मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ४

संहिता

अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ ।
स इद्दे॒वेषु॑ गच्छति ॥

पदपाठः

अग्ने॑ । यम् । य॒ज्ञम् । अ॒ध्व॒रम् । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
सः । इत् । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥

सायणभाष्यम्

हे अग्ने त्वं यं यज्ञं विश्वतः सर्वासु दिक्षु परिभूः परितः प्राप्रवानसि स इत् स एव यज्ञो देवेषु तृप्तिं प्रणेतुं स्वर्गे गच्छति । प्राच्यादिचतुर्दिगंतेष्वाहवनीयमार्चालीयगार्हपॆत्याग्नीध्रीयस्थानेष्वग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्यव्याप्तिर्विवक्षिता । कीदृशं यज्ञम् । अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसितुं प्रभवंति । अग्नि शब्दस्य षाष्ठिकम् (पा ६-१-१९८) आमंत्रिताद्युदात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुर्वीहौ न ञ्सुभ्याम् । पा ६-२-१७२ इत्यंतोदात्तत्वम् । विश्वत इत्यत्र तसिलः प्रत्ययस्वरत्वम् (पा ६-२-१३९) असीति तिङंतस्य यद्वृत्तान्नित्यम् । पा ८-११-६६ । इति निघाताभावः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः