मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् १

संहिता

अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती ।
पुरु॑भुजा चन॒स्यत॑म् ॥

पदपाठः

अश्वि॑ना । यज्व॑रीः । इषः॑ । द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी । शुभः॑ । प॒ती॒ इति॑ ।
पुरु॑ऽभुजा । च॒न॒स्यत॑म् ॥

सायणभाष्यम्

हे अश्विनौ युवामिषो हविर्लक्षणान्यन्नानि चनस्यतम् । इच्छतम् । भुंजाथामित्यर्थः । यद्यपि चनःशब्दोऽन्नवाची तथापीष इत्यनेन सह नास्ति पुनरुक्तिदोषः । इच्छामुपलक्षयितुं प्रयुक्तत्वात् । वक्तव्यमुवाच । समूलकाषं कषतीत्यादौ यथा पुनरुक्त्यभावस्तद्वत् । कीदृशीरिषः । यज्वरीः । यागनिष्पादिकाः । कीदृशावश्विनौ । द्रवत्पाणी । हविर्ग्रहणाय द्रवद्भ्यां धावद्भ्यां पाणिभ्यामुपेतौ । शुभस्पती । शोभनस्य कर्मणः पालकौ । पुरुभुजा । विस्तीर्णभुजौ बहुभोजिनौ वा । अश्विना । आमंत्रितस्येति षाष्ठि कमाद्युदात्तत्वम् । यज्जरीः । यागकरणानामप्यन्ना नामसिश्छिनत्तीतिवत् स्वव्यापारे कर्तृत्वविवक्षया सुयजोर्ङ्वनिप् (पा ३-२-१०३) इति ङ्वनिप्प्रत्ययः । वनो र च (पा ४-१-७) इति ङीप् । तत्संनियोगेन रेफादेशः । प्रत्ययत्रयस्यानुदात्तौ सुप्पितावित्यनुदात्तत्वाद्धातुस्वर एवावशिष्यते । इषःशब्दे शसोऽनुदात्तत्वात्प्रातिपदिकस्वर एव शिष्यते । द्रवंतौ धावंतौ पाणी ययोस्तयोः संबोधनं द्रवत्पाणी इति । तस्यामंत्रिताद्युदात्तत्वं न पुनराष्टमिको निघातोऽ पादादाविति प्रतिषेधात् । इष इति पूर्वपदस्य सुबामंत्रित इति परांगवद्भावेन मित्रावरुणावृतावृधौ । ऋ १-२-८ । इतिवदपादादित्वमिति चेन्न । तत्र सामानाधिकरण्येन परस्परान्वयात् । इह त्विषो द्रवत्पाणी इत्यनयोः सरस्वतिशुतुद्रिपदवदसामर्थ्येन प्रयुक्तत्वात् । शुभ इति शुभ शुंभ दीप्तावित्यस्य संपदादित्वाद्भावे क्विबंतस्य षष्ठ्येकवचनम् । षष्ठ्याः पतिपुत्र (पा ८-३-५३) इति विसर्जनीयस्य सत्वम् । तस्य पती इत्यामंत्रिते परतः परांगवद्भावादामंत्रिताद्युदात्तत्वम् । न पुनराष्टमिको निघातः । तस्मिन्कर्तव्ये द्रवत्पाणी इति पूर्वस्यामंत्रितस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवद्भावेन पादादित्वादपादादामिति प्रतिषेधात् । ननु मित्रावरुणावृतावृधावितिवन्नामंत्रिते समानाधिकरण इत्यविद्यमानवद्भाव प्रतिषेधेन भवितव्यमिति चेन्न । मित्रावरुणपदं हि सामान्यवचनमिति युक्तस्तस्याविद्यमानवत्त्वप्रतिषेधः । द्रवत्साणीपदं तु न तथेति वैषम्यात् । पुरुभुजा । पुरू विस्तीर्णौ भुजौ ययोस्तौ । आमंत्रिताद्युदात्तत्वम् । सुपां सुलुगिति डादेशः । पुरु बहुभुंजाते इति वा । चनस्यतमित्यत्र जायतेरन्ने ह्रस्वश्च (उ ४-१९९) इति चायृ पूजानिशामनयोरित्यस्यासुन्प्रत्यय आकारस्य ह्रस्वे चानुकृष्टे नुडागमे च (उ ४-१९६) लोपो व्योर्वलि (पा ६-१-६६) इति यकारलोपे चनःशब्दोऽन्ननामसु पठितः । तदात्मन इच्छतीति सुप आत्मनः क्यच् । पा ३१-८ । सनाद्यंताः (पा ३-१-३२) इति धातुत्वाल्लोण्मध्यमद्विवचनम् । क्यचः प्रत्ययस्वरेणोदात्तत्वम् । शपैकादेशे कृत एकादेश उदात्तेनोदात्तः (पा ८-२-५) इत्युदात्तः । उपर्याख्यातस्य लसार्वधातुकानुदात्तत्वे स्वरितत्वम् । न च तिङ्ङतिङ इति निघातः । पूर्वस्यामंत्रितस्याविद्यमानवद्भावेन पदादपरत्वात्पादादित्वाद्वा तदप्राप्तेः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः