मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ८

संहिता

अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णैरिन्द्र॑स्य॒ काम्यै॑ः ॥

पदपाठः

अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ ।
ग॒णैः । इन्द्र॑स्य । काम्यैः॑ ॥

सायणभाष्यम्

मखः प्रवर्तमानोऽयं यज्ञोऽनवद्यैर्दोषरहितैरभिद्युभिर्ध्युलोकमभिगतैः काम्यैः फलप्रदत्वेन कामयितव्यैर्गणैर्मरुत्समूहैः सहितमिंद्रस्येंद्रं सहस्वद्बलोपेतं यथा भवति तथार्चति । पूजयति । अयं यज्ञो मरुत इंद्रं चातिशयेन प्रीणयतीत्यर्थः । यज्ञ इत्यादिषु पंचदशसु यज्ञनामसु मखो विष्टुरिति पठितम् । चतुश्चत्वारिंशत्स्वर्चतिकर्मस्वर्चति गायतीति पठितं ॥ न विद्यतेऽवद्यं येषां तेऽनवद्याः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अभिगता दौर्यैस्तेऽभिद्यवः । तैरभिद्युभिः । अभिशब्दः प्रातिपदिकस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । मखः प्रातिपदिकस्वरः । सहो बलमस्निन्नर्चनकर्मण्यस्तीति सहस्वत् । तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञया पदसंज्ञाया बाधितत्वाश्सकारस्य रुत्वाभावः । मादुपधायाश्च मतोर्वोऽयवादिभ्यः (पा ८-२-९) इति मतुपो मस्य वत्वम् । सहस् शब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तः । मतुपः पित्त्वात्स एव शिष्यते । काम्यैः । कमेर्णिङ् (पा ३-१-३०) अत उपधायाः पा ७-२-११६ । इति वृद्धिः । जनी जृष् क्नसु रंजोऽमंताश्च । धा १९, ६३-६७ । इत्यमंतत्वेन प्राप्तस्य मित्त्वस्य न कम्यमि चमामिति प्रतिषेधात् । धा १९-६९ । मितां ह्रस्वः (पा ६-४-९२) इत्युपधाह्रस्वत्वं न भवति । ण्यंतादचो यत् (पा ३-१-९७) णिलोपः (पा ६-४-५१) तित्स्वरिकम् (पा ६-१-१८५) इति प्राप्ते यतोऽनावः (पा ६-१-२१३) इत्याद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२