मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ५

संहिता

अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
दे॒वो दे॒वेभि॒रा ग॑मत् ॥

पदपाठः

अ॒ग्निः । होता॑ । क॒विऽक्र॑तुः । स॒त्यः । चि॒त्रश्र॑वःऽतमः ।
दे॒वः । दे॒वेभिः॑ । आ । ग॒म॒त् ॥

सायणभाष्यम्

अयमग्निर्देवोऽन्यैर्देवैर्हविर्भोजिभिः सहा गमत् । अस्मिन्यज्ञे समागच्छतु । कीदृशोऽग्निः । होता होमनिष्चादकः कविक्रतुः । कविशब्दोऽत्र क्रांतवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रांतप्रज्ञः क्रांतकर्मा वा । सत्य अनृतरहितः । फलमवश्यं प्रयच्छतीत्यर्थः । चित्रश्रवस्तमः । श्रूयत इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः । कविक्रतुश्चित्तश्रवस्तम इत्यत्रोभयत्र बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । सत्सु साधुः सत्यः सत्यादशपथे पा । ५ । ४ । ६६ । इत्यत्रांतोदात्तो हरदत्तेन निपातितः । लोंडतस्य गच्छत्वितिशब्दस्य छत्वाभावः । उकारलोपश्चांदसः । ततो रूपं गमदिति भवति । स्पष्टमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः