुतः पृश्निसूक्ते द्वृचः परो वैश्वदेवः पुनश्च॥११३॥
आदित्यो वा मारुत एव वा स्यादा मा पूषन्निति पौश्णीश्चतस्रः।
द्वृचं परं मारुतं तत्र विद्यादन्ताद्युभ्वोः कीर्तना पृश्नये वा॥११४॥
स्तुषे सूक्तानि चत्वारि वैश्वदेवान्यतः परम्।
द्वितीयाग्निं चतुर्थीं च वायुं पञ्चम्यथाश्विनौ॥११५॥
स्तौत्यृक् तु सप्तमी वाचमत्र पूषणमष्टमी।
त्वष्टारं नवमी रुद्रं भुवनस्येत्यथोत्तरे॥११६॥
मारुत्यौ यो रजांसीति विष्णुमेव जगावृषिः।
अभ्यैन्द्र्येति च सावित्री रौदस्याग्नेय्युताश्विनी॥११७॥
अग्नीपर्जन्यावनयोः सौर्या चोदुत्यदित्यृचौ।
वयं चत्वारि पौष्णानि त्वैन्द्रापौष्नस्य चोत्तरम्॥११८॥
रथीतमं कपर्दिनं रौद्रमेके प्रचक्षते।
ऐन्द्रग्ने प्र नु वोचेति इयं सारस्वतं स्तुषे॥११९॥
आश्विने चौषसे चैव मारुतं तु वपुर्न्विति।
उपेति च द्वृचेऽश्विभ्यामारधनं च शंसति॥१२०॥
मैत्रावरुणमेवैकं विश्वेशां वः सतामिति।
श्रुष्टीति चैन्द्रावरुणं समैन्द्रावैष्णवं परम्॥१२१॥
द्यावापृथिव्यौ सविता इन्द्रासोमौ ब्रुहस्पतिः।
पृथक्पृथक् परैः सूक्तैः सोमारुद्रेति तौ स्तुतौ॥१२२॥
चक्रं रथो मणिर्भार्या भूमिरश्वो गजस्तथा।
एतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम्॥१२३॥
अभ्यावर्ती चायमानः प्रस्तोकश्चैव सांर्जयः।
आजग्मतुर्भरद्वाजं जितौ वारशिखैर्युधि॥१२४॥
अभिगम्योचतुस्तौ तं प्रसाद्याख्या य नामनी।
युधि वारशिखैर्ब्रह्मन्नावां विद्धि विनिर्जितौ॥१२५॥
भवत्पुरोहितावावां क्षत्रबन्धूञ्जयेवहि।
क्शत्रं तदपि विज्ञेयं ब्रह्म यत्पाति शाश्वतम्॥१२६॥
ऋषिस्तौ तु तथेत्युक्त्वा पायुं पुत्रमभाषत।
आधर्षणीयौ शत्रूणां कुरुष्वैतौ न्रुपाविति॥१२७॥
पितरं स तथेत्युक्त्वा युद्धोपकरणं तयोः।
जीमूतस्येति सूक्तेन पृथक्त्वेनान्वमन्त्रयत्॥१२८॥
प्रथमा तस्य सूक्तस्य योद्धारं स्तौति वर्मिणम्।
धनुष्च द्वितीया तु तृतीया ज्याभिमन्त्रिणी।।१२९॥
स्तौत्यृगार्त्नी चतुर्थी तु इषुधिं स्तौति पञ्चमी।
अर्धेन सारथिः षष्ठ्या रश्मयोऽर्धेन संस्तुताः॥१३०॥
अश्वांस्तु सप्तमी स्तौति आयुधागारमष्टमी।
नवमी रथगोपाम्स्तु दशमी रणदेवताः॥१३१॥
इषुं चैकादशी स्तौति द्वादशी कवचस्तुतिः।
त्रयोदशी कशां स्तौति हस्तत्राणं चतुर्दशी॥१३२॥
प्रथमे पञ्चदश्यास्तु पादे दिग्द इषुः स्तुतः।
अयोमुखी द्वितीये तु अर्धेऽस्त्रं वारुणं परे॥१३३॥
षोळश्यां त्वस्य सूक्तस्य धनुर्मुक्त इषुः स्तुतः।
सप्तदश्यां तु युद्धादेः कवचस्य तु बध्यतः॥१३४॥
स्तुतिरष्टादशी ज्ञेया युयुत्सोः स्तुतिरुत्तमा।
आशास्ते चोत्तमे पादे ऋषिरात्मन आशिषः॥१३५॥
सूक्तेनानेन तु स्तुत्वा सङ्ग्रामाङ्गान्यृषिस्तयोः।
ततः प्रस्थापयामास पुनर्वारशिखान्प्रति॥१३६॥
एतत्त्यत्ते चतसृभी राज्ञो साहाय्यकाम्यया।
भरद्वाजोऽभितुष्टाव प्रीतस्तेन पुरन्दरः॥१३७॥
अभ्यावर्तिनमभ्येत्य हर्युपीयानदीतटे।
सहितश्चायमानेन जघानैनाञ्छचीपतिः॥१३८॥
तौ तु वारशिखाञ्जेत्वा ततोऽभ्यावर्तिसांर्जयौ।
भरद्वाजाय गुरवे ददतुर्विविधं वसु॥१३९॥
भरद्वाजश्च गर्गश्च दृष्टाविन्द्रेण वै पथि।
द्वयान् प्रस्तोक इत्याभिर्धानं तद्वै शशंसतुः॥१४०॥
ऋषिरप्यभितुष्टाव् दानं तत्र च तस्य तु।
ऋचैकया द्वयान् अग्ने दत्तं सङ्कीर्तयन् स्वयम्॥१४१॥
प्रसङ्गास्त्विह याः सूक्ते देवताः परिकीर्तिताः।
ता एव सूक्तभाजस्तु मेने राथीतरः स्तुतौ॥१४२॥
॥ इति षष्ठं मण्डलम्॥
॥ अथ सप्तमं मण्डलम्॥
प्राजापत्यो मरीचिर्हि मारीचः कश्यपो मुनिः।
तस्य देव्योऽभवञ्जाया दक्षायण्यस्त्रयोदश॥१४३॥
अदितिर्दितिर्दनुः काला दनायुः संहिका मुनिः।
क्रोधा विश्वा वरिष्ठा च सुरभिर्विनता तथा॥१४४॥
कद्रूश्चैवेति दुहितॄः कश्यपाय ददौ स च।
तासु देवासुराश्चैव गन्धर्वोरगराक्षसाः॥१४५॥
वयांसि च पिशाचाश्च जज्ञिरेऽन्याश्च जातयः।
तत्रैका त्वदितिर्देवी द्वादशाजनयत्सुतान्॥१४६॥
भगश्चैवार्यमांशश्च मित्रो वरुण एव च।
धाता चैव विधाता च विवस्वांश्च महाद्युतिः॥१४७॥
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
द्वन्द्वं तस्यास्तु तज्जज्ञे मित्रश्च वरुणश्च ह॥१४८॥
तयोरादित्ययोः सत्त्रे दृष्ट्वाप्सरसमुर्वशीम्।
रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे॥१४९॥
तेनैवतु मुहूर्तेन वीर्यवन्तौ तपस्विनौ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः॥१५०॥
बहुधा पतिते शुक्रे कलशेऽथ जले स्थले।
स्थले वसिष्थस्तु मुनिः सम्भुत ऋषिसत्तमः॥१५१॥
कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः।
उदियाय ततोऽगस्त्यः शम्यामात्रो महायशाः॥१५२॥
मानेन सम्मितो यस्मात्तस्मान्मान्य इहोच्यते।
यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते॥१५३॥
कुम्भ इत्यभिधानं तु परिमाणस्य लक्ष्यते।
ततोऽप्सु ग्रुह्यमाणासु वसिष्थः पुश्करे स्थितः॥१५४॥
सर्वत्र पुश्करं तत्र विश्वे देवा अधारयन्।
उत्थाय सलिलात्तस्मादथ तेपे महत्तपः॥१५५॥
नामास्य गुणतो जज्ञे वसतेः श्रैष्ठ्यकर्मणः।
अदृशमृषिभिर्हीन्द्रं सोऽपश्यत्तपसा पुरा॥१५६॥
सोमभागानथो तस्मिअ प्रोवाच हरिवाहनः।
ऋषयो वा इन्द्रमिति ब्रह्मानात्तद्धि दृश्यते॥१५७॥
वसिष्ठश्च वसिष्ठाश्च ब्राह्मना ब्रह्मकर्मणि।
सर्वकर्मसु यज्ञेषु दक्षिणियतमास्तथा॥१५८॥
तस्माद्येऽद्यापि वासिष्ठाः सदस्याह् स्युस्तु कर्हिचित्।
अर्हयेद्दक्षिणाभिस्तान् भालवेयी श्रुतिस्त्वियम्॥१५९॥
ऋषिस्तु मैत्रावरुणिः सूक्तैः षोळशभिः परैः।
तुष्तावाग्निमिति त्वग्निमाप्र्यस्तत्र जुषस्व नः॥१६०॥
प्राग्नयेऽथ प्र सम्राजो द्वितीयं प्राग्नये तृचम्।
वैश्वानरीयाण्येतानि त्वे हैन्द्राणि पराण्यतः॥१६१॥
दश पञ्च च सूक्तानि निपातो मरुतां स्तुतिः।
नकिः सुदास इत्यस्यां दानं पैजवनस्य तु॥१६२॥
वसिष्थेन चतुर्भिस्तु द्वे नप्तुरिति कीर्तितम्।
सम्वादं सूक्तमैन्द्रं वा श्वित्यञ्चस्तु प्रचक्षते॥१६३॥
वसिष्ठागस्त्ययोरत्र कीर्त्यते तनयैः सह।
इन्द्रेण चैव संवादो महिमा जन्म कर्म च॥१६४॥
पराणि प्रेति चत्वारि वैश्वदेवानि तत्र तु।
स्तौत्यृगब्जामहिं तत्र मा नोऽहिं बुध्न्यमेव च॥१६५॥
अहिराहन्ति मेघान्स एति वा तेषु मध्यमः।
योऽहिः स बुध्नो बुद्न्ये हि सोऽन्तरिक्शेऽभिजायते॥१६६॥
उदु ष्य सवितुः सूक्तं शं नो वाजिनदैवतः।
द्वृचोऽर्धर्चश्च भागोऽत्र भगमुग्र इति श्रुतिः॥१६७॥
पादश्चैव तृतीयोऽत्र पञ्चम्यामहिदैवतः।
यथार्धर्चो भगमुग्रस्तथा नूनं भगोऽपि च॥१६८॥
स हि रत्नानि सविता सुवातीति भगः स वा।
वैश्वदेवानि पञ्चोर्ध्वः पञ्चर्चो भगदैवतः॥१६९॥
प्रातर्जितमुषस्यान्त्या द्रष्टृभ्योऽत्राशिरेव वा।
एके तु प्रातरित्यस्याम् भगमेव प्रचक्षते॥१७०॥
आदावन्ते तु ऋषयः कीर्तयन्ति प्रसङ्गतः।
सूक्तेऽस्मिन्देवतास्त्वन्या अन्यास्तत्र भवन्ति च॥१७१॥
सालोक्यात्साहचर्याद्वा संस्तवादथवा पुनः।
गणस्थानाद्भक्तितो वा कीर्त्यन्तेऽन्यास्तु देवताः॥१७२॥
दाधिक्रमथ सावित्रं रौद्रमित्यनुपूर्वशः।
दाधिक्रे प्रथमायास्तु देवताः परिकीर्तिताः॥१७३॥
सा ज्ञेया आप आप्यं स्यादार्भावः प्रथमस्तृचः।
उत्तमा वैश्वदेवी वा आर्भवी वा निगद्यते॥१७४॥
वैश्वदेवे तथा शस्त्रे आर्भवं शस्यते हि तत्।
दशमेऽह्नि समस्तं समुद्रज्येष्ठा अपां स्तुतिः। समुद्रज्येष्ठा अपां स्तुतिः॥१७५॥
॥ इति ब्रुहद्देवतायां पञ्चमोऽध्यायः॥
॥ अथ बृहद्देवतायां षष्ठोऽध्यायः॥
आ मामिति तु सूक्तेन प्रत्यृचं देवताः स्तुताः।
मित्रावरुणावग्निश्च देवा नद्यस्तथैव च॥१॥
तृचावादित्यदेवत्यौ दोदस्योः प्रेति यस्तृचः।
वास्तोष्पत्याश्च तस्रस्तु सप्त प्रस्वापिन्यः स्मृताः॥२॥
परं चत्वारि सूक्तानि मारुतानि क ईमिति।
तेषां तु पितरम् देवं त्र्यम्बकं स्तौत्य्रुगुत्तमा॥३॥
स्तुतौ तु मित्रावरुणौ सूक्तैर्यदिति सप्तभिः।
अश्विनौ तु परैर्देवावष्टभिः प्रति वामिति॥४॥
यदद्यैकोत्सूर्यस्तिस्र उद्वेतीत्यर्धपञ्चमाः।
सौर्यस्तच्चक्षुरिति तु गीयते चक्षुर्देवता॥५॥
आदित्यानां तद्वो आद्य द्वे ऋचौ शौनकोऽब्रवीत्।
अन्याः सर्वा ऋचः सौर्या यदद्याद्याः प्रकीर्तिताः॥६॥
इमे चेतार इत्याद्याः ......।
अर्यम्णो वरुणस्यापि मित्रस्यैता नव स्मृताः॥७॥
यदद्य सूर इत्याद्या दशादित्या ऋचः स्मृताः।
सविता वादितिर्मित्रो वरुणश्चार्यमा भगः॥८॥
स्तुता उदु त्यदित्येतास्तिस्रः सौर्यस्ततः पराः।
अशीस्तच्चक्षुरित्येतामाचार्यः शौनकोऽब्रवीत्॥९॥
उषास्तु सप्तभिर्व्युषाः सूक्तान्येभ्यः पराणि तु।
चत्वारीन्द्राअवरुणेति इन्द्रावरुणयोः स्तुतिः॥१०॥
उदु ज्योतिरिति त्वस्मिन्नर्धर्चे मध्यमः स्तुतः।
वरुणस्य गृहान्य्रात्रौ वसिष्थः स्वप्न आचरत्॥११॥
प्राविवेशाथ तं तत्र श्वा नदन्नभ्यधावत।
क्रन्दन्तं सारमेयं स धावन्तं दष्तुमुद्यतम्॥१२॥
यदर्जुनेति च द्वाभ्यां स्वान्तयित्वा व्यसुष्वपत्।
स तं प्रास्वापयामास जनमन्यं च वारुणम्॥१३॥
तत्तस्तु वरुणो राजा स्वैः पाशैः प्रत्यबध्यत।
स बद्धः पितरं सूक्तैश्चतुर्भिरित उत्तरैः॥१४॥
अभितुष्टाव धीरेति मुमोचैनं ततः पिता।
ध्रुवासु त्वेति चोक्तायां पाशा अस्मात्प्रमोचिरे॥१५॥
पराणि त्रीणि सूक्तानि वायव्यानि प्र वीरया।
अत्र तास्त्वैन्द्रवायव्या स्तुतौ तासु द्विवत्त्सुतिः॥१६॥
प्र वीरयोक्ता वायव्या प्राउगीत्यैतरेयके।
पदस्य व्यत्ययम् कृत्वा वायोः प्राधान्यमुच्यते॥१७॥
ते सत्येन तृचो यावत्तरश्चतुरृचः पुनः।
उशन्तैका प्र सोता चर्ग्द्वयोरेता नव स्मृताः॥१८॥
ऐन्द्राग्ने शुचिमित्येते प्रेति सारस्वते परे।
ऋचा सरस्वान् स इति जनीयंतश्च तिसृभिः॥१९॥
राजा वर्षसहस्राय दीक्षिष्यन्नाहुषः पुरा।
चचारैकरथेनेमां ब्रुवन्सर्वाः समुद्रगाः॥२०॥
यक्ष्ये वहत भागान्मे द्वन्द्वशो वाथवैकशः।
प्रत्यूचुस्तम् नृपं नद्यः स्वल्पवीर्याः कथं वयम्॥२१॥
वहेम भागान्स्वर्वांस्ते सत्त्रे वार्षसहस्रिके।
सरस्वतीं प्रपद्यस्व सा ते वक्ष्यति नाहुश॥२२॥
तथेत्युक्त्वा जगामाशु आपगां स सरस्वतीम्।
सा चैनं प्रतिजग्राह दुदुहे च पयो घृतम्॥२३॥
एतदत्यद्भुतं कर्म सरस्वत्या नृपं प्रति।
वारुणिः कीर्तयामास प्रथमस्य द्वितीयया॥२४॥
यज्ञे बार्हस्पत्यमैन्द्रं वैष्णवे तु परे ततः।
उरुमैन्द्र्यश्च तिस्रः स्युः पार्जन्ये तिस्र उत्तरे॥२५॥
स्तौतीन्द्रं प्रथमा त्वत्र द्वितीयाद्या बृहस्पतिम्।
यज्ञ आद्येन्द्रमेवास्तौदन्त्या त्विन्द्राबृहस्पती॥२६॥
तृतीया नवमी चैव स्तौतीन्द्राब्रह्मनस्पती।
सम्वत्सरम् तु मण्डूकानैन्द्रासोमं परं तु यत्॥२७॥
ऋषिर्ददर्श राक्षोघ्नं पुत्रशोकपरिप्लुतः।
हते पुत्रशते तस्मिन्सौदासैर्दुःखितस्तदा॥२८॥
ये पाकशंसमृक्स्ॐया आग्नेयी तत उत्तरा।
एकादशी वैश्वदेवी स्ॐयस्तस्याः परो द्वृचः ॥२९॥
यदि वाहमृगाग्नेयी ऐन्द्री यो मेति तु स्मृता।
ग्राव्णी प्र या जिगातीति वि निष्थध्वं तु मारुती॥३०॥
प्रवर्र्तयेति पञ्चैन्द्र्य ऐन्दासोमी त्वगुत्तमा।
ऋषिस्त्वाशिषमाशास्ते मा नो रक्ष इति द्वृचि॥३१॥
दिवि चैव पृथिव्यां च तथा पालनमात्मनः।
उलूकयातुं जह्येतान्नानारूपान्निशाचरान्।।३२॥
पञ्चदश्यां तु सूक्तस्य अष्टम्यां चैव वारुणिः।
दुःखशोकपरीतात्मा शपते विलपन्निव॥३३॥
हते पुत्रशते तस्मिन्वसिष्थो दुःखितस्तदा।
रक्षोभूतेन शापात्तु सुदासानेति वै श्रुतिः॥३४॥
॥ इति सप्तमं मण्डलम्॥
॥ अथाष्टमं मण्डलम्॥
कण्वश्चैव प्रगाथश्च घोरपुत्रौ बभूवतुः।
गुरुणा तावनुज्ञातावूषतुः सहितौ वने॥३५॥
वसतोस्तु तयोस्तत्र कण्वपत्न्याः शिरः स्वपत्।
कृत्वा कनीयान्कण्वस्य उत्सङ्गे नान्वबुध्यत॥३६॥
तप्तुकामस्तु तं कण्वः क्रुद्धः पापभिशङ्कया।
बोधयामस पादेन दिधक्षन्निव तेजसा॥३७॥
विदित्वा तस्य तं भावं प्रगाथः प्राञ्जलिः स्थितः।
मातृत्वे च पितृत्वे च वरयामस तावुभौ॥३८॥
स घौरो वाथ काण्वो वा वंशजैर्बहुभिः सह।
ददर्शान्यैश्च शैत ऋषिर्मण्डलष्टमम्॥३९॥
माचिदैन्द्राणि चत्वारि अन्वस्य स्थूरमित्यृचि।
तुष्टावाङ्गिरसी नारी वसन्ती शाश्वती पतिम्॥४०॥
स्त्रियं सन्तं पुमांसं तमासङ्गं क्रुतवानृषिः।
स्वस्य दानं स्तुहीत्यृग्भिश्चतुर्भिः परिकीर्तितम्॥४१॥
शिक्षेत्यृग्भ्यां तु कात्यस्य विभिन्दोः परिकीर्तितम्।
पाकस्थाम्नस्तु भोजस्य चतुभिर्यमिति स्तुतम्॥४२॥
पौष्णौ प्रेति प्रगाथौ द्वौ मन्यते शाकटायनः।
ऐन्द्रमेवाथ पूर्वं तु गालवः पौश्णमुत्तरम्॥४३॥
ऐन्द्राणामिह सूक्तानामुत्तमस्योत्तमे तृचे।
दानं राज्ञः कुरङ्गस्य स्थूरं राध इति स्तुतम्॥४४॥
दूरादित्याश्विने सूक्ते सप्तत्रिंशत्तमी यथा।
इत्यर्धोर्चो द्वृचश्चान्त्यः कशोर्दानस्तुतिः स्मृता॥४५॥
महानैन्द्रं प्रत्नवत्यामग्निं वैश्वानरं स्तुतम्।
मन्यते शकपूणिस्तु भार्म्यश्वश्चैव मुद्गलः॥४६॥
तृचे तु शतमित्यस्मिन्दानं तैरिन्दिरं स्मृतम्।
परं तु मारुतं प्रेति आ नस्त्रीण्याश्विनानि च॥४७॥
त्वमाग्नेयं य इन्द्रेति षळैन्द्रान्युत्तमस्य तु।
उपोत्तमायामर्धेर्चे देवो वास्तोष्पतिः स्तुतः॥४८॥
इदमादित्यदेवत्यं तिसृभिस्त्वदितिः स्तुता।
षष्ठ्या चतुर्थ्या सप्तम्या उतेत्याश्विन्यृगष्टमी॥४९॥
स्तुताः शमिति पच्छस्तु अग्निसूर्यानिलास्त्रयः।
वरुणार्यममित्राणां प्रगाथो यमिति स्तुतिः॥५०॥
आग्नेये स्तुती राजर्षेस्त्रसदस्योरदादिति।
पञ्चाशतं वधूनां च गवां तिस्रश्च सप्ततीः॥५१॥
अश्वोष्ट्राणां तथैवासौ वासांसि विविधानि च।
रत्नानि वृषभम् श्यावं तासामग्रेसरं पतिम्॥५२॥
कृत्वा दारानैषिर्गच्छन्निन्द्रायैतच्छशंस च।
वयं सूक्तेन शक्रं च प्रीतस्तेन शचीपतिः॥५३॥
ऋषे वरं वृणीष्वेति प्रह्वस्तमृषिरब्रवीत्।
काकुत्स्थ कन्याः पञ्चातद्युगपद्रमये प्रभो॥५४॥
कामतो बहुरूपत्वं यौवनं जाक्षयां रतिम्।
शङ्खनिधिं पद्मनिधिं मद्गृहेष्वनपायिनम्॥५५॥
प्रासादान्विश्वकर्मासौ सौवर्णांस्त्वत्प्रसादतः।
कुर्वीत पुष्पवाटीं च पृथक्तासां सुरद्रुमैः॥५६॥
मा भूत्सपत्नीस्पर्धासां सर्वमस्त्विति चाब्रवीत्।
आ गन्त मारुतं सूक्तं वयमित्यैन्द्रमुत्तरम्॥५७॥
कान्वस्य सोभरेश्चैव यजतो वंशजैः सह।
कुरुक्षेत्रे यवाञ्जक्षुर्हवींषि विविधानि च॥५८॥
आ खवः सोऽभितुष्टाव इन्द्रं चित्रं सरस्वतीम्।
इन्द्रो वेत्यनयर्चा स दानशक्तं प्रकाशयन्॥५९॥
आखुराजोऽभिमानाच्छ प्रहर्षितमनाः स्व्यम्।
संस्तुतो देववच्चित्र ऋषये तु गवां ददौ।। ६०॥
अयुतानां सहस्रं वै निजग्राह स्तुवन्नृषिः।
ऋषिं चोवाच हृष्टात्मा नाहमर्हाम्यृषे स्तुतिम्॥६१॥
तिर्यग्योनौ समुत्पन्नो देवता स्तोतुमर्हसि।
तमन्त्यया पुनश्चास्तौदो त्यं सूक्तेन चाश्विनौ॥६२॥
ईळिष्वेत्येतदाग्नेयं सखायश्चैन्द्रमुत्तरम्।
यथा वरो सुषाम्ण इत्युत्तमस्त्वौषसस्तृचः॥६३॥
अष्टौ तु सहितास्त्वेता देवता बिभिदुर्वलम्।
उषाश्चेन्द्रश्च सोमश्च अग्निः सूर्यो बृहस्पतिः॥६४॥
अङ्गिराः सरमा चैव ता वामित्युत्तरस्य तु।
अदौ मैत्रावरुण्यस्तु नव द्वादश तूत्तराः॥६५॥
वैश्वदेव्यो वरू राजा यच्चादादृषये वसु।
कीर्तितं तत्तृचे त्वस्मिन्नृज्रमुक्षण्यायने॥६६॥
अश्विनौ ददतुः प्रीतोय् तदिहोक्तं सुशामणि।
आश्विनं तु युवोर्युक्ष्व वायव्या उत्तरास्तु याः॥६७॥
यं सवर्णा मनुर्नाम लेभे पुत्रं विवस्वतः।
वैश्वदेवानि पञ्चैतान्यग्निरुक्थे जगाद सः॥६८॥
बभ्रुरेक इति त्वेता लिङ्गतो द्विपदा दश।
स्तूयन्ते देवता ह्यासु कर्मभिः स्वैः पृथक्पृथक्॥६९॥
स्तुताः कर्मगुणैः स्वैः स्वैर्देवता यत्र तत्र तु।
पृथक्कर्मस्तुतिर्नाम वैश्वदेवं तदेव तु॥७०॥
तासां बभ्रुरिति त्वाद्या सौ म्याग्नेयी त्वगुत्तरा।
त्वाष्ट्री चैन्द्री च रौद्री च पौष्णी वैष्णव्यृगाश्विनी॥७१॥
नवमी मैत्रावरुणी ऋग्दशम्यत्रिसंस्तवः।
यजमानप्रसङ्गाच्च प्र इज्यात्र प्रकीर्तिता॥७२॥
यो यजाति द्वृचे शक्रो यजतां पतिरीळितः।
तस्य द्युमान् द्वृचे यज्जा चतसृष्वपि मक्ष्विति॥७३॥
यज्वनोरेव दम्पत्योः पञ्च या दम्पती ऋचः।
आ शर्माशीरैतु पौश्ण्यौ परे मित्रोऽर्यमा यथा॥७४॥
वरुणश्च स्तुतास्त्वत्र आदित्या अग्निमग्नये।
सूक्तानि प्र क्रुतानीति त्रीणैन्द्राणि पराण्यतः॥७५॥
अध इत्यत्र कन्या तं स्त्रीलिङ्गेनेन्द्रमब्रवित्।
स हि तां कामयामास दानवीं पाकशसनः॥७६॥
ज्येष्ठां स्वसारं व्यंसस्य तस्यैव युवकाम्यया।
अग्निनेत्याश्विनं सूक्तमैन्द्रसूक्ते परे ततः॥७७॥
ऐन्द्राग्नं परमाग्नेयमैन्द्राग्नं वारुणे परे।
उत्तरे वारुणे त्यन्त्य आ वामित्याश्विनस्तृचः॥७८॥
सूक्ते इमे समाग्नी ताभ्यामिन्द्रे ततः परे।
वशायाश्व्याय यत्प्रादात्कानीतस्तु पृथुश्रवाः ॥७९॥
तदत्र संस्तुतं दानं आ स इत्येवमादिभिः।
आनः प्रगाथौ वायव्यौ सूक्तस्योपोत्तमा च या॥८०॥
मित्रार्यमाणौ मरुतः सुनीथो घ द्वृचे स्तुताः।
द्विचत्वारिंशकात्प्रीतस्त्रिशोकाय पुरन्दरः॥८१॥
गिरिं निक्रुत्य वज्रेण गा ददावसुरैर्हृताः।
यः कृन्तदिति चैतस्यामृषिस्तु स्वयमब्रवित्॥८२॥
स्तुता नवम्या त्वदितिर्महीत्यादित्य दैवते।
अन्त्याः पञ्चोषसेऽपि स्युः स्ॐयं स्वादोरिति स्म्रुतम्॥८३॥
पराण्यष्टौ तु सूक्तानि ऋषीणां तिग्मतेजसाम्।
ऐन्द्राण्यत्र तु षड्विंशः प्रगाथो बहुदैवतः॥८४॥
ऋगन्त्याग्नेरचेत्यग्निः सूर्यमन्त्यं पदं जगौ।
प्रस्कण्वश्च पृषध्रस्य पादाद्यद्वसु किञ्चन॥८५॥
यद्भूरीदिति सूक्ताभ्यामखिलं त्विह संस्तुतम्।
ऐन्दाण्युभयमित्यत्र षळाग्नेयात्पराणि तु॥
निपातमाह देवानां दाता म इति भागुरिः।। ८६॥
ऋचं यास्कस्तृचं त्वेतं मन्यते वैश्वदेवतम् ।
आदित्यदैवतं सूक्तं त्यान्न्वित्यत्र परं तु यत्।। ८७॥
धीवराः सहसा मीनान्दृष्ट्वा सारस्वते जले।
जालं प्रक्षिप्य तान्बद्ध्वो दक्षिइपन्सलिलात्स्थलम्॥८८॥
शरीरपातभीतास्ते तुष्टुवुश्चादितेः सुतान्।
मुमुचुस्तांस्ततस्ते च प्रसन्नास्तान् समूदिरे॥८९॥
धीवराः क्षुद्भयं मा वो भूत्स्वर्गं प्राप्स्यथेति च।
उतेति माता तत्रैषां तृचेनाभिष्टुतादितिः॥९०॥
मातृत्वादभिसंबन्धात्स्तूयेतैषां स्तुतौ स्तुतौ।
ऐन्द्राण्या त्वा रथं त्रीणि स्तौत्यृतूनुप मेति षट्॥९१॥
ऋक्षाश्वमेधयोरत्र पञ्च दानस्तुतिः पराः।
अपादिन्द्रस्य चाग्नेश्च विश्वेषां चैव संस्तवः॥९२॥
द्वृचस्य प्रथमोऽर्धर्चः शेषो वरुणदैवतः।
त्वमाग्नेयेऽथवा सूक्तमुत्तरं हविषां स्तुतिः॥९३॥
पयः पश्वोषधीनां च तथारूपं हि दृश्यते।
उदित्याश्विनमाग्नेये परे सूक्ते विशोविशः॥९४॥
ऋग्भ्यामहमिति द्वाभ्यां स्तौत्यात्मानमृषिः स्वयम्।
आत्मानमात्मना स्तुत्वा सौति दानं श्रुतर्वणः॥९५॥
आत्मादानाभिसंबन्धात्परुष्णीं च महानदीम्।
परया परुष्णीमिन्द्रं त्रिभिः सूक्तैरिमं न्विति॥९६॥
अयं क्रुत्नुरिदं स्ॐयं त्रीण्यैन्द्राणि पराण्यतः।
नहीति तेषां प्रथमे वैश्वदेव्यृगवीव्रुधत्।।९७॥
देवानामिति देवानां प्रेष्ठमाग्नेयमुत्तरम्।
त्रीण्याश्विनान्या म इति ऐन्द्राणि तमितिति च॥९८॥
अपालात्रिसुता त्वासीत्कन्या त्वग्दोषिणी पुरा।
तामिन्द्रश्चकमे दृष्ट्वा विजने पितुराश्रमे॥९९॥
तपसा बुबुधे सा तु सर्वमिन्द्रचिकीर्षितम्।
उदकुम्भं समादाय अपामर्थे जगाम सा॥१००॥
दृष्ट्वा सोममपामन्ते तुष्टावर्चा वने तु तम्।
कन्या वारिति चैतस्यामेषोऽर्थ कथितस्ततः॥१०१॥
सा सुषाव मुखे सोमं [सुत्वेन्द्रं चाजुहाव तम्।
असौ य एषीत्यनया] पपाविन्द्रश्च तन्मुखात्॥१०२॥
अपूपांश्चैव सक्तूंश्च भक्षयित्वा तद्गृहात्।
ऋग्भिस्तुष्टाव सा चैनं जगादैनं त्रुच्न तु॥१०३॥
सुलोमामनवद्याङ्गीं कुरु मां शक्र सुत्वचम्।
तस्यास्तद्वचनं श्रुत्वा प्रीतस्तेन पुरन्दरः॥१०४॥
रथछिद्रेन तामिन्द्रह् शकटस्य युगस्य च।
प्रक्षिप्य निश्चकर्ष त्रिः सुत्वक् सा तु ततोऽभवत्॥१०५॥
तस्यास्त्वगपहता या पूर्वा सा शल्यकोऽभवत्।
उत्तरा त्वभदद्गोधा कृकलासस्त्वगुत्तमा॥१०६॥
इतिहासमिदं सूक्तमाहुतुर्यास्कभागुरी।
कन्येति शौनकस्त्वैन्द्रं पान्तमित्युत्तरे च ये॥१०७॥
उत्तमा त्वार्भवी प्रॊक्ता उत्तरस्यैतरेयके।
छान्दोमिके तृतीये तदार्भवं शस्यते यतः॥१०८॥
मारुतं गौः परं सूक्तमा त्वैन्द्राणि पराणि षट्।
सूक्ते द्वितीय एतेषामितिहासं प्रचक्षते। अपक्रम्य तु देवेभ्यः सोमो वृत्रभयार्दितः॥१०९॥
नदिमन्तुमतीं नाम्ना अभ्यतिष्ठत्कुरून्प्रति।
तं बृहस्पतिनैकेन अभ्ययाद्वृत्रहा सह॥११०॥
योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः।
दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः॥१११॥
मन्वानो व्रुत्रमायान्तं जिघांसुमरिसेनया।
व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः॥११२॥
मरुत्पतिरयं सोम एहि देवान्पुनर्विभो।
श्रुत्वा देवगुरोर्वाक्यमनर्थं वृत्रशङ्कया॥११३॥
सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली।
इयाय देवानादाय तं वपुर्विधिवत्सुराः॥११४॥
जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव।
तदेतदप्यवेत्यस्मिंस्तैचे सर्वं निगद्यते॥११५॥
इन्द्रं च मरुतश्चैव तथैव च बृहस्पतिम्।
तृचस्य देवता ह्येता इन्द्रमेवाह शौनकः॥११६॥
ऐन्द्राबार्हस्पत्य उक्तो ब्राह्मणे त्वैतरेयके।
तृचेनेन्द्रमपश्यंस्तं नेमोऽयमिति भार्गवः॥११७॥
तुष्टावेन्द्रो द्वृचेनायमहं पश्य च मामृषे।
स हि स्तुवन्नेम एको नेन्द्रो अस्तीति चाब्रवीत्॥११८॥
तदाकर्ण्येन्द्र आत्मानमृग्भ्यां तुष्टाव दर्शयन्।
ऋषिस्तं दृष्ट्वा सुप्रीतो विश्वेत्ता त इति द्वृचे॥११९॥
विविधानि च कर्माणि दानमैन्द्रं च शंसति।
मनोजवास्तु सौपर्णी समुद्रे वज्र संस्तवः॥१२०॥
वाचं सर्वगताम् देवीं स्तौति यद्वागिति द्वृचे।
त्रींल्लोकानभितप्येमान्वृत्रस्तस्थौ स्वया त्विषा॥१२१॥
तं नाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत्।
वृत्रं हनिष्ये तिष्थस्व विक्रम्याद्य ममान्तिके॥१२२॥
उद्यतस्यैव वज्रस्य द्यौर्ददातु ममान्तरम्।
तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ॥१२३॥
तदेतदखिलं प्रोक्तं सखे विष्णविति त्वृचि।
मैत्रावरुण्यः सूक्ताद्याश्चतस्रस्त्वृधगित्यृचः॥१२४॥
प्रेति मित्राय पादाश्च अर्यम्णो वरुणस्य च।
त्रयश्चतुर्थः सर्वेषामादित्यानामिति स्तुतिः॥१२५॥
परा त्वादित्यदेवत्या आ म इत्याश्विनो द्वृचः।
वायव्ये सौर्ये उषस्या प्रभां वा चन्द्रसूर्ययोः॥१२६॥
पावमानी प्रजा हेति मातेत्यृग्भ्यां तु गौः स्तुता।
त्वमग्ने ब्रुहदाग्नेये परेऽग्निस्त्वृचि संस्तुतः॥१२७॥
मरुद्भिः सह रुद्रैश्च अग्ने याहीति मध्यमह्।
प्रजा हेत्यपि वार्धर्चे प्रथमेऽग्निरिहोच्यते॥१२८॥
पादे तृतीय आदित्यस्तुरीये मध्यमः स्तुतः।
रहस्ये ब्राह्मणेऽप्येवं व्याख्यातं ह्यैतरेयके॥१२९॥
॥ इति अष्टमं मण्डलम्॥
॥ अथ नवमं मण्डलम्॥
पवमानः स्तुतह् सोमो नवमे त्विह मण्डले।
पवमानवदाप्र्यस्तु समिद्ध इति संस्तुताः॥१३०॥
अग्न आयूंषीति चासु तिसृष्वग्निर्निपातभाक्।
अविता न इति त्वस्मिंस्तृचे पूष्णा सह स्तुतः॥१३१॥
आग्नेय्यौ द्वे ऋचावत्र यत्त इत्युत्तरे ततः।
उभाभ्यामिति सावित्री आग्निसावित्र्यृगुत्तरा॥१३२॥
पुनन्तु मां वैश्वदेवी आग्नेयी त्वृगुप प्रियम्।
उत्तरे च य इत्येते स्वाध्यायाध्येतृसंस्तवः॥१३३॥
सूक्ते निरुक्ते स्रक्वेऽग्नी रक्षोहा घर्मसंस्तवः।
सूर्यवच्चात्मवच्चापि पवित्रमिति चोच्यते॥१३४॥
आर्भवस्तु भवेत्पाद ऋभुर्धीरे इति स्मृतः।
निपातैस्तु त्रिभिः पादैस्त्रयो देवा इहोदिताः॥१३५॥
ब्रह्मा देवानां तिस्रोक्तास्त्रिभिस्त्वेतैद्वृचैर्द्वृचैः।
सूर्यवच्चात्मवच्चापि स्तूयते सोम एव वा॥१३६॥
अनावृष्ट्यां तु वर्त्यंत्यां पप्रच्छर्षीञ्छचीपतिः।
काले दुर्गे महत्यस्मिन्कर्मणा केन जीवथ॥१३७॥
शकटं शाकिनी गावः कृषिरस्यन्दनं वनम्।
समुद्रः पर्वतो राजा एवं जीवामहे वयम्॥१३८॥
स्तुवन्नेव शशंस्यास्य ऋषिराङ्गिरसः शिशुः।
नानानीयेन सूक्तेन ऋषीणामेव सन्निधौ॥१३९॥
तानिन्द्रस्त्वाह सर्वांस्तु तपध्वं सुमहत्तपः।
न ह्यृते तपसः शक्यमिदं कृच्छ्रं व्यपोहितुम्॥१४०॥
अथ ते वै तपस्तेपुः सर्वे स्वर्गजिगीषवः।
ततस्ते तपसोऽग्रेण पावमानीरृचोऽब्रुवन्॥१४१॥
अनसूयुरधीयानः शुश्रूषुस्तपसान्वितः।
दश पूर्वापरान्वंश्यान् पुनात्यात्मानमेव च॥१४२॥
पापं यच्चाकरोत्किञ्चिन्मनोवाग्देहभोजनैः।
पूतः स तस्मात्सर्वात्स्वाध्यायफलमश्नुते॥१४३॥
पवमान्यः परं ब्रह्म शुक्रं ज्योतिः सनातनम्।
गायत्रोऽन्तेऽत्र यश्चासां प्राणानायम्य तन्मनाः॥१४४॥
पावमानं पितॄन्देवान्ध्यायेद्यश्च सरस्वतीं।
पितॄंस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम्॥१४५॥
एतत्सूक्त शतं स्ॐयं मण्डलं स चतुर्दशम्।
पावमानमिति ख्यातमनुवाकास्तु सप्त वै॥१४६॥
सप्ताग्नेयानि सूक्तानि ददर्शाग्र इति त्रितः।
प्र केतुनेति त्वाष्ट्रस्तु त्रिशिराः सूक्तमुत्तरम्॥१४७॥
ऋचस्त्वस्य षळाग्नेय्यस्तृचस्त्वस्येति यः परः।
तेनेन्द्रमभितुष्टाव् स्वप्नान्त इति नः श्रुतिः॥१४८॥
अभवत्स हि देवानां पुरोधाः प्रियकाम्यया।
असुराणां स्वसुः पुत्रस्त्रिशिरा विश्वरूपधृक्॥१४९॥
॥ इति नवमं मण्डलम्॥
॥ अथ दशमं मण्डलम्॥
तमृषिं प्रहितं त्विन्द्रो देवेषु बुबुधेऽसुरैः।
सोऽस्य वज्रेण तान्यातु शिरांसि त्रीण्यथाच्छिदत्॥१५०॥
तस्य यत्सोमपानं तु मुखं सोऽभूत्कपिञ्जलः।
कलविङ्कः सुरापाणमन्नादं तित्तिरिस्त्वभूत्॥१५१॥
तं वागभ्यवदद्ब्राह्मी ब्रह्महासि शतक्रतो।
प्रपन्नं हतवान्यस्माद्विश्वरूपं पराङ्मुखम्॥१५२॥
तमभ्यसिञ्चत्सूकेन ऋषिराप इति स्वयम्।
सिन्धुद्वीपोऽपनुत्त्यर्थं तस्याश्लीलस्य पाप्मनः॥१५३॥
मैथुनार्थमभीप्सन्तीं प्रत्याचष्टे यमीं यमः।
तदो चिदिति संवादो विवस्वत्सु तयोस्तयोः॥१५४॥
वृषाग्नेये हविर्धाने युजे वामत्र संस्तुते।
परेयिवांसमित्यत्र स्तूयते मध्यमो यमः॥१५५॥
अथर्वाणोऽथ भ्रुगवोऽङ्गिरसः पितरः सह।
षष्ठ्यां देवगणास्तत्र संस्तूयन्ते द्युभक्तयः॥१५६॥
पितृभिश्चाङ्गिरोभिश्च संस्तुतो दृश्यते यमः।
मन्त्रेषु बहुशः पादे विवस्वन्तं पिता हि सः॥१५७॥
संस्कार्यप्रेतसंयुक्तैः पित्रुभिः स्तूयते यमः।
प्रेहि प्रेहीति तिसृषु प्रेताशिष उदाहृताः।।१५८॥
पितॄणां हि पतिर्देवो यमस्तस्मात्स सूक्तभाक्।
अति द्रव तृचे श्वानौ परम् पित्र्यमुदीरताम्॥१५९॥
उत्तरेण तु सूक्तेन श्मशाने कर्म शंसति।
पितृदेवासुरानां च अभवन्नग्नयस्त्रयः। हव्यकव्यवहौ चोभौ सहरक्षाश्च नाम यः॥१६०॥
तत्र मैनमिति त्वेतत्कव्यवाहनसम्स्तुतिः।
इतरानि तु दैवस्य स्तुतिर्नास्या सुरस्य च।। १६१॥
अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह।
स वै सरण्यूं प्रायच्छत्स्वयमेव विवस्वते॥१६२॥
ततः सरण्य्वां जज्ञाते यमयम्यौ विवस्वतः।
तौचाप्युभौ यमावेव जायांस्ताभ्या तु वै यमः। ज्यायांस्ताभ्यां तु वै यमः॥१६२॥
॥ इति बृहद्देवतायां षष्ठोऽध्यायः॥
॥ अथ बृहद्देवतायां सप्तमोऽध्यायः॥
सृष्ट्वा भर्तुः परोक्षं तु सरण्यूः सदृशीं स्त्रियम्।
निक्शिप्य मिथुनं तस्यामश्वा भूत्वापचक्रमे॥१॥
अविज्ञानाद्विवस्वांस्तु तस्यामजनयन्मनुम्।
राजर्षिरभवत्सोऽपि विवस्वानिव तेजसा॥२॥
स विज्ञाय त्वपक्रान्तां सरण्य़ूमश्वरूपिणीम्।
त्वाष्ट्रीं प्रति जगामाशु वाजी भूत्वा सलक्षणः॥३॥
सरण्यूश्च विवस्वन्तं विदित्वा हयरूपिणम्।
मैथुनायोपचक्राम तां च तत्रारुरोह सः॥४॥
ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि।
उपाजिघ्रच्च सा त्वश्वा तच्छुक्रं गर्घकाम्यया॥५॥
आघ्रातमात्राच्छुक्रात्तु कुमारौ सम्बभूवतुः।
नासत्यश्चैव दस्रश्च यौ स्तुतावश्विनाविति॥६॥
इतिहासमिमं यास्कः सरण्यूदेवते द्वृचे।
विवस्वतश्च त्वष्टुश्च त्वष्टेति सह मन्यते॥७॥
पूषेति पादौ पौष्णौ द्वावाग्नेयावुत्तरौ तु यौ।
स्यात्तृतीयोऽपि वा पौश्णस्तिस्रश्चान्याः परास्तु याः॥८॥
अपां स्तुतिस्त्वृगत्रैका तृचात्सारस्व्वतात्परा।
स्तुतः परोक्षः सोमस्तु द्रप्स इत्युत्तरे तृचे॥९॥
आब्देवताशीर्वादो वा पयस्वत्युत्तरा तु या।
चतस्रस्ता स्तुतिर्मृत्योरन्त्ये क्लृप्ताश्च कर्मणि॥१०॥
मृतशिष्टेभ्य आशास्ते इमे ज्योग्जीवनं पुनः।
इमं जीवेभ्य आशास्ते तेभ्यः परिधिकर्मणि॥११॥
यथा धात्र्युत्तरा त्वाष्ट्री ततो यान्या इमास्त्विति।
स्त्रीणामाशिषमाशास्ते तयैवाञ्जनकर्मणि॥१२॥
उदीर्ष्व नारीत्यनया मृतं पत्न्यनुरोहति।
भ्राता कनीयान्प्रेतस्य निगत्य प्रतिषेधति॥१३॥
कुर्यादेतत्कर्म होता देवरो न भवेद्यदि।
प्रेतानुगमनं न स्यादिति ब्राह्मणशासनात्॥१४॥
वर्णानामितरेषां च स्त्रीधर्मोऽयं भवेन्न वा।
शान्त्यर्थं धनुरादाने प्रेतस्यर्चं धनुर्जपेत्। यस्मादेताः प्रयुज्यन्ते श्मशाने चान्त्यकर्मणि॥१५॥
तस्माद्वदेत्तृचस्यास्य देवतां मृत्यमेव तु।
मन्त्रेषु ह्यनिरुक्तेषु देवतां कर्मतो वदेत्॥१६॥
मन्त्रतः कर्मतश्चैव प्रजापतिरसम्भवे।
पराश्चतस्रो यास्त्वत्र उप सर्पेति पार्थिवी॥१७॥
तासाम् प्रयोगह् प्रेतस्य अथिसञ्चयकर्मणि।
प्रतीचीने यथाहानि अपहृत्येतरानि तु॥१८॥
अहस्सु पितरो दधुरित्याशास्तेऽन्त्ययाशिषः।
अहःस्वागमिषु च मां प्रयन्तं समजीवयन्॥१९॥
निवर्तध्वमितीदं तु गवां केचिदपांविदुः।
अर्धर्चः प्रथमायास्तु अग्नीषोमीय उत्तरः॥२०॥
ऐन्द्री षष्ठी द्वितीयायामुभौ देवौ निपातितौ।
दशाक्षरं तु शान्त्यर्थं मानसं सूक्तमुच्यते॥२१॥
त्रीण्यैन्द्राणि कुहेत्यत्र आग्नेयाभ्याम् पराणि तु।
तृचोऽत्रास्त्याश्विनस्त्वैक ऐन्द्राणामुत्तमे युवम्॥२२॥
भद्रं सौ म्यं प्र हि पौष्णं त्रीण्यैन्द्राणि पराण्यसत्।
तेषामाद्येन मत्तह् सन्स्वानि कर्माणि शंसति॥२३॥
यथा चरति भूतेषु यथा वर्षति पाति च।
सूक्ते तदस्मिन्नष्टाभिरृग्भिरुक्तमभूर्विति॥२४॥
सप्तेति मरुतह् स्तौति स्तौति वज्रम्रुगुत्तरा।
अग्निमिन्द्रं च सोमं च पीवानं मेषमर्चति॥२५॥
पूर्वोर्धर्चोऽपरस्तस्याः पर्जन्यं वायुना सह।
वि क्रोशनास इत्यग्निमुत्तरा सूर्यमेव तु॥२६॥
एतौ मेऽयं य इत्येते स्तुतिश्चैवेन्द्रवज्रयोः।
वृक्षे व्रुक्षे धनुश्चैन्द्रं देवानामिति तु त्रयः॥२७॥
शीतोष्णवर्षदातारः प्रजन्यानिलभास्कराः।
अन्त्ये सूर्यानिलौ चोभौ स्तूयेते च पदे सह॥२८॥
सा ते जीवातुरित्यस्यामिन्द्रो वा सूर्य एव वा।
विश्वो ह्यन्यस्तु संवाद ऋषेः शक्रस्य चैव हि॥२९॥
युग्माः शक्रस्य विज्ञेया वसुक्रस्येतरा ऋचः।
स्नुषेन्द्रस्यागतान्देवान्धृष्ट्वा शक्रमनागतम्॥३०॥
यज्ञं परोक्षवत्प्राह श्वशुरो नागतो मम।
यद्यागच्छेद्भक्शयेत्स धानाः सोमं पिबेदपि॥३१॥
इति तस्या वचह् श्रुत्वा तत्क्षणादेत्य वज्रधृक्।
तिष्थन्वेद्यामुत्तरस्यामुच्चैराह स रोरुवत्॥३२॥
तृतीयया चतुर्थ्या च प्र देवत्रेत्यपां स्तुतौ।
अपांनपादित्यनेन नामाग्निर्मध्यमः स्तुतः॥३३॥
एति यद्वैश्वदेवं तु तस्य प्रेत्यैन्द्रमुत्तरम्।
वैश्वदेवी प्र मेत्येका सं मेत्यन्द्रो द्वृचः परः॥३४॥
कुरुश्रवणमर्चतः परे द्वे त्यासदस्यवम्।
म्रुते मित्रातिथौ राज्ञि तन्नपातम्रुषिः परैः॥३५॥
उपमश्रवसं यस्य चतुर्भिः स व्यशोकयत्।
प्रावेपा इति सूक्तं यत्तदक्षस्तुतिरुच्यते॥३६॥
अत्राक्शान्द्वादशी स्तौति नवम्याद्या च सप्तमी।
त्रयोदशी क्रुशिं स्तौति कितवं चानुशासति। अक्षांस्तु शेषा निन्दन्ति आबुध्रं वैश्वदेवते॥३७॥
सावित्रमेके मन्यन्ते महो अग्ने स्तवं परम्।
आचार्याः शौनको यास्को गालवश्चोत्तमामृचम्॥३८॥
नमः सौर्यमनिद्रमस्मिन् सौर्ये षष्ठ्या तु याः स्तुताः।
निपातिन्यस्ताः सूक्तान्ते वैश्वदेवोऽत्रतु द्वृचः॥३९॥
आश्विनानि तु यस्त्रीणि ऐन्द्राण्यस्तेव सु प्र च।
ऐन्द्राणामुत्तमायास्तु स्तुतोऽर्धर्चे ब्रुहस्पतिः॥४०॥
परे दिवस्पर्याग्नेये प्रथमस्योत्तमेनतु।
द्यावापृथिव्यौ विश्वे च पच्छोऽर्धर्चेन संस्तुताः॥४१॥
आसीत्काक्शीवती घोषा पापरोगेण दुर्भगा।
उवास षष्टिं वर्षाणि पितुरेव ग्रुहे पुरा॥४२॥
अतस्थे महतीं चिन्तां न पुत्रो न पतिर्मम।
जरां प्राप्ता मुधा तस्मात्प्रपद्येऽहं शुभस्पती॥३३॥
यथैतौ मामकस्तात आराध्यावाप यौवनम्।
आयुरारोग्यमैश्वर्यं सर्वभूतहनेविषम्॥३४॥
रूपवत्तां च सौभाग्यमहं तस्य सुता यदि।
ममापि मन्त्राः प्रादुः स्युर्यैः स्तोष्येते मयाश्विनौ॥४५॥
चिन्तयन्तिति सूक्ते द्वे यो वां परि ददर्श सा।
स्तुतौ तावश्विनौ देवौ प्रीतौ तस्या भगान्तरम्॥४६॥
प्रविश्य विजरारोगां सुभागां चक्रतुश्च तौ।
भर्तारं ददतुस्तस्यैसुहस्त्येति सुतं मुनिम्॥४७॥
ददतुस्तत्सुपर्णाभ्यां यन्नासत्येति कीर्त्यते।
काक्षीवत्यै च घोआषायै न तस्यामाजुरोऽनया॥४८॥
प्राजापत्यासुरी त्वासीद्विकुण्ठा नाम नामतः।
सेच्छन्तीन्द्रसमं पुत्रं तेपेऽथ समहत्तपः॥४९॥
सा प्रजापतितः कामांल्लेभेऽथ विविधान् वरान्।
तस्या चेन्द्रह् स्वयं जज्ञे जिघाम्सुर्दैत्यदानवान्॥५०॥
एकदा दानवैः सार्धं समरे समसज्यत।
जघान तेषां नवतीर्नव सप्त च सप्तकान्॥५१॥
भित्त्वा स्वबाहुवीर्येण हैमरौपायसीः पुरीः।
हत्वा सर्वान्यथास्थानं पृथिव्यादिव्यवस्थितान्॥५२॥
पृथिव्यां कालकेयांश्च पौलोमांश्चैव धन्विनः।
तांश्च व्युत्सादयामास प्रह्लादतनयान्दिवि॥५३॥
राज्यं प्राप्य स दैत्येषु स्वेन वीर्येण दर्पितः।
देवान्बाधितुमारेभे मोहितोऽसुरमायया॥५४॥
बाध्यमानास्तु तेनापि असुरेणामितौजसा।
उपाधावन्नृषिश्रेष्ठं तत्प्रबोधाय सप्तगुम्॥५५॥
ऋषिस्तु सप्तगुर्नाम तस्यासीत्सुप्रियः सखा।
स चैनमभितुष्टाव जगैभ्मेति करे स्पृशन्॥५६॥
ततः स बुध्वा चात्मानं सप्तगुस्तुतिहर्षितः।
आत्मानमेव तुष्टाव् अहं भुवमिति त्रिभिः॥५७॥
कीर्तयान्स्वानि कर्मानि यानि स्म कृतवान्पुरा।
यथाकरोच्च वैदेहं व्यंसं सोमपतिं न्रुपम्॥५८॥
वसिष्ठशापादभवद्वैदेहो नृपतिः पुरा।
इन्द्रप्रासादादेजे च सत्त्रैः सारस्वतादिभिः॥५९॥
प्रभूतां शक्तिमत्तां च शत्रूणामप्यपाक्रियाम्।
न्रुषु सर्वेषु चैश्वर्यं प्रभुत्वम् भुवनेषु च। प्रवो मह इति त्वस्यामात्मनो वीर्यमक्षयम्॥६०॥
वैश्वानरे ग्रुहपतौ यविष्थेऽग्नौ च पावके।
वषट्कारेन वृक्णेषु भ्रातृष्वग्नौ सहः सुते॥६१॥
अपचक्राम देवेभ्यः सौचीकोऽग्निरिति श्रुतिः।
स प्राविशदपक्रम्य रुतूनपो वनस्पतीन्॥६२॥
ततोऽसुराः प्रादुरासन्नष्टेऽग्नौ हव्यवाहने।
तेऽग्निमेवान्ववैक्षन्त देवा हत्वासुरान्युधि॥६३॥
तं तु दूराद्यमश्चैव वरुणश्चान्वपश्यताम्।
उभावेनं समादाय देवानेवाभिजग्मतुः॥६४॥
दृष्ट्वा देवास्त्वेनमूचुरग्ने हव्यानि नो वह।
वरान् गृहाण चास्मत्तश्चित्रभानो भजस्व नः। देवयानान् सुगान् पथः कुरुष्व सुमनाः स्वयम्॥६५॥
प्रत्युवाचाथ तानग्निर्विश्वेदेवा यदूच माम्।
तत्करिष्ये जुषन्तां तु होत्रं पञ्च जना मम॥६६॥
शालामुख्यः प्रणीतश्च पुत्रो ग्रुहपतेश्च यः।
उत्तरो दक्षिणश्चाग्निरेते पञ्च जनाः स्मृताः॥६७॥
मनुष्याः पितरो देवा गन्धर्वोरगराक्षसाः।
गन्धर्वाः पितरो देवा असुरा यक्शराक्षसाः॥६८॥
यास्कौपमन्यवावेतानाहतुः पञ्च वै जनान्।
निषादपञ्चमान्वर्णान् मन्यते शाकटायनः॥६९॥
ऋत्विजो यजमानं च शाकपूणिस्तु मन्यते।
योताध्वर्युस्तथोद्गाता ब्रह्मा चेति वदन्ति तान्॥७०॥
चक्शुः श्रोत्रं मनो वाक्च प्राणश्चेत्यात्मनवादिनः।
गन्धर्वाप्सरसो देवा मनुष्याः पितरस्तथा॥७१॥
सर्पाश्च ब्राह्मणे चैव श्रूयन्ते ह्यैतरेयके।
ये चान्ये पृथिवीजाता देवाश्चान्येऽध यज्ञियाः॥७२॥
आयुरस्तु च मे दीर्घं हवींषि विविधानि च।
अरिष्टिः पूर्वजानां च भ्रातॄणामध्वरेऽध्वरे॥७३॥
प्रयाजाश्चानुयाजाश्च घृतं सोमे च यः पशुः।
मद्दैवत्यानि वै सन्तु यज्ञो मद्देवतोऽस्तु च॥७४॥
तवाग्ने यज्ञ इत्येतत्प्रत्यार्थि स्विष्टकृच्च सः।
यस्य त्रीणि सहस्राणि नव त्रीणि शतानि च।।७५॥
त्रिंशच्चैव तु देवानां सर्वानेव वरान्ददुः।
ततोऽग्निः सुमनाः प्रितो विश्वैर्देवैः पुरस्कृतः॥७६॥
विधूयाङ्गानि यज्ञेषु चक्रे होत्रमतन्द्रितः।
भ्रातृभिः सहितः प्रीतो दिव्यात्मा हव्यवाहनः॥७७॥
तस्यास्थि देवादार्वासीन्मेदो मांसं च गुग्गुलुः।
सुगन्धितेजनं स्नायु शुक्रं रजतकाञ्चने॥७८॥
रोमाणि काशाः केशास्तु कुशाः कूर्मा नखानि च।
अन्त्राणि चैवाप्यवका मज्जा सिकतशर्कराः॥७९॥
असृक् पित्तं च विविधा धातवो गैरिकादयः।
एवमग्निश्च देवाश्च सूक्तैर्महदिति त्रिभिः॥८०॥
समूदिरे परे त्वस्मादैन्द्रे सूक्ते तु तां सुते।
विधुं दद्राणमित्यस्यां सूर्याचन्द्रमसौ स्तुतौ॥८१॥
प्राणवच्चात्मवच्चापि स्तुतिरप्यत्र दृश्यते।
इदं द्वे वैश्वदेवे च द्वितीये मनसस्तृचः॥८२॥
प्रथमैन्द्री द्वितीय्याग्नेय्यन्त्या तत्सोमदेवता।
अपि स्तौति पितॄनेतदार्त्विज्यं यत्तदुत्तरम्॥८३॥
सूक्तमाख्यानसंयुक्तं वक्तुकामस्य मे श्रुणु।
सम्मोहान्नष्टसंज्ञस्य शत्रुनाभिहतस्य तु॥८४॥
जीवावृत्तिः सुबन्धोर्वा यदि वा मनसः स्तवः।
राजासमातिरैक्ष्वाकू रथप्रोष्ठः पुरोहितान्॥८५॥
व्युदस्य बन्धुप्रभृतीन् द्वैपदा येऽत्रिमण्डले।
द्वौ किराताकुली नाम ततो मायाविनौ द्विजौ॥८६॥
असमातिः पुरोऽधत्त वरिष्ठौ तौ हि मन्यते।
तौ कपोतौ द्विजौ भूत्वा गत्वा गौपायनानभि॥८७॥
मायाबलाच्च योगाच्च सुबन्धुमभिषेततुः।
स दुःख्हादभिघाताच्च मुमोह च पपात च॥८८॥
तौ ततोऽस्यासुमालुच्य राजानमभिजग्मतुः।
ततः सुबन्धौ पतिते गतासौ भ्रातरस्त्रयः॥८९॥
जेपुः स्वस्त्ययनं सर्वे मेति गौपायनाः सह।
मन आवर्तनं तस्य सूक्तं यदिति तेऽभ्ययुः॥९०॥
जेपुश्च भेषजार्थं यं प्र तारीति परं ततः।
सूक्तस्याद्यस्तृचस्तत्र निऋतेरपनोदनः॥९१॥
त्रयः पादा मो ष्विति तु सौ म्या नैरृत उत्तमः।
ऋक्सौ म्या निरृती चैषा असुनीतेः स्तुतिः परे॥९२॥
द्वृचे त्वानुमतं पादमन्त्यं यास्कस्तु मन्यते।
भूर्द्यौः सोमश्च पूशा च खं पथ्या स्वस्तिरेव च॥९३॥
सुबन्धोरेव शान्त्यर्थं पुनर्न ऋचि तु स्मृताः।
तृचः शमिति रोदस्योरैन्द्रोऽर्धर्चह् समित्य्रुचि॥९४॥
रपसो नाशनार्थम् वै तुष्टुवुस्त्वथ रोदसी।
रप इत्यभिधानं तु गदितं पापक्यच्छ्रयोः॥९५॥
उग्भिरेति चतसृभिस्तत ऐक्श्वाकुमस्तुवन्।
इन्द्र क्षेत्रेत्यृचा चास्य स्तुत्वा शम्सिषुराशिशः॥९६॥
अगस्त्यस्येति माता च तेषाम् तुष्टाव तम् न्रुपम्।
स्तुतः स राजा सव्रीळस्तस्थौ गौपायनानभि॥९७॥
स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति।
अयं मातेति हृष्टास्ते सुबन्धोरसुमाह्वयन्॥१००॥
शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि।
सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते॥१०१॥
लब्धासुम् चायमित्यस्यां पृथक्पाणिभिरस्पृशन्।
षळिदं वैश्वदेवानि द्वितीयेऽङ्गिरसां स्तुतिः॥१०२॥
जन्म कर्म च सख्यं च इन्द्रेण सह कीर्तयन्।
स्तौति प्र नूनमित्याद्याः सावर्ण्यस्य मनोः स्तुतिः॥१०३॥
तस्यैव चायुषोऽर्थाय देवान्स्तौत्यभ्ययादृषिः।
सुत्रामाणं महीमू षु दक्षस्येत्यदितेः स्तुतिः॥१०४॥
पथ्यास्वस्तेः स्वस्तिरिद्धि स्वस्ति नो मरुतां स्तुतिः।
मारुतीमृचिमन्वाहेतुत्तमाध्वर्यवेआहु हि॥१०५॥
या गौरिति तथैवास्यां स्तूयते मध्यमा तु वाक्।
मित्राय मैत्रावरुणी भुज्युमंहस अश्विनी॥१०६॥
स्तौत्यपि च मनुं स्वस्ति द्वृचे वाचं च मध्यमाम्।
अथेमां द्वे बार्हस्पत्ये भद्रा आग्नेयमाप्रियः॥१०७॥
प्रथमे बार्हस्पत्ये तु आर्धर्चे ब्रह्मणस्पतिः।
वैश्वदेवेऽपि सूक्तेऽत्र स्तुतोऽर्धर्चे बृहस्पतिः॥ ब्रह्मणस्पतिरित्यस्मिन् लिङ्गवाक्यविकारतः॥१०८॥
यज्ज्योतिरमृतं ब्रह्म यद्योगात्समुपाश्नुते।
तज्ज्ञानमभितुष्टाव सूक्तेनाथ ब्रुहस्पतिः॥१०९॥
जीवनार्थं प्रयोगस्तु मन्त्रानां प्रतिशिध्यते।
वेदतत्त्वार्थ विज्ञानं प्रायेणात्र हि दृश्यते॥११०॥
आचार्याः केचिदित्याहुरत्र वाग्विदुषां स्तवः।
यथाभिर्निन्द्यतेऽत्रर्ग्भिः सूक्तेऽन्याभिरनर्थवित्॥१११॥
यथैतामन्वविन्दन्त विद्वांसर्षिगतां सतीं।
यथा च व्यभजन्यज्ञे तदत्रोक्तं तृतीयया॥११२॥
प्रशस्यते दशम्या तु विद्वानुत्तमया त्वृचा।
यज्ञे महर्त्विजामाह विनियोगं च कर्मणाम्॥११३॥
परे तु स्तूयते दक्शो अष्टौ चैवादितेः सुताः।
धातेन्द्रो वरुणो मित्रो अंशः सूर्योऽर्यमा भगः॥११४॥
ऐन्द्रे जनिष्ठा सूक्ते द्वे प्र स्वित्यत्र परं तु यत्।
तत्र प्राच्यः प्रतीच्यश्च स्रवन्त्यो दक्शिणाश्च याः॥११५॥
ताः सप्त सप्तकैर्वर्गैः संस्तूयन्ते प्रधानतः।
ग्राव्णामा वो मारुते द्वे अभ्रप्रुष इति स्मृते॥११६॥
अपश्यमिति चाग्नेये य इमा वैश्वकर्मणे।
मान्यवे यस्त इत्येते परं यतु मम व्रते॥११७॥
तदाशीर्वादबहुलं स्तौति विश्वान्दिवौकसः।
पराकदास आग्नेयं यदुदित्यष्टकं परम्॥११८॥
मैत्रावरुण्यृक् तत्रास्ति चतुर्थैन्द्राग्न्युपोत्तमा।
सावित्री चैव सूर्या च सैव पत्नी विवस्वतः॥११९॥
स्तुता वृषाकपायिति उषा इति च योच्यते।
उषा एषा त्रिधात्मानं विभज्य प्रैति च गोपतिम्॥१२०॥
उषाः पुरोदयाद्भूत्वा सूर्या मध्यन्दिने स्थिते।
भूत्वा वृषाकपायी च दिनान्तेष्ववगच्छति॥१२१॥
सत्यसूर्यर्तसोमानां सौर्याद्यत्र ह्यृगुच्यते।
पराभिस्तिसृभिस्त्वृग्भिरुच्यते सोम ओषधिः॥१२२॥
विस्पष्टमुत्तरा त्वासामृक्चन्द्रमसमर्चति।
सूर्यायै भाववृत्तं तु रैभीत्यश्टाभिरुच्यते॥१२३॥
यदश्विनौ द्व्रुचः स्तौति सूर्यमेवोत्तरार्चति।
सप्तदशी वैश्वदेवी सॊउर्या चन्द्रमसी परा॥१२४॥
परस्याः प्रथमौ पादौ सौर्यौ चान्द्रमसौ परौ।
और्णवाभो द्वृचे त्वस्मिन्नश्विनौ मन्यते स्तुतौ॥१२५॥
सूर्याचन्द्रमसौ तौ हि प्रानापानौ च तौ स्म्रुतौ।
अहोरात्रौ च तावेव स्याताम् तावेव रोदसी॥१२६॥
अश्नुवाते हि तौ लोकाञ्ज्योतिषा च रसेन च।
पृथक्पृथक्च चरतो दक्षिणेनोत्तरेण च।। १२७॥
सूर्यः सरति भुतेषु सु वीरयति तानि वा।
सु ईर्यत्वाय यात्येषु सर्वकार्याणि सन्दधत्॥१२८॥
चारु द्रमति वा चायंश्चायनीयो द्रमत्युत।
चमेः पूर्वं समेतानि निर्मिमीतेऽथ चन्द्रमाः॥१२९॥
सुकिंशुकमिति त्वस्यां सूर्यामारोहन्तीं पतिम्।
स्तौति विश्वावसुं चैव द्वैचे गन्धर्वमुत्तरे॥१३०॥
अनृक्शरा इत्यनया यातौ स्तौतीह दम्पती।
गृहान्प्रपद्यमानां तु पराभिः पञ्चभिर्वधूं॥१३१॥
वाससश्च वधूनां च वरदानं प्रचक्षते।
ततस्त्रिया विरागस्य विभवे सति वाससः॥१३२॥
अन्यत्र मैथुनाद्भर्तुर्हरणं प्रतिषिथ्यते।
ये यक्ष्मनाशिनई स्तौति द्वृचे मा परिपन्थिनः॥१३३॥
तृष्टमेतदिति त्वाह यादृग्वाधूयमर्हति।
आशास्ते चैव विविधं ज्ञातिभ्यश्चानुशासनम्॥१३४॥
बद्धा स्त्री भाववृत्तिश्च परया त्वत्र कथुयते।
गृभ्णामि त ऋचा हस्तं ग्रुह्णन्नथ धनाशिषः॥१३५॥
आशास्ते परया तस्याः संयोगार्थास्तथाशिषः।
पराभिराशीश्चाशास्ते पृथक्ताभ्यां सहैव च॥१३६॥
अघोरेति तृचे तस्याः समिहेति द्वयोर्द्वयोः।
अनः प्रजापतेरिमामैन्द्री चान्त्या बृहस्पतेः॥१३७॥
मन्त्रा वैवाहिका ह्येते निगद्यन्ते नृणामपि।
आर्त्विजा याजमानाश्च यथारूपं विशेषतः॥१३८॥
प्रत्युचं प्रतिकीर्त्यन्ते देवाताश्चेह यासु याः।
वदेत्तां देवतांतासु नाराशंसीर्वदेत वा। औषसीः सर्वथा चैता भाववृत्तं प्रचक्शते। सूर्यया सह सूक्तेऽस्मिन्पादश्चैवात्र लक्ष्यते॥१४०॥
वि हि वार्शाकपं सूक्तमसौ हि कपिलो वृषा।
इन्द्रः प्रजापतिश्चैव विश्वस्मादिन्द्र उत्तरः॥१४१॥
रक्षोहणादि चाग्नेयं त्रीन् स्तौत्यग्नीन्परं हविः।
इमं च मध्यमम् चैव असौ वैश्वानरंच यः॥१४२॥
ऐन्द्रात्पुरुषसूक्तं च अन्त्यया पौरुषस्य तु।
यथ्येनमभजन्साध्या यज्ञार्थं सोऽथ उच्यते॥१४३॥
आपान्तमन्युरित्यैन्द्र्यां स्तुतः सोमोऽत्र दृश्यते।
सलोक्यात्साहचर्याद्वा स्तूयते सोम एव वा॥१४४॥
निपातभाजं सोमं च अस्यां रथीतरोऽब्रवीत्।
ऐन्द्रेषु हि निपातोऽत्र स्तुतोऽग्निररुणेन सम्॥१४५॥
परस्याः प्रथमौ पादौ सौर्यौ चान्द्रमसौ परौ।
और्णवाभो द्वृचे त्वस्मिन्नश्विनौ मन्यते स्तुतौ॥१४५॥
सूर्याचन्द्रमसौ तौ हि प्राणापानौ च तौ स्मृतौ।
अहोरात्रौ च तावेव स्यातां तावेव रोदसी॥१४६॥
अश्नुवाते हि तौ लोकाञ्ज्योतिषा च रसेन च।
पृथक्पृथक्च चरतो दक्षिणेनोत्तरेण च।। १४७॥
सूर्यः सरति भूतेषु नु वीरयति तानि वा।
सु ईर्यत्वाय यात्येषु सर्वकार्याणि सन्दधत्॥१४८॥
स तयोस्तु वियोगार्थं पार्श्वस्थं वज्रमब्रवित्।
प्रीतिं भिन्धि तयोर्वज्र मम चेदिच्छसि प्रियम्॥१४९॥
तथेत्युक्त्वा तयोः प्रीतिं वज्रोऽभिनत्स्वमायया।
ततस्तया विहीनस्तु चचारोन्मत्तवन्नृपः॥१५०॥
चरन्सरसि सोऽपश्यदभिरूपामिर्वोशीम्।
सखीभिरभिरूपाभिः पञ्चभिः पार्श्वतो वृताम्॥१५१॥
तामाह पुनरेहीति दुःखात्सा त्वब्रवीन्नृपम्।
अप्राप्याहं त्वयाद्येह स्वर्गे प्राप्स्यसि मां पुनः॥१५२॥
आह्वानं प्रति चाख्यानमितरेतरयोरिदम्।
संवादं मन्यते यास्क इतिहासं तु शौनकः॥१५३॥
हय इति परमैन्द्रं प्र ते या ओषधीस्तवः।
प्रयोगे भिषजस्त्वेतद्यक्ष्मनाशाय कल्पते॥१५४॥
आर्ष्टिषेनस्तु देवापिः कौरव्यश्चैव शन्तनुः।
भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः॥१५५॥
ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शन्तनुः।
त्वग्दोषी राजपुत्रस्तु ऋष्तिषेनसुतोऽभवत्॥१५६॥
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ।
स मूहूर्तमिव ध्यात्वा प्रजास्ताः प्रत्यभाषत॥१५७॥
॥ इति बृहद्देवतायां सप्तमोऽध्यायः॥
॥ अथ बृहद्देवतायां अष्टमोऽध्यायः॥
न राज्यमहमर्हामि न्रुपतिर्वोऽस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसञ्चंस्ताः प्रजा राज्याय सान्तनुम्॥१॥
ततोऽभिषिक्ते कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः॥२॥
ततोऽभ्यगच्चद्देवापिं प्रजाभिः स शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे॥३॥
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम्॥४॥
न राज्यमहमर्हामि त्वग्दोषोपहतेन्द्रियः।
याजयिषामि ते राजन् वृष्टिकामेज्यया स्वयम्॥५॥
ततस्तं तु पुरोऽधत्त आर्तिज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्शिकाणि यथाविधि॥६॥
ब्रुहस्पते प्रतीत्यृग्भिरीजे चैव ब्रुहस्पतिम्।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा॥७॥
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तया च सः॥८॥
ऋग्भिश्चतसृभिर्देवान् जगौ व्रुष्ट्यर्थमेव तु।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम्॥९॥
इन्द्र द्रुह्येति विश्वेषामुदित्य्रुत्विक्स्तुतिः परम्।
शक्ति प्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते॥१०॥
प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः।
यास्को द्रौघणमैन्द्रं वा मैश्वदेवं तु शौनक्ः।।११॥
आजावनेन भार्म्यश्च इन्द्रासोमौ तु मुद्गलः।
अजयद्व्रुषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे॥१२॥
युध्यन् संख्ये जयं प्रेप्सुरैन्द्रोऽप्रतिरथो जगौ।
आशुरैन्द्रमप्वा देवी अमीषामित्युचि स्तुता॥१३॥
चतुर्थी बार्हस्पत्या स्यान्नाकुले च महानिति।
द्वृचस्तु मारुतः प्रेतेत्यैन्द्री वा ब्रह्म यत्परम्॥१४॥
तत्रानिरुक्तसूक्तादावृगेका सूर्यमर्चति।
घर्मपराश्चतस्रस्तु सवितारमभीति या॥१५॥
सूक्तशेषस्य षळृचः सूर्याचन्द्रमसौ सह।
तुश्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु॥१६॥
कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः।
सुमित्रश्चैव नाम स्याद्गुणार्थमितरत्पदम्॥१७॥
भूतांशस्तु प्रजाकामः कर्माणि क्रुतवान्पुरा।
न हि लेभे प्वजाः काश्चित्काश्यओपो मुनिसत्तमः॥१८॥
उवाच भार्या भूतांशं सुतानिच्छसि यावतः।
तावतो जनयिशामि देवता द्वन्द्वशः स्तुहि॥१९॥
तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभगिनौ॥२०॥
तदेतदन्ततो भावादाश्विनं सूक्तमुच्यते।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात्॥२१॥
सूक्तेन तु परेणात्र स्वयमाविरभूदिति।
आत्मानमेव तुष्टाव प्रजापत्याथ दक्षिणा॥२२॥
दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु।
दातृत्वाद्दक्षिणानां च भोज्याश्चतसृभिः स्तुताः॥२३॥
असुराः पणयो नाम रसापारनिवासिनः।
गास्तेऽपजह्रुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः॥२४॥
ब्रुहस्पतिस्तथा पत्यद्दृष्ट्वेन्द्राय शतंस च।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः॥२५॥
किमित्यत्रायुजाभिस्तां पप्रच्छुः पणयोऽसुराः।
कुतःकस्यासि कल्याणि किं वा कार्यमिहास्ति ते॥२६॥
अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम्।
युश्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः॥२७॥
विदित्वेन्द्रस्य दूतीं तामसुराः पापचेतसः।
ऊचुर्मा सरमे गास्त्वमिहास्माकं स्वसा भव।। २८॥
विभजामो गवां भागं माहिता ह ततः पुनः।
सूक्तस्यास्यान्त्यया चर्चायुग्माभिस्त्वेव सर्वशः। ।२९॥
साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ।।३०॥
असुरांस्तां तथेत्युक्त्वा तदाजह्रुः पयस्ततः।
सा स्वभावाच्च लौल्याच्च पीत्वा तत्पय आसुरम्॥३१॥
परं संवननं ह्रुद्यं बलपुष्टिकरं ततः।
शतयोजनविस्तारामतरत्तां रसां पुनः॥३२॥
यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम्।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा द्रुष्टवत्यसि॥३३॥
सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः॥३४॥
जगाम सा भहोद्विग्ना पुनरेव पणीन्प्रति।
पदानुसारिपद्धत्या रथेन हरिवाहनः॥३५॥
गत्वा जघान च पणीन् गाश्च ताः पुनराहरत्।
तेऽवदन्वैश्वदेवं तु ब्रह्मजाया जहूर्जगौ॥३६॥
जामदग्नं समिद्धोऽद्य आप्रीसूक्तमतः परम्।
युगपद्वै व्रजन्तं तं वैरूपा रुषयस्त्रिभिः॥३७॥
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति मनीषिणः।
वैश्वदेवं परं सूक्तं घर्मेत्येकेऽत्र तु स्तुतान्॥३८॥
देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम्।
आग्नेयं चित्र इत्येतज्जगादर्षिरुपस्तुतः॥३९॥
पिबेन्द्रम् स्तौति नेत्यन्नं राक्षोघ्नाग्नेयमुत्तरम्।
इति वै लाबमैन्द्रं तदाप्त्याः षष्ठ्यां निपातिताः॥४०॥
प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः।
वरुणेन्द्राग्निसोमानामिमं न इति संस्तवः॥४१॥
चतस्रस्त्वत्र सूक्तादावग्निरात्मस्तवं जगौ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः॥४२॥
वारुण्यस्त्वतरास्तिस्रः ऐन्द्रमेवोत्तमं पदम्।
अहं वाक्सूक्तमर्यम्णो मित्रस्य वरुणस्य च॥४३॥
न तं राअत्र्याः परं सूक्तं वैश्वदेवं ममेति यत्।
नमस्ते वैद्युतं सूक्तमाशीर्वादः परं तु यत्॥४४॥
यां कल्पयन्ति नोऽरयः क्रुत्यानाशनमात्मनः।
हिरण्यस्तुतिरायुश्यं नासद्यत्परमेष्ठिनः॥४५॥
वदन्ति भाववृत्तम् तद्यो यज्ञ इति चोत्तरम्।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृते॥४६॥
मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः॥४७॥
प्रो स्वैन्द्रे वैश्वदेव्यृक् तु निकिर्देवा मिनीमसि।
यस्मिन्व्रुक्ष इति त्वस्मिन्द्युस्थानह् स्तूयते यमः॥४८॥
केश्यग्निं कैशिनं सूक्तमुत देवाः परं तु यत्।
देवानामत्र चाद्या स्याद्वातदेवस्तृचः परः॥४९॥
त्रायन्तां वैश्वदेव्यृक् तु शेशस्त्वब्दैवतः परः।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम्॥५०॥
भूमिर्लाक्षं परं सूक्तं तवैन्द्रं सूक्तमुत्तरम्।
सूर्यरश्मिरिति त्वस्मिन्सावित्रः प्रथमस्तृचः॥५१॥
आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे।
इन्द्रो वैश निपातेन अथवा सूर्य उच्यते॥५२॥
सूक्तेऽस्मिन्देवतास्तिस्रह् एता एव प्रकीर्तिताः।
आग्नेयं त्वग्ने तवेति अग्ने अच्छेति यत्परम्॥५३॥
आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः।
शार्ङाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक्॥५४॥
आश्विनं त्यं चिदित्येतदयमिन्द्रं ततः परम्।
इमां खानामीति सूक्तमिन्द्राणी यत्स्वयं जगौ॥५५॥
तदौपनिषदं षट्कं भाववृत्तं प्रचक्शते।
उत्तानपर्णाम् पाठां तु स्तौति सूक्ते महौशधिम्॥५६॥
पतिसम्वननी त्वन्त्यान्याः सपत्न्यपनॊदिकाः।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे॥५७॥
सावित्रं सविता यन्त्रैःसमिद्धश्चित्समिध्यसे।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम्॥५८॥
आग्नेयामा सूरेत्वेतच्छास ऐन्द्रे ततः परे।
सोम एकेभ्य इत्येतद्भाववृत्तं प्रचक्शते॥५९॥
यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मनपतिः॥६०॥
इदंश्चैव यदित्यस्यांविश्वे देवाः परीत्यृचि।
आग्नेयं चाग्निमित्येतद्वैश्वदेवमिमा नुकम्॥६१॥
इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते॥६२॥
सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति॥६३॥
ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम्।
राजयक्ष्महनं सूक्तं प्राजापत्यं तदुच्यते॥६४॥
ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्त दैवतम्।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु॥६५॥
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम्।
वैन्यं तु वेनस्तत्पश्यदक्षीभ्यां यक्श्मनाशनम्॥६६॥
दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च।
आसिदृषिर्दीर्घतपाः कपोतो नाम नैरृतः॥६७॥
अकरोत्कपोतस्तस्याष्ट्र्यामग्निधाने पदम् किल।
स तदात्महितैर्वाक्यैह् कपोतं स्तुतवानृषिः॥६८॥
देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम्॥६९॥
तुभ्येत्यृषी ददृशतुरैन्द्रं गाथिनभार्गवौ।
वरुणो विधातानुमतिर्धाता सोमो बृहस्पतिः॥७०॥
षळेता देवतास्तत्र तृतीयायामृचि स्तुताः।
वातस्येति परेणास्तौदनिलः पितरं स्वकम्॥७१॥
मयोभूरिति यत्सूक्तमपश्यच्छबर ऋषिः।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः॥७२॥
विभ्राट् सौर्यं त्वं त्यमैन्द्रमा याहीत्युषसः स्तुतिः।
आ त्वा राज्ञेऽभिशिक्ताय द्वे सूक्ते चानुमन्त्रणे॥७३॥
प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः।
यत्त्वतः परमाग्नेयं तत्रार्भव्य्रुक् प्र सूनवः॥७४॥
ऋषिर्जगौ पतङ्गस्तु पतङ्गमिति यत्परम्।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथपरे॥७५॥
मायाभेदे द्वितीयायां वाक् स्तुतेत्याह शौनकः।
देवीं बिभर्ति मनसा या वाचं विदितां सतीम्॥७६॥
त्यमूषु तार्क्ष्य दैवत्यम् सूक्तं स्वस्त्ययनं विदुः।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम्॥७७॥
आत्मप्रभावमाचख्युस्तत्राद्या ऋषयस्त्रयः।
रथन्तरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत्॥७८॥
यथा च सम्भूतो घर्मः सवितोश्चोपलक्ष्यते।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः॥७९॥
आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः।
प्राजापत्यस्य यत्सूक्तमपश्यं त्वा प्रजावतः॥८०॥
प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ॥८१॥
द्वितीया पुत्रकामायास्तृतीयात्मस्तवं त्वृषेः।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते॥८२॥
तस्मिन्स्वदारगर्भार्थमृषिराशास्त आशिषः।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते॥८३॥
अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान्।
आसिषो योगमेतं हि सर्वर्गर्धेन मन्यते॥८४॥
एकारमनुकम्पार्थे नाम्नि स्मरति मातरः।
आख्याते भूतकरणं बाष्कला आव्ययोरिति ॥८५॥
माहित्रं यन्महि त्रीणामादित्यानां स्तुति विदुः।
वरुणार्यममित्राणामादित्येष्वितरेषु तु ॥८६॥
एत एव त्रयो देवाः स्तुताः स्वल्पेष्वतोऽन्यथा।
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम्। यातामपि स्वस्त्ययने दृष्टम् तदनुमन्त्रनम्॥८७॥
उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम्।
विसृष्टं जातवेदस्यं प्र्ति दाशतयीषु तु। ।८८॥
यत्किञ्चिदन्यत्राग्नेयं जातवेदस्य मुच्यते।
आयङ्गौरिति यत्सूक्तं सार्पराज्ञी स्वयं जगौ॥८९॥
तस्मात्सा देवता तत्र सूर्यमेके प्रचक्षते।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः॥९०॥
त्रिस्थानाधितिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम्।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः॥९१॥
परं न विद्यते यस्माच्छान्त्यै वा पावनाय वा।
यथास्वमेधः क्रतुराट् सर्वरिप्रप्रणोदनः॥९२॥
तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम्।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः॥९३॥
चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्न निबर्हणम्।
संसमित्प्राध्वरानां चेत्याग्नेय्यावेव ते स्मृते॥९४॥
उशना वरुणश्चेन्द्रश्चाग्निश्च सविता स्तुताः।
संज्ञाने प्रथमास्यां तु द्वितीयस्यामथाश्विनौ॥९५॥
तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्याम्रुचि स्तुतौ॥९६॥
देवानामितराः प्रोक्ता आशीर्वादपराश्चयाः।
संसं संज्ञानमित्येते परं संवननं विदुः॥९७॥
महानाम्न्य ऋचो गुह्यास्ता ऐन्द्र्यश्चैव यो वदेत्।
सहस्रयुपर्यन्तमहर्ब्राह्मं स राध्यते॥९८॥
तृचाधमं याज्ञिकाः सूक्तमाहुस्तस्मिन्स्तुतौ दृश्यन्ते याः सूक्तभाजः।
प्रधानमुक्तं किल देवता याः सूक्तभाजः सर्वदा शौनकेन॥९९॥
ऐन्द्रीऋचो महानाम्नीस्तु विद्यात्तथा हि दृष्टं ब्राह्मणे सूक्त शब्दः।
न दृश्यते सूक्तवादो निवित्सु यथा प्रैषेष्वाह सूक्ताभिधानम्॥१००॥
सूक्तैकदेशा इति तान्प्रतीयादन्याश्च कुन्त्याः पदशो निशास्ताः।
यथैतशो देवनीथादिसंज्ञा कुन्तापे तत्सर्वमेकं हि सूक्तम्॥१०१॥
पुरीशपदमासां तु प्रथमं स्यात्प्रजापतेः।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम्॥१०२॥
अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींशि च।
यद्दैवं हविस्तु स्यात्प्रैषस्तद्देवताश्च ते॥१०३॥
निविदां निगदानां च स्वैः स्वैर्लिङ्गैश्च देवताः।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः॥१०४॥
अग्नेरेव तु गायत्र्य उष्णुहः सवितुः स्म्रुताः।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः॥१०५॥
पङ्क्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन॥१०६॥
विराजश्चैव मित्रस्य स्वराजो वरुणस्य च।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृताः॥१०७॥
विषये यस्य वा स्यातां स्यातां वा वायुदेवते।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः॥१०८॥
विछन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः।
पौरुष्यो द्विपादाः सर्वा ब्राह्म्य एकपदाः स्मृताः॥१०९॥
समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च॥११०॥
वैश्वदेवो वषट्कारो हिंकारॊ ये यजामहे।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवतः॥१११॥
देवानां च पितृणां च नमस्कारः स्वधैव च।
क्रुष्टो मूर्धनि विज्ञेयास्तालव्यः प्रथमः स्वरः॥११२॥
द्वितीयस्तु भ्रुवोर्मध्ये तृतीयः कर्णसंश्रितः।
चतुर्थो नासिकाग्रे स्यादौरसो मन्द्र उच्यते।
मन्द्रकर्षणसंयुक्तमतिस्वारं प्रशंसति॥११३॥
वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम्।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम्॥११४॥
अण्डजाः पक्शिण सर्पाश्चतुर्थमुपभुञ्जते।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते॥११५॥
अतिस्वारस्तु सर्वस्य जङ्गमस्थावरस्य च।
वैश्वदेवः स्वरे क्रुष्टोः नित्यं यो मूर्ध्नि तिष्ठति॥११६॥
तालव्यः प्रथमः साम्नां स्वर आदित्यदैवतः।
स्वरो द्वितीयः साध्यानां भ्रुवोर्देशं समाश्रितः॥११७॥
अश्विनस्तु तृतीयोऽत्र स्वरः कर्णौ समाश्रितः।
चतुर्थस्त्वत्र वायव्यो नासिक्यः स्वर उच्यते॥११८॥
पञ्चमस्तु स्वरः प्रोक्तश्चाक्षुषः सूर्यदैवतः।
यस्तु सामस्वरः षष्ठः स स्ॐयो मन्द्र उच्यते॥११९॥
विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते।
स मैत्रावरुणो ज्ञेयो मन्द्रस्थानसमाहितः॥१२०॥
सामस्वरानां सप्तानामेते देवा इहोदिताः।
त्रयानामितरेषां तु लोकाधिपतयस्त्रयः॥१२१॥
वाग्देवत्योऽथवाग्नेयः प्रस्तावश्चैव सामसु।
उद्गीथोपद्रवावैन्द्रो स्यातां वा वायुदेवतौ॥१२२॥
सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम्।
हिंकारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात्॥१२३॥
इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम्।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम्॥१२४॥
सप्तर्षयो वसवश्चापि देवा अथर्वाणो भृगवः सोमसूर्याः।
पथ्या स्वस्ती रोदसी चोक्तमन्त्रे कुहूर्गुङ्गूरदितिर्धेनुरघ्न्या॥१२५॥
असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या।
अङ्गिरोभिः सहैताः स्युरुक्तमन्त्राश्च देवताः॥१२६॥
वैश्वानरो हि सुपर्णो विवस्वान्प्रजापतिर्द्यौः सुधन्वा नगोह्यः।
अपांनपादर्यमा वातजूतिरिळस्पतिश्चापि रथस्पतिश्च॥१२७॥
ऋभवः पर्जन्यः पर्वता ग्नाश्च दक्षो भगो देवपत्नीर्दिशश्च।
आदित्या रुद्राः पितरोऽथ साध्या निपातिनो वैश्वदेवेषु सर्वे॥१२८॥
अनुक्रान्ता देवताः सूक्तभजो हविर्भाजश्चोभयथा निपातैः।
अप्येवं स्यादुभयथान्यथा वा न प्रत्यक्षमनृषेरस्ति मन्त्रम्॥१२९॥
योगेन दाक्ष्येण दमेन बुद्ध्या बाहुश्रुत्येन तपसा नियोगैः।
उपास्यास्ताः कृत्स्नशो देवता या ऋचो ह यो वेद स वेद देवान्।
यजूंषि यो वेद स वेद यज्ञान्सामानि यो वेद स वेद तत्त्वम्॥१३०॥
मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित्।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः॥१३१॥
अविज्ञानप्रदिष्टम् हि हविर्नेहेत दैवतम्।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः॥१३२॥
स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः।
स सत्त्रसदिव स्वर्गे सत्त्रसद्भिरपीड्यते॥१३३॥
नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम्।
अन्यथा चेत्प्रयुञ्जानस्तत्फलाच्चात्र हीयते॥१३४॥
ऋषि छन्दो दैवतादि ज्ञानं यज्ञादिषु श्रुतम्।
तदाश्रित्य प्रानदृष्टिर्विहितात्रेति गम्यताम्॥१३५॥
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः॥१३६॥
अर्थेप्सवः खल्वृषयश्छन्दोभिर्देवताः पुरा।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः॥१३७॥
ऋषिं तु प्रथमं ब्रूयाच्छन्दस्तु तदनन्तरम्।
देवतामथ मन्त्रानां कर्मस्वेवमिति श्रुतिः॥१३८॥
आधारं वाप्[यनाधारं विविच्यात्मानमात्मनि।
ईक्शमाणो ह्युभौ सन्धिम्रुचो दैवतवित्पठेत्॥१३९॥
स ब्रह्मामृतमत्यन्तं योनिं सदसतोर्धृवम्।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम्॥१४०॥ विशति ज्योतिरुत्तमम्॥
॥ इति बृहद्देवतायामष्टमोऽध्यायः॥॥ समाप्तोऽयं ग्रन्थः ॥