मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ४

संहिता

अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु ।
परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥

पदपाठः

अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । सा॒दय॑ । योनि॑षु । त्रि॒षु ।
परि॑ । भू॒ष॒ । पिब॑ । ऋ॒तुना॑ ॥

सायणभाष्यम्

हे अग्ने देवानिहास्मिन्कर्मण्या वह । ततो योनिषु स्थानेषु त्रिषु सवनेषु सादय । देवानुपवेशय । ततस्तान्परि भूष । अलंकुरु । ऋतुना सह त्वं सोमं पिब ॥ आग्ने देवानित्ययं पादो गतः । योनिषु । यु मिश्रणे । वहिश्रीत्यादिना (उ ४-५१) नि प्रत्ययः । नित्त्वादाद्युदात्तः । त्रिषु । षट् त्रिचतुर्भ्यो हलादिः (पा ६-१-१७९) इति विभक्तेरुदात्तत्वम् । भूष अलंकारे । तिङ्ङतिङ इति निघातः । पिब ऋतुना । गतौ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८