मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ६

संहिता

अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
तुवि॑द्युम्न॒ यश॑स्वतः ॥

पदपाठः

अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः ।
तुवि॑ऽद्युम्न । यश॑स्वतः ॥

सायणभाष्यम्

हे तुविद्युम्न प्रभूतधनेंद्र राये धनसिद्ध्यर्थमस्माननुष्ठातृन् तत्र कर्मणि सु चोदय । सुष्टु प्रेरय । कीदृशानस्मान् । रभस्वत उद्योगवतो यशस्वतः कीर्तिमतः ॥ तत्र तच्छब्दात्सप्तम्यास्त्रल् (पा ५-३-१०) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । इंद्र । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः । राये । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । रभस्वतः । रभ राभस्ये । राभस्यं कार्योपक्रमः । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तः । मतुपः पित्त्वादनुदात्तत्वम् । स्वादिष्वसर्वनामस्थाने (पा १-४-१७) इति न पदत्वं तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञया बाधितत्वात् । आ कडारादेका संज्ञा (पा १-४-१) इति नियमात् तुविद्युम्न । तुवि बुहु द्युम्नं धनं यस्य । षाष्ठिं कमामंत्रिताद्युदात्तत्वम् । यशस्वतः । यशो स्यास्तीति मतुप् । अस्मायामेधास्रजो विनिः (पा ५-२-१२१) इति विनिना न बाध्यते मतुपः सर्वत्र समुच्चयात् । यशस्शब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तः । मतुपः पित्त्वात्स एव शिष्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८