मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् २

संहिता

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
सु॒तसो॑मा अह॒र्विदः॑ ॥

पदपाठः

वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ ।
सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥

सायणभाष्यम्

हे वायो जरितारः स्तोतार ऋत्विग्यजमानास्त्वामच्छ त्वामभिलक्ष्योक्थेभिराज्यप्र उगादिशस्त्रैर्जरंते । स्तुवंति । कीदृशाः । सुतसोमा अभिषुतेन सोमेनोपेता अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । क्रत्वभिज्ञा इत्यर्थः ॥ अर्चति गायतीत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु जरते ह्वयतीति पठितम् । स्तुतेरप्यर्चनाविशेषत्वादौचित्येनात्र स्तुत्यर्थो जरतिधातुः । अच्छशब्दस्य संहितायां निपातस्य च (पा ६-३-१३६) इति धीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः (पा ६-२-१) अहर्विद इत्यत्र समासस्वरम् (पा ६-१-२२३) बाधित्वा तत्पुरुषे तुल्यार्थेत्यादिना (पा ६-२-२) द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन गतिकारकोपपदात्कृत् (पा ६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः