मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् १२

संहिता

अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।
इ॒मं स्तोमं॑ जुषस्व नः ॥

पदपाठः

अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । विश्वा॑भिः । दे॒वहू॑तिऽभिः ।
इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । नः॒ ॥

सायणभाष्यम्

हे अग्ने शुक्रेण शोचिषा त्वदीयश्वेतवर्णदीप्त्या विश्वाभिर्देवहूतिभिस्त्वत्कृतसर्वदेवताह्वानसाधनस्तोत्रृश्च युक्तस्त्वं नोऽस्मदीयमिमं स्तोमं स्तोत्रविशेषं जुषस्व । सेवस्व ॥ विश्वशब्दो विशेः क्वनंतो नित्त्वादाद्युदात्तः । देवहूतिभिः । देवशब्दः पचाद्यजंतः । चित्त्वादंतोदात्तः । देवानां हूतय आह्वानान्यासु स्तुतिष्विति देवहूतयः स्तुतयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तूयतेऽनेनेति स्तोमः । अर्तिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तः ॥ २३ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३