मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् २

संहिता

नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
त्वोता॑सो॒ न्यर्व॑ता ॥

पदपाठः

नि । येन॑ । मु॒ष्टि॒ऽह॒त्यया॑ । नि । वृ॒त्रा । रु॒णधा॑महै ।
त्वाऽऊ॑तासः । नि । अर्व॑ता ॥

सायणभाष्यम्

येन धनेन संपादितानां भटानां नि मुष्टिहत्यया नितरां मुष्टिप्रहारेण वृत्रा शत्रून्नि रुणाधामहै निरुद्धा न्करवाम तादृशं धनमाहरेत्यर्थः । त्वोतासस्त्वया रक्षिता वयमर्वतास्मदीयेनाश्वेन नि रुणधामहा इत्यनुषंगः । पदातियुद्धेनाश्व युद्धेन च शत्रून्विनाशयामेत्यर्थः ॥ मुष्टिहत्यया । हनस्त च (पा ३-१-१०८) इतिसुबंतउपपदे क्यप् । तत्संनियोगेन नकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते परादिश्छंदशि बहुलं ॥ पा ६-२-१९९ । इति बहुलग्रहणेन त्रिचक्रादीनां छंदस्यंतोदात्तत्त्वाभिधानात् । पा ६-२-१९९-१ । अंतोदात्तत्वम् । नि । आख्यातसंबंधस्यापि नेरुपसर्गस्य व्यहिताश्चेति व्यवहितप्रयोगः । वृत्रा । शेश्चंदसि बहुलम् । पा ६-१-७० श्नसोरल्लोपः (पा ६-४-१११) इत्यकारलोपो न भवति । पित्त्वादेव चाख्यातस्यानु । दात्तत्वेन विकरणस्य श्नम एवोदात्तत्वं शिष्यते । ननु तिङ्ङतिङ इति निघातेन भवितव्यम् । न । द्वे ह्यत्र तिङ्विभक्ती । निविडया मुष्व्या निरुणधामहा इत्यत्र श्रुतैका । अर्वता । निरुणधामहा इत्यत्रानुषक्ता द्वितीया । तयोः समुच्चयार्थश्चकारो लुप्यते तेन चादिलोपे विभाषा (पा ८-१-६३) इति प्रथमेयं तिङ्विभक्तिर्न निहन्यते । यथा नात्मना तृप्यति नान्यस्मै ददाति । तै । सम् । २-५-४-३ । इत्यत्र हि समुच्चयार्थस्य चशब्दस्य लोपात्तृप्यतीति प्रथमा तिङ्विभक्तिर्न निहन्यते ददातीति द्वितीया तु निहन्यत एव । ननु तत्र द्वे तिङ्विभक्ती श्रूयेते । इह पुनरेकैव श्रुता । सैवोत्तरत्रानुषज्यते नान्या श्रूयत इति द्वितीयाभावात्कथमियं प्रथमा । न । अनुषंगलब्धद्वितीयापेक्षमपि प्राथम्यमुपजीव्य निघातनिषेधदर्शनात् । पुरोडाशं चादिश्रयत्याज्यं च । तै सं १-६-९-३ । प्रोक्षणीश्चासादयत्याज्यं च । तै सं १-६-९-४ । इत्यत्र ह्यधिश्रयत्यासादयतीत्याख्यातयोः प्रथमवाक्यद्वयश्रुतयोरुत्तरवाक्यद्वयेऽनुषंगमपेक्ष्यैव प्राथम्यस्वीकारेण चवायोगे प्रथमा (पा ८-१-५९) इति निघातनिषेधो दृष्व इति । त्वयोता रक्षितास्त्वोतासः । प्रत्ययोत्तरपदयोश्च (पा ७-२-९८) इति मपर्यंतस्य त्वादेशे दकारलोपश्छांदसः । अवतेर्निष्ठायामिडभावश्च । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (पा ६-४-२०) इत्यूट् । एत्येधत्यूट्सु (पा ६-१-५९) इति वृद्ध्यभावश्छांदसः । तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरेणाकार उदात्तः । एकादेश उदात्तेनोदात्त इत्युदात्त ओकारः । अर्वता । अर्वति गच्छतीत्यर्वा । अर्व गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप्प्रत्ययः । नेड्वशि कृति (पा ७-२-८) इतीट् प्रतिषेधः । लोपो व्योर्वलि (पा ६-१-६६) इति वकारलोपः । अर्वणस्त्रसावनञः (पा ६-४-१२७) इति तकारः । वनिपः पित्त्वाद्धातुस्वर एव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५