मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ३

संहिता

अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥

पदपाठः

अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् ।
मा । नः॒ । अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

अथ सोमपानानंतरं हे इंद्र ते शवांतमानामंतिकतमानामतिशयेन समीपवर्तिनां सुमतीनां शोभनमतियुक्तानां शोभनप्रज्ञानां पुरुषाणां मध्ये स्थित्वा विद्याम । वयं त्वां जानीयाम । यद्वा । सुमतीनाम् । शोभनबुद्धीनां कर्मानुष्ठानविषयाणां लाभार्थमित्यध्याहारः । बुद्धिलाभाय त्वां स्मरेमेत्यर्थः । त्वमपि नोऽति माख्यः । अस्मानतिक्रम्यान्येषां त्वत्स्वरूपं मा प्रकथय । किंत्वा गह्यस्मानेवागच्छ । अथेति निपात आद्युदात्तः । निपातस्य चेति दीर्घत्वम् । अंतमानाम् । अतिशयेनांतिका इत्यतिशायने तमप् (पा ५-३-५५) तमे तादेश्च । पा ६-४-१४९-९ । इति तादिलोपः । अंतोऽस्यास्तीत्यंतिकः समीपः । अत इनिठनाविति ठन् । नित्त्वादाद्युदात्तः । दूरोत्कर्षस्य ह्यवसानं नास्ति । सामीप्योत्कर्षस्य पुनर्यो यस्य समीपः स एव तस्यांत इत्यंतवत्त्वात्समीपमंतिकमुच्यते । विद्याम । वेत्तेर्लिङि । यासुट् परस्मैपदेषूदात्तो ङुच्च (पा ३-४-१०३) इति यासुडुदात्तः । पादादित्त्वात्तिङ्ङतिङ इति न निघातः । सुमतीनाम् । मतिशब्दे क्तिनंतेऽपि मंत्रे वृषेषपचमनविदभूवीरा उदात्तः (पा ३-३-९६) इतीकार उदात्तः । शोभना मतिर्येषां ते सुमतय इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरापवादेन नञ् सुभ्यामित्युत्तरपदांतोदात्तः । शोभना मतयः सुमतय इति कर्मधारयेऽप्यव्ययपूर्वपदप्रकृतिस्वरापवादः । कृदुत्रपदप्रकृतिस्वरेणांतोदात्ततैव । अतो मतुपि ह्रस्वादंतोदात्ताच्च सुमतिशब्दात्परस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । ख्यः । ख्या प्रकथन इत्यस्य लुङु सिप्यस्यतिवक्तिख्यातिभ्योऽज् (पा ३-१-५२) इति च्लेरङादेशः । आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । इतश्च (पा ३-४-१००) इतीकारलोपो रुत्वविसर्गौ । न माङ् योगे (पा ६-४-७४) इत्यडभावः । गहि । गमेर्बहुलं छंदसीति शपो लुकि हेर्ङीत्त्वादनुदात्तोपदेशेति मकारलोपस्यासिद्धवदत्रा भादित्यसिद्धत्वादतो हेरिति लुग्न भवति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः