मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ९

संहिता

अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑ः सह॒स्रिण॑म् ।
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥

पदपाठः

अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।
यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥

सायणभाष्यम्

इंद्र इमं वाजं सोमरूपमन्नं सनेत् । संभजेत् । कीदृश इंद्रः । अक्षितोतिरहिंसितरक्षणः कदाचिदपि रक्षां न विमुंचतीत्यर्थः । कीदृशं वाजं सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तं । यस्मिन्वाचे विश्वानि सर्वाणि पौंस्या पुंस्त्वानि बलानि वर्तंते तादृशं वाजमिति पूर्वत्रान्वयः ॥ अक्षितोतिः । ननु क्षि क्षय इत्ययं धातुरकर्मकः । तस्य च कर्माभावादधिकरणे भावे कर्तरी वा क्तप्रत्ययेन भवितव्यं । तदिह यदि कर्तर्यथिकरणे वा स्यात्तदा तयोरर्थयोर्ण्यप्रत्ययस्याविधानात्क्क्षिय इत्यनुवृत्तौ । पा ६-४-५९ । निष्ठायामण्यदर्थे । पा ६-६० । इति दीर्घेण भवितव्यं । तथा च क्षियो दीर्घात् । पा ८-२-४६ । इति निष्ठानत्वेऽक्षीणेति स्यात् न त्वक्षितेति । अथ नपुंसके भावे क्तः । पा ३-३-११४ । इति भावपरः क्षितशब्दो गृह्यते । तदा तस्य ण्यदर्थत्वेनाण्यदर्थ इति निषेधाद्दीर्घनत्वयोरभावात्क्क्षितमिति सिद्ध्यति । तदा तु नञ् तत्पुरुषः प्रकृतेन नान्वेतीति न विद्यते क्षितमत्रेति बहुव्रीहिणैव भवितव्यं । तथा च नञ् सुभ्यां । पा ६-२-१७२ । इत्युत्तरपदांतोदात्तत्वं स्यात् । पुनरूतिशब्देन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव स्वरस्तिष्ठेदित्यभिमतमाद्युदात्तत्वं न सिद्ध्येदिति । सत्यं । अत एवात्र क्षिधातुरंतर्भावितण्यर्थो गृह्यते । तेन सकर्मकत्वात्कर्मण्येषा निष्ठा । ततश्चाण्यदर्थ इति निषेधादीर्घो निष्ठानत्वं च न भविष्यति । तथा च नञ्तत्पुरुषे न क्षिताक्षिताक्षयितेत्यर्थः । तत्र चाव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ उदात्तत्वं । पनरूतिपदेन बहुव्रीहौ स एव स्वरः स्थास्यतीति न कोऽपि दोषः । रि क्षि चिरि जिरि दाशद्रु जिघांसायां । धा २७, २८-३३ । इति क्षिणोतेर्हिंसार्थस्य वा कर्मणि निष्ठा । तथा चाहिंसितोतिरित्यर्थ उक्तक्रमेण स्वरः सिध्यतीति न दोषः । सनेत् । वन षण संभक्तौ । भौवादिकः । वाजं । वृषादित्वादाद्युदात्तः । इंद्रः । रनो नित्त्वादाद्युदात्तः । सहस्रिणं सहस्रमस्यास्ति । अत इनिठनौ पा ५-२-११५ । प्रत्ययस्वरः । विश्वानि । विशेः क्वनि । उ १-१५१ । नित्त्वादाद्युदात्तः । पुंसः कर्माणि पौंस्यानि । ब्राह्मणादेराकृतिगणत्वाद्गुणवचनब्राह्मणादिभ्यः कर्मणि च । पा ५-१-१२४ । इति ष्यञ् । ञित्वादाद्युदात्तः । प्रथमाबहुवचनस्य सुपां सुलुगित्यादिना डादेशः । ननु स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् । पा ४-१-८७ । इत्यनेन धान्यानां भवने क्षेत्रे खञ् । पा ५-२-१ । इत्येतत्पर्यंतेष्वपत्याद्यर्थेषु नञ् स्नञोर्विधानाद्यथा पुंसोऽपत्यं पौंस्नः पुंस आगतः पौंस्न इत्यादि तद्वत् पुंसो भावः कर्म वेत्यस्मिन्नप्यर्थे ष्यञं बाधित्वा पौंस्नानीत्येव भवितव्यं । कथमुच्यते पौंस्यानीति । उच्यते । आ च त्वात् । पा ५-१-१२० । इति सूत्रे त्वादित्यवधिनिर्देशाद्ब्रह्मस्त्वः । पा ५-१-१३६ । इत्येतत्पर्यंतैरिमनिजादिभिः प्रत्ययैः सह त्वतलोः समावेशः । एवं तत्रैव च शब्दान्न ञ् स्नञोरपि ष्यञादिभिः समावेश एव । न बाध्यबाधकभावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०