मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ३

संहिता

अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒ः पिब॑ ऋ॒तुना॑ ।
त्वं हि र॑त्न॒धा असि॑ ॥

पदपाठः

अ॒भि । य॒ज्ञम् । गृ॒णी॒हि॒ । नः॒ । ग्नावः॑ । नेष्ट॒रिति॑ । पिब॑ । ऋ॒तुना॑ ।
त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ॥

सायणभाष्यम्

ग्नाशब्दः स्त्रीवाची । तथा च यास्क आह । मेना ग्ना इति स्त्रीणां मेना मानयंत्येना ग्ना गच्छंत्येनाः (नि ३-२१) इति । ग्ना अस्य संतीति ग्नावान् । नेष्वृशब्दोऽत्र त्वष्वारं देवमाह । कस्मिंश्चिद्देवसत्रे नेष्र्वुत्वेन त्वष्वुर्वृत्तत्वात् । हे ग्नावः पत्नीयुक्त नेष्वः त्वष्वः । नोऽस्मदीयं यज्ञमभि गृणीहि । अभितो देवानां समीपे स्तुहि । ऋतुना सह त्वं सोमं पिब । हि यस्मात्त्वं रत्नधा असि रत्नानां दातासि दाता भवसि तस्मात्सोमं पातुमर्हसीत्यर्थः ॥ अभि । उपसर्गश्चाभिवर्जम् (फि ४-१३) इति पर्युदासादभेरंतोदात्तत्वम् । गृणीहि । गृ शब्दे । लोट सिपो हिः । क्रादिभ्यः श्ना । हेर्ङित्त्वादी हल्यघोरितीत्वम् । श्नाप्रत्ययस्य ङित्वाद्गुणाभावः । प्वादीनां ह्रस्वः । तिङ्ङतिङ इति निघातः । ग्ना अस्य संतीति मतुप् । व्यत्ययेन वत्वम् । संबुद्धौ मतुवसो रुरिति रुत्वम् । विसर्गः । पादादित्वेनामंत्रितनिघाताभावात् षाष्ठिकमामंत्रिताद्युदात्तत्वम् । ग्नाव इत्यस्य विशेषणतया विशेषवचनत्वान्ना मंत्रिते समानाधिकरण इति निषेधाभावादविद्यमानवत्त्वेनोत्तरस्य नेष्टृशब्दस्य षाष्ठिकमाद्युदात्तत्वम् । पिब । शपः पित्त्वाद्धातुस्वरः । पूर्वयोरामंत्रितयोरविद्यमानवत्त्वेन निघाताभावः । रत्नानि दधातीति रत्नधाः । क्विप्चेति क्विप् । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असि । सिपः पित्त्वाद्धातुस्वरः । तिङ्ङतिङ इति निघातो न भवति हि चेति प्रतिषेधात् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८