मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् १

संहिता

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
तेषां॑ पाहि श्रु॒धी हव॑म् ॥

पदपाठः

वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अर॑म्ऽकृताः ।
तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥

सायणभाष्यम्

दर्शत हे दर्शनीय वायो कर्मण्येतस्मिन्ना याहि । आगच्छ । त्वदर्थमिमे सोमा अरंकृताः । अभिषवादिसंस्कारोऽलंकारः । तेषां तान्सोमान् । यद्वा । तेषामेकदेशमित्यध्याहारः । पाहि । स्वकीयं भागं पिबेत्यर्थः । तत्पानार्थं हवमस्मदीयमाह्वानं श्रुधि । शृणु । अत्र यास्कः । वायवायाहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् । नि १०-२ । इति दर्शतेत्यत्र भृमृदृशीत्यादिसूत्रेण (उ ३-११०) अतच् प्रत्यय औणादिकः । चित्त्वा दंतोत्तस्यामंत्रितानुदात्तत्वम् । अर्तिस्तुस्वित्यादिना (उ १-१३९) कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन गतिरनंतरः (पा ६-२-४९) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छांदसः । श्रुधीत्यत्र श्रुशृण्वित्यादिना (पा ६-४-१०२) हेर्धिभावः । तिङंतादुत्तरस्य निघातो नास्ति । सेर्ह्यपिच्च (पा ३-४-८७) इति । पित्त्वनिषेधादनुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोर्बहुलं छंदसि (पा ६-१-३४) इति संप्रसारणे सत्युकारांतत्त्वादृदोरप् (पा ३-३-५७) इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते । संहितायां श्रुधीत्यस्यान्येषामपि दृश्यते (पा ६-३-१३७) इति दीर्घः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः