मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् २

संहिता

अ॒ग्निम॑ग्निं॒ हवी॑मभि॒ः सदा॑ हवन्त वि॒श्पति॑म् ।
ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥

पदपाठः

अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् ।
ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥

सायणभाष्यम्

यद्यप्यग्निः स्वरूपेणैक एव तथापि प्रयोगभेदादाहवनीयादिस्थानभेदात्पावकादिविशेषभेदाद्वा बहुविधत्वमभिप्रेत्याग्निमग्निमिति वीप्सा । तं हवीमभिराह्वानकिरणैर्मंत्रैः सदा हवंत । निरंतरमनुष्ठातार आह्वयंति । कीदृशं । विश्पतिं । विशां प्रजानां होत्रादीनां पालकं हव्यवाहं यजमानसमर्पितस्य हविषो देवान्प्रति वोढारं । अत एव पुरुप्रियं बहूनां प्रीत्यास्पदं ॥ अग्निमग्निं । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमित्युत्तरस्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तं । हवीमभिः । ह्वेञ् स्पर्धायां शब्दे च । आह्वानकरणभूतेषु मंत्रेषु स्वव्यापारस्वातंत्र्यात्कर्तृत्वविवक्षयान्येभ्योऽपि दृश्यंत इति कर्तरि मनिन् । तस्य छांदस ईडागमः । बहुलं छंदसीति धातोः संप्रसारणं परपूर्वत्वं गुणावादेशौ । नित्त्वादाद्युदात्तत्वं । सदा सर्वैकान्येत्यादिना । पा ५ । ३ । १५ । सर्वशब्दाद्दाप्रत्ययः । सर्वस्य सोऽन्यतरस्यां दि । पा ५-३-६ । इति सभावः । व्यत्ययेनाद्युदात्तत्वं । हवंत । ह्वेञो लट् । झस्यांतादेशः । टेरेत्वाभावश्छांदसः । शपि बहुलं छंदसीति संप्रसारणं । तिङ्ङतिङ इति निघातः । विश्पतिं पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्चंदसि बहुलमित्युत्तर पदाद्युदात्तत्वं । हव्यवाहं । वह प्रापणे । वहश्च । पा ३-२-६४ । इति ण्विप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वं । पुरुप्रियं । पुरूणां प्रियं । समासांतोदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२