मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् २

संहिता

मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे ।
अ॒द्या कृ॑णुहि वी॒तये॑ ॥

पदपाठः

मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् । य॒ज्ञम् । दे॒वेषु॑ । नः॒ । क॒वे॒ ।
अ॒द्य । कृ॒णु॒हि॒ । वी॒तये॑ ॥

सायणभाष्यम्

हे कवे मेधाविन् अग्ने तनूनपादेतन्नामकस्त्वमद्यास्मिन्दिने नोऽस्मदीयं मधुमंतं रसवंतं यज्ञं हविर्वीतये भक्षणार्थं देवेषु कृणुहि । कुरु । प्रापयेत्यर्थः ॥ मधुमंतं फलिपाटनमिमनिजनां गुक्पटनाकिधतश्च (उ १-१९) इति मन्यतेरुप्रत्ययो धकारश्चांतादेशः । निदित्यनुवृत्तेः प्रत्ययस्य नित्त्वादाद्युदात्तो मधुशब्दः । तनूनपात् । आमंत्रितनिघातः । अद्य । सद्यःपरुदित्यादिनास्मिन्काल इत्यर्थे द्यप्रत्ययांतो निपौतितः । प्रत्ययस्वरेणांतोदात्तः । तद्धितश्चा सर्वविभक्तिरित्यव्ययात्त्वादव्ययादाप्सुप इत्युपरि सप्तम्या लुक् । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । कृणुहि । कृवि हिंसाकरणयोश्च । इदितो नुम् धातोरिति नुम् । लोटः सेर्हिरादेशः । धिन्वकृण्व्योरच्चेति शपोऽपवादो विकरण उप्रत्ययः । तत्संनियोगेन वकारस्याकारः । तस्यातो लोप इति लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणो न भवति । उतश्च । प्रत्ययादसंयोगपूर्वात् (पा ६-४-१०६) इति हेर्लुग्न भवत्युतश्च प्रत्ययाच्छंदो वावचनम् । पा ६-४-१०६-१ । इति वचनात् । तिङ्ङतिङ इनि निघातः । वीतये । मंत्रे वृषेषपचमनविदभूवीरा उदात्त इति क्तिन्नुदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४