मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ९

संहिता

आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ ।
इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥

पदपाठः

आश्रु॑त्ऽकर्ण । श्रु॒धि । हव॑म् । नु । चि॒त् । द॒धि॒ष्व॒ । मे॒ । गिरः॑ ।
इन्द्र॑ । स्तोम॑म् । इ॒मम् । मम॑ । कृ॒ष्व । यु॒जः । चि॒त् । अन्त॑रम् ॥

सायणभाष्यम्

हे अश्रुत्कर्ण सर्वतः श्रोतारौ कर्णौ यस्य तादृगिंद्र हवमस्मदीयमाह्वानं नु क्षिप्रं शृधि । शृणु । मे मम होतुर्गिरश्चित्स्तुतीरपि दधिष्वि । चित्ते धारय । किंच मम मदीयमिमं स्तोमं स्तोत्ररूपं वाक्समूहं युजश्चित्स्वकीयसख्युरप्यंतरं कृष्व । आसन्नं कुरु । यथा वचनं तस्य प्रियं मन्यसे तद्वदस्मदीयस्तुतिष्वपि प्रीतिं कुर्वित्यर्थः ॥ आश्रुत्कर्ण । आ समंताच्छृुणुत इत्याश्रुत् । क्विप् । ह्रस्वस्य तुक् (पा ६-१-७१) तादृशौ कर्णौ यस्य । आमंत्रितस्य चेत्याद्युदात्तत्वम् । श्रुधी । श्र श्रवणे । लोटो हिः । श्रुवः शृ च (पा ३-१-७४) इति विहितश्नोर्बहुलं छंदसीति लुक् । तत्सन्नियोगविष्वत्वाच्छृभावोऽपि निवर्तते । श्रु शृणुपृकृवृभ्यश्छंदसि (पा ६-४-१०२) इति हेर्धिरादेशः सति शिष्टत्वात्प्रत्ययस्वरः । आमंत्रितं पूर्वमविद्यमानवत् (पा ८-१-७२) इत्यविद्यमानवत्त्वेन पदादपरत्वात्तिङ्ङतिङ इति निघातो न भवति । संहितायामन्येषामपि दृश्यत इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च । बहुलं छंदसीत्यनैमित्तिके संप्रसारणे कृते पश्चादुकारांतत्वेन ऋूदोरप् (पा ३-३-५७) इत्यप्प्रत्ययः । अपः पित्त्वाद्धातुस्वरः । नु । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । चित् । चादिरनुदात्तः । दधिष्व । दधातेर्लोट् । थासः से । सवाभ्यां वामौ (पा ३-४-९१) शपः श्लुः । अभ्यासस्य ह्रस्वत्वादि । छंदस्युभयथेत्यार्धधातुकस्यापि स्वीकारादिडागमः । आकारलोपः । निघातः । मम । तवममौ ङसि (पा ७-२-९६) इत्यनेन मपर्यंतस्य ममादेशः । प्रातिपदिकस्वरेणांतोदात्तत्वे प्राप्ते युष्मदस्मदोर्ङसि (पा ६-१-२११) इत्याद्युदात्तत्वम् । कृष्व । डुकृञ् करणे लोट् । थासः से । सवाभ्यां वामौ । शपो बहुलं छंदसीति लुक् । सति शिष्टत्वात्प्रत्ययस्वरः । पादादित्वान्न निघातः । युजः । सावेकाच इति विभक्तेरुदात्तत्वम् । अंतरं वृषादित्वादाद्युदात्तः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०