मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् २

संहिता

यत्सानो॒ः सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् ।
तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥

पदपाठः

यत् । सानोः॑ । सानु॑म् । आ । अरु॑हत् । भूरि॑ । अस्प॑ष्ट । कर्त्व॑म् ।
तत् । इन्द्रः॑ । अर्थ॑म् । चे॒त॒ति॒ । यू॒थेन॑ । वृ॒ष्णिः । ए॒ज॒ति॒ ॥

सायणभाष्यम्

यद्यदा सानो सानुमारुहत् यजमानः सोमवल्लीसमिदाद्याहरणायै कस्मात्पर्वतभागादपरं पर्वतभागमारूढवान् । तथा भूरिप्रभूतं कर्त्वं कर्म सोमयागरूपमस्पष्ट स्पृष्टवान् । उपक्रांतवानित्यर्थः । तत्तदानीमिंद्रोऽर्थं यजमानस्य प्रयोजनं चेतति । जानाति । ज्ञात्वा च वृष्टिः कामानां वर्षिता सन् यूथेन मरुद्गणेन सहैजति । कंपते । स्वस्थानाद्यज्ञभूमिमागंतुमुद्युङ्त इत्यर्थः ॥ सानोः । षणु दाने । सनोति ददाति निवसतामवकाशमिति सानुः । दृसनिजनिचरिचटरहिभ्योञुण् (उ १-३) णित्त्वादुपधाया वृद्धिः । ञी त्त्वादाद्युदात्तत्वं च । अरुहत् । रुहेर्लङि तिपि शपि संज्ञा पूर्वको विधिरनित्यः । परि ९३-१ । इति लघूपधगुणो न भवति । लुङ् लङ् लृङ् क्ष्वडुदात्तः । सति शिष्टत्वात्स एव शिष्यते । निपातैर्यद्यदिहंतेति (पा ८-१-३०) निषेधान्निघातो न भवति । भूरि । अदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अस्पष्ट । स्पश बाधनस्पर्शनयोः । स्वरितञुत इत्यात्मनेपदम् । लङः प्रथमपुरुषैकवचनं त बहुलं छंदसीति शपो लुक् । व्रश्चादिषत्वष्टुत्वे । पा ८-२-३६ ; ८-४-४१ । लुङ् लङ् लृङ् क्ष्वडुदात्त इत्यडागम उदात्तः । स एव शिष्यते । अनुषंगेण यच्छब्दयोगान्निघाताभावः कर्त्वम् । डुकृञ् करणे । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति विच् । गुणो रपरत्वम् । विचः सर्वापहारी लोपः । करो भावः कर्त्वं अर्थम् । अर्तेरुषिकुषिगार्तिभ्यस्थन् (उ २-४) नित्त्वादाद्युदात्तः । यूथेन । तिथपृष्ठगूथयूथप्रोथाः (उ २-१२) इति थक्प्रत्ययांतो निपातितः । वृष्टिः । निरित्यनुवृत्तौ सृवृषिभ्यां किक् (उ ४-४९) इति निप्रत्ययांतः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरेणांतोदात्तः । एजति एजृ कंपने । तिङ्ङतिङ इति निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९