मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् २

संहिता

अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या ।
धिष्ण्या॒ वन॑तं॒ गिरः॑ ॥

पदपाठः

अश्वि॑ना । पुरु॑ऽदंससा । नरा॑ । शवी॑रया । धि॒या ।
धिष्ण्या॑ । वन॑तम् । गिरः॑ ॥

सायणभाष्यम्

अश्विना हे अश्विनौ युवां गिरोऽस्मदीयाः स्तुतीर्धीयादरयुक्तया बुद्ध्यावनतम् । संभजतम् । स्वीकुरुतम् । कीदृशावश्विनौ । पुरुदंससा बहुकर्माणौ । षड्विंशतिसंख्याकेषु कर्मनामसु दंस इति पठितम् । नरा नेतारौ धिष्ण्यौ धार्ष्ट्ययुक्तौ बुद्धिमंतौ वा । कीदृश्या धिया । शवीरया गतियुक्तया । अप्रतिहतप्रसरयेत्यर्थः ॥ अश्विनेत्याद्यामंत्रितचतुष्टयस्य षाष्ठिकमामंत्रिताद्युदात्तत्वम् । पादादित्वान्नाष्टमिको निघातः । पुरुदंससेत्यपि हि पादादिरेवामंत्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानमत्त्वात् । नामंत्रिते समानाधिकरण इति पूर्वस्य सामान्यवचनत्वेनास्य विशेषवचनत्वेन नाविद्यमानवत्त्वमिति चेन्न । अश्विशबद्दवत्पुरुदंससः शब्दस्याप्यश्विनोरेव रूढ्या प्रयुज्यमानतया सामान्यशब्दत्वात् सामान्यवचनं नाविद्यमानवदित्यु क्तेऽर्थात्परस्य विशेषवचनत्वावगमात् । उभयोः सामान्यवचनत्वे पर्यायत्वेन पौनरुक्त्यात्सहाप्रयोग इति चेन्न । गुणविशेषसंकीर्तनवत्प्रसिद्धानेकनामविशेषसंबंधसंकीर्तनस्यापि स्तुत्युपयोगेन सप्रयोजनत्वान्निष्ट्रयोजनपुनर्वचनस्यैव पुनरुक्तत्वात् । अश्विपुरुदंसः शब्दयोरेकार्थवृत्तित्वेऽपि पर्यायत्वादेव प्रवृत्तिनिमित्त भेदाभावेनासामानाधिकरण्यादपि नाविद्यमानवत्त्वप्रतिषेधः । भिन्नप्रवृत्तिनमित्तानामेव ह्येकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यं ॥ अश्विशब्दस्याश्वसंबंधो निमित्तं पुरुदंसःशब्दस्य तु बहुकर्मसंबंध इति प्रवृत्तिनिमित्त भेद इति चेन्न । तद्धि द्वयं व्युत्पत्तिमात्रनिमित्तं न प्रवृत्तिनिमित्तम् । व्युत्पत्तिनिमित्तभेदमात्रेणापि सामानाधिकरण्याभिधाने वृक्षमहीरुहशब्दयोरपि तथात्वप्रसंगः । अत एव हीडे रंतेऽदिते सरस्वति प्रियो प्रेयसि महि विश्रुति । एतानि ते अघ्निये नामानि । तै सं ७-१-६-८ । इत्यत्र सहस्रतमीप्रशंसोपयोगित्वेनेडादिशब्दानामेतानि ते अघ्निये नामानीति वचनेन पर्यायाणामप्यनेकविशिष्टनामसंबंध निबंधनस्तुत्यर्थत्वेनैव सहप्रयोगः । स्तुत्युपयोगेनैव व्युत्पत्तिनिमित्तभेदविवक्षायामपि पर्यायत्वेनासामानाधिकरण्यादेव नामंत्रित इति निषेधाभावादामंत्रितं पूर्वमविद्यमानवदिति पूर्वपूर्वस्याविद्यमानवत्त्वात्सर्वेषां षाष्ठिकमाद्युदात्तत्वं तद्वत्प्रकृतेऽपि । कृ शृ पृ कटपट शौटभ्य ईर् (उ ४-३०) इत्यत ईरन्नित्यनुवृत्तौ बहुलवचनादन्यत्रापीत्यनेन शु गताविति धातोरिरन्प्रत्ययो कृते सति नित्त्वाच्छवीरयाशब्द आद्युदात्तः । धियेत्यत्र सावेकाच इति विभक्तिरुदात्ता । वनतमित्यत्र शपः पित्त्वाल्लोण्मध्यमद्विवचनस्य लसार्वधातुकत्वाच्चवन षण संभक्ताविति धातूदात्तत्वमेव शिष्यते । न च तिङ्ङतिङ इति निघातः पूर्वामंत्रितस्याविद्यामानवत्त्वेन पादादित्वात् । गिरः । सुपोऽनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः