मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ३

संहिता

वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
उ॒रू॒ची सोम॑पीतये ॥

पदपाठः

वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ ।
उ॒रू॒ची । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे वायो तव धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवंतं यजमानं जिगाति । गच्चति । हे यजमान त्वया दत्तं सोमं पास्यामित्येवं वायुर्ब्रूत इत्यर्थः । कीदृशी धेना । प्रपृंचती प्रकर्षेण सोमसंपर्कं कुर्वती । सोमगुणं वर्णयंतीत्यर्थः । उरूची उरून्बहून्य जमानान् गच्छंती । ये ये सोमयाजिनस्तान् सर्वान्वर्णयंतीत्यर्थः । प्रपृंचतीत्यत्र शतुरनुमः (पा ६-१-१७३) इति ङीबुदात्तः । श्लोको धारेत्यादिषु सप्तपंचाशत्सु वाङ्ना मसु गणो धेनु ग्ना इति पठितम् । वर्ततेऽयत इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु गाति जिगातीति पठितम् । दाशुष इत्यत्र गत्यर्थकर्मणि (पा २-३-१२) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन (पा ४-१-४१) ङीषि कृते प्रत्ययस्वरः । सोमपीतय इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः