मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् १०

संहिता

यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तस्मा॒ इन्द्रा॑य गायत ॥

पदपाठः

यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

सायणभाष्यम्

य इंद्रो रायो धनस्यावनी रक्षकः स्वामी वा तस्मा इंद्राय गायत । हे ऋत्विजस्तत्प्रीत्यर्थं स्तुतिं कुरुत । कीदृश इंद्रः । महान् गुणैरधिकः सुपारः सुष्ठु कर्मणः पूरयिता सुन्वतो यजमानस्य सखा सखिवत्प्रियः ॥ रायः । ऊडिदंपदाद्यप्पुम्रैद्युभ्य इति विभक्तेरुदात्तत्वम् । अवनिः । अव रक्षणगतिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्या लिंगनहिंसादहनभाववृद्धिषु चेत्यस्मादर्तिसृभृधृधम्यम्यश्यवितृभ्योऽनिः (उ २-१०३) इत्यनिः । प्रत्ययाद्युदात्तत्वम् । सुपारः । पृ पालनपूरणयोरित्यस्माणिजंतात्कर्तरीत्यनुवृत्तौ (पा ३-१-६८) पचाद्यच् (पा ३-१-१३४) चित इत्यंतोदात्तः । सुन्वतः । शतुरनुमो नद्यजादी (पा ६-१-१७३) इति विभक्तिरुदात्ता । सखा । समाने ख्यश्चोदात्तः (उ ४-१३६) इतीण् प्रत्ययांतः । तत्सन्नियोगेन यलोपः । सशब्दस्य चोदात्तः । डित्त्वाट्वलोपः तस्मै । अदिरित्यनुवृत्तौ त्यजितनियजिभ्यो डित् (उ १-१३१) इति तनोतेरदिप्रत्ययः डित्त्वाट्वलोपे प्रत्ययस्वरेण तच्छब्द उदात्तः । त्यदाद्यत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । सावेकाचस्तृतीयादिर्विभक्तिरिति । विभक्तेरुदात्तत्वे प्राप्ते प्रथमैकवचनेऽवर्णांतत्वान्न गोश्वन्साववर्ण (पा ६-१-१८२) इति निषेधः । इंद्राय । इंद्रशब्दो रन्प्रत्ययांतो निपातितः । नित्त्वादाद्युदात्तः । कर्मणा यमभिप्रैति स संप्रदानम् (पा १-४-३२) इत्यत्र क्रियाग्रहणं कर्तव्यम् । पा १-४-३२-१ । इति वचनाद्गानक्रियया प्राप्यत्वात्संप्रदानत्वेन चतुर्थी ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः